Digital Sanskrit Buddhist Canon

दशमोधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Daśamodhikāraḥ

दशमोधिकारः

उद्दानम्।
आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः।
स्वपरार्थस्तत्वार्थः प्रभावपरिपाकबोधिश्च॥१॥

एष च बोध्यधिकार आदिमारभ्य यावत् बोधिपटलानुसारेणानुगन्तव्यः।
अधिमुक्तिप्रभेदलक्षणविभागे श्लोकौ।

जाता-जाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च।
अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च॥२॥

जाता अतीतप्रत्युत्पन्ना। अजाता अनागता। ग्राहिका आध्यात्मिका[की] ययालम्बनमधिमुच्यते। ग्राह्यभूता बाह्या याना[मा] लम्बनत्वेनाधिमुच्यते। मित्रादात्ता औदारिकी। स्वात्मतः सूक्ष्मा। भ्रान्तिका हीना विपरीताधिमोक्षात्। अभ्रान्तिका प्रशान्ता [प्रणीता]। आमुखा अन्तिके समवहितप्रत्ययत्वात्। अनामुखा दूरे विपर्ययात्। घोषाचारा श्रुतमयी। एषिका चिन्तामयी। ईक्षिका भावनामयी प्रत्यवेक्षणात्।

हार्या कीर्णाऽव्यावकीर्णा विपक्षैर्हीनोदारा आवृता ऽनावृता च।
युक्ताऽयुक्ता संभृताऽसंभृता च गाढं विष्टा दूरगा चाधिमुक्तिः॥३॥

हार्या मृद्वी। व्यवकीर्णा मध्या। अव्यवकीर्णा विपक्षैरधिमात्रा। हिना ऽन्ययाने। उदारामहायाने। आवृता सावरणा विशेषगमनाय। अनावृता निरावरणा। युक्ता सातत्यसत्कृत्यप्रयोगात्। अयुक्ता तद्विरहिता। संभृताधिगमयोग्या। असंभृता विपर्ययात्। गाढं विष्टा भूमिप्रविष्टा। दूरगा परिशिष्टासु भूमिषु।

अधिमुक्तिपरिपन्थे त्रयः श्लोकाः।
अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः।
कुमित्रं शुभदौर्बल्यमयोनिशोमनस्क्रिया॥४॥

जाताया अमनसिकारबाहुल्यं परिपन्थः। अजातायाः कौशीद्यम्, ग्राह्यग्राहकभूताया योगविभ्रमः, तथैवाभिनिवेशात्। मित्रादात्तायाः कुमित्रम्, विपरीतग्राहणात्। स्वात्मतोऽधिमुक्तेः कुशलमूलदौर्बल्यम्। अभ्रान्ताया अयोनिशो अमनसिकारः [मनसिकारः] परिपन्थस्तद्विरोधित्वात्।

प्रमादोऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता।
शममात्राभिमानश्च तथा ऽपरिजयो मतः॥५॥

आमुखायाः प्रमादः, तस्या अप्रमादकृतत्वात्। घोषाचाराया अल्पश्रुतत्वम्, नीतार्थसूत्रान्ताश्रवणात्। एषिकायाः श्रुतमात्रसंतुष्टत्वमल्पचिन्तासंतुष्टत्वं च। ईक्षिकायाश्चिन्तामात्रसंतुष्टत्वं शमथमात्राभिमानश्च। हार्याव्यवकीर्णयोरपरिजयः परिपन्थः।

अनुद्वेगस्तथोद्वेग आवृत्तिश्चाप्ययुक्तता।
असंभृतिश्च विज्ञेयाऽधिमुक्तिपरिपन्थता॥६॥

हीनाया अनुद्वेगः संसारात्। उदाराया उद्वेगः अनावृतायाश्चावृतिः। युक्ताया अयुक्तता। संभृताया असंभृतिः परिपन्थः।

अधिमुक्तावनुशंसे पञ्च श्लोकाः।
पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत्।
अविप्रणाशः स्थैर्यं न विशेषगमनं तथा॥७॥

धर्माभिसमयश्चाथ स्वपरार्थाप्तिरूत्तमा।
क्षिप्राभिज्ञत्वमेते हि अनुशंसाधिमुक्तितः॥८॥

जातायां प्रत्युत्पन्नायां पुण्यं महत्। अतीतायामकौकृत्यमविप्रतिसारात्। ग्राहिकायां ग्राह्यभूतायां च महत्सौमनस्यं समाधियोगात्। कल्याणमित्रजनितायामविप्रणाशः। स्वयमधिमुक्तौ स्थैर्यम्। भ्रा[अभ्रा]न्तिकायामामुखायां श्रुतमयादिकायां च यावत् मध्यायां विशेषगमनम्। अधिमात्रायां धर्माभिसमयः। हीनायां स्वार्थप्राप्तिः। उदारायां परार्थप्राप्तिः परमा। अनावृतयुक्तसंभृतादिषु शुक्लपक्षासु क्षिप्राभिज्ञत्वमनुशंसः।

कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम्।
भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम्॥९॥

यथ श्वा दुःखार्तः सततमवितृप्तः क्षुधितको यथा कूर्मश्चासौ जलविवरके संकुचितकः। यथा भृत्यो नित्यमुपचकितमूर्तिर्विचरति। यथा राजा आज्ञाविषये वश[चक्र?]वर्ती विहरति।

तथा कामिस्थातृस्वपरजनकृत्यार्थमुदिते
विशेषो विज्ञेयः सततमधिमुक्त्या विविधया।
महायाने तस्य विधिवदिह मत्वा परमतां
भृशं तस्मिन् धीरः सततमिह ताभेव वृणुयात्॥१०॥

अपि खलु कामिनामधिमुक्तिः श्वसदृशी लौकिकसमाधिगतानां कूर्मप्रख्यास्वार्थवतां भृत्योपमा। राजप्रख्या परार्थवताम्। एतमेवार्थं परेणोपपाद्य महायानाधिमुक्तौ समादापयति।

अधिमुक्तिलयप्रतिषेधे श्लोकाः [कः]।
मनुष[ष्य]भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम्।
अप्रमेया यतः सत्त्वा लयं नातोऽधिवासयेत्॥११॥

त्रिभिः कारणैर्लयो न युक्तः। यतो मनुष[ष्य]भूता बोधिं प्राप्नुवन्ति। नित्यं प्राप्नुवन्ति। अप्रमेयाश्च प्राप्नुवन्ति।

अधिमुक्तिपुण्यविशेषणे द्वौ श्लोकौ।
यथा पुण्यं प्रसवते परेषां भोजनं ददत्।
न तु स्वयं स भुञ्जानस्तथा पुण्यमहोदयः॥१२॥

सूत्रोक्तो लभ्यते धर्मात्परार्थाश्रयदेशितात्।
न तु स्वार्थाश्रयाद्धर्माद्देशितादुपलभ्यते॥१३॥

यथा भोजनं ददतः पुण्यमुत्पद्यते परार्थाधिकारात्। न तु स्वयं भुञ्जानस्य स्वार्थाधिकारात्। एवं परार्थाश्रयदेशितात् महायानधर्मात्तेषु तेषु [महायान] सूत्रेषूक्तः पुण्योदयो महाँल्लभ्यते। न तु स्वार्थाश्रयदेशितात् श्रावकयानधर्मात्।

अधिमुक्तिफलपरिग्रहे श्लोकः।
इति विपुलगतौ महोघ[महार्य]धर्मे जनिय [परिजनयन् ?] सदा
मतिमान्महाधिमुक्तिम्।
विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैरसमैर्महात्मतां च॥१४॥

यत्र यादृश्याधिमुक्त्या यो यत्फलं परिगृह्णाति। विस्तीर्णे महायानधर्मे ऽपरि[हा]णी[परिजननी?] ययोदाराधिमुक्त्या मतिमान् त्रिविधं फलं परिगृह्णाति। विपुलपुण्यवृद्धिं तस्या एवाधिमुक्तेर्वृद्धिं तद्धेतुकां चातुल्यगुणमहात्मतां बुद्धत्वम्।

॥ महायानसूत्रालंकारे अधिमुक्त्यधिकारो दशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project