Digital Sanskrit Buddhist Canon

नवमोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Navamo'dhikāraḥ

नवमोऽधिकारः

सर्वाकारज्ञतायां द्वौ श्लोकौ। तृतीयस्तयोरेव निर्देशभूतः।
अमेयैर्दुष्करशतैरमेयैः कुशलाचयैः।
अप्रमेयेण कालेन अमेयावरणक्षयात्॥१॥

सर्वकारज्ञतावाप्तिः सर्वावरणनिर्मला।
विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम्॥२॥

कृत्वा दुष्करमद्भुतं श्रमशतैः संचित्यसर्वंशुभं
कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात्।
सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद् बुद्धता
रत्नानामिव सा प्रभावमहतां पेटा समुद्धाति[टि ?]ता॥३॥

समुदागमतः स्वभावत औपम्यतश्च बुद्धत्वमुद्भावितम्। यावद्भिर्दुष्करशतैर्यावद्भिः कुशलसंभारैर्यावता कालेन यावतः क्लेशज्ञेयावरणस्य प्रहाणात्समुदागच्छति, अयं समुदागमः। सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला स्वभावः। विवृतारत्नपेटा तदौपम्यम्।

तस्यैव बुद्धत्वस्याद्वयलक्षणे सानुभावे द्वौ लोकौ।
सर्वधर्माश्च बुद्धत्वं धर्मो नैव च कश्चन।
शुक्लधर्ममयं तच्च न च तैस्तन्निरूप्यते॥४॥

धर्मरत्ननिमित्तत्वाल्लब्धरत्नाकरोपमम्।
शुभसस्यनिमित्तत्वाल्लब्धमेघोपमं मतम्॥५॥

सर्वधर्माश्च बुद्धत्वं, तथताया अभिन्नत्वात्तद्विशुद्धिप्रभावितत्वाच्च। बुद्धत्वस्य न च कश्चिद्धर्मोऽस्ति। परिकल्पितेन धर्मस्वभावेन शुक्लधर्ममयं च बुद्धत्वं, पारमितादिनां कुशलानां तद्भावेन परिवृत्तेः। न च तैस्तन्निर्दिश्यते पारमितादीनां पारमितादिभावेनापरिनिष्पत्तेरिदमद्वयलक्षणम्। रत्नाकरमेघोपमत्वमनुभावः, देशनाधर्मरत्नानां तत्प्रभवत्वात्, कुशलसस्यानां च विनेयसंतानक्षेत्रेषु।

बुद्धत्वं सर्वधर्मः समुदितमथ वा सर्वधर्मव्यपेतं
प्रोद्‍भूतेर्धर्मरत्नप्रततसुमहतो धर्मत्नाकराभम्।
भूतानां शुक्लसस्यप्रसवसुमहतो हेतुतो मेघभूतं
दानाद्धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु॥६॥

अनेन तृतीयेन श्लोकेन तमेवार्थं निर्दिशति। सुमहतः प्रततस्य धर्मरत्नस्य प्रोद्‍भूतेनिमित्तत्वाद्रत्नाकराभम्, भूतानां महतः शुक्लसस्यप्रसवहेतुत्वान्मेघभूतम्। महतः सुविहितस्याक्षयस्य धर्माम्बुवर्षस्य दानात् प्रजास्वित्ययमत्र पदविग्रहो वेदितव्यः।

तस्यैव बुद्धत्वस्य शरणत्वानुत्तर्ये पञ्च श्लोकाः।
परित्राणं हि बुद्धत्वं सर्वक्लेशगणात्सदा।
सर्वदुश्चरितेभ्यश्च जन्ममरणतो ऽपि च॥७॥

अनेन संक्षेपतः क्लेशकर्मजन्मसंक्लेशपरित्राणार्थेन शरणत्वं दर्शयति।
उपद्रवेभ्यः सर्वेभ्यो अपायादनुपायतः।
सत्कायाद्धीनयानाच्च तस्माच्छरणमुत्तमम्॥८॥

अनेन द्वितियेनोपद्रवादिपरित्राणाद्विस्तरेण। तत्र सर्वोपद्रवपरित्राणत्वं यद् बुद्धानुभावेन अन्धाश्चक्षूंषि प्रतिलभन्ते, बधिराः श्रोतं, विक्षिप्तचित्ताः स्वस्थचित्तमीतयः शाम्यन्तीत्येवमादि। अपायपरित्राणत्वं बुद्धप्रभया तद्‍गतानां मोक्षणात्, तदगमने च प्रतिष्ठापनात्। अनुपायपरित्राणत्वं तीर्थिकदृष्टिव्युत्थापनात्। सत्कायपरित्राणत्वं यानद्वयेन परिनिर्वापणात्।

हीनयानपरित्राणत्वमनियतगोत्राणां महायानैकायनीकरणात्।
शरणमनुपमं तच्छ्रेष्ठबुद्धत्वमिष्टं
जननमरणसर्वक्लेशपापेषु रक्षा।
विविधभयगतानां सर्वरक्षापयानं
प्रततविविधदुःखापायनोपायगानां॥९॥

अनेन तृतीयेन तस्यैव शरणत्वस्यानुपमश्रेष्ठस्य चानुत्तर्यं तेनैवार्थेन दर्शयति।
बौद्धैर्धर्मैर्यच्च सुसंपूर्णशरीरं यत्सद्धर्मे वेत्ति च सत्त्वान्प्रविनेतुम्।
यातं पारं यत्कृपया सर्वजगत्सु तद् बुद्धत्वं श्रेष्ठमिहत्यं[हेष्टं] शरणानाम्॥१०॥

अनेन चतुर्थेन यैः कारणैस्तत्तथानुत्तरं शरणं भवति तत्संदर्शयति। बौद्धैर्धर्मैर्बलवैशारद्यादिभिः सुसंपूर्णस्वभावत्वात् स्वार्थनिष्ठामधिकृत्य सद्धर्मसत्त्वविनयोपायज्ञानात् करुणापारगमनाच्च परार्थनिष्ठामधिकृत्य।

आलोकात्[कालात्]सर्वसत्त्वानां बुद्धत्वं शरणं महत्।
सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम्॥११॥

अनेन पञ्चमेन श्लोकेन यावन्तं कालं यावतां सत्त्वानां यत्रार्थे शरणं भवति तत्समासेन दर्शयति। यत्रार्थे इति सर्वव्यसनव्यावृत्तौ संपत्त्यभ्युदये च।

आश्रयपरावृत्तौ षट् श्लोकाः।
क्लेशज्ञेयवृत्तीनां सततमनुगतं बीजमुत्कृष्टकालं
यस्मिन्नस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः।
बुद्धत्वं शुक्लधर्मप्रवरगुणयुता आ[चा]श्रयस्यान्यथाप्ति-
स्तत्प्राप्तिर्निर्विकल्पाद्विषयसुमहतो ज्ञानमार्गात्सुशुद्धात्॥१२॥

अनेन विपक्षबीजवियोगतः प्रतिपक्षसंपत्तियोगतश्चाश्रयपरिवृत्तिः परिदीपिता। यथा च तत्प्राप्तिर्द्विविधमार्गलाभात्। सुविशुद्धलोकोत्तरज्ञानमार्गलाभात्। तत्पृष्ठलब्धानन्तज्ञेयविषयज्ञानमार्गलाभाच्च। उत्कृष्टकालमित्यनादिकालं।

सुविपुलैः सर्वहानिप्रकारैरिति भूमिप्रकारैः।
स्थितश्च तस्मिन्स तथागतो जगन्महाचलेन्द्रस्थ इवाभ्युदीक्षते।
शमाभिरामं करूणायते जनमघा[भवा]भिरामे ऽन्यजने तु का कथा॥१३॥

अनेन द्वितीयेनान्याश्रयपरावृत्तिभ्यस्तद्विशेषं दर्शयति। तत्स्थो हि महाचलेन्द्रस्थ इव दूरान्तरनिकृष्टं लोकं पश्यति।

दृष्ट्वा च करूणायते श्रावकप्रत्येकबुद्धानपि प्रागेव तदन्यान्।
प्रवृत्तिरूद्वित्तिरवृत्तिराश्रयो निवृत्तिरावृत्तिरथो द्वयाऽद्वया।
समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिरिष्यते॥१४॥

अनेन तृतीयेन तद्दशप्रभेदंदर्शयति। सा हि तथागतानां परिवृत्तिः परार्थवृत्तिरिति प्रवृत्तिः। सर्वधर्मविशिष्टत्वादुष्कृष्टा वृत्तिरित्युद्वृत्तिः। संक्लेशहेताववृत्तिः। आश्रय इति योऽसौ परिवृत्त्याश्रयस्तं दर्शयति। संक्लेशान्निवृत्तितो निवृत्तिः। आत्यन्तिकत्वादायता वृत्तिरित्यावृत्तिः। अभिसंबोधिपरिनिर्वाणदर्शनवृत्त्या द्वया वृत्तिः। संसारनिर्वाणाप्रतिष्ठितत्वात्संस्कृतासंस्कृतत्वेनाद्वया वृत्तिः। विमुक्तिसामान्येन श्रावकप्रत्येकबुद्धसमा वृत्तिः। बलवैशारद्यादिभिः बुद्धधर्मैरसमत्वाद्विशिष्टा वृत्तिः।

सर्वयानोपदेशगतत्वात्सर्वगतावृत्तिः।

यथाम्बरं सर्वगतं सदामतं तथैव तत्सर्वगतं सदामतम्।
यथाम्बरं रूपगणेषु सर्वगं तथैव तत्सत्त्वगणेषु सर्वगम्॥१५॥

अनेन चतुर्थेन तत्स्वभावस्य बुद्धत्वस्य सर्वगतत्वं दर्शयति। आकाशसाधर्म्येणौद्देशनिर्देशतः पूर्वापरार्धाभ्याम्। सत्त्वगणेषु सर्वगतत्वं बुद्धत्वस्यात्मत्वेन सर्वसत्त्वोपगमने परिनिष्पत्तितो वेदितव्यम्।

यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते।
तथा दुष्टेषु सत्त्वेषु बुद्धबिम्बं न दृश्यते॥१६॥

अनेन पञ्चमेन सर्वगतत्वे ऽप्यभाजनभूतेषु सत्त्वेषु अबुद्धबिम्बदर्शनं दृष्टान्तेन साधयति।

यथाग्निर्ज्वलते ऽन्यत्र पुनरन्यत्रशाम्यति।
बुद्धेष्वपि तथा ज्ञेयं संदर्शनमदर्शनम्॥१७॥

अनेन षष्ठेन बुद्धविनेयेषु सत्सुबुद्धोत्पादात्तद्दर्शनं। विनीतेषु परिनिर्वाणात्तददर्शनं अग्निज्वलनशमनसाधर्म्येण साधयति।

अनाभोगाप्रतिप्रस्रब्धबुद्धकार्यत्वे चत्वारः श्लोकाः।
अघटितेभ्यस्तूर्येभ्यो यथा स्याच्छब्दसंभवः।
तथा जिने विनाभोगं देशनायाः समुद्भवः॥१८॥

यथा मणेर्विना यत्नं स्वप्रभाव[स]निदर्शनम्।
बुद्धेष्वपि विनाभोगं तथा कृत्यनिदर्शनम्॥१९॥

आभ्यां श्लोकाभ्यामनाभोगेन बुद्धकार्यं साधयत्यघटिततूर्यशब्दमणिप्रभाव[स]साधर्म्येण।

यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः।
तथैवानास्रवे धातौ अविच्छिन्ना जिनक्रियाः॥२०॥

यथाकाशे क्रियाणां हि हानिरभ्युदयः सदा।
तथैवानास्रवे धातौ बुद्धकार्योदयव्ययः॥२१॥

आभ्यामप्यप्रतिप्रस्रब्धबुद्धकार्यत्वं बुद्धकृत्यस्याविच्छेदात्। आकाश इव लोकक्रियाणामविच्छेदे ऽपि चान्यान्यक्रियोदयव्ययस्तथैव।

अनास्रवधातुगाम्भीर्ये षोडश श्लोकाः।
पौर्वापर्य[आ]विशिष्टापि सर्वावरणनिर्मला।
नशुद्धा नापि चाशुद्धा तथता बुद्धता मता॥२२॥

पौर्वापर्येण[आ]विशिष्टत्वान्न शुद्धा। पश्चात्सर्वावरणनिर्मलत्वान्नाशुद्धा मलविगमात्।
शून्यतायां विशुद्धायां नैरात्म्यान्मार्गलाभतः।
बुद्धाः शुद्धात्मलाभित्वात् गता आत्ममहात्मताम्॥२३॥

तत्र चानास्रवे धातौ बुद्धानां परमात्मा निर्दिश्यते। किं कारणम्। अग्रनैरात्म्यात्मकत्वात्। अग्रं नैरात्म्यं विशुद्धा तथता सा च बुद्धानामात्मा स्वभावार्थेन तस्यां विशुद्धायामग्रं नैरात्म्यमात्मानं बुद्धा लभन्ते शुद्धम्। अतः शुद्धात्मलाभित्वात् बुद्धा आत्ममाहात्म्यं प्राप्ता इत्यनेनाभिसंधिना बुद्धानामनास्रवे धातौ परमात्मा व्यवस्थाप्यते।

न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते।
तस्माद्‍बुद्धतथाप्रश्ने अव्याकृतनयो मतः॥२४॥

तेनैव कारणेन बुद्धत्वं न भाव उच्यते। पुद्‍गलधर्माभावलक्षणत्वात्तदात्मकत्वाच्च बुद्धत्वस्य। नाभाव उच्यते तथतालक्षणभावात्। अतो बुद्धस्य भावाभावप्रश्ने, भवति तथागतः परं मरणान्न भवतीत्येवमादिरव्याकृतनयोमतः।

दाहशान्तिर्यथा लोहे दर्शने तिमिरस्य च।
चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते॥२५॥

यथा च लोहे दाहशान्तिर्दर्शने च तिमिरमेत[?]स्य शान्तिर्न भावो दाहतिमिरयोरभावलक्षणात्। नाभावः शान्तिलक्षणेन भावात्। एवं बुद्धानां चित्तज्ञाने च दाहतिमिरस्थानीययो रागाविद्ययोः शान्तिर्न भावः शस्यते तदभावप्रभावितत्वाच्चेतः प्रज्ञाविमुक्त्या नाभावस्तेन तेन विमुक्तिलक्षणेन भावात्।

बुद्धानाममले धातौ नैकता बहुता न च।
आकाशवददेहत्वात्पूर्वदेहानुसारतः॥२६॥

बुद्धानामनास्रवधातौ नैकत्वं पूर्वदेहानुसारेण। न बहुत्वं देहाभावादाकाशवत्।
बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा।
जगत्कुशलसस्येषु महामेघोपमा मता॥२७॥

पुण्यज्ञानसुपूर्णत्वात्पूर्णचन्द्रोपमा मता।
ज्ञानालोककरत्वाच्च महादित्योपमा मता॥२८॥

एतौ रत्नाकरमेघोपमत्वे पूर्णचन्द्रमहादित्योपमत्वे च श्लोकौ गतार्थौ।
अमेया रश्मयो यद्वद्वयामिश्रा भानुमण्डले।
सदैककार्या वर्तन्ते लोकमालोकयन्ति च॥२९॥

तथैवानास्रवे धातौ बुद्धानामप्रमेयता।
मिश्रैककार्या कृत्येषु ज्ञानालोककरामता॥३०॥

एकेन व्यामिश्ररश्म्येककार्यस्योपमतया साधारणकर्मतां दर्शयति। रश्मीनामेककार्यत्वं पाचनशोषणसमानकार्यत्वाद्वेदितव्यं। द्वितीयेनानास्रवे धातौ मिश्रैककार्यत्वं निर्माणादिकृत्येषु।

यथैकरश्मिनिःसारात्सर्वरश्मिविनिःसृतिः।
भानोस्तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः॥३१॥

एककाले सर्वरश्मिविनिःसृत्या स च [सह ?]बुद्धानामेककाले ज्ञानप्रवृत्तिं दर्शयति।
यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम्।
तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम्॥३२॥

यथा सूर्यैकमुक्ताभै रश्मिभिर्भास्यते जगत्।
सकृत् ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते॥३३॥

ममत्वाभावे जगज्ज्ञेयप्रभासेन[सने] च यथाक्रमं श्लोकौ गतार्थौ।
यथैवादित्यरश्मीनां मेघाद्यावरणं मतम्।
तथैव बुद्धज्ञानानामावृतिः सत्त्वदुष्टता॥३४॥

यथा रश्मीनां मेघाद्यावरणमप्रभासेन। तथा बुद्धज्ञानानामावरणं सत्त्वानामा[म]भाजनत्वेन दुष्टता पञ्चकषायात्युत्सदतया।

यथा पांशुवशाद्वस्त्रे रङ्गचित्राऽविचित्रता।
तथा ऽवेधवशान्मुक्तौ ज्ञानचित्राऽविचित्रता॥३५॥

यथा पांशुविशेषेण वस्त्रे रङ्गविचित्रता क्वचिदविचित्रता। तथैव पूर्वप्रणिधानचर्याबलाधानविशेषाद् बुद्धानां विमुक्तौ ज्ञानविचित्रता भवति।

श्रावकप्रत्येकबुद्धानां विमुक्तावविचित्रता।
गाम्भीर्यममले धातौ लक्षणस्थानकर्मसु।
बुद्धानामेतदुदितं रङ्गैर्वाकाशचित्रणा॥३६॥

एतदनास्रवधातौ बुद्धानां त्रिविधं गाम्भीर्यमेवमुत्तम्। लक्षणगाम्भीर्यं चतुर्भिः श्लोकैः। स्थानगाम्भीर्यंपञ्चमेनैकत्वपृथक्त्वाभ्यामस्थितत्वात्। कर्मगाम्भीर्यं दशभिः। तत्पुनर्लक्षणगाम्भीर्यं विशुद्धिलक्षणं परमात्मलक्षणमव्याकृतलक्षणं विमुक्तिलक्षणं चारभ्योक्तम्। कर्मगाम्भीर्यं बोधिपक्षादिरत्नाश्रयत्वकर्म सत्त्वपरिपाचनकर्म निष्ठागमनकर्म धर्मदेशनाकर्म निर्माणादिकृत्यकर्म ज्ञानप्रवृत्तिकर्म अविकल्पनकर्म चित्राकारज्ञानकर्म ज्ञानाप्रवृत्तिकर्म विमुक्तिसामान्यज्ञानविशेषकर्म चारभ्योक्तम्। सेयमनास्रवे धातौ निष्प्रपञ्चत्वादाकाशोपमे गाम्भीर्यप्रभेददेशना यथा रङ्गैराकाशचित्रणी वेदितव्या।

सर्वेषामविशिष्टापि तथता शुद्धिमागता।
तथागतत्वं तस्माच्च तद्‍गर्भाः सर्वदेहिनः॥३७॥

सर्वेषां निर्विशिष्टा तथता तद्धिशुद्धिस्वभावश्च तथागतः। अतः सर्वे सत्त्वास्तथागतगर्भा इत्युच्यते।

विभुत्वविभागे श्लोका एकादश।
श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते।
प्रत्येकबुद्धेभ्यो मनः[बुद्धभौमेन] श्रावकस्याभिभूयते॥३८॥

बोधिसत्त्वविभुत्वस्य तत्कलां नानुगच्छति।
तथागतविभुत्वस्य तत्कलां नानुगच्छति॥३९॥

आभ्यां तावद् द्वाभ्यां प्रभावोत्कर्षविशेषेण बुद्धानां विभुत्वं दर्शयति।
अप्रमेयमचिन्त्यं च विभुत्वं बौद्धमिष्यते।
यस्य यत्र यथा यावत्काले यस्मिन्प्रवर्तते॥४०॥

अनेन तृतीयेन प्रकारप्रभेदगाम्भीर्यविशेषाभ्यां कथमप्रमेयं कथं वा चिन्त्यमित्याह। यस्य पुद्‍गलस्यार्थे तत्प्रवर्त्तते यत्र लोकधातौ यथा तादृशैः प्रकारैर्यावदल्पं वा बहु वा यस्मिन्काले।

अवशिष्टैः श्लोकैः मनो[परा]वृत्तिभेदेन विभुत्वभेदं दर्शयति।
पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम्।
सर्वार्थवृत्तौ सर्वेषां गुणद्वादशशतोदये॥४१॥

पञ्चेन्द्रियपरावृत्तौ द्विविधं विभुत्वं परमं लभ्यते। सर्वेषां पञ्चानामिन्द्रियाणां सर्वपञ्चार्थवृत्तौ। तत्र प्रत्येकं द्वादशगुणशतोत्पत्तौ।

मनसोऽपि परावृत्तौ विभुत्वं लभ्यते परम्।
विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले॥४२॥

मनसः परावृत्तौ विभुत्वानुचरे निर्विकल्पे सुविशुद्धे ज्ञाने परमं विभुत्वं लभ्यते। येन सहितं सर्वं विभुत्वज्ञानं प्रवर्तते।

सार्थोद्‍ग्रहपरावृत्तौ विभुत्वं लभ्यते परम्।
क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि॥४३॥

अर्थपरावृत्तौ उद्‍ग्रहपरावृत्तौ च क्षेत्रविशुद्धिविभुत्वं परमं लभ्यते येन यथाकामं भोगसंदर्शनं करोति।

विकल्पस्य परावृत्तौ विभुत्वं लभ्यते परम्।
अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम्॥४४॥

विकल्पपरावृत्तौ सर्वेषां ज्ञानानां कर्मणां च सर्वकालमव्याघाते परमं विभुत्वं लभ्यते।

प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम्।
अप्रतिष्ठितनिर्वाणं बुद्धानामचले[मले] पदे॥४५॥

प्रतिष्ठापरावृत्तावप्रतिष्ठितनिर्वाणं परमं विभुत्वं लभ्यते। बुद्धानामनास्रवेधातौ।
मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम्।
बुद्धसौख्यबिहारे ऽथ दाराऽसंक्लेशदर्शने॥४६॥

मैथुनस्य परावृत्तौ द्वयोर्बुद्धसुखविहारे च दारा ऽसंक्लेशदर्शने च।
आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम्।
चिन्तितार्थसमृद्धौ च गतिरूपविभावने॥४७॥

आकाशसंज्ञाव्यावृत्तौ द्वयोरेव चिन्तितार्थसमृद्धौ च येन गगनगर्भो भवति। गतिरूपविभावेन च यथेष्टगमनादाशवशी[काशी]करणाच्च।

इत्यमेयपरावृत्तावमेयविभुता मता।
अचिन्त्यकृत्यानुष्ठानाब्‍दुद्धानाममलाश्रये॥४८॥

इत्यनेन मुखेनाप्रमेया परावृत्तिः।
तत्र चाप्रमेयं विभुत्वमचिन्त्यकर्मानुष्ठानं बुद्धानामनास्रवे धातौ वेदितव्यम्।

तस्यैव बुद्धस्य सत्त्वपरिपाकनिमित्तत्वे सप्त श्लोकाः।
शुभे बृद्धो लोको व्रजति सुविशुद्धौ परमतां
शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम्।
व्रजत्येवं लोको दिशि दिशि जिनानां सुकथितै-
रपक्वः पक्वो वा [न] च पुनरशेषं ध्रुवमिह॥४९॥

अनेन यादृशस्य परिपाकस्य निमित्तं भवति तद्दर्शयति। उपचितकुशलमूलानां च विमुक्तौ परमतायामनुपचितकुशलमूलानां च कुशलमूलोपचये। अपक्वः शुभवृद्धौ परमतां व्रजन[न्] पाकं व्रजति पक्वः सुविशुद्धौ परमतां व्रजति। एवं च नित्यकालं व्रजति न च निःशेषं लोकस्यानन्तत्वात्।

तथा कृत्वा चर्यां [कृच्छ्रावाप्यां] परमगुणयोगाद्भुतवतीं
महाबोधिं नित्यां ध्रुवमशरणानां च शरणम्।
लभन्ते यद्धीरा [दिशि दिशि] गसदा [सदा] सर्वसमयं
तदाश्चर्यं लोके सुविधचरणान्नाद्भुतमपि॥५०॥

अनेन द्वितीयेन परिपव्कानां बोधिसत्त्वानां परिपाकस्याश्चर्यं नाश्चर्यं लक्षणम्। सदा सर्वसमयमिति नित्यं निरन्तरं च तदनुभूय[रूप]मार्गचरणं सुविधिचरणम्।

क्वचिद्धर्माञ्चकं[धर्म्यं चक्रं] बहुमुखशतैर्दर्शयतिः यः
क्वचिज्जन्मान्तर्धि क्वचिदपि विचित्रां जनचरीम्।
क्वचित्कृत्स्नां बोधिं क्वचिदपि च निर्वाणमसकृत्
न च स्थानात्तस्माद्विचलति स सर्वं च कुरुते॥५१॥

अनेन तृतीयेन युगपद्‍बहुमुखपरिपाचनोपायप्रयोगे निमित्तत्वं दर्शयति। यथा यत्रस्थः सत्त्वान् विनयति। विचित्रा जनचरी जातकभेदेन। न च स्थानाच्चलतीत्यनास्रवाद्धातोः।

न बुद्धानामेवं भवति ममपक्वो ऽयमिति चाप्र-
पाच्यो ऽयं देही अपि च अधुनापाच्यत इति।
विना संस्कारं तु प्रपचमुपयात्येव जनता
शुभैर्धर्मैर्नित्यं दिशि दिशि समन्तात्रयमुखम्॥५२॥

अनेन चतुर्थेन तत्परिपाकप्रयोगनिमित्तत्वमनभिसंस्कारेण दर्शयति।

त्रयमुखमिति यानत्रयेण।
यथाऽयत्नं भानुः प्रततविषदैरंशविसरैः
प्रपाक[कं] सस्यानां दिशि [दिशि] समन्तात्प्रकुरूते।
तथा धर्मार्कोऽपि प्रशमविधिधर्माशुविसरैः
प्रपाकं सस्यानां दिशि दिशि समन्तात्प्रकुरूते॥५३॥

अनेन पञ्चमेनानभिसंस्कारपरिपाचनदृष्टान्तं दर्शयति।
यथैकस्माद्दीपाद्भवति सुमहान्दीपनिचयो
ऽप्रमेयो ऽसंख्येयो न च स पुनरेति व्ययमतः।
तथैकस्माद् बुद्धाद् [पाका]द्भवति सुमहान् परिपाक[पाक]निचयो
ऽप्रमेयो ऽसंख्येयो न च स पुनरेति[पुनरुपैति] व्ययमतः॥५४॥

अनेन षष्ठेन परंपरया परिपाचनम्।
यथा तोयैस्तृप्तिं व्रजति न महासागर इव
न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः।
तथा बौद्धो धातुः सततसमितैः शुद्धिविशनै-
र्नतृप्तिं वृद्धिं वा व्रजति परमाश्चर्यमिह तत्॥५५॥

अनेन सप्तमेन परिपव्कानां विमुक्तिप्रवेशे समुद्रोदाहरणेन धर्मधातोरतृप्तिं चावकाशदानादवृद्धिं ध्याना[चान]धिकत्वात्।

धर्मधातुविशुद्धौ चत्वारः श्लोकाः।
सर्वधर्मद्वयावारतथताशुद्धिलक्षणः।
वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः॥५६॥

एष स्वभावार्थमारभ्यैकः श्लोकः।
क्लेशज्ञेयावरणद्वयात्सर्वधर्मतथताविशुद्धिलक्षणश्च।
वस्तुतदालम्बनज्ञानयोरक्षयवशिता लक्षणश्च।
सर्वतस्तथताज्ञानभावना समुदागमः।
सर्वसत्त्वद्वयाधानसर्वथाऽक्षयता फलम्॥५७॥

एष हेत्वर्थं फलार्थं चारभ्य द्वितीयः श्लोकः। सर्वतस्तथताज्ञानभावना धर्मधातुविशुद्धिहेतुः। सर्वत इति सर्वधर्मपर्यायमुखैः। सर्वसत्त्वानां सर्वथा हितसुखद्वयाधानाक्षयता फलम्।

कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः।
समाधिधारणीद्वारद्वयामेयसमन्वितः॥५८॥

एष कर्मार्थं योगार्थं चारभ्य तृतीयः श्लोकः। त्रिविधं कायादिनिर्माणं कर्म समाधिधारणीमुखाभ्यां द्वयेन चाप्रमेयेण पुण्यज्ञानसंभारेण समन्वागमो योगः।

स्वभावधर्मसंभोगनिर्माणैर्भिन्नवृत्तिकः।
धर्मधातुर्विशुद्धो ऽयं बुद्धानां समुदाहृतः॥५९॥

एष वृत्त्यर्थमारभ्य चतुर्थः श्लोकः। स्वाभाविकसांभोगिकनैर्माणिककायवृत्त्या भिन्नवृत्तिकः।

बुद्धकायविभागे सप्तश्लोकाः।
स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिकोऽपरः।
कायभेदा हि बुद्धानां प्रथमस्तु द्वयाश्रयः॥६०॥

त्रिविधः कायो बुद्धानाम्। स्वाभाविको धर्मकाय आश्रयपरावृत्तिलक्षणः। सांभोगिको येन पर्षन्मण्डलेषु धर्मसंभोगं करोति। नैर्माणिको येन निर्माणेन सत्त्वार्थं करोति।

सर्वधातुषु सांभोग्यो भिन्नो गणपरिग्रहैः।
क्षेत्रैश्च नामभिः कायैर्धर्मसंभोगचेष्टितैः॥६१॥

तत्र सांभोगिकः सर्वलोकधातुषु पर्षन्मण्डलबुद्धक्षेत्रनामशरीरधर्मसंभोगक्रियाभिर्भिन्नः।

समः सूक्ष्मश्च तच्छिष्टः[च्छिलष्टः] कायः स्वाभाविको मतः।
संभोगाविभुताहेतुर्यथेष्टं भोगदर्शने॥६२॥

स्वाभाविकः सर्वबुद्धानां समो निर्विशिष्टतया। सूक्ष्मो दुर्ज्ञानतया। तेन संभोगिकेन कायेन संबद्धः संभोगविभुत्वे च हेतुर्यथेष्टं भोगदर्शनाय।

अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः।
द्वयोर्द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता॥६३॥

नैर्माणिकस्तु कायो बुद्धानामप्रमेयप्रभेदं बुद्धनिर्माणं सांभोगिकः स्वार्थसंपत्तिलक्षणः। नैर्माणिकः परार्थसंपत्तिलक्षणः। एवं द्वयार्थसंपत्तिर्यथाक्रमं द्वयोः प्रतिष्ठिता सांभोगिके च काये नैर्माणिके च।

शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः।
बुद्धनिर्माणकायोऽयं महामायो[महोपायो] विमोचने॥६४॥

स पुनर्निर्माणकायः सदा विनेयार्थं शिल्पस्य वीणावादनादिभिः। जन्मनश्चाभिसंबोधेश्च निर्वाणस्य च दर्शनैर्विमोचने महोपायत्वात्परार्थसंपत्तिलक्षणो वेदितव्यः।

त्रिभिः कायैस्तु विज्ञेयो बुद्धानां कायसंग्रहः।
साश्रयः स्वपरार्थो यस्त्रिभिः कायैर्निदर्शितः॥६५॥

त्रिभिश्च कायैर्बुद्धानां सर्वकायसंग्रहो वेदितव्यः। एभिस्त्रिभिः कायैः साश्रयः स्वपरार्थो निदर्शितः। द्वयोः स्वपरार्थप्रभावितत्वात् द्वयोश्च तदाश्रितत्वाद्यथा पूर्वमुक्तम्।

आश्रयेणाशयेनापि कर्मणा ते समा मताः।
प्रकृत्या ऽस्रंसनेनापि प्रबन्धेनैषु नित्यता॥६६॥

ते च त्रयः कायाः सर्वबुद्धानां यथाक्रमं त्रिभिर्निर्विशेषाः, आश्रयेण धर्मधातोरभिन्नत्वात्, आशयेन पृथग्बुद्धाशयस्याभावात्। कर्मणा च साधारणकर्मकत्वात्। तेषु च त्रिषु कायेषु यथाक्रमं त्रिविधा नित्यता वेदितव्या येन नित्यकायास्तथागता उच्यन्ते। प्रकृत्या नित्यता स्वाभाविकस्य स्वभावेन नित्यत्वात्। अस्रंसनेन सांभोगिकस्य धर्मसंभोगाविच्छेदात्। प्रबन्धेन नैर्माणिकस्यान्तर्व्यये[र्धाय]पुनः पुनर्निर्माणदर्शनात्।

बुद्धज्ञानविभागे दश श्लोकाः।
आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम्।
समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च॥६७॥

चतुर्विधं बुद्धानां ज्ञानमादर्शज्ञानं समताज्ञानं प्रत्यवेक्षाज्ञानं कृत्यानुष्ठानज्ञानं च। आदर्शज्ञानमचलं त्रीणी ज्ञानानि तदाश्रितानि चलानि।

आदर्शज्ञानममापरिच्छिन्नं सदानुगम्।
सर्वज्ञेयेष्वसंमूढं न च तेष्वामुखं सदा॥६८॥

आदर्शज्ञानममपरिच्छिन्नं देशतः सदानुगं कालतः। सर्वज्ञेयेष्वसंमूढं सदावरणविगमात्, न च तेष्वामुखमनाकारत्वात्।

सर्वज्ञाननिमित्तत्वान्महाज्ञानाकरोपमम्।
संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच्च तत्॥६९॥

तेषां च समतादिज्ञानानां सर्वप्रकाराणां हेतुत्वात्सर्वज्ञानानामाकरोपम्। संभोगबुद्धत्वतज्ज्ञानप्रतिबिम्बोदयाच्च तदादर्शज्ञानामित्युच्यते।

सत्त्वेषु समताज्ञानं भावनाशुद्धितोऽमलं [मतम्]।
अप्रतिष्ठस[श]माविष्टं समताज्ञानमिष्यते॥७०॥

यब्‍दोधिसत्त्वेनाभिसमयकालेषु [सत्त्वेषु] समताज्ञानं प्रतिलब्धं तद्भावनाशुद्धितो बोधिप्राप्तस्याप्रतिष्ठितनिर्वाणे निविष्टं समताज्ञानमिष्यते।

महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम्।
यथाधिमोक्षं सत्त्वानां बुद्धबिम्बनिदर्शकम्॥७१॥

महामैत्रीकरुणाभ्यां सर्वकालानुगं यथाधिमोक्षं च सत्त्वानां बुद्धबिम्बनिदर्शकम्।
यतः केचित्सत्त्वास्तथागतं नीलवर्णं पश्यन्ति केचित्पीतवर्णमित्येवमादि।

प्रत्यवेक्षणकं ज्ञाने [नं] ज्ञेयेष्वव्याहतं सदा।
धारणीनां समाधीनां निधानोपममेव च॥७२॥

परिषन्मण्डले सर्वविभूतीनां निदर्शकम्।
सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम्॥७३॥

प्रत्यवेक्षणकं ज्ञानं यथाश्लोकम्।
कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु।
चित्राप्रमेयाचिन्त्यैश्च सर्वसत्त्वार्थकारकम्॥७४॥

कृत्यानुष्ठानज्ञानं सर्वलोकधातुषु निर्माणैर्नानाप्रकारैरप्रमेयैरचिन्त्यैश्च सर्वसत्त्वार्थकम्।
कृत्यनिष्पत्तिभिर्भेदैः संख्याक्षेत्रैश्च सर्वदा।
अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच्च सर्वथा॥७५॥

तच्च बुद्धनिर्माणं सदा सर्वथा चाचिन्त्यं वेदितव्यं। कृत्यक्रियाभेदतः संख्यात [तः] क्षेत्रतश्च।

धारणात्समचित्ताच्च सम्यग्धर्मप्रकाशनात्।
कृत्यानुष्ठानतश्चैव चतुर्ज्ञानसमुद्भवः॥७६॥

तत्र धारणात् श्रुतानां धर्माणाम्। समचित्तता सर्वसत्त्वेष्वात्मपरसमतया। शेषं गतार्थम्।

बुद्धानेकत्वापृथक्त्वेश्लोकः।
गोत्रभेदादवैयर्थ्यात्साकल्यादप्यनादितः।
अभेदान्नैकबुद्धत्वं बहुत्वं चामलाश्रये॥७७॥

एक एव बुद्ध इत्येतन्नेष्यते। किं कारणम्। गोत्रभेदात्। अनन्ता हि बुद्धगोत्राः सत्त्वाः। तत्रैक एवाभिसंबुद्धो नान्ये ऽभिसंमोत्स्यन्त इति कुत एतत्। पुण्यज्ञानसंभारवैयर्थ्यं च स्यादन्येषां बोधिसत्त्वानामनभिसंबोधान्न च युक्तं वैयर्थ्यम्। तस्मादवैयर्थ्यादपि नैक एव बुद्धः सत्त्वार्थक्रियासाकल्यं च न स्यात्। बुद्धस्य बुद्धत्वे कस्यचिदप्रतिष्ठापनादेतच्च न युक्तम्। न च कश्चिदादिबुद्धोऽस्ति विना संभारेण बुद्धत्वायोगाद्विना चान्येन बुद्धेन संस्थाना [संभारा]योगादित्यनादित्वादप्येको बुद्धौ न युक्तः। बहुत्वमपि नेष्यते बुद्धानां धर्मकायस्याभेदादनास्रवे धातौ।

बुद्धत्वोपायप्रवेशे चत्वारः श्लोकाः।
या ऽविद्यमानता सैव परमा विद्यमानता।
सर्वथा ऽनुपलम्भश्च उपलम्भः परो मतः॥७८॥

या परिकल्पितेन स्वभावेनाविद्यमानता सैव परमा विद्यमानता परिनिष्पन्नेन स्वभावेन। यश्च सर्वथा ऽनुपलम्भः परिकल्पितस्य स्वभावस्य स एव परम उपलम्भः परिनिष्पन्न स्वभावस्य।

भावना परमा चेष्टा भावनामविपश्यताम्।
प्रतिलम्भः परश्चेष्टः प्रतिलम्भं न पश्यताम्॥७९॥

सैव परमा भावना यो भावनाया अनुपलम्भः। स एव परमः प्रतिलम्भो यः प्रतिलम्भानुपलम्भः।

पश्यतां गुरुत्वं [तां] दीर्घं निमित्तं वीर्यमात्मनः।
मानिनां बोधिसत्त्वानांदु [दू]रे बोधिर्निरूप्यते॥८०॥

ये च गुरुत्वं बुद्धत्वं पश्यन्ति अद्भुतधर्मयुक्तम्। दीर्घं च कालं पश्यन्ति तत्समुदागमाय। निमित्तं च पश्यन्ति चित्तालम्बनम्। आत्मनश्च वीर्यं वयमारब्धवीर्या बुद्धत्वं प्राप्स्याम इति।

तेषामेवंमानिनां बोधिसत्त्वानामौपलम्भिकत्वात् दूरे बोधिर्निरूप्यते।
पश्यताम्, कल्पनामात्रं सर्वमेतद्यथोदितं।
अकल्पबोधिसत्त्वानां प्राप्ता बोधिर्निरूप्यते॥८१॥

कल्यनामात्रं त्वेतत्सर्वमिति पश्यतां तस्यापि कल्पनामात्रस्याविकल्पनादकल्पबोधिसत्त्वानामनुत्पत्तिकधर्मक्षान्तिलाभावस्थायामर्थतः प्राप्तैव बोधिरित्युच्यते।

बुद्धानामन्योन्यनै[न्यै]ककार्यत्वे चत्वारः श्लोकाः।
भिन्नाश्रया भिन्नजलाश्च नद्यः
अल्पोदकाः कृत्यपृथक्त्वकार्याः।
जलाश्रितप्राणितनूपभोग्या
भवन्ति पातालमसंप्रविष्टाः॥८२॥

समुद्रविष्टाश्च भवन्ति सर्वा एकाश्रया एकमहाजलाश्च।
मिश्रैककार्याश्च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम्॥८३॥

भिन्नाश्रया भिन्नमताश्च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः।
परीत्तसत्त्वार्थसदोपभोग्या भवन्ति बुद्धत्वमसंप्रविष्टाः॥८४॥

बुद्धत्वविष्टाश्च भवन्ति सर्वे एकाश्रया एकमहावबोधाः।
मिश्रैककार्याश्च महोपभोग्याः सदा महासत्त्वगणस्य ते हि॥८५॥

तत्र भिन्नाश्रया नद्यः स्वभाजनभेदात्। कृत्यपृथक्त्वकार्याः पृथक्त्वेन कृत्यकरणात्। तनूपभोग्या इत्यल्पानामुपभोग्याः। शेषं गतार्थम्।

बुद्धत्वप्रोत्साहने श्लोकः।
इतिनिरूपमशुक्लधर्मयोगाद् हितसुखहेतुतया च बुद्धभूमेः।
शुभपरमसुखाक्षयकरत्वात् शुभमतिरर्हति बोधिचित्तमाप्तुम्॥८६॥

निरूपमसुक्लधर्मयोगात् स्वार्थसंपत्तितः। हितसुखहेतुत्वाच्च बुद्धत्वस्य परार्थसंपत्तिः। अनवद्योत्कृष्टाक्षयसुखाकरत्वाच्च सुखविहारो विशेषतः। बुद्धिमानहीनबोधिचित्तमादातुं तत्प्रणिधानपरिग्रहात्।

॥ महायानसूत्रालंकारे बोध्यधिकारो नवमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project