Digital Sanskrit Buddhist Canon

अष्टमोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Aṣṭamo'dhikāraḥ

अष्टमोऽधिकारः

बोधिसत्त्वपरिपाके संग्रहः श्लोकः।

रूचिः प्रसादः प्रशमो ऽनुकम्पना
क्षमाथ मेधा प्रबलत्वमेव च।
अहार्यताङ्गैः समुपेतता भृशं
जिनात्मजे तत्परिपाकलक्षणम्॥१॥

रूचिर्महायानदेशनाधर्मे, प्रसादस्तद्देशिके, प्रशमः क्लेशानाम्, अनुकम्पा सत्त्वेषु, क्षमा दुष्करचर्यायां, मेधा ग्रहणधारणप्रतिवेधेषु, प्रबलत्वमधिगमे, अहार्यता मारपरप्रवादिभिः, प्राहाणिकाङ्गैः समन्वागतत्वम्। भृशमिति रूच्यादीनामधिमात्रत्वं दर्शयति। एष समासेन बोधिसत्त्वानां नवप्रकार आत्मपरिपाको वेदितव्यः।

रूचिपरिपाकमारभ्य श्लोकः।
सुमित्रतादित्रयमुग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः।
कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्‌परिपाकलक्षणम्॥२॥

सुमित्रतादित्रयं सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशोमनसिकारश्च। उग्रवीर्यता अधिमात्रो वीर्यारम्भः। परार्धनिष्ठा सर्वाचिन्त्यस्थाननिर्विचिकित्सता। उत्तमधर्मसंग्रहो महायानधर्मरक्षा, तत्प्रतिपन्नानामुपद्रवेभ्यो रक्षणात्।

बोधिसत्त्वस्य महायानधर्मपरिग्रहमधिकृत्येदं रूचिपरिपाकलक्षणं वेदितव्यम्। येन कारणेन परिपच्यते सुमित्रतादित्रयेण। यश्च तस्याः परिपाक उग्रवीर्यपरार्धनिष्ठायुक्तः स्वभावः। यत्कर्म चोत्तमधर्मसंग्रहकरणात्तदेतेन परिदीषितम्।

प्रसादपरिपाकमारभ्य श्लोकः।
गुणज्ञताथाशुसमाधिलाभिता
फलानुभूतिर्मनसोऽध्यभेद[द्य ?]ता।
जीनात्मजे शास्तरि संप्रपत्तये
मतं हि सम्यक्‌परिपाकलक्षणम्॥३॥

तत्परिपाकोऽपि कारणतः स्वभावतः कर्मतश्च परिदीपितः। गुणज्ञता इत्यपि स भगवांस्तथागत इति विस्तरेण कारणम्। अवेत्यप्रभाव[साद]लाभादभेद्यचित्तता स्वभावः।

आशुसमाधिलाभस्तत्फलस्य चाभिज्ञादिकस्य प्रत्यनुभवनं कर्म।

प्रशमपरिपाकमारभ्य श्लोकः।
सुसंवृतिः क्लिष्टवितर्कवर्जना
निरन्तरायोऽथ शुभाभिरामता।
जिनात्मजे क्लेशविनोदनायतन्-
मतं हि सम्यक्‌परिपाकलक्षणम्॥४॥

क्लेशविनोदना बोधिसत्त्वस्य प्रशमः। तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश्च परिदीपितः। इन्द्रियाणां स्मृतिसंप्रजन्याभ्यां सुसंवृतिः कारणम्। क्लिष्टवितर्कवर्जना स्वभावः। प्रतिपक्षभावनायां निरन्तरायत्वं कुशलाभिरामता च कर्म।

कृपापरिपाकलक्षणमधिकृत्य श्लोकः।
कृपा प्रकृत्या परदुःखदर्शनं
निहीनचित्तस्य च संप्रवर्जनम्।
विशेषगत्वं जगदग्रजन्मता
परानुकम्पापरिपाकलक्षणम्॥५॥

स्वप्रकृत्या च गोत्रेण परदुःखदर्शनेन निहीनयानपरिवर्जनतया च परिपच्यत इतिकारणम्। विशेषगामित्वं परिपाकवृद्धिगमनात् स्वभावः। सर्वलोकश्रेष्ठात्मभावता कर्म अविनिवर्तनीयभूमौ।

क्षान्तिपरिपाकलक्षणमारभ्य श्लोकः।
घृतिः प्रकृत्या प्रतिसंख्यभावना
सुदुःखशीताद्यधिवासना सदा।
विशेषगामित्वशुभाभिरामता
मतं क्षमायाः परिपाकलक्षणम्॥६॥

धृतिः सहनं क्षान्तिरिति पर्यायाः ततत्परिपाके गोत्रं प्रतिसंख्यानं भावना च कारणम्। तीव्राणां शीतादिदुःखानामधिवासनास्वभावः। क्षमस्य विशेषगामित्वं कुशलाभिरामता च कर्म।

मेधापरिपाकमारभ्य श्लोकः।
विपाकशुद्धिः श्रवणाद्यमोषता
प्रविष्टता सूक्तदुरूक्तयोस्तथा।
स्मृतेर्महाबुद्ध्युदये च योग्यता
सुमेधतायाः परिपाकलक्षणम्॥७॥

तत्र मेधानुकूला विपाकविशुद्धिः कारणम्। श्रुतचिन्तितभावितचिरकृतचिरभाषितानामसंमोषता सुभाषितदुर्भाषितार्थसुप्रविष्टता च स्मृतेर्मेधापरिपाकस्वभावः। लोकोत्तरप्रज्ञोत्पादनयोग्यता कर्म।

बलवत्वप्रतिलम्भपरिपाकमारभ्य श्लोकः।
शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा।
मनोरथाप्तिर्जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम्॥८॥

तत्र पुण्यज्ञानद्वयेन तस्य पुण्यज्ञानद्वयस्य बीजपुष्टता तत्परिपाके कारणम्। अधिगमं प्रत्याश्रययोग्यता तत्परिपाकस्वभावः। मनोरथसंपत्तिर्जगदग्रभूतता च कर्म।

अहार्यतापरिपाकमारभ्य श्लोकः।
सुधर्मतायुक्तिविचारणाशयो
विशेषलाभः परपक्षदूषणम्।
पुनः सदा मारनिरन्तरायता
अहार्यतायाः परिपाकलक्षणम्॥९॥

तत्परिपाकस्य सद्धर्मे युक्तिविचारणाकृत आशयः कारणम्। मारनिरन्तरायता स्वभावो यदा मारो न पुनः शन्कोत्यन्तरायं कर्तुम्। विशेषाधिगमः परपक्षदूषणं च कर्म।

प्राहाणिकाङ्गसमन्वागमपरिपाकमधिकृत्य श्लोकः।
शुभाचयो ऽथाश्रययत्नयोग्यता
विवेकतोदग्रशुभाभिरामता।
जिनात्मजे ह्यङ्गसमन्वये पुन-
र्मतं हि सम्यक्‌परिपाकलक्षणम्॥१०॥

तत्परिपाकस्य कारणं कुशलमूलोपचयः। आश्रयस्य वीर्यारम्भक्षमत्वं स्वभावः। विवेकोत्कृष्टता कुशलाभिरामता च कर्म।

नवविधात्मपरिपाकमाहात्म्यमारभ्य श्लोकः।
इति नवविधवस्तुपचितात्मा
परपरिपाचनयोग्यतामुपेतः।
शुभ[धर्म]मयसततप्रवर्धितात्मा
भवति सदा जगतो ऽग्रबन्धुभूतः॥११॥

द्विविधं तन्माहात्म्यम्। परपरिपाके प्रतिशरणत्वम्। सततं धर्मकायवृद्धिश्च। तत एव जगतो ऽग्रबन्धुभूतः।

सत्त्वपरिपाकविभागे एकादश श्लोकाः।
व्रणेऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता।
तथाश्रयेऽस्मिन्द्वयपक्षशान्तता[तां]तथोपभोगत्वसुशान्तपक्षता[मुशन्तिपव्कताम्]॥१२॥

अनेन परिपाकस्वभावं दर्शयति। यथा व्रणस्य स्रावणयोग्यता परिपाकः। भोजनस्य च भोगयोग्यता। एवं सत्त्वानामाश्रये व्रणभोजनस्थानीये स्रावणस्थानीयं विपक्षशमनम्। भोगस्थानीयश्च प्रतिपक्षोपभोगः। तद्योग्यता आश्रयस्य परिपाक इति। विपक्षप्रतिपक्षावत्र पक्षद्वयं वेदितव्यम्।

द्वितीयश्लोकः।
विपाचनोक्ता परिपाचना तथा
परिपाचना चाप्यनुपाचनापरा।
सुपाचना[चा]प्यधिपाचना मता
निपाचनोत्पाचनना च देहिषु॥१३॥

अनेन परिपाकप्रभेदं दर्शयति। क्लेशविगमेन पाचनना [पाचना ?] विपाचना। सर्वतो यानत्रयेण पाचना परिपाचना। बाह्यपरिपाकविशिष्टत्वात् प्रकृष्टा पाचना प्रपाचना। यथाविनेयधर्मदेशनात्तदनुरूपा पाचना अनुपाचना। सत्कृत्य पाचना सुपाचना। अधिगमेन पाचना अधिपाचना अविपरीतार्थेन। नित्या पाचना निपाचना अपरिहाणीयार्थेन। क्रमेणोत्तरोत्तरपाचना उत्पाचना। इत्ययमष्टप्रकारः परिपरिपाकप्रभेदः।

तृतीयचतुर्थौ श्लोकौ।
हिताशयेनेह यथा जिनात्मजो
व्यवस्थितः सर्वजगद्विपाचयन्।
तथा न माता न पिता न बन्धवः
सुतेषु बन्धुष्वपि सुव्यवस्थिताः॥१४॥

तथाजनो नात्मनि वत्सलो मतः
कुतोऽपि सुस्निग्धपराश्रये जने।
यथा कृपात्मा परसत्त्ववत्सलो
हिते सुखे चैव नियोजनान्मतः॥१५॥

आभ्यां किं दर्शयति। यादृशेनाशयेन बोधिसत्त्वः सत्त्वान्परिपाचयति तमाशयं दर्शयति। मातापितृबान्धवाशयविशिष्टं लोकात्मवात्सल्यविशिष्टं च हितसुखसंयोजनात्। आत्मवत्सलस्तु लोक आत्मानं हिते च सुखे च संनियोजयति।

अवशिष्टैः श्लोकैर्येन प्रयोगेण सत्त्वान्परिपाचयति तं पारमिता प्रतिपत्त्या संदर्शयति।

यादृशेन दानेन यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः।
न बोधिसत्त्वस्य शरीरभोगयोः परेष्वदेयं पुनरस्ति सर्वथा।
अनुग्रहेण द्विविधेन पाचयन् परं समैर्दानगुणैर्न तृप्यते॥१६॥

त्रिविधेन दानेन पाचयति। सर्वस्वशरीरभोगदानेन अविषमदानेन अतृप्तिदानेन च। कथं परिपाचयति दृष्टधर्मसंपरायानुग्रहेण। अविघातेनेच्छापरिपूर्णात् [पूरणात्]। अनागतेन [तेन] च संगृह्य कुशलप्रतिष्ठापनात्।

यादृशेन शीलेन यथा सत्वान्परिपाचयति तदारभ्य श्लोकः।

सदाप्रकृत्याध्यविहिंसकः स्वयं
रतोऽप्रमत्तोऽत्र परं निवेशयन्।
परंपरानुग्रहकृदूद्विधा परे
विपाकनिष्यन्दगुणेन पाचकः॥१७॥

पञ्चविधेन शीलेन। ध्रुवशीलेन प्रकृतिशीलेन परिपूर्णशीलेनाध्यविंहिंसकत्वात्। परिपूर्णो ह्यविहिंसको ऽध्यविहिंसको दशकुशलकर्मपथपरिपूरितः। यथोक्तं द्वितीयायां भूमौ। अधिगमशीलेन स्वयंरततया निरन्तरास्खलितशीलेन चाप्रमत्ततया। कथं च परिपाचयति। शीले संनिवेशनात्। द्विधानुग्रहक्रियया दृष्टधर्मे संपराये च। संपरायानुग्रहं परेषु विपाकनिष्यन्दगुणाभ्यां परंपरया करोति। तद्विपाकनिष्यन्दयोरन्योन्यानुकूल्येनाव्यवच्छेदात्।

यादृश्या क्षान्त्या यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः।
परेऽपकारिण्युपकारिबुद्धिमान्
प्रमर्षयन्नुग्रमपि व्यतिक्रमम्।
उपायचित्तैरपकारमर्षणैः
शुभे समादापयतेऽपकारिणः॥१८॥

अपकारिणि परे उपकारिबुद्ध्या प्रगाढापकारमर्षणक्षान्त्या परिपाचयति। उपकारिबुद्धित्वं पुनः क्षान्तिपारमितापरिपूर्यानुकूल्यवृत्तिता वेदितव्यम्। कथं परिपाचयति। दृष्टधर्मानुग्रहेण चापकारमर्षणात्। संपरायानुग्रहेण चोपायज्ञस्तैरपकारमर्षणैरावर्ज्यापकारिणां कुशले समादापनात्।

यादृशेन वीर्येण यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः।
पुनः स यत्नं परमं समाश्रितो
न खिद्यते कल्पसहस्रकोटिभिः।
जिनात्मजः स[त्त्व]गणं
प्रपाचयन्परैकचित्तस्य शुभस्य कारणात्॥१९॥

अधिमात्रदीर्घकालाखेदे वीर्येण दीर्घकालाखेदित्वमनन्तसत्त्वपरिपाचनात्। परैकचित्तस्य कुशलस्यार्थे कल्पसहस्रकोटिभिरखेदात्। अत एवोक्तं भवति यथा परिपाचयति। कुशलचित्तसंनियोजनात् दृष्टधर्मसंपरायानुग्रहेणेति।

यादृशेन ध्यानेन यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः।
वशित्वमागम्य मनस्यनुत्तरं
परं समावर्जयतेऽत्र शासने।
निहत्य सर्वामवमानकामतां
शुभेन संवर्धयते च तं पुनः॥२०॥

प्राप्तानुत्तरवशित्वेन ध्यानेन निरामिषेण च निहतसर्वावमानाभिलाषेण परिपाचयति। बुद्धशासने परस्यावर्जनादावर्जितस्य च कुशलधर्मसंवर्धनात् परिपाचयति।

यादृश्या प्रज्ञया यथा सत्त्वान्परिपाचयति तदारभ्य श्लोकः।
स तत्त्वभावार्थनये सुनिश्चितः करोति सत्त्वान्सुविनीत संशयान्।
ततश्च ते तज्जिनशासनादराद् विवर्धयन्ते स्वपरं गुणैः शुभैः॥२१॥

स बोधिसत्त्वस्तत्त्वार्थनये चाभिप्रायार्थनये च सुविनिश्चितया प्रज्ञया परिपाचयति। कथं परिपाचयति सत्त्वानां संशयविनयनात्। ततश्च शासनबहुमानात्तेषामात्मपरगुणसंवर्धकत्वेन।

निय[ग]मेन श्लोकः।
इति सुगतिगतौ शुभत्रये वा जगदखिलं कृपया स बोधिसत्त्वः।
तनुपरमविमध्यमप्रकारैर्विनयति लोकसमानभावगत्या॥२२॥

अनेन यत्र च विनयति, सुगतिगमने यानत्रये वा। यच्च विनयति, जगदखिलम्। येन च विनयति, कृपया। यश्च विनयति बोधिसत्त्वः। यादृशैश्च परिपाचनप्रकारै तनुपरमविमध्यमप्रकारैः। यावन्तं च कालं, तत्परिदीपनात् समासेन परिपाकमाहात्म्यं दर्शयति। तत्र तनुः प्रकारोऽधिमुक्तिचर्याभूमौ बोधिसत्त्वस्य परमोऽष्टाम्यादिषु विमध्यमः सप्तसु वेदितव्यः। यावल्लोकस्य भावस्तत्समानया गत्या अत्यन्तमित्यर्थः।

॥ महायानसूत्रालंकारे परिपाकाधिकारोऽष्टमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project