Digital Sanskrit Buddhist Canon

षष्ठोऽधिकारः

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ṣaṣṭho'dhikāraḥ

षष्ठोऽधिकारः

परमार्थलक्षणविभागे श्लोकः।
न सन्न चासन्न तथा न चान्यथा न जायते व्येति न चा[ना]वहीयते।
न वर्धते नापि विशुध्यते पुनर्विशुध्यते तत्परमार्थलक्षणम्॥१॥

अद्वयार्थो हि परमार्थः। तमद्वयार्थं पञ्चभिराकारैः संदर्शयति। न सत्परिकल्पितपरतन्त्रलक्षणाभ्यां, न चासत्परिनिष्पन्नलक्षणेन। न तथा परिकल्पितपरतन्त्राभ्यां परिनिष्पन्नस्यैकत्वाभावात्। न चान्यथा ताभ्यमेवान्यत्वाभावात्। न जायते न च व्येत्यनभिसंस्कृतत्वाद्धर्मधातोः। न हीयते न च वर्धते संक्लेशव्यवदानपक्षयोर्निरोधोत्पादे तद्[था]वस्थत्वात्। न विशुध्यति प्रकृत्यसंक्लिष्टत्वात् न च न विशुध्यति आगन्तुकोपक्लेशविगमात्। इत्येतत्पञ्चविभमद्वयलक्षणं परमार्थलक्षणं वेदितव्यम्।

आत्मदृष्टिविपर्यासप्रतिषेधे श्लोकः।
न चात्मदृष्टिः स्वयमात्मलक्षणा न चापि दुःसंस्थितता विलक्षणा।
द्वयान्न चान्यद् भ्रम एषत[तू]दितस्ततश्च मोक्षो भ्रममात्रसंक्षयः॥२॥

न तावदात्मदृष्टिरेवात्मलक्षणा। नापि दुःसंस्थितता। तथा हि सा विलक्षणा आत्मलक्षणात्परिकल्पितात्। सा पुनः पञ्चोपादानस्कन्धाः क्लेशदौष्ठुल्यप्रभावितत्वात्। नाप्यतो द्वयादन्यदात्मलक्षणमुपपद्यते। तस्मान्नास्त्यात्मा। भ्रम एष तूत्पन्नो येयमात्मदृष्टिस्तस्मादेव चात्माभावोन्मोक्षोऽपि भ्रममात्रसंक्षयो वेदितव्यः, न तु कश्चिन्मुक्तः।

विपर्यासपरिभाषायां द्वौ श्लौकौ।
कथं जनो विभ्रममात्रामाश्रितः परैति दुःखप्रकृतिं न संतताम्।
अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः॥३॥

प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयतेऽन्यकारितम्।
तमः प्रकारः कतमोऽयमीदृशो यतोऽविपश्यन्सदसन्निरीक्षते॥४॥

कथं नामायं लोको भ्रान्तिमात्रमात्मदर्शनं निःश्रित्य सततानुबद्धं दुःखस्वभावं संस्काराणां न पश्यति। अवेदको ज्ञानेन तस्या दुःखप्रकृतेः। वेदकोऽनुभवेन दुःखस्या[स्य] दुःखितो दुःखस्याप्रहीणत्वात्। न दुःखितो दुःखयुक्तस्यात्मनोऽसत्वात्। धर्ममयो धर्ममात्रत्वात् पुद्‍गलनैरात्म्येन। न च धर्ममयो धर्मनैरात्म्येन। यदा च लोको भावानां प्रतीत्यसमुत्पादं प्रत्यक्षं पश्यति तं तं प्रत्ययं प्रतीत्य ते ते भावा भवन्तीति। तत्कथमेतां दृष्टिं श्रयते ऽन्यकारितं दर्शनादिकं न प्रतीत्यसमुत्पन्नमिति। कतमोऽयमीदृशस्तमः प्रकारो लोकस्य यद्विद्यमानं प्रतीत्यसमुत्पादमविपश्यन्नविद्यमानमात्मानं निरीक्षते। शक्यं हि नाम तमसा विद्यमानमद्रष्टुं स्यान्न त्वविद्यमानं द्रष्ठुमिति।

असत्यात्मनि शमजन्मयोगे श्लोकः।
त चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोरिह।
तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम्॥५॥

न चास्ति संसारनिर्वाणयोः किंचिन्नानाकरणं परमार्थवृत्त्या नैरात्म्यस्य समतया। तथापि जन्मक्षयान्मोक्षप्राप्तिर्भवत्येव शुभकर्मकारिणां ये मोक्षमार्गं भावयन्ति। विपर्यासपरिभाषां कृत्वा-

तत्प्रतिपक्षपारमार्थिकज्ञानप्रवेशे चत्वारः श्लोकाः।

संभृत्य संभारमनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्त्वः।
धर्मेषु चिन्तासुविनिश्रि[श्चि]तत्वाज्जल्पान्वयामर्थगतिं परैति॥६॥

अर्थान्स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे।
प्रत्यक्षतामेति च धर्मधातुस्तस्माद्वियुक्तोद्वयलक्षणेन॥७॥

नास्तीति चित्तात्परमेत्य बुद्ध्या
चित्तस्य नास्तित्वमुपैति तस्मात्।
द्वयस्य नास्तित्वमुपेत्य धीमान्
संतिष्ठते ऽतद्‍गतिधर्मधातौ॥८॥

अकल्पनाज्ञानबलेन धीमतः
समानुयातेन समन्ततः सदा।
तदाश्रयो गह्वरदोषसंचयो
महागदेनेव विषं निरस्यते॥९॥

एकेन संभृतसंभारत्वं धर्मचिन्तासुविनिश्रि[श्चि]तत्वं समाधि[धिं]निश्रित्यभावनान्मनोजल्पाच्च तेषां धर्माणामर्थप्रख्यानावगमात्तत्प्रवेशं दर्शयति। असंख्येयप्रभेदकालं पारमस्य परिपूरणमित्यनन्तपारम्। द्वितीयेन मनोजल्पमात्रानर्थान्विदित्वा तदाभासे चित्तमात्रेऽवस्थानमियं बोधिसत्त्वस्य निर्वेधभागीयावस्था। ततः परेण धर्मधातोः प्रत्यक्षतो[ऽव ?] गमने द्वयलक्षणेन वियुक्तो ग्राह्यग्राहकलक्षणेन। इयं दर्शनमार्गावस्था। तृतीयेन यथासौ धर्मधातुः प्रत्यक्षतामेति तद् दर्शयति। कथं चासौ धर्मधातुः प्रत्यक्षतामेति। चित्तादन्यदालम्बनं ग्राह्यं नास्तीत्यवगम्य बुद्ध्या तस्यापि चित्तमात्रस्य नास्तित्वावगमनं ग्राह्य[आ]भावे ग्राहकाभावात्। द्वये चास्य [द्वयस्यास्य ?] नास्तित्वं विदित्वा धर्मधाताववस्थानमतद्‍गतिर्ग्राह्यग्राहकलक्षणाभ्यां रहितं एवं धर्मधातुः प्रत्यक्षतामेति। चतुर्थेन भावनामार्गावस्थायामाश्रयपरिवर्तनात् पारमार्थिकज्ञानप्रवेशं दर्शयति। सदा सर्वत्र समतानुगतेनाविकल्पज्ञानबलेन यत्र तत्समतानुगतं परतन्त्रे स्वभावे तदाश्रयस्य दूरानुप्रविष्टस्य दोषसंचस्य दौष्ठुल्यलक्षणस्य महागदेनेव विषस्य निरसनात्।

परमार्थज्ञानमाहात्म्ये श्लोकः।

मुनिविहितसुधर्मसुव्यवस्थो मतिमुपधाय समूलधर्मधातौ।
स्मृतिम[ग]तिमवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः॥१०॥

बुद्धविहिते सुधर्मे सुव्यवस्थापिते स परमार्थज्ञानप्रविष्टो बोधिसत्त्वः संपिण्डितधर्मालम्बनस्य मूलचित्तस्य धर्मधातौ मतिमुपनिविधाय या स्मृतिरूपलभ्यते तां सर्वां स्मृतिप्रवृत्तिं कल्पनामात्रामवगच्छत्येवं गुणार्णवस्य पारंबुद्धत्वमाशु व्रजतीत्येतत्परमार्थज्ञानस्य माहात्म्यम्।

॥ महायानसूत्रालंकारे तत्त्वाधिकारः षष्ठः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project