Digital Sanskrit Buddhist Canon

पञ्चमोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Pañcamo'dhikāraḥ

पञ्चमोऽधिकारः

प्रतिपत्तिलक्षणे श्लोकः।
महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिरिष्यते।
सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका॥१॥

तत्र महाश्रया चित्तोत्पादाश्रयत्वात्। महारम्भा स्वपरार्थारम्भात्। महाफलोदया महाबोधिफलत्वात्। अत एव यथाक्रमं महादाना सर्वसत्त्वोपादानात्। महाधिवासना सर्वदुःखाधिवासनात्। महार्थसंपादनकृत्यकारिका विपुलसत्त्वार्थसंपादनात्।

स्वपरार्थनिर्विशेषत्वे श्लोकः।
परत्रलब्ध्वात्मसमानचित्ततां स्वतोऽधि वा श्रेष्ठतरेष्टतां परे।
तथात्मनोऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता॥२॥

परत्रात्मसमानचित्ततां लब्ध्वाऽधिमुक्तितो वा सांकेतिकचित्तोत्पादलाभे ज्ञानतो वा पारमार्थिकचित्तोत्पादलाभे। आत्मतो वा पुनः परत्र विशिष्टतरामिष्टतां लब्ध्वा तेनैव च कारणेनात्मनः परार्थे विशिष्टसंज्ञिनो बोधिसत्त्वस्य कः स्वार्थः परार्थो वा। निर्विशेषं हि तस्योभयमित्यर्थः।

परार्थविशेषणे श्लोकः।
परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणारिपौ।
यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते॥३॥

यथा स्वात्मनः परार्थो विशिष्यते तत्साधयति परार्थमात्मनोऽत्यर्थं संतापनात्।

परार्थप्रतिपत्तिविभागे द्वौ श्लोकौ।
निकृष्टमध्योत्तमधर्मतास्थिते सुदेशनावर्जनताऽवतारणा।
विनीतिरर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः॥४॥

गुणैर्विशिष्टैः समुदागमस्तथा कुलोदयो व्याकरणाभिषिक्तता।
तथागतज्ञानमनुत्तरं पदं परार्थ एष त्र्‍यधिको दशात्मकः॥५॥

त्रिविधे सत्त्वनिकाये हीनमध्यविशिष्टगोत्रस्थेः त्रयोदशविधो बोधिसत्त्वस्य परार्थः। सुदेशना ऽनुशासन्यादेशनाप्रतिहार्याभ्याम्। आवर्जना ऋद्धिप्रातिहायेर्ण। अवतारणा शासनाभ्युपगमनात्। विनीतिरर्थेऽवतीर्णानां संशयच्छेदनम्। परिपाचना कुशले। अववादश्चित्तस्थितिः प्रज्ञाविमुक्तिः, अभिज्ञादिभिर्विशेषकैर्गुणैः समुदागमः। तथागतकुले जन्म, अष्टभ्यां भूमौ व्याकरणं दशम्यामभिषेकश्च। सह तथागतज्ञानेनेत्येष त्रिषु गोत्रस्थेषु यथायोगं त्रयोदशविधः परार्थो बोधिसत्त्वस्य।

परार्थप्रतिपत्तिसंपत्तौ श्लोकः।
जनानुरूपाऽविपरीतदेशना निरुन्नता चाप्यममा विचक्षणा।
क्षमा च दान्ता च सुदूरगाऽक्षया जिनात्मजानां प्रतिपत्तिरुत्तमा॥६॥

यथाऽसौ परार्थपतिपत्तिः संपन्ना भवति तथा संदर्शयति। कथं चासौ संपन्ना भवति। यदि गोत्रस्थजनानुरूपाऽविपरीता च देशना भवति। अनुन्नता चावर्जना। अममा चावतारणा। न ऋद्धया मन्यते न चावतारितान्सत्त्वान्ममायति। विचक्षणा चार्थे विनीतिप्रतिपत्तिर्भवति। क्षमा च शुभे परिपाचनाप्रतिपत्तिः। दान्ता चाववादादिप्रतिपत्तिः। न ह्यदान्तो ऽववादादिषु परेषां समर्थः। सुदूरगा च कुलोदयादिप्रतिपत्तिः। न ह्यदूरगतया प्रतिपत्त्या कुलोदयादयः परेषां कर्तुं शक्याः। सर्वा चैषा, परार्थप्रतिपत्तिर्बोधिसत्त्वानामक्षया भवत्यभ्युपगतसत्त्वाक्षयत्वादतो ऽपि संपन्ना वेदितव्या।

प्रतिपत्तिविशेषणे द्वौ श्लोकौ।
महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः।
प्रतिस्वमाधिप्रशमे शमप्रियः सदा तु सर्वाधिग[श]मे कृपात्मकः॥७॥

जनो विमूढः स्वसुखार्थमुद्यतः सदा तदप्राप्य परैति दुःखताम्।
सदा तु धीरो हि परार्थमुद्यतो द्वयार्थमाधाय परैति निर्वृतिम्॥८॥

तत्र कामानां महाभयत्वं बहुकायिकचैतसिकदुःखदुर्गतिगमनहेतुत्वात्। चलं विपर्याससुखं रूपारूप्यभवप्रियाणामनित्यत्वात्परमार्थदुःखत्वाच्च संस्कारदुःखतया। आधयः क्लेशा वेदितव्या दुःखाधानात्। विमूढो जनः सदा स्वसुखार्थं प्रतिपन्नः सुखं नाप्नोति दुःखमेवाप्नोति। बोधिसत्त्वस्तु परार्थं प्रतिपन्नः स्वपरार्थं संपाद्य निर्वृतिसुखं प्राप्नोत्ययमस्यापरः प्रतिपत्तिविशेषः।

गोचरपरिणामने श्लोकः।
यथा यथा ह्यक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः।
तथा तथा युक्तसमानतापदैर्हिताया सत्त्वेष्वभिसंस्करोति तत्॥९॥

येन येन प्रकारेण चक्षुरादीन्द्रियगोचरे विचित्रे बोधिसत्त्वः प्रवर्तते। ईर्यापथव्यापारचारे वर्तमानस्तेन तेन प्रकारेण संबद्धसादृश्यवचनैर्हितार्थं सत्त्वेषु तत्सर्वमभिसंस्करोति। यथा गोचरपरिशुद्धिसूत्रे विस्तरेण निर्दिष्टम्।

सत्त्वेष्वक्षान्तिप्रतिषेधे श्लोकः।
सदा ऽस्वतन्त्रीकृतदोषचेतने जने न संदोषमुपैति बुद्धिमान्।
अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः॥१०॥

सदा क्लेशैरस्वतन्त्रीकृतचेतने जने न संदोषमुपैति बोधिसत्त्वः। किं कारणम्। अकामकारेणैषां विप्रतिपत्तयो भवन्तीति विदित्वा करुणावृद्धिगमनात्।

प्रतिपत्तिमाहात्म्ये श्लोकः।
भवगतिसकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिरेव।
विविधगुणगणैर्विवर्धमाना जगदुपगु[गृ ?]ह्य सदा कृपाशयेन॥११॥

चतुर्विधं माहात्म्यं संदर्शयति। अभिभवमाहात्म्यं सकलं भवत्रयं गतिं च पञ्चविधामभिभूयगमनात्। यथोक्तं प्रज्ञापारमितायां, रूपं चेत्सुभूत[ते] भावो ऽभविष्यन्नाभावो नेदं महायानं सदेवमानुषासुरलोकमभिभूय निर्यास्यतीति विस्तरः। निर्वृतिमाहात्म्यमप्रतिष्ठनिर्वाणानुगतत्वात्। गुणवृद्धिमाहात्म्यं सत्त्वापरित्यागमाहात्म्यं चेति।

॥ महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project