Digital Sanskrit Buddhist Canon

चतुर्थोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Caturtho'dhikāraḥ
चतुर्थोऽधिकारः

चित्तोत्पादलक्षणे श्लोकः।
महोत्साहा महारम्भा महार्थाथ महोदया।
चेतना बोधिसत्त्वानां द्वयार्था चित्तसंभवः॥१॥

महोत्साहा संनाहवीर्येण गम्भीरदुष्करदीर्घकालप्रतिपक्षोत्स[त्त्यु]त्सहनात्। महारम्भा यथासंनाहप्रयोगवीर्येण। महार्था आत्मपरहिताधिकारात्। महोदया महाबोधिसमुदागमत्वात्। सोऽयं त्रिविधो गुणः परिदीपितः, पुरुषकारगुणो द्वाभ्यां पदाभ्यामर्थक्रियागुणः फलपरिग्रहगुणश्च द्वाभ्याम्। द्वयार्था महाबोधिसत्त्वार्थक्रियालम्बनत्वात्। इति त्रिगुणा द्वयालम्बना च चतेना चित्तोत्पाद इत्युच्यते।

चित्तोत्पादप्रभेदे श्लोकः।
चित्तोत्पादोऽधिमोक्षोऽसौ शुद्धाध्याशयिकोऽपरः।
वैपाक्यो भूमिषु मतस्तथावरणवर्जितः॥२॥

चतुर्विधो बोधिसत्त्वानां चित्तोत्पादः। आधिमोक्षिकोऽधिमुक्तिचर्याभूमौ। शुद्धाध्याशयिकः सप्तसु भूमिषु। वैपाकिकोऽष्टम्यादिषु। अनावरणिको बुद्धभूमौ।

चित्तोत्पादविनिश्चये चत्त्वारः श्लोकाः।
करुणामूल इष्टोऽसौ सदासत्त्वहिताशयः।
धर्माधिमोक्षस्तज्ज्ञानपर्येष्ट्यालम्बनस्तथा॥३॥

उत्तरच्छन्दयानोऽसौ प्रतिष्ठाशीलसंवृतिः।
उत्थापना विपक्षस्य परिपन्थो ऽधिवासना॥४॥

शुभवृद्ध्यनुसंसोऽसौ पुण्यज्ञानमयः स हि।
सदापारमितायोगनिर्याणश्च स कथ्यते॥५॥

भूमिपर्यवसानोऽसौ प्रतिस्वं तत्प्रयोगतः।
विज्ञेयो बोधिसत्त्वानां चित्तोत्पादविनिश्चयः॥६॥

तथायं विनिश्चयः। किंमूल एष चतुविर्धो बोधिसत्त्वानां चित्तोत्पादः किमाशयः किमधिमोक्षः किमालम्बनः किंयानः किंप्रतिष्ठः किमादीनवः किमनुशंसः किंनिर्याणः किंपर्यवसान इति। आह। करुणामूलः। सदासत्त्वहिताशयः। महायानधर्माधिमोक्षः। तज्ज्ञानपर्येष्ट्याकारेण तज्ज्ञानालम्बनात् [नः]। उत्तरोत्तरच्छन्दयानः। बोधिसत्त्वशीलसंवरप्रतिष्ठः। परिपन्थ आदीनवः। कः पुनस्तत्परिपन्थो विपक्षस्यान्ययानचित्तस्योत्थापना ऽधिवासना वा। पुण्यज्ञानमयकुशलधर्मवृद्ध्यनुशंसः। सदापारमिताभ्यासनिर्याणः। भूमिपर्यवसानश्च प्रतिस्वं भूमिप्रयोगात्। यस्यां भूमौ यः प्रयुक्तस्तस्य तद्‍भूमिपर्यवसानः।

समादानसांकेतिकचित्तोत्पादे श्लोकः।
मित्रबलाद् हेतुबलान्मूलबलाच्छ्रू तबलाच्छुभाभ्यासात्।
अदृढदृढोदय उक्तश्चित्तोत्पादः पराख्यानात्॥७॥

यो हि पराख्यानाच्चित्तोत्पादः परविज्ञापनात्स उच्यते समादानसांकेतिकः। स पुनर्मित्रबलाद्वा भवति कल्याणमित्रानुरोधात्। हेतुबलाद्वा गोत्रसामर्थ्यात्। कुशलमूलद्वातीत[तद्‍गोत्र]पुष्टितः। श्रुतबलाद्वा तत्र तत्र धर्मपर्याये भाष्यमाणे बहूनां बोधिचित्तोत्पादात्। शुभाभ्यासाद्वा दृष्ट इव धर्मे सततश्रवणोद्‍ग्रहणधारणादिभिः। स पुनर्मित्रबलाददृढोदयो वेदितव्यः। हेत्वादिबलाद् दृढोदयः।

पारमार्थिकचित्तोत्पादे सप्त श्लोकाः।
सूपासितसंबुद्धे सुसंभूतज्ञानपुण्यसंभारे।
धर्मेषु निर्विकल्पज्ञानप्रसवात्परमतास्य॥८॥

धर्मेषु च सत्त्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे।
समचित्तोपा[त्तोप]लम्भात्प्रामोद्यविशिष्टता तस्य॥९॥

जन्मौदार्यं तस्मिन्नुत्साहः शुद्धिराशयस्यापि।
कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम्॥१०॥

धर्माधिमुक्तिबीजात्पारमिताश्रेष्ठमातृतो जातः।
ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री॥११॥

औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात्।
उत्साहो बोद्धव्यो दुष्करदीर्घाधिकाखेदात्॥१२॥

आसन्नबोधिबोधात्तदुपायज्ञानलाभतश्चापि।
आशयशुद्धिर्ज्ञेया कौशल्यं त्वन्यभूमिगतम्॥१३॥

निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण।
तत्कल्पनताज्ञानादविकल्पनया च तस्यैव॥१४॥

प्रथमेन श्लोकेनोपदेशप्रतिपत्त्यधिगमविशेषैः पारमार्थिकत्वं चित्तोत्पादस्य दर्शयति। स च पारमार्थिकश्चित्तोत्पादः प्रमुदितायां भूमाविति [प्रमुदिताभूमिः]। प्रामोद्यविशिष्टतायास्तत्र कारणं दर्शयति। तत्र धर्मेषु समचित्तता धर्मनैरात्म्यप्रतिबोधात्। सत्त्वेषु समचित्तता आत्मपरसमतोपगमात्। सत्त्वकृत्येषु समचित्तता आत्मन इव तेषां दुःखक्षयाकाङ्क्षणात्। बुद्धत्वे समचित्तता तद्धर्मधातोरात्मन्यभेदप्रतिबोधात्। तस्मिन्नेव च पारमार्थिकचित्तोत्पादे षडर्था वेदितव्याः। जन्म औदार्यमुत्साह आशयशुद्धिः परिशिष्टकौशल्यं निर्याणं च। तत्र जन्म बीजमातृगर्भधात्रीविशेषाद्वेदितव्यम्। औदार्यं दशमहाप्रणिधानाभिनिर्हारात्। उत्साहो दीर्घकालिकदुष्कराखेदात्। आशयशुद्धिरासन्नबोधिज्ञानात्तदुपायज्ञानलाभाच्च। परिशिष्टकौशल्यमन्यासु भूमिषु कौशल्यम्। निर्याणं यथाव्यवस्थानभूमिमनसिकारेण। कथं मनसिकारेण, तस्य भूमिव्यवस्थानस्य कल्पनाज्ञानात्कल्पनामात्रमेतदिति। तस्यैव च कल्पनाज्ञानस्याविकल्पनात्।

औपम्यमाहात्म्ये षट् श्लोकाः।
पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश्चान्यः।
शुक्लनवचन्द्रसदृशो बह्निप्रख्योऽपरोच्छ्रायः [ज्ञेयः]॥१५॥

भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः।
सागरसदृशो ज्ञेयो वज्रप्रख्योऽचलेन्द्रनिभः॥१६॥

भैषज्यराजसदृशो महासुहृत्संनिभोऽपरो ज्ञेयः।
चिन्तामणिप्रकाशो दिनकरसदृशोऽपरो ज्ञेयः॥१७॥

गन्धर्वमधुरघोषवदन्यो राजोपमोऽपरो ज्ञेयः।
कोष्ठागारप्रख्यो महापथसमस्तथैवान्यः॥१८॥

यानसमो विज्ञेयो गन्धर्वसमश्च वेतसग[चेतसः]प्रभवः।
आनन्दशब्दसदृशो महानदीश्रोत[स्त्रोतः]सदृशश्च॥१९॥

मेघसदृशश्च कथितश्चित्तोत्पादो जिनात्मजानां हि।
तस्मात्तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम्॥२०॥

प्रथमचित्तोत्पादो बोधिसत्त्वानां पृथिवीसमः सर्वबुद्धधर्मतत्संभारप्रसवरस्य प्रतिष्ठाभूतत्वात्। आशयसहगतश्चित्तोत्पादः कल्याणसुवर्णसदृशो हितसुखाध्याशयस्य विकाराभजनात्। प्रयोगसहगतः शुक्लपक्षनवचन्द्रोपमः कुशलधर्मवृद्धिगमनात्। अध्याशयसहगतो बह्निसदृश इन्धनाकरविशेषेणेवाग्निस्तस्योत्तरोत्तरविशेषाधिगमनात्। विशेषाधिगमाशयो ह्यध्याशयः। दानपारमितासहगतो महानिधनोपम आमिषसंभोगेनाप्रमेयसत्त्वसंतर्पणादक्षयत्वाच्च। शीलपारमितासहगतो रत्नाकरोपमः सर्वगुणरत्नानां ततः प्रसवात्। क्षान्तिपारमितासहगतः सागरोपमः सर्वानिष्टोपरिपातैरक्षोभ्यत्वात्। वीर्यपारमितासहगतो वज्रोपमो दृढत्वादभेद्यतया। ध्यानपारमितासहगतः पर्वतराजोपमो निष्कम्पत्वादविक्षेपतः। प्रज्ञापारमितासहगतो भैषज्यराजोपमः सर्वक्लेशज्ञेयावरणव्याधिप्रशमनात्। अप्रमाणसहगतो महासुहृत्संनिभः सर्वावस्थं सत्वानुपेक्षकत्वात्। अभिज्ञासहगतश्चिन्तामणिसदृशो यथाधिमोक्षं तत्फलसमृद्धेः। संग्रहवस्तुसहगतो दिनकरसदृशो विनेयसस्यपरिपाचनात्। प्रतिसंवित्सहगतो गन्धर्वमधुरघोषोपमो विनेयावर्जकधर्मदेशकत्वात्। प्रतिशरणसहगतो महाराजोपमोऽविप्रणाशहेतुत्वात्। पुण्यज्ञानसंभारसहगतः कोष्ठागारोपमो बहुपुण्यज्ञानसंभारकोषस्थानत्वात्। बोधिपक्षसहगतो महाराजपथोपमः सर्वार्यपुद्‍गलयातानुयतत्वात्। शमथविपश्यनासहगतो यानोपमः सुखवहनात्। धारणा-प्रतिभानसहगतो गन्धर्वोपमः उदकधारणाक्षयोद्भेदसाधर्म्येण श्रुताश्रुतधर्मार्थधारणाक्षयोद्भेदतः। धर्मोद्दानसहगत आनन्दशब्दसदृशो मोक्षकामानां विनेयानां प्रियश्रावणात्। एकायनमार्गसहगतो नदीश्रो[स्रो]तः समः स्वरसवाहित्वात्। अनुत्पत्तिकधर्मक्षान्तिलाभे एकायनत्वं तद्भूमिगतानां बोधिसत्त्वानामभिन्नकार्यक्रियात्वात्। उपायकौशल्यसहगतो मेघोपमः सर्वसत्त्वार्थक्रियातदधीनत्वात्तुषितभवनवासादिसंदर्शनतः। यथा मेघात्सर्वभाजनलोकसंपत्त्यः। एष च द्वाविंशत्युपमश्चित्तोत्पाद आर्याक्षयमतिसूत्रेऽक्षगतानुसारेणानुगन्तव्यः।

चित्तानुत्पादपरिभाषायां श्लोकः।
परार्थचित्तात्तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात्।
महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत्सुखम्॥२१॥

तेन चित्तोत्पादेन वर्जिताः सत्त्वाश्चतुर्विधं सुखं न लभन्ते यद्बोधिसत्त्वानां परार्थचिन्तनात्सुखम्। यच्च परार्थोपायलाभात्। यच्च महाभिसंध्यर्थसंदर्शनात् गम्भीरमहायानस्वतो[सूत्रा]भिप्रायिकार्थविबोधतः। यच्च परमतत्त्वस्य धर्मनैरात्म्यस्य संदर्शनात्सुखम्।

चित्तोत्पादप्रशंसायां दुर्गतिपरिखेदनिर्भयतामुपादाय श्लोकः।

सहोदयाच्चित्तवरस्य धीमतः सुसंवृतं चित्तमनन्तदुष्कृतात्।
सुखेन दुःखेन च मोदते सदा शुभी कृपालुश्च विवर्धन[यन्] द्वयम्॥२२॥

तस्य चित्तवरस्य सहोदयाब्‍दोधिसत्त्वस्य सुसंवृतं चित्तं भवत्यनन्तसत्त्वाधिष्ठानाद् दुष्कृतादतोऽस्य दुर्गतितो भयं न भवति। स च द्वयं वर्धयन् शुभं च कर्म-कृपां च नित्यं च शुभी भवति कृपालुश्च तेन सदा मोदते। सुखेनापि शुभित्वात्। दुःखेनापि परार्थक्रियानिमित्तेन कृपालुत्वात्। अतोऽस्य बहुकर्त्तव्यतापरिखेदादपि भयं न भवति।

अकरणसंवरलाभे श्लोकः।
यदानपेक्षः स्वशरीरजीविते परार्थमभ्येति परं परिश्रमम्।
परोपघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवर्त्स्यति॥२३॥

अस्य पिण्डार्थो यस्य पर एव प्रियतरो नात्मा परार्थं स्वशरीरजीविते निरपेक्षत्वात्। स कथमात्मार्थं परोपघातेन दुष्कृते कर्मणि प्रवर्त्स्यतीति।

चित्ताव्यावृत्तौ श्लोकौ।
मायोपमान्वीक्ष्य स सर्वधर्मानुद्यानयात्रामिव चोपपत्तीः।
क्लेशाच्च दुःखाच्च बिभेति नासौ संपत्तिकालेऽथ विपत्तिकाले॥२४॥

स्वका गुणाः सत्त्वहिताच्च मोदः संचिन्त्यजन्मर्द्धिविकुर्वितं च।
विभूषणं भोजनमग्रभूमिः क्रीडारतिर्नित्यकृपात्मकानाम्॥२५॥

मायोपमसर्वधर्मेक्षणात्स बोधिसत्त्वः संपत्तिकाले क्लेशेभ्यो न विभेति। उद्यानयात्रोपमोपपत्तीक्षणात् विपत्तिकाले दुःखान्न बिभेति। तस्य कुतो भयाब्‍दोधिचित्तं व्यावर्तिष्यते। अपि च स्वगुणा मण्डनं बोधिसत्त्वानाम्। परहितात्प्रीतिर्भोजनम्। संचिन्त्योपपत्तिरुद्यानभूमिः। ऋद्धिविकुर्वितं क्रीडारतिर्बोधिसत्त्वानामेवास्ति। नाबोधिसत्त्वानाम्। तेषां कथं चित्तं व्यावर्तिष्यते।

दुःखत्रासप्रतिषेधे श्लोकः।
परार्थमुद्योगवतः कृपात्मनो ह्यवीचिरप्येति यतोऽस्य रम्यताम्।
कुतः पुनस्त्रस्यति तादृशो भवन् पराश्रयैर्दुःखसमुद्भवैर्भवे॥२६॥

अपि च यस्य परार्थमुद्योगवतः करुणात्मकत्वादवीचिरपि रम्यः स कथं परार्थनिमित्तैर्दुःखोत्पादैर्भवे पुनस्त्रासमापत्स्यते। यतोऽस्य दुःखात्त्रासः स्याच्चित्तस्य व्यावृत्तिर्भवति।

सत्त्वोपेक्षाप्रतिषेधे श्लोकः।
महाकृपाचार्यसदोषितात्मनः परस्य दुःखैरुपतप्तचेतसः।
परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतोऽतिलज्जना॥२७॥

यस्य महाकरुणाचार्येण नित्योषितः आत्मा परदुःखैश्च दुःखितं चेतस्तस्योत्पन्ने परार्थं करणीये यदि परैः कल्याणमित्रैः समादापना कर्तव्या भवति अतिलज्जना।

कौशीद्यपरिभाषायां श्लोकः।
शिरसि विनिहितोच्चसत्त्वभारः शिथिलगतिर्नहि शोभतेऽग्रसत्त्वः।
स्वपरविविधबन्धनातिबद्धः शतगुणमुत्सहमर्हति प्रकर्त्तुम्॥२८॥

शिरसि महान्तं सत्त्वभारं विनिधाय बोधिसत्त्वः शिथिलं पराक्रममाणो न शोभते। शतगुणं हि स वीर्यं कर्तुमर्हति श्रावकवीर्यात् तथा हि स्वपरबन्धनैर्विविधैरत्यर्थं बद्धः क्लेशकर्मजन्मस्वभावैः।

॥ महायानसूत्रालंकारे चित्तोत्पादाधिकारश्चतुर्थः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project