Digital Sanskrit Buddhist Canon

तृतीयोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tṛtīyo'dhikāraḥ

तृतीयोऽधिकारः

गोत्रप्रभेदसंग्रहश्लोकः
सत्त्वाग्रत्वं स्वभावश्च लिङ्गं गोत्रप्रभेदता।
आदीनवोऽनुशंसश्च द्विधौपम्यं चतुर्विधा॥१॥

अनेन गोत्रस्यास्तित्वमग्रत्वं स्वभावो लिङ्गं भेद आदीनप्रवोऽनुशंसो द्विधौपम्यं चेत्येष प्रभेदः संगृहीतः। एते च प्रभेदाः प्रत्येकं चतुर्विधाः।

अनेन गोत्रास्तित्वविभागे श्लोकः।
धातूनामधिमुक्तेश्च प्रतिपत्तेश्च भेदतः।
फलभेदोपलब्धेश्च गोत्रास्तित्वं निरूप्यते॥२॥

नानाधातुकत्वात्सत्त्वानामपरिमाणो धातुप्रभेदो यथोक्तमक्षराशिसूत्रे। तस्मादेवंजातीयको ऽपि धातुभेदः प्रत्येतव्यः इति। अस्ति यानत्रये गोत्रभेदः। अधिमुक्तिभेदो ऽपि सत्त्वानामुपलभ्यते। प्रथमत एव कस्यचित् क्वचिदेव यानेऽधिमुक्तिर्भवति। सोऽन्तरेण गोत्रभेदं न स्यात्। उत्पादितायामपि च प्रत्ययवशेनाधिमुक्तौ प्रतिपत्तिभेद उपलभ्यते कश्चिन्निर्बोढा भवति कश्चिन्नेति सो ऽन्तरेण गोत्रप्रभेदं न स्यात्। फलभेदश्चोपलभ्यते हीनमध्यविशिष्टा बोधयः। सो ऽन्तरेण गोत्रभेदं न स्यात् बीजानुरूपत्वात् फलस्य।

अग्रत्वविभागे श्लोकः।
उदग्रत्वेऽथ सर्वत्वे महार्थत्वेऽक्षयाय च।
शुभस्य तन्निमित्तत्वात् गोत्रग्रत्वं विधीयते॥३॥

अत्र गोत्रस्य चतुर्विधेन निमित्तत्वेनाग्रत्वं दर्शयति। तद्धि गोत्रं कुशलमूलानामुदग्रत्वे निमित्तं, सर्वत्वे, महार्थत्वे, अक्षयत्वे च। न हि श्रावकाणां तथोदग्राणि कुशलमूलानि, न च सर्वाणि सन्ति, बलवैशारद्याद्यभावात्। न च महार्थान्यपरार्थत्वात्। न चाक्षयाण्यनुपधिशेषनिर्वाणावसानत्वात्।

लक्षणविभागे श्लोकः।
प्रकृत्या परिपुष्टं च आश्रयश्चाश्रितं च तत्।
सदसच्चैव विज्ञेयं गुणोत्तारणतार्थतः॥४॥

एतेन चतुर्विधं गोत्रं दर्शयति। प्रकृतिस्थं समुदानीतमाश्रयस्वभावमाश्रितस्वभावं च तदेव यथाक्रमम्। तत्पुनर्हेतुभावेन सत् फलभावेनासत् गुणोत्तारणार्थेन गोत्रं वेदितव्यं गुणा उत्तरन्त्यस्मादुद्भवन्तीति कृत्वा।

लिङ्गविभागे श्लोकः।
कारुण्यमधिमुक्तिश्च क्षान्तिश्चादिप्रयोगतः।
समाचारः शुभस्यापि गोत्रलिङ्गं निरूप्यते॥५॥

चतुर्विधं लिङ्गं बोधिसत्त्वगोत्रे। आदिप्रयोगत एव कारुण्यं सत्त्वेषु। अधिमुक्तिर्महायानधर्मे। क्षान्तिर्दुष्करचर्यायां सहिष्णुतार्थेन। समाचारश्च पारमितामयस्य कुशलस्येति।

प्रभेदविभागे श्लोकः।
नियतानियतं गोत्रमहार्यं हार्यमेव च।
प्रत्ययैर्गोत्रभेदो ऽयं समासेन चतुर्विधः॥६॥

समासेन चतुर्विधं गोत्रं नियतानियतं तदेव यथाक्रमं प्रत्ययैरहार्यं हार्यं चेति। आदीनवविभागे श्लोकः।

क्लेशाभ्यासः कुमित्रत्वं विघातः परतन्त्रता।
गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः॥७॥

बोधिसत्त्वगोत्रे समासेन चतुर्विध आदीनवो येन गोत्रस्थोऽगुणेषु प्रवर्तते। क्लेशबाहुल्यम्, अकल्याणमित्रता, उपकरणविघातः, पारतन्त्र्यं च।

अनुशंसविभागे श्लोकः।
चिरादपायगमनमाशुमोक्षश्च तत्र च।
तनुदुःखोपसंवित्तिः सोद्वेगा सत्त्वपाचना॥८॥

चतुर्विधो बोधिसत्त्वस्य गोत्रेऽनुशंसः। चिरेणापायान् गच्छति। क्षिप्रं च तेभ्यो मुच्यते। मृदुकं च दुःखं तेषूपपन्नः प्रतिसंवेदयते। संविग्नचेतास्तदुपपन्नांश्च सत्त्वान्करुणायमानः परिपाचयति।

महासुवर्णगोत्रौपम्ये श्लोकः।
सुवर्णगोत्रवत् ज्ञेयममेयशुभताश्रयः।
ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः॥९॥

महासुवर्णगोत्रं हि चतुर्विधस्य सुवर्णस्याश्रयो भवति। प्रभूतस्य, प्रभास्वरस्य, निर्मलस्य, कर्मण्यस्य च। तत्साधर्म्येण बोधिसत्त्वगोत्रमप्रमेयकुशलमूलाश्रयः। ज्ञानाश्रयः। क्लेशनैर्मल्याप्राप्त्याश्रयः। अभिज्ञादिप्रभावाश्रयश्च। तस्मान्महासुवर्णगोत्रोपमं वेदितव्यम्।

महारत्नगोत्रौपम्ये श्लोकः।
सुरत्नगोत्रवज्ज्ञेयं महाबोधिनिमित्ततः।
महाज्ञानसमाध्यार्यमहासत्त्वार्थनिश्रयात्॥१०॥

महारत्नगोत्रं हि चतुर्विधरत्नाश्रयो भवति। जात्यस्य वर्णसंपन्नस्य संस्थानसंपन्नस्य प्रमाणसंपन्नस्य च। तदुपमं बोधिसत्त्वगोत्रं वेदितव्यम्, महाबोधिनिमित्तत्वात्, महाज्ञाननिमित्तत्वात्, आर्यसमाधिनिमित्तत्वात्, चित्तस्य हि संस्थितिः समाधिः, महासत्त्वपरिपाकनिमित्तत्वाच्च बहुसत्त्वपरिपाचनात्।

अगोत्रस्थविभागे श्लोकः।
ऐकान्तिको दुश्चरिते ऽस्ति कश्चित्
कश्चित् समुद्‍घातितशुक्लधर्मा।
अमोक्षभागीयशुभोऽस्ति कश्चिन्
निहीनशुक्लोऽस्त्यपि हेतुहीनः॥११॥

अपरिनिर्वाणधर्मक एतस्मिन्नगोत्रस्थोऽभिप्रेतः। स च समासतो द्विविधः। तत्कालापरिनिर्वाणधर्मा अत्यन्तं च। तत्कालापरिनिर्वाणधर्मा चतुर्विधः। दुश्चरितैकान्तिकः, समुच्छिन्नकुशलमूलः, अमोक्षभागीयकुशलमूलः, हीनकुशलमूलश्चापरिपूर्णसंभारः। अत्यन्तापरिनिर्वाणधर्मा तु हेतुहिनो यस्य परिनिर्वाणगोत्रमेव नास्ति।

प्रकृतिपरिपुष्टगोत्रमाहात्म्ये श्लोकः।
गाम्भीर्यौदार्यवादे परहितकरणायोदिते दीर्घधर्मे
अज्ञात्वैवाधिमुक्तिर्भवति सुविपुला संप्रपत्तिक्षमा च।
संपत्तिश्चावसाने द्वयगतपरमा यद्भवत्येव तेषां
तज्ज्ञेयं बोधिसत्त्वप्रकृतिगुणवतस्तत्प्रपुष्टाच्च गोत्रात्॥१२॥

यद्‍गाभी[म्भी]र्योदार्यवादिनि परहितक्रियार्थमुक्ते विस्तीर्णे महायानधर्मे गाम्भीर्यौदार्यार्थमज्ञात्वैवाधिमुक्तिर्विपुला भवति, प्रतिपत्तौ चोत्साहः[चाखेदः] संपत्तिश्चावसाने महाबोधिर्द्वयगतायाः संपत्तेः परमा, तत्प्रकृत्या गुणवतः परिपुष्टस्य च बोधिसत्त्वगोत्रस्य माहात्म्यं वेदितव्यम्। द्वयगता इति द्वये लौकिकाः श्रावकाश्च। परमेति विशिष्टा।

फलतो गोत्रविशेषणे श्लोकः।
सुविपुलगुणबोधिवृक्षवृद्ध्यै घनसुखदुःखशमोपलब्धये च।
स्वपरहितसुखक्रिया फलत्वाद् भवति समुदग्र[समूलमुदग्र]गोत्रमेतत्॥१३॥

स्वपरहितफलस्य बोधिवृक्षस्य प्रशस्तमूलत्वमनेन बोधिसत्त्वगोत्रं संदर्शितम्।

॥ महायानसूत्रालंकारे गोत्राधिकारस्तृतीयः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project