Digital Sanskrit Buddhist Canon

द्वितीयोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Dvitīyo'dhikāraḥ
द्वितीयोऽधिकारः

शरणगमनविशेषसंग्रहश्लोकः।
रत्नानि यो हि शरणप्रगतोऽत्र याने
ज्ञेयः स एव परमः शरण[णं] गतानाम्।
सर्वत्रगाभ्युपगमाधिगमाभिभूति-
भेदैश्चतुर्विधमयार्थविशेषणेन॥१॥

स एव परमः शरणं गतानामिति। केन कारणेन। चतुर्विधस्वभावार्थविशेषणेन। चतुर्विधोऽर्थः सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदतो वेदितव्यः। सर्वत्रगार्थः। अभ्युपगमार्थः। अधिगमार्थः। अभिभवार्थः। ते पुनरुत्तरत्र निर्देक्ष्यन्ते।

तथाप्यत्र शरणप्रगतानां बहुदुष्करकार्यत्वात् केचिन्नोत्सहन्ते। श्लोकः।

यस्मादादौ दुष्कर एष व्यवसायो
दुःसाधोऽसौ नैकसहस्रैरपि कल्पैः।
सिद्धो यस्मात्सत्त्वहिताधानमहार्थ-
स्तस्मादग्रे यान इहाग्रशरणार्थः॥२॥

एतेन तस्य शरणगमनव्यवसायस्य प्रणिधानप्रतिपत्तिविशेषाभ्यां यशोहेतुत्वं दर्शयति। फलप्राप्तिविशेषेण महार्थत्वम्।

पूर्वाधिकृते सर्वत्रगार्थे श्लोकः।

सर्वान् सत्त्वांस्तारयितुं यः प्रतिपन्नो
याने ज्ञाने सर्वगते कौशल्ययुक्तः।
यो निर्वाणे संसरणेऽप्येकरसोऽसौ [संसृतिशान्त्येकरसोऽसौ]
ज्ञेयो धीमानेष हि सर्वत्रग एवम्॥३॥

एतेन चतुर्विधं सर्वत्रगार्थं...........................

असांकेतिकं धर्मताप्रातिलम्भिकं चेति प्रभेदलक्षणा प्रवृत्तिरौदारिकसूक्ष्मप्रभेदेन।

शरणप्रतिपत्तिविशेषणे श्लोकः।

शरणगतिमिमां गतो महार्थां
गुणगणवृद्धिमुपैति सोऽप्रमेयाम्।
स्फुरति जगदिदं कृपाशयेन
प्रथयति चाप्रतिमं महा[र्य]धर्मम्॥४॥

अत्र शरणगमनस्थां महार्थतां स्वपरार्थप्रतिपत्तिभ्यां दर्शयति। स्वार्थप्रतिपत्तिः पुनर्बहुप्रकाराऽप्रमेयगुणवृद्ध्या। अप्रमेयत्वं तर्कसंख्याकालाप्रमेयतया वेदितव्यम्। न हि सा गुणवृद्धिस्तर्केण प्रमेया न संख्यया न कालेनात्यन्तिकत्वात्। परार्थप्रतिपत्तिराशयतश्च करुणास्फुरणेन प्रयोगतश्च महायानधर्मप्रथनेन। महायानं हि महार्यदृशां धर्मः।

॥ महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project