Digital Sanskrit Buddhist Canon

प्रथमोऽधिकारः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Prathamo'dhikāraḥ

महायानसूत्रालंकारः

॥ओं॥
नमः सर्वबुद्धबोधिसत्त्वेभ्यः

प्रथमोऽधिकारः

अर्थज्ञोऽर्थविभावनां प्रकुरुते वाचा पदैश्चामलै-
र्दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः।
धर्मस्योत्तमयानदेशितविधेः सत्त्वेषु तद्‍गामिषु
श्लिष्टामर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन्॥१॥

अर्थज्ञोऽर्थविभावनां प्रकुरुते.........[इत्यादि] कोषदेशमारभ्य कोऽलंकरोति। अर्थज्ञः। कमलंकारमलंकरोति अर्थविभावनां कुरुते। केन वाचा पदैश्चामलैः। अमलया वाचेतिष........[पौर्यादिना] अमलैः पदैरिति युक्तैः सहितैरिति विस्तरः। न हि विना वाचा पदव्यञ्जनैरर्थो विभावयितुं शक्यत इति। कस्मै दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः। दुःखितजने यत्कारुण्यं तस्मात्कारुण्यतस्तन्मय इति कारुण्यमयः। कस्यालंकारं करोति। धर्मस्योत्तमयानदेशितविधेः। उत्तमयानस्य देशितो विधिर्यस्मिन्धर्मे तस्य धर्मस्य। कस्मिन्नलंकरोति। सत्त्वेषु तद्‍गामिषु। निमित्तसप्तम्येषा.........[महायान]गामिसत्त्वनिमित्तमित्यर्थः। कतिविधमलंकारं करोति। पञ्चविधम्। श्लिष्टामर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन्। श्लिष्टामिति युक्ताम्। निरुत्तरगतामित्यनुत्तरज्ञान[यान]गताम्।

तामिदानीं पञ्चात्मिकामर्थगतिं द्वितीयेन श्लोकेन दर्शयति।
घटितमिव सुवर्णं वारिजं वा विबुद्धं
सुकृतमिव सुभोज्यं भुज्यमानं क्षुधार्तैः।
विदित इव सुलेखो रत्नपेटेव मुक्ता
विवृत इह स धर्मः प्रीतिमग्र्यां दधाति॥२॥

अनेन श्लोकेन पञ्चभिर्दृष्टान्तैः स हि धर्मः पञ्चविधमर्थमधिकृत्य देशितः साध्यं व्युत्पाद्यं चिन्त्यमचिन्त्यं परिनिष्पन्नं चाधिगमार्थं प्रत्यात्मवेदनीयं बोधिपक्षस्वभावम्। सोऽनेन सूत्रालंकारेण विवृतः प्रीतिमग्र्यां दधाति। यथाक्रमं घटितसुवर्णादिवत्।

यदा स धर्मः प्रकृत्यैव गुणयुक्तः कथं सोऽलंक्रियत इत्यस्य चोद्यस्य परिहारार्थं तृतीयः श्लोकः।

यथा बिम्बं भूषाप्रकृतिगुणवद्दर्पणगतं
विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात्।
तथा धर्मः सूक्तप्रकृतिगुणयुक्तोऽपि सततं
विभक्तार्थस्तुष्टिं जनयति विशिष्टामिह सताम्॥३॥

अनेन किं दर्शयति। यथा बिम्बं भूषया प्रकृत्यैव गुणवत् आदर्शगतं दर्शनवशाद्विशिष्टं प्रामोद्यं जनयत्येवं स धर्मः सुभाषितैः प्रकृत्यैव गुणयुक्तोऽपि सततं विभक्तार्थस्तुष्टिं विशिष्टां जनयति। बुद्धिमतामतस्तुष्टिविशेषोत्पादनादलंकृत इव भवतीति।

अतः परं त्रिभिः श्लोकैस्तस्मिन्धर्मे त्रिविधमनुशंसं दर्शयत्यादरोत्पादनार्थम्।
आघ्रायमाणकटुकं स्वादुरसं यथौषधं तद्वत्।
धर्म[र्मो] द्वयव्यवस्था[स्थो] व्यञ्जनतोऽर्थो न च[र्थतश्च]ज्ञेयः॥४॥

राजेव दुराराधो धर्मो ऽयं विपुलगाढगम्भीरः।
आराधितश्च तद्वद्वरगुणधनदायको भवति॥५॥

रत्नं जात्यमनर्थं[र्घं]यथाऽपरीक्षकजनं न तोषयति।
धर्मस्तथायमबुघं विपर्ययात्तोषयति तद्वत्॥६॥

त्रिविधो ऽनुशंसः। आवरणप्रहाणहेतुत्वमौषधोपमत्वेन। द्वयव्यवस्थ इति व्यञ्जनार्थव्यवस्थः। विभुत्वहेतुत्वमभिज्ञादिवैशेषिकगुणैर्श्वर्यदानाद्राजोपमत्वेन। आर्यध[ज]नोपभोगहेतुत्वं च अनर्थ[र्घ]जात्यरत्नोपमत्वेन। परीक्षकजन आर्यजनो वेदितव्यः।

नैवेदं महायानं बुद्धवचनं कुतस्तस्यायमनुशंसो भविष्यतीत्यत्र विप्रतिपन्नास्तस्य बुद्धवचनत्वप्रसाधनार्थं कारणविभाज्यमारभ्य श्लोकः।

आदावव्याकरणात्समप्रवृत्तेरगोचरात्सिद्धेः।
भावाभावे ऽभावात्प्रतिपक्षत्वाद्रुतान्यत्वात्॥७॥

आदावव्याकरणात् यद्येतत्सद्धर्मान्तरायिपश्चात्केनाप्युत्पादितम्। कस्मादादौ भगवता न व्याकृतमनागतभय[भंग]वत्। समप्रवृत्तेः समकालं च श्रावकयानेन महायानस्य प्रवृत्तिरुपलभ्यते न पश्चादिति कथमस्याबुद्धवचनत्वं विज्ञायते। अगोचरान्नायमेवमुदारो गम्भीरश्च धर्मस्तार्किकाणां गोचरः। तीर्थिकशास्त्रेषु तत्प्रकारानुपलम्भादिति। नायमन्यैर्भाषितो युज्यते। उच्यमानेऽपि तदनधिमुक्तेः। सिद्धेरथान्येनाभिसंबुध्य भाषितः। सिद्धमस्य बुद्धवचनत्वम्। स एव बुद्धो योऽभिसंबुध्य एवं भाषते। भावाभावे ऽभावाद्यदि महायानं किंचिदस्ति तस्य भाव[वे] सिद्धमिदं बुद्धवचनमतोऽन्यस्य महायानस्याभावात्। अथ नास्ति तस्याभावे श्रावकयानस्याप्यभावात्। श्रावकयानं बुद्धवचनं न महायानमिति न युज्यते विना बुद्धयानेन बुद्धानामनुत्पादात्। प्रतिपक्षत्वात्। भाव्यमानं च महायानं सर्वनिर्विकल्पज्ञानाश्रयत्वेन क्लेशानां प्रतिपक्षो भवति तस्माद् बुद्धवचनम्। रुतान्यत्वात्। न चास्य यथारुतमर्थस्तस्मान्न यथारुतार्थानुसारेणेदमबुद्धवचनं वेदितब्यम्।

यदुक्तमादावव्याकरणादित्यनाभोगादेतदनागतां भगवता न व्याकृतमिति कस्यचित् स्यादत उपेक्षाया अयोगे श्लोकः।

प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः।
अध्मन्यनावृतज्ञाना उपेक्षातो न युज्यते॥८॥

अनेन किं दर्शयति। त्रिभिः कारणैरनागतस्य महतः शासनोपद्रवस्योपेक्षा न युज्यते। बुद्धानामयत्नतो ज्ञानप्रवृत्तेः प्रत्यक्षचक्षुष्कतया शासनरक्षायाश्च[यां च] यत्नवत्वात्। अनागतज्ञानसमर्थ्याच्च सर्वकालाव्याहतज्ञानतयेति।

यदुक्तं भावाभावे ऽभावादिति। एतदेव श्रावकयानं महायानमेतेनैव महाबोधिप्राप्तिरिति कस्यचित्स्यादतः श्रावकयानस्य महायानत्वायोगे श्लोकः।

वैकल्यतो विरोधादनुपायत्वात्तथाप्यनुपदेशात्।
न श्रावकयानमिदं भवति महायानधर्माख्यम्॥९॥

वैकल्यात्परार्थोपदेशस्य। न हि श्रावकयाने कश्चित्परार्थ उपदिष्टः श्रावकाणामात्मनो निर्विद्विरागविमुक्तिमात्रोपायोपदेशात्। न च स्वार्थ एव परेषूपदिश्यमानः परार्थो भवितुमर्हति। विरोधात्। स्वार्थे हि परो नियुज्यमानः स्वार्थ एव प्रयुज्यते स आत्मन एव परिनिर्वाणार्थप्रयुक्तो ऽनुत्तरां सम्यक्‌संबोधिमभिसंभोत्स्यत इति विरुद्धमेतत्। न च श्रावकयानेनैव चिरकालं बोधौ घटमानो बुद्धो भवितुमर्हति। अनुपायत्वात्। अनुपायो हि श्रावकयानं बुद्धत्वस्य न चानुपायेन चिरमपि प्रयुज्यमानः प्रार्थितमर्थं प्राप्नोति। श्रृङ्गादिव दुग्धं न भस्रया[भस्रायाः]। अथान्यथाप्यत्रोपदिष्टं यथा बोधिसत्त्वेन प्रयोक्तव्यम्। तथाप्यनुपदेशान्न श्रावकयानमेव महायानं भवितुर्महति। न हि स तादृश उपदेश एतस्मिन्नुपलभ्यते।

विरुद्धमेव चान्योन्यं श्रावकयानं महायानं चेत्यन्योन्यविरोधे श्लोकः।
आशयस्योपदेशस्य प्रयोगस्य विरोधतः।
उपस्तम्भस्य कालस्य यत् हीनं हीनमेव तत्॥१०॥

कथं विरुद्धम्। पञ्चभिर्विरोधैः। आशयोपदेशप्रयोगोपस्तम्भकालविरोधैः। श्रावकयाने ह्यात्मपरिनिर्वाणायैवाशयस्तदर्थमेवोपदेशस्तदर्थमेव प्रयोगः परीत्तश्च पुण्यज्ञानसंभारसंगृहीत उपस्तम्भः, कालेन चाल्पेन तदर्थप्राप्तिर्यावत्त्रिभिरपि जन्मभिः। महायाने तु सर्वं विपर्ययेण। तस्मादन्योन्यविरोधाद् यद् यानं हीनं हीनमेव तत्। न तन्महायानं भवितुमर्हति।

बुद्धवचनस्येदं लक्षणं यत्सूत्रेऽवतरति विनये संदृश्यते धर्मतां च न विलोमयति। न चैवं महायानम्, सर्वधर्मनिःस्वभावत्वोपदेशात्। तस्मान्न बुद्धवचनमिति कस्यचित्स्यादतो लक्षणाविरोधे श्लोकः।

स्वके ऽवतारात्स्वस्यैव विनये दर्शनादपि।
औदार्यादपि गाम्भीर्यादविरुद्धैव धर्मता॥११॥

अनेन श्लोकेन किं दर्शयति। अवतरत्येवेदं स्वस्मिन् महायानसूत्रे स्वस्य च क्लेशस्य[क्लेशः ?] विनयः[विनये]संदृश्यते। यो महायाने बोधिसत्त्वानां क्लेशः उक्तः। विकल्पक्लेशा हि बोधिसत्त्वाः। औदार्यगाम्भीर्यलक्षणत्वाच्च। न धर्मतां विलोमयत्यथैव हि धर्मता महाबोधिप्राप्तये तस्मान्नास्ति लक्षणविरोधः।

अगोचरादित्युक्तमतर्स्तकगोचरत्वायोगे श्लोकः।
निश्रितो ऽनियतो ऽव्यापी सांवृतः खेदवानपि।
बालाश्रयो मतस्तर्कस्तस्यातो विषयो न तत्॥१२॥

अदृष्टसत्याश्रयो हि तर्कः कश्चिदागमनिश्रितो भवति। अनियतश्च भवति कालान्तरेणान्यथाप्रत्यवगमात्। अव्यापी च न सर्वज्ञेयविषयः। संवृतिसत्यविषयश्च न परमार्थविषयः। खेदवांश्च प्रतिभानपर्यादानात्। महायानं तु न निश्रितं यावदखेदवत्। शतसाहस्रिकाद्यनेकसूत्रोपदेशात्। अतो न तर्कस्य तद्विषयः।

अनुपायत्वात् श्रावकयाने न बुद्धत्वं प्राप्तमित्युक्तम्, अथ महायानं कथमुपायो युक्त इत्युपायत्वयोगे श्लोकः।

औदार्यादपि गाम्भीर्यात्परिपाको ऽविकल्पना।
देशनाऽतो द्वयस्यास्मिन् स चोपायो निरुत्तरे॥१३॥

अनेन श्लोकेन किं दर्शयति। प्रभावौदार्यदेशनया सत्त्वानां परिपाकः प्रभावाधिमुक्तितो घटनात्। गाम्भीर्यदेशनया अविकल्पना, अत एतस्य द्वयस्यास्मिन् महायाने देशना। स चोपायो निरुत्तरे ज्ञाने, ताभ्यां यथाक्रमं सत्त्वानां परिपाचनादात्मनश्च बुद्धधर्मपरिपाकादिति।

ये पुनरस्मात् त्रसन्ति तदर्थमस्थानत्रासादीनवे कारणत्वेन श्लोकः।

तदस्थानत्रासो भवति जगतां दाहकरणो
महाऽपुण्यस्कन्धप्रसवकरणाद्दीर्घसमयम्।
अगोत्रो ऽसन्मित्रो ऽकृतमतिरपूर्वाऽचित्तशुभ-
स्त्रसत्यस्मिन् धर्मे पतति महतो ऽर्थाद्‍गत् इह॥१४॥

त्रासास्थाने त्रासस्तदस्थानत्रासः। दाहकरणो भवत्यपायेषु। किं कारणम्। महतः अपुण्यस्कन्धप्रसवस्य करणात्। कियन्तं कालमिति दीर्घसमयम्। एवं पश्चादादीनवः। येन च कारणेन यावन्तं च कालं तत् संदर्शयति। किं पुनः कारणे तु सतीति चतुर्विधं त्रासकारणं दर्शयति। गोत्रं चास्य न भवति सन्मित्रं वा अव्युत्पन्नमतिर्वा भवति महायानधर्मतायां पूर्वं वानुपचितशुभो भवति। पतति महतो ऽर्थादिति महाबोधिसंभारार्थात्। अप्राप्तपरिहाणितो ऽपरमादीनवं दर्शयति।

त्रासकारणमुक्तमत्रासकारणं वक्तव्यमित्यत्रासकारणत्वे श्लोकः।

तदन्यान्या[न्यस्या ?]भावात्परमगहनत्वादनुगमात्
विचित्रस्याख्यानाद् ध्रुवकथनयोगाद्वहुमुखात्।
यथाख्यानं नार्थाद्भगवति च भावातिगहनात्
न धर्मे ऽस्मिंस्त्रासो भवति विदुषां योनिविचयात्॥१५॥

तदन्यान्या[न्यस्या ?]भावादिति ततोऽन्यस्य महायानस्याभावात्। अथ श्रावकयानमेव महायानं स्यादन्यस्य श्रावकस्य प्रत्येकबुद्धस्य वाभावः स्यात्। सर्व एव हि बुद्धा भवेयुः। परमगहनत्वाच्च। सर्वज्ञज्ञानमार्गस्यानुगमाच्च तुल्यकालप्रवृत्त्या। विचित्रस्याख्यानात्। विचित्रश्चात्र संभा[सा ?]रमार्ग आख्यायते न केवलं शून्यतैव। तस्माद[आ]भिप्रायिकेनानेन भवितव्यमिति। ध्रुवकथनयोगाद्, बहुमुखादभीक्ष्णं चात्र शून्यता कथ्यते बहुमिश्च पर्यायैस्तेषु तेषु सूत्रान्तेषु तस्माद्भवितव्यमत्र महता प्रयोजनेन। अन्यथा हि सत्कृत्प्रतिषेधमात्रकृतमभबिष्यदिति। यथाख्यानं नार्थात् न चास्य यथारुतमर्थो ऽस्मादपि त्रासो न युक्तः। भगवति च भावातिगहनादतिगहनश्च बुद्धानां भावो दुराज्ञेयस्तस्मान्नास्माभिस्तदज्ञानात्त्रसितव्यमिति। एवं योनिशः प्रविचयाद्विदुषां त्रासो न भवति।

दूरानुप्रविष्टज्ञानगोचरत्वे श्लोकः।

श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो
मनस्काराज्ज्ञानं प्रभवति च तत्त्वार्थविषयम्।
ततो धर्मप्राप्तिः प्रभवति च तस्मिन्मतिरतो
यदा प्रत्यात्मं सा कथमसति तस्मिन्व्यवसितिः॥१६॥

श्रुतं निश्रित्यादौ मनस्कारः प्रभवति यो योनिश इत्यर्थः। योनिशो मनस्कारात्तत्त्वार्थविषयं ज्ञानं प्रभवति लोकोत्तरा सम्यग्दृष्टिः, ततस्तत्फलस्य धर्मस्य प्राप्तिः, ततस्तस्मिन् प्राप्ते मतिर्विमुक्तिज्ञानं प्रादुर्भवति। एवं यदा प्रत्यात्मं सा मतिर्भवति, कथमसति तस्मिन्नेषा व्यवसितिर्निश्चयो भवति नैवेदं बुद्धवचनमिति।

अत्रासपदस्थानत्वे श्लोकः।

अहं न बोद्धा न गभीरबोद्धा बुद्धौ गभीरं किमतर्कगम्यम्।
कस्माद् गभीरार्थविदां च मोक्ष इत्येतदुत्त्रासपदं न युक्तम्॥१७॥

यदि तावदहमस्य न बोद्धेत्युत्त्रासपदम्, तन्न युक्तम्। अथ बुद्धोऽपि गम्भी[भी ?] रस्य पदार्थस्य न बोद्धा स किं गभीरं देशयिष्यतीत्युत्त्रासपदम्, तदयुक्तम्। अथ गम्भी[भी]रं कस्मादतर्कगम्यमित्युत्त्रासपदम्, तन्न युक्तम्। अथ कस्माद् गभीरार्थविदामेव मोक्षो न तार्किकाणामित्युत्त्रासपदम्, तन्न युक्तम्।

अनधिमुक्तित एव तत्सिद्वौ श्लोकः।
हीनाधिमुक्तेः सुनिहीनधातो-
र्ही नैः सहायैः परिवारितस्य।
औदार्यगाम्भीर्यसुदेशितेऽस्मिन्
धर्मेऽधिमुक्तिर्यदि नास्ति सिद्धम्॥१८॥

यस्य हीना चाधिक[चाधि]मुक्तिः, ततश्च हीन एव धातुः समुदागत आलयविज्ञानभावना। हीनैरेव सहायैः समानाधिमुक्तिधातुकैर्यः परिवारितस्तस्यास्मिन्नौदार्यगाम्भीर्यसुदेशिते महायानधर्मे यद्यधिमुक्तिर्नास्ति, अत एव सिद्धमुत्कृष्टमिदं महायानमिति।

अश्रुतसूत्रान्तप्रतिक्षेपायोगे श्लोकः।
श्रुतानुसारेण हि बुद्धिमत्तां
लब्ध्वाऽश्रुते यः प्रकरोत्यवज्ञाम्।
श्रुते विचित्रे सति चाप्रमेये
शिष्टे कुतो निश्चयमेति मूढः॥१९॥

कामं तावदधिमुक्तिर्न स्यादश्रुतानां तु सूत्रान्तानामविशेषेण प्रतिक्षेपो न युक्तः। श्रुतानुसारेणैव हि बुद्धिमत्त्वं लब्ध्वा यः श्रुत एवावज्ञां करोति मूढः स सत्येवावशिष्टे श्रुते विचित्रे चाप्रमेये च कुतः कारणान्निश्चयमेति न तद्‍बुद्धवचनमिति। न हि तस्य श्रुतादन्यब्दलमस्ति तस्मादश्रुत्वा प्रतिक्षेपो न युक्तः।

यदपि च श्रुतं तद्योनिशो मनसि कर्तव्यं नायोनिश इत्ययोनिशोमनसिकारादीनवे श्लोकः।

यथारुते ऽर्थे परिकल्प्यमाने
स्वप्रत्ययो हानिमुपैति बुद्धेः।
स्वाख्याततां च क्षिपति क्षतिं च
प्राप्नोति धर्मे प्रतिघावतीव[प्रतीघातमेव]॥२०॥

स्वप्रत्यय इति स्वयंदृष्टिपरामर्शको, न विज्ञानामन्तिकादर्थपर्येषी। हानिमुपैति बुद्धेरिति यथाभू[रु]तज्ञानादप्राप्तिपरिहानितः। धर्मस्य च स्वाख्याततां प्रतिक्षिपति तन्निदानं चापुण्यप्रभावात् क्षतिं प्राप्नोति। धर्मे च प्रतिघातमावरणं च धर्मव्यसनसंवर्तनीयं कर्मेत्ययमत्रादीनवः।

अयथावतश्चा[अयथारुतञ्चा]र्थमविजानतोऽपि प्रतिघातो न युक्त इति प्रतिघातायोगे श्लोकः।

मनः प्रदोषः प्रकृतिप्रदुष्टो-
[ऽयथारुते चापि]ह्ययुक्तरूपः।
प्रागेव संदेहगतस्य धर्मे
तस्मादुपेक्षैव वरं ह्यदोषा॥२१॥

प्रकृतिप्रदुष्ट इति प्रकृतिसावद्यः। तस्मादुपेक्षैव वरम्। कस्मात्। सा ह्यदोषा। प्रतिघातस्तु सदोषः।

॥महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project