Digital Sanskrit Buddhist Canon

यानाऽनुत्तर्यपरिच्छेदः पञ्चमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Yānā'nuttaryaparicchedaḥ pañcamaḥ
यानाऽनुत्तर्यपरिच्छेदः पञ्चमः



आनुत्तर्यंप्रपत्तौ हि पुनरालम्बने मतम्।

समुदागम उद्दिष्टं प्रतिपत्तिस्तु षड्-विधा॥१॥



परमाऽथ मनस्कारे अनुधर्मेऽन्तवर्जने।

विशिष्टा चाविशिष्टा च परमा द्वादशात्मिका॥२॥



औदार्यमायतत्वञ्च अधिकरोऽक्षयात्मता।

नैरन्तर्यमकृच्छ्रत्वं वित्तत्वञ्च परिग्रहः॥३॥



आरम्भप्राप्तिनिष्यन्दनिष्पत्तिः परमा मता।

ततश्च परमार्थेन दश पारमिता मताः॥४॥



दानं शीलं क्षमा वीर्यं ध्यानं प्रज्ञा उपायता।

प्रणिधानं बलं ज्ञानमेताः पारमिता दश॥५॥



अनुग्रहोऽविघातश्च कर्म तस्य च मर्षणम्।

गुणवृद्धिश्च सामर्थ्यमवतारविमोचने॥६॥



अक्षयत्वं सदा वृत्तिर्नियतं भोगपाचने।

यथाप्रज्ञप्तितो धर्ममहायानमनस्क्रिया॥७॥



बोधिसत्त्वस्य सततं प्रज्ञया त्रिप्रकारया।

धातुपुष्टयैप्रवेशाय चार्थसिद्‍ध्यै भवत्यसौ॥८॥



संयुक्ता धर्मचरितैः सा ज्ञेया दशभिः पुनः।

लेखना पूजना दानं श्रवणं वाचनोद् ग्रहः॥९॥



प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावना च तत्।

अमेयपुण्यस्कन्धं हि चरितं तद् दशात्मकम्॥१०॥



विशेषादक्षयत्वाच्च परानुग्रहतोऽशमात्।

अविक्षिप्ताऽविपर्यासप्रणता चाऽनुधार्मिकी॥११॥



व्युत्थानं विषये सारस्तथास्वादलयोद्धवः।

सम्भावनाऽभिसन्धिश्च मनस्कारेऽप्यहंकृतिः॥१२॥



हीनचित्तञ्च विक्षेपः परिज्ञेयो हि धीमता।

व्यञ्जनाऽर्थमनस्कारेऽविसारे लक्षणद्वये॥१३॥



अशुद्धशुद्धावागन्तुकत्वेऽत्रासिताऽनुन्नतौ।

संयोगात् संस्तवाच्चैव वियोगादप्यसंस्तवात्॥१४॥



अर्थसत्त्वमसत्त्वञ्च व्यञ्जने सोऽविपर्ययः।

द्वयेन प्रतिभासत्वं तथा चाऽविद्यमानता॥१५॥



अर्थे स चाऽविपर्यासः सदसत्त्वेन वर्जितः।

तज्जल्पभावितो जल्पमनस्कारस्तदाश्रयः॥१६॥



मनस्कारेऽविपर्यासो द्वयप्रख्यानकारणे।

मायादिवदसत्त्वञ्च सत्त्वञ्चाऽर्थस्य तन्मतम्॥१७॥



सोऽविसारेऽविपर्यासो भावाऽभावाऽविसारतः।

सर्वस्य नाममात्रत्वं सर्वकल्पाऽप्रवृत्तये॥१८॥



स्वलक्षणेऽविपर्यासः परमार्थे स्वलक्षणे।

धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते॥१९॥



सामान्यलक्षणन्तस्मात् स च तत्राऽविपर्ययः।

विपर्यस्तमनस्काराऽविहानिपरिहाणितः॥२०॥



तदशुद्धिर्विशुद्धिश्च स च तत्राऽविपर्ययः।

धर्मधातोर्विशुद्धत्वात् प्रकृत्या व्योमवत्पुनः॥२१॥



द्वयस्यागन्तुकत्वं हि स च तत्राऽविपर्ययः।

संक्लेशश्च विशुद्धिश्च धर्मपुद्‍गलयोर्न हि॥२२॥



असत्त्वात् त्रासतामानौ नाऽतः सोऽत्राऽविपर्ययः।

पृथक्त्वैकत्वमन्तश्च तीर्थ्यश्रावकयोरपि॥२३॥



समारोपाऽपवादाऽन्तो द्विधा पुद्‍गलधर्मयोः।

विपक्षप्रतिपक्षाऽन्तः शाश्वतोच्छेदसंज्ञितः॥२४॥



ग्राह्यग्राहकसंक्लेशव्यवदाने द्विधा त्रिधा।

विकल्पद्वयताऽन्तश्च स च सप्तविधो मतः॥२५॥



भावाऽभावे प्रशाम्येऽथ शमने त्रास्यतद्भये।

ग्राह्यग्राहेऽथ सम्यक्त्वमिथ्यात्वे व्यापृतौ न च॥२६॥



अजन्मसमकालत्वे स विकल्पद्वयाऽन्तता।

विशिष्टा चाऽविशिष्टा च ज्ञेया दशसु भूमिषु॥२७॥



व्यवस्थानन्ततो धातुः साध्यसाधनधारणा।

अवधारप्रधारा च प्रतिवेधः प्रतानता॥२८॥



प्रगमः प्रशठत्वञ्च प्रकर्षालम्बनम्मतम्।

अवैकल्याऽप्रतिक्षेपोऽविक्षेपश्च प्रपूरणा॥२९॥



समुत्पादो निरूढिश्च कर्मण्यत्वाऽप्रतिष्ठिता।

निरावरणता तस्याऽप्रश्रब्धिसमुदागमः॥३०॥



शास्त्रं मध्यविभागं हि गूढसारार्थमेव च।

महार्थञ्चैव सर्वार्थं सर्वाऽनर्थप्रणोदनम्॥३१॥



॥इति यानानुत्तर्य परिच्छेदः पञ्चमः॥

समाप्ता मध्यान्तविभागकारिकाः
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project