Digital Sanskrit Buddhist Canon

तत्त्वपरिच्छेदस्तृतीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Tattvaparicchedastṛtīyaḥ
तत्त्वपरिच्छेदस्तृतीयः



मूललक्षणतत्त्वमविपर्यासलक्षणम्।

फलहेतुमयं तत्त्वं सूक्ष्मौदारिकमेव च॥१॥



प्रसिद्धं शुद्धिविषयं सङ्‍ग्राह्यं भेदलक्षणम्।

कौशल्यतत्त्वं दशधा आत्मदृष्टिविपक्षतः॥२॥



स्वभावस्त्रिविधोऽसच्च नित्यं सच्चाऽप्यतत्त्वतः।

सदसत्तत्त्वतश्चेति स्वभावत्रयमिष्यते॥३॥



समारोपाऽपवादस्य धर्मपुद्‍गलयोरिह।

ग्राह्यग्राहकयोश्चापि भावाऽभावे च दर्शनम्॥४॥



यज्‍ज्ञानान्न प्रवर्तेत तद्धि तत्त्वस्य लक्षणम्।

असदर्थो ह्यनित्यार्थ उत्पाददव्ययलक्षणः॥५॥



समलाऽमलभावेन मूलतत्त्वे यथाक्रमम्।

दुःखमादानलक्ष्माख्यं सम्बन्धेनाऽपरं मतम्॥६॥



अभावश्चाप्यतद्‍भावः प्रकृतिः शून्यता मता।

अलक्षणञ्च नैरात्म्यं तद्-विलक्षणमेव च॥७॥



स्वलक्षणञ्च निर्दिष्टं दुःखसत्यमतो मतम्।

वासनाऽथ समुत्थानमविसंयोग एव च॥८॥



स्वभावद्वयनोत्पत्तिर्मलशान्तिद्वयं मतम्।

परिज्ञायां प्रहाणे च प्राप्तिसाक्षात्कृतावयम्॥९॥



मार्गसत्यं समाख्यातं प्रज्ञप्तिप्रतिपत्तितः।

तथोद्‍भावनयौदारं परमार्थन्तु एकतः॥१०॥



अर्थप्राप्तिप्रपत्त्या हि परमार्थस्त्रिधा मतः।

निर्विकाराऽविपर्यासपरिनिष्पत्तितो द्वयम्॥११॥



लोकप्रसिद्धमेकस्मात् त्रयाद् युक्तिप्रसिद्धकम्।

विशुद्धगोचरं द्वेधा एकस्मादेव कीर्तितम्॥१२॥



निमित्तस्य विकल्पस्य नाम्नश्च द्वयसङ्‍ग्रहः।

सम्यग्ज्ञानसतत्त्वस्य एकेनैव च सङ्‍ग्रहः॥१३॥



प्रवृत्तितत्त्वं द्विविधं सन्निवेशकुपन्नता।

एकं लक्षणविज्ञप्तिशुद्धिसम्यक्प्रपन्नता॥१४॥



एकहेतुत्वभोक्तृत्वकर्तृत्ववशवर्तने।

आधिपत्यार्थनित्यत्वे क्लेशशुद्‍ध्याश्रयेऽपि च॥१५॥



योगित्वाऽमुक्तमुक्तत्वे आत्मदर्शनमेषु हि।

परिकल्पविकल्पार्थधर्मतार्थेन तेषु ते॥१६॥



अनेकत्वाऽभिसङ्‍क्षेपपरिच्छेदार्थ आदितः।

ग्राहकग्राह्यतद्‍ग्राहबीजार्थश्चाऽपरो मतः॥१७॥



वेदितार्थपरिच्छेदभोगायद्वारतोऽपरम्।

पुनर्हेतुफलायासानारोपाऽनपवादतः॥१८॥



अनिष्टेष्टविशुद्धीनां समोत्पत्त्याधिपत्ययोः।

सम्प्राप्तिसमुदाचारपारतन्त्र्यार्थतोऽपरम्॥१९॥



ग्रहणस्थानसन्धानभोगशुद्धिद्वयार्थतः।

फलहेतूपयोगार्थनोपयोगात्तथाऽपरम्॥२०॥



वेदनासनिमित्तार्थतन्निमित्तप्रपत्तितः।

तच्छमप्रतिपक्षार्थयोगादपरमिष्यते॥२१॥



गुणदोषाऽविकल्पेन ज्ञानेन परतः स्वयम्।

निर्याणादपरं ज्ञेयं सप्रज्ञप्तिसहेतुकात्॥२२॥



निमित्तात् प्रशमात् सार्थात् पश्चिमं समुदाहृतम्॥



॥इति तत्त्वपरिच्छेदस्तृतीयः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project