Digital Sanskrit Buddhist Canon

आवरणपरिच्छेदो द्वितीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Āvaraṇaparicchedo dvitīyaḥ
आवरणपरिच्छेदो द्वितीयः



व्यापि प्रादेशिकोद्रिक्तसमादानविवर्जनम्।

द्वयावरणमाख्यातं नवधा क्लेशलक्षणम्॥१॥



संयोजनान्यावरणमुद्वेगसमुपेक्षयोः।

तत्त्वदृष्टेश्च सत्कायदृष्टेस्तद्‍वस्तुनोऽपि च॥२॥



निरोधमार्गरत्नेषु लाभसत्कार एव च।

सङ्‍क्लेशस्य परिज्ञाने शुभादौ दशधाऽपरम्॥३॥



अप्रयोगोऽनायतनेऽयोगविहितश्च यः।

नोत्पत्तिरमनस्कारः सम्भारस्याऽप्रपूर्णता॥४॥



गोत्रमित्रस्य वैधुर्यं चित्तस्य परिखेदिता।

प्रतिपत्तेश्च वैधुर्यं कुदुष्टजनवासता॥५॥



दौष्ठुल्यमवशिष्टत्वं त्रयात् प्रज्ञाऽविपक्वता।

प्रकृत्या चैव दौष्ठुल्यं कौसीद्यं च प्रमादिता॥६॥



सक्तिर्भवे च भोगे च लीनचित्तत्वमेव च।

अश्रद्धाऽनधिमुक्तिश्च यथारुतविचारणा॥७॥



सद्धर्मेऽगौरवं लाभे गुरुताऽकृपता तथा।

श्रुतव्यसनमल्पत्वं समाध्यपरिकर्मिता॥८॥



शुभं बोधिः समादानं धीमत्त्वाऽभ्रान्त्यनावृती।

नृत्यत्रासोऽमत्सरित्वं वशित्वञ्च शुभादयः॥९॥



त्रीणि त्रीणि च एतेषां ज्ञेयान्यावरणानि हि।

पक्ष्यपारमिताभूमिष्वन्यदावरणं पुनः॥१०॥



वस्त्वकौशलकौसीद्यं समाधेर्द्वयहीनता।

अरोपणाऽथ दौर्बल्यं दृष्टिदौष्ठुल्यदुष्टता॥११॥



ऐश्वर्यस्याऽथ सुगतेः सत्त्वाऽत्यागस्य चावृतिः।

हानिवृद्‍ध्योश्च दोषाणां गुणानामवतारणे॥१२॥



विमोचनेऽक्षयत्वे च नैरन्तर्ये शुभस्य च।

नियतीकरणे धर्मसम्भोगपरिपाचने॥१३॥



सर्वत्रगार्थे अग्रार्थे निष्यन्दाग्रार्थ एव च।

निष्परिग्रहतार्थ च सन्तानाऽभेद एव च॥१४॥



निस्सङ्‍क्लेशविशुद्ध्यर्थेऽनानात्वार्थ एव च।

अहीनाऽनधिकार्थे च चतुर्धावशिताश्रये॥१५॥



धर्मधातावविद्येयमक्लिष्टा दशधावृतिः।

दशभूमिविपक्षेण प्रतिपक्षास्तु भूमयः॥१६॥



क्लेशावरणमाख्यातं ज्ञेयावरणमेव च।

सर्वाण्यावरणानीह यत्‍क्षयान्मुक्तिरिष्यते॥१७॥



॥इत्यावरणपरिच्छेदो द्वितीयः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project