Digital Sanskrit Buddhist Canon

लक्षणपरिच्छेदः प्रथमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Lakṣaṇaparicchedaḥ prathamaḥ
आर्य मैत्रेयप्रणीता मध्यान्तविभागकारिका



लक्षणपरिच्छेदः प्रथमः



लक्षणं ह्यावृतिस्तत्त्वं प्रतिपक्षस्य भावना।

तत्राऽवस्था फलप्राप्तिर्याना ऽऽनुत्तर्यमेव च॥१॥



अभूतपरिकल्पोऽस्ति द्वयं तत्र न विद्यते।

शून्यता विद्यते त्वत्र तस्यामपि स विद्यते॥२॥



न शून्यं नाऽपि चाऽशून्यं तस्मात् सर्वं विधीयते।

सत्त्वादसत्त्वात् सत्त्वाच्च मध्यमा प्रतिपच्च सा॥३॥



अर्थसत्त्वात्मविज्ञप्तिप्रतिभासं प्रजायते।

विज्ञानं नास्ति चास्यार्थस्तदभावात्तदप्यसत्॥४॥



अभूतपरिकल्पत्वं सिद्धमस्य भवत्यतः।

न तथा सर्वथाऽभावात् तत्क्षयान्मुक्तिरिष्यते॥५॥



कल्पितः परतन्त्रश्च परिनिष्पन्न एव च।

अर्थादभूतकल्पाच्च द्वयाऽभावाच्च देशितः॥६॥



उपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते।

नोपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते॥७॥



उपलब्धेस्ततः सिद्धा नोपलब्धिस्वभावता।

तस्माच्च समता ज्ञेया नोपलम्भोपलम्भयोः॥८॥



अभूतपरिकल्पश्च चित्तचैत्तास्त्रिधातुकाः।

तत्रार्थदृष्टिर्विज्ञानं तद्विशेषे तु चैतसाः॥९॥



एवं प्रत्ययविज्ञानं द्वितीयं चौपभोगिकम्।

उपभोगपरिच्छेदप्रेरकास्तत्र चैतसाः॥१०॥



छादनाद्रोपणाच्चैव नयनात्संपरिग्रहात्।

पूरणात् त्रिपरिच्छेदादुपभोगाच्च कर्षणात्॥११॥



निबन्धनादाभिमख्याद् दुःखनात् क्लिश्यते जगत्।

त्रेधा द्वेधा च संक्लेशः सप्तधाऽभूतकल्पनात्॥१२॥



लक्षणं चाऽथ पर्यायस्तदर्थो भेद एव च।

साधनञ्चेति विज्ञेयं शून्यतायाः समासतः॥१३॥



द्वयाऽभावो ह्यभावस्य भावः शून्यस्य लक्षणम्।

न भावो नाऽपि चाऽभाव न पृथक्त्वैकलक्षणम्॥१४॥



तथता भूतकोटिश्चाऽनिमित्तं परमार्थता।

धर्मधातुश्च पर्यायाः शून्यतायाः समासतः॥१५॥



अनन्यथाऽविपर्यासतन्निरोधार्यगोचरैः।

हेतुत्वाच्चार्यधर्मणां पर्यायार्थो यथाक्रमम्॥१६॥



संक्लिष्टा च विशुद्धा च समला निर्मला च सा।

अब्धातुकनकाकाशशुद्धिवच्छुद्धिरिष्यते॥१७॥



भोक्तृभोजनतद्धेहप्रतिष्ठावस्तुशून्यता।

तच्च येन यथा दृष्टं यदर्थं तस्य शून्यता॥१८॥



शुभद्वयस्य प्राप्त्यर्थ सदा सत्त्वहिताय च।

संसाराऽत्यजनार्थं च कुशलस्याऽक्षयाय च॥१९॥



गोत्रस्य च विशुद्धयर्थं लक्षणव्यञ्जनाप्तये।

शुद्धये बु[द्ध]धर्माणां बोधिसत्त्वः प्रपद्यते॥२०॥



पुद्गलस्याऽथ धर्माणामभावः शून्यताऽत्र हि।

तदभावस्य सद्भावस्तस्मिन् सा शून्यताऽपरा॥२१॥



संक्लिष्टा चेद्भवेन्नासौ मुक्तास्स्युः सर्वदेहिनः।

विशुद्धा चेद्भवेन्नाऽसौ व्यायामो निष्फलो भवेत्॥२२॥



न क्लिष्टा नाऽपि वऽआक्लिष्टा शुद्धाऽशुद्धा न चैव सा।

प्रभास्वरत्वाच्चित्तस्य क्लेशस्यागन्तुकत्वतः॥२३॥



॥इति लक्षणपरिच्छेदः प्रथमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project