Digital Sanskrit Buddhist Canon

भवसङ्‍क्रान्तिटीका

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Bhavasaṅkrāntiṭīkā

मैत्रेयनाथकृता भवसङ्‍क्रान्तिटीका



नमः सर्वज्ञाय



भावाभावान्न जन्मास्ति इति।

बीजाद्वीज उत्पद्यमाने घटादपि घटोत्पत्तिर्युज्येत। आत्मक्रियानिषेधात् [बीजात्] बीजोत्पत्तिर्न संभवति। पञ्चविधभूतपरिणामधर्मता, प्रतीत्यसमुत्पादधर्मता। एवं सति शुभाशुभमुच्छिन्नभारं केनचित् दृश्येत। तत्तु मूषिकादन्तोद्गीर्णविषमेघगर्जनग्लान [बीज]वन्नोत्पन्नम्। प्रतीत्यसमुत्पादधर्मता। तेन न भावादुत्पत्तिधर्मता॥



तस्य भावस्यचासतः। जन्मादानं संभवति इति।

एवं सति भावास्यासत उत्पत्तौ वन्ध्यासुतः गगनकुसुमं शशशृङ्गञ्च संभवेत्। एवमसंभवात् उत्पत्तिर्न संभवति। नह्यग्निमध्ये निक्षिप्तबीजस्य जन्म संभवति। उच्यते तु भावस्य तस्यासतो जन्मोपादानं भवति [इति]। यथा प्रसन्नजलपूर्णसरसि शैवालं पद्मञ्चोत्पद्यते। उत्तरारण्यधरारणिभ्यामग्निरुत्पद्यते। उत्पत्तौ सत्यामपि को दोषः स्यात्। नित्यभावादुत्पन्नात्मकमिष्यते। मैवम्। भ्रान्ति।



इन्द्रियैरुपलब्धं यत्तत्तत्त्वेन भवेद्यदि।

बालास्तत्त्वविदो जाताः न ज्ञेयतत्त्वकारणम्॥



[उक्तं] लङ्कावतारसूत्रे।

अस्तित्वं सर्वभावानां यथा बालैर्विकल्प्यते।

यदि ते भवेद्यथादृष्टाः सर्वेस्युस्तत्त्वदर्शिनः॥



अन्यत्र उक्तम्।

न चक्षुः प्रेक्षते रूपं लोकस्तु परिमोहतः।

प्रवर्तते ह्यक्षमार्गे स्वभावस्तस्य तादृशः॥



यथा मायामरीचिस्वप्नप्रतिश्रुत्केन्द्रधनुरुदकचन्द्रबिम्बनिर्मितमायानगरविकल्पः। शूरपादैरप्युक्तम्।



सदसच्च मृतं जातं तन्निरूद्ध यदस्ति न।

भावोत्पादकमेवेति लक्षणं भावदर्शिनाम्॥

भावदृष्ट्या खलु भ्रान्तं यथा खपुष्पचिन्तनम्।

धर्मता हि नभस्तुल्या। इति।



आकाशसमभावस्य शून्यत्वेन उत्पत्तिभङ्गदोषमलालेपात् धर्मतामात्रं रूपवेदनादयः। ते गगनसमाः। जननान्तरे प्रतीत्यसमागमेनोत्पद्यन्ते। तच्च सांवृत् लोके। परमार्थस्य न विरोधि। अचिन्त्या मायाधर्मलक्षणता। शालिस्तम्बसूत्रे।



[बाह्यः] प्रतीत्यसमुत्पादः कतमैः पञ्चभिः कारणैर्द्रष्टव्यः। [न] स्वयं शाश्वततो नोच्छेदतो न संक्रान्तितो न स्वयंभूहेतुतः न फलविपाकाभिनिर्वृत्तितस्तद्विसदृशानुप्रबन्धत [श्चेति]। कथं [न] स्वयं शाश्वततः। यस्माद्वीजाङ्‍कुरौ विसदृशौ। न चैवं यद्वीजं स एवाङ्‍कुर [इति]। एवं हि बीजं निरुद्ध्यते। अङ्‍कुर उत्पद्यते। कथं नोच्छेदतः। न पूर्वनिरुद्धाद्धीजादङ्‍कुरो निष्पद्यते। निरुद्धमत्राद्वीजात्तु तत्समये अङ्‍कुर उत्पद्यते। तुलादण्डनामोन्नामवत्। कथं न सङ्‍क्रान्तितः। बीजविसदृशो ह्यङ्‍कुरः। कथं न स्वयंभूहेतुतः। आद्यफलस्यास्वयंभावात्। कथं न फलविपाकाभिनिर्वृत्तितः। फलस्वरूपं सिद्ध्यति। न हि फलेन फलोत्पत्तिरस्ति। कथं विसदृशानुप्रबन्धतः। एवं प्रतीत्य समुत्पन्नैस्तैरुत्पादितं फलम्॥



स्कन्धोत्पादरीतिरपि। अविद्यया संस्कारो विज्ञानं नामरूपं षडायतनं पञ्चस्कन्धाश्च सिद्ध्यन्ति।



शून्यैरेव योत्पत्तिस्तद्रूपाणां स्वरूपकम्।

प्रतीत्यप्रत्ययोत्पन्नमेवं सिद्ध्या प्रसिद्ध्यति॥



एवं सा शून्यता स्वयंभूत्वा रूपं समीक्ष्यते।

सर्वभावः शून्यता हि शून्यतैवं प्रवर्तते॥



एवं बाह्य आध्यात्मिकः सर्वो धर्मः शून्यः। स्वभावतो भावो येन हेतुसंभूतः अतः सर्वधर्म आकाशसमः। एवं भावोऽभावः संभवति॥



न कारणं नापि कार्यम् इत्यादिना एष लोकः परोऽपि च इति पर्यन्तम्। कारणेन ईश्वरेण कृत इष्यते। कर्मसंभूतः चित्तमात्रं वा इष्यते। एवं नेष्यते चेत् कः शुभाशुभं वहति। तीर्थिकोच्छेदप्रसङ्गः। तस्योत्तर [मुच्यते]। वस्तुतः सत्यं न भवति [लोकः]। कर्मसंभूतोऽपि स्वप्नसदृशः।



भाव एवमभावत्वादजोऽसन् तस्य वै चिरम्।

प्रतीत्योद्गमकाले तु कर्मणः फलवेदना॥



आर्यसमाधिराजसूत्रे।

न च अस्मि लोकि मृति कश्चि [नरो]

परलोक संक्रमति गच्छति वा।

न च कर्म नश्यति कदाचि कृतं

फलु देति [कृष्णशुभ] संसरतो॥



लङ्कावतारसूत्रे।

देशेमि शून्यतां नित्यं शाश्वतोच्छेदवर्जिताम्।

संसारं स्वप्नमायाख्यं न च कर्म विनश्यति॥



आर्याकाशसमतासमाधिसूत्रे।

पूर्वं कृतं तन्न कृतं न कृतं तच्छुभाशुभम्।

सुगतस्य पूर्वाकरणात् कृतं तदपि नो भवेत्॥

बोधिसत्त्वबोधिचित्तं कृतं तदपि नो भवेत्।

कृतो निरूढिलाभोऽपि कृतः सोऽपि च नो भवेत्॥

कर्माणि न प्रणश्यन्ति कल्पकोट्यन्ततोऽपि च।

प्रतीत्यागमकाले तु देहिनां फलवेदना॥



अनुत्पन्नरूपमेव। इति।



यदीश्वरेण कथमपि न निर्मितम्। कथं हि लोक उत्पन्नः।



वन्ध्यास्त्रीतनयस्यापि कस्तत्र जन्म जनयति।



लोकः प्रथमतोऽजातः इत्यादि।



आदौ स्वयमनुत्पन्नः प्रतीत्यसमुत्पन्नो भावः। तस्य च जन्म ईश्वरादिना केनापि नावतारितम्। चेतनस्यादावजातत्वेन ईश्वरः स्वयमसिद्धः। प्रतीत्यसमुत्पन्नस्य च जन्म नेश्वरेणावतारितम्। लङ्कावतारसूत्रे।



संभवं विभवञ्चैव मोहात्पश्यन्ति बालिशाः।

न संभवं न विभवं प्रज्ञायुक्तो विपश्यति॥



आर्यसमाधिराजसूत्रे।

अस्तीति नास्तीति उभेऽपि अन्ता

शुद्धी अशुद्धीति इमेऽपि अन्ता।

तस्मादुभे अन्त विवर्जयित्वा

मध्येऽपि स्थानं न करोति पण्डितः॥



मध्यान्ते [?]

येन तर्कः कल्पमात्रं तल्लिङ्गं निष्फलं स्थितम्।

एवं तु विदुषा प्रोक्तं विकल्पाद्वध्यतेऽधमः॥

परिक्षमणो मुच्येत जगत्तत्करणेन च।

योगी संप्रेक्षते शून्यं यथा तमिस्रदर्शनः॥

भैषज्ययोगादीक्षेत व्युत्सृजेत्तिमिरं च तत्।

अविद्यातिमिराक्रान्तनेत्राः संभवं विभवं दृढम्॥

गृह्णन्तो वासनावशात् मुक्त्यनर्हाः समीरिताः॥



अनर्थभ्रान्तलोको हि इत्याद्युक्तम्।



कारकवेदयित्रादि न किञ्चिदस्ति। मोक्षार्थाकारके परमार्थभ्रान्तः। अथवा अनर्थं भ्रमन् भवसिन्धुर्मायानगरसदृशः।



उक्तमार्यदेवपादैः।

भावोऽभावो न द्वितयं सदसन्मिश्रितो न सः।

नापि तत्तदभावादि विचारेऽपि चिरं कृते।

तत्पदमतिदुर्भाषम्।



सदसदुत्पन्नविनष्टयत् किञ्चिद्भाववर्जनधर्मनैरात्म्यदेशना परिवर्तः प्रथमः॥



अधुना स्कन्धनैरात्म्यं प्रतिपादयन् संवृतिसत्यमाश्रित्याह लोकोत्पत्तिरीतिम्।



विकल्पाल्लोकसंभवः इति।



शुभाशुभकल्पना विकल्पः। तत्प्रतीत्यसमुत्पन्नो लोकः। शुभाशुभाभ्यां षट्‍सु जगद्गतिषु स्कन्धनुपादाय लोको नाम, विकल्पेन जनितः। सलिलफलादिविकल्पश्च प्रतीत्य गृह्यते। जन्मोपादानेन चित्तं प्रवर्तने। चित्ते आत्मग्रहः प्रवर्तते। ततोऽन्यदपि प्रवर्तते।



तच्च रत्नावल्यामुक्तम्

स्कन्धग्राहो यावदस्ति तावदेवाहमित्यपि।

अहङ्कारे सति पुनः कर्म जन्म ततः पुनः॥

त्रिवर्त्मैतदनाद्यन्तमध्यं संसारमण्डलम्।

अलातमण्डलप्रख्यं भ्रमत्यन्योन्यहेतुकम्॥

चित्तात्कायोऽपि जायते। इति।

आत्मनि सति परसंज्ञा स्वपरविभागात्परिग्रहद्वेषौ।

अनयोः संप्रतिबद्धाः सर्वे दोषाः प्रजायन्ते।

काये कृतपरीक्षमात्रे चित्तमात्रमतं परीक्षितपूर्ववत् विद्यत्।

बाह्यः स्कन्धः परीक्ष्यते। रूपवेदनासंज्ञाश्च इति।



रूपं भौतिकं। रूपं वर्णाद्यात्मकं सदसदुभयानुभयं हेतुजनितं प्रज्ञप्तिमात्रम्। असत्यतया तर्काक्षमत्वात् फेनसदृशं शून्यता। वेदना सुखदुःखात्मिका। सा च प्रतीत्यसमुत्पन्ना असत्कारणा बुद्‍बुदोपमा। संज्ञा हि न सद्वस्तु। सा हि नाममात्रम्। मरीचिकासदृशी असती। संस्कारोऽपि असद्वस्तु, भोजनपानतृष्णासुखजनितः। तच्च पृथिव्यादिभूतप्रत्ययेन। स च निर्विकल्पो भावः कदलीसमः। तद्विज्ञानं चित्तमस्वतन्त्रोत्पन्नलक्षणम्। चित्तं विकल्पमात्रं मायोपमं, परमार्थतो नास्ति। [प्रज्ञा] पारमितायामप्युक्तम्। चित्तं सदसदन्यस्वभावरहितं शून्यम्। चितेन चित्ते दृष्टमात्रे न किञ्चिद्‍दृश्यते, शून्यम्॥



एवं सति तथागतः जडः स्यात्। मैवम्। चितविज्ञानविकल्पनिवृत्तिकालमात्रे धर्मकायो लभ्यते। बुद्धपदलाभ एव ज्ञानकायः। स च नास्ति स ईदृशो भाव इति। न च एवं स ज्ञेय इति। न च स्थाता। नापि स्थितिः। शवभूतानं प्रमाणकृतां बालानां विकल्पः। तथागतो ह्यतीतानागतप्रत्युत्पन्नज्ञः अभिज्ञाचक्षुषा सर्वं पश्यति॥



चैत्तं चित्तविकल्पः। परीक्षा तु पूर्ववत्।

फेनपिण्डोपमं रूपं वेदना बुद्‍बुदोपमा।

मरीचिसदृशी संज्ञा संस्काराः कदलीसमाः।

मायोपमं तु विज्ञान [मुक्तमादित्यबन्धुना]॥



स्कन्धनैरात्म्यविज्ञानैरात्म्यभावो विकल्पः। सिद्धः। यतो नास्ति वन्ध्यादुहितृभर्तृवत्॥



स्कन्धनैरात्म्यदेशनपरिवर्तो द्वितीयः।



नैरात्म्यद्वयं संगृह्य अधुना प्रज्ञोत्पादार्थमाह।



चित्ताभावान्न धर्मोऽपि। इत्यादि।



धर्मः भावः कृतकाकृतकराशिः। तथ पृथिवीधात्वादिरपि। धर्माणां मूलं चित्तमिति चित्तं निषिद्धम्। चैत्तधर्मतायामुत्तरं आक्षेपोक्तिकथितम्।



अन्यत्रोक्तं बुद्धेन।

अनक्षरस्य तत्त्वस्य श्रुतिः का देशना च का।

श्रूयते देश्यते चार्थः समता साह्यनक्षरा॥

अपिचोक्तं बुद्धेन।

संवृतिचर्यां नश्रित्य परमार्थो न देश्यते।

परमार्थं तमज्ञात्वा निर्वाणं न प्रवर्तते॥

किञ्चोक्तं शास्त्रे।

यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे।

प्रतीत्य जायते यद्धि तद्जातं स्वभावतः॥

प्रतीत्योपादाय जातं यत्[तत्] शून्यं हि प्रचक्ष्महे।

यः शून्यतां प्रजानाति सोऽप्रमत्तस्तु पण्डितः॥



[इति] बहूक्तिर्निरर्थिका। एवमद्वयमार्गेण सर्वज्ञानं बुद्धसाधनम्। तस्य मार्गमिमं निश्चित्य ज्ञानार्थं य अद्वयमार्गः स स्वयमद्वयः। अथवा उत्पत्तिविनाशाभावेन सदसन्नित्यानित्यभावाभावादिद्वयप्रतीत्यभावात् अद्वयज्ञानम्। एवञ्चाद्वयं, तदुभयसंशयानभिधानं प्रज्ञापारमिताज्ञानम्। तत् ज्ञात्वा यः साक्षात्करोति स तत्वज्ञानात् बुद्धो भगवान्। स बुद्धः करुणाबलेन प्रोवाच। यावदविद्यास्तित्वं जन्मपरिग्रहः। अविद्यादितो निवृत्तमत्रं चेत् ज्ञानं तत्त्वज्ञः [स्यात्] इति॥



अनाधारमिदं सर्वम्। इति।



निराधारकरुणाप्रज्ञाचक्षुषा निरात्मकम्। शून्यताकारकवेदकवस्त्वाधाराभावकरुणाप्रज्ञाचक्षुषा निरात्मकम्। शून्यताकारकवेदकवस्तु आधारो नास्ति। इदं सर्वं त्रैधातुकमशेषमसत् शून्यता। स हि परमार्थः। प्रज्ञापारमितायामप्युक्तम्।



सुभूतिमवोचत्। रूपं न प्रेक्षते। इत्यादि।



द्वादशप्रतीत्यसमुत्पादनिषेधधर्मतायाम्।



बुद्धगुणनीतभागीयं धर्मकायं शून्यतावस्तु प्रचक्षते। तेन हि प्रज्ञापारमिता॥



प्रज्ञादेशनापरिवर्तस्तृतीयः



एवं प्रज्ञां देशयित्वा अधुना संवृतावुपायो देश्यते।



दानशीलक्षमेत्यादि।

सूर्ये उदितमत्रे छायोत्पत्तिवदुपाय उक्तः। प्रथमं दानं मूलमिधीयते। उक्तमन्यत्र।



अयं हि सकलो लोकः सुखमेकमभीप्सति।

नॄणां भोगविहीनानां सुखाशा लभ्यते कुतः॥



दानोत्सर्गेण हि भोग उत्पद्यते। तेन दानं मूलमुक्तम्। दानानि चत्वारि। धर्मामिषाभयमैत्रीति। राज्यस्वशिरःपर्यन्तमवरधर्मदानम्। [तथा हि] धनं धान्यं सुवर्णं रजतं मणिः मुक्ता प्रवालः रथः गजः भृत्यः दासः दासी प्रियभार्या दुहितृसुतः प्रधानस्वं, शिरः कर्णः नासा पाणिःपादः चक्षुः स्वमांसं रक्तं अस्तिमज्जा मेदः त्वक् हृदयमात्मीयं वस्तु सर्वं दद्यात्। नन्वेवं सति बोधिसत्त्वचर्या नातिदुष्करा ? कुशलोपायो हि बुद्धलाभकरः। बुद्धसुखञ्च निस्तुलं सुखम्। दुःखशतैश्चर्यापि दुःखं न स्यात्। तद्यथा एकपुत्रवधसमये पित्र विक्रियते। चित्तभ्यासमात्रे तु नाशकथं किञ्चिदपि। मयूरस्य शरीरभेदादहिविषममृतं [भवति]। विषञ्च तदभ्यासात् रसायनं भवति। आनन्दविशेषसुखजनकञ्च। यदभ्यस्तं तदमृतं भवति। तेन दुःखं चित्तविकल्पः॥



शीलोपायः। शीलाभिधा च चर्यास्ति दशाकुशलवर्जिता। प्रातिमोक्षसंवररक्षणम्, सर्वप्राण्युपकारमैत्रचित्तवत्त्वम्, स्वभोगे अलंबुद्धिः, अब्रह्मचर्यवर्जनम्, सत्यवचनमेवं करोमीति, अपारुष्यवचनम्, पराराधनम्, धर्मशो विनयचर्याभाणकस्य सगौरवभाषणम्, परेणात्मग्रहणे अलोभः, कामचित्तानामनुत्पादनम्, यात्राद्य द्भुत [दर्शन]वर्जनम्, आकर्षणशाठ्यविरहः, त्रिषु बुद्धधर्मसङ्घेषु अधिमुक्तिचित्तत्वम्, सर्वेषां सत्त्वानां बुद्धकरणे महोत्साहः॥



दानशीलादिना चिरमर्जितेऽपि पुण्ये यदि क्षान्तिर्नास्ति। तदा सद्य एव पुण्यं नश्येत्। उक्तञ्च शान्तिदेवेन।



सर्वमेतत्सुचरितं दानं सुगतपूजनम्।

कृतं कल्पसहस्रैर्यत् प्रतिघः प्रतिहन्ति तत्॥

न च द्वेषसमं पापं न च क्षान्तिसमं तपः।

तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः॥इति।



तिस्रः क्षान्तयः। दुःखाधिवासनाक्षान्तिः पराभवमर्षणक्षान्तिः धर्मनिध्यानक्षान्तिश्चेति। तत्र प्रथमा कस्याधिवचनम्। एवं-अहं ते अनुत्तरधर्म सम्यक्‌संबुद्धलाभं करोमि बोधिसत्त्वचर्यविशुद्धिञ्च करोमि। [इत्युक्ते कश्चिदाह]मयोक्तं शृणु। नो चेत् ज्वलन्महावन्हौ प्रविश्य प्रज्वल। दुःखमुत्पन्नं कायो वहतु। तस्यैवमुत्तरं वदामि। एवं सत्यपि अत्यन्तमुत्सहे। अहमनुत्तरधर्म [सम्यक्] संबुद्ध[लाभ]आय बोधिसत्त्वचर्याशोधनाय च त्रिसाहस्रमहासाहस्रलोकधातौ अग्निज्वाला भूत्वा ब्रह्मभवन[पर्यन्तं] स्वतः परिपाचयामि। कःपुनर्वादस्त्वदुक्तवन्हिः॥ पराभिभवमर्षणक्षान्तिः, परीक्षया [अपकारिषु] अप्रदर्शितकोपः आयुधेन मांसे छिन्नेऽपि अध्यधिकां क्षान्तिं जनयित्वा अहं शत[धा] हस्तच्छेदकमपि शिरसि वहामि तदुपर्यपि मैत्रचित्तयुक्तः। इति॥ धर्मनिध्यानक्षान्तिः अतिगम्भीरे याने अतिशोभने मुनिधर्मे प्रथमतो लब्धे क्षणमपि किञ्चिदसन्दिग्धचित्तत्वम्। धर्मनिध्यानक्षान्तिविधिस्तु पराभिभवमर्षणक्षान्तिवत्। धर्माभावश्चाधरोऽत्र विशेषः॥ वीर्यं शान्तिदेवेनोक्तम्।



[एवं क्षमो भजेद्वीर्यं] वीर्ये बोधिर्यतः स्थिता।

न हि वीर्यं विना पुण्यं यथा वायुं विना गतिः॥



किं वीर्यं कुशलोत्साहः। इति।

वीर्यकरणार्थदर्शी केनचित् प्रियेण वियुक्तः विप्रियेण च सङ्गतः व्याधिजरामरणशोकादिदुःख दुर्गतौ पतितः [अपि] सदा कुशलक्षणकुशलदृष्टिः अष्टस्वक्षनस्थानेषु मोक्षकाले च बोधिचर्यां संपश्यन् कौसीद्यं विहाय दृढीकृत्य विमतिहीनः दुःखप्रहाणाय वीर्यमारभेत॥



ध्यानम्, प्रज्ञोपायावुभौ [एकी]कृत्य चित्तैकाग्रीकरणं ध्यानम्॥ प्रज्ञा यथा पूर्वोक्ता॥ दानपारमितादिकं दातृप्रतिग्रहीतृयत्किञ्चिदनालम्बं शून्यतया प्रेक्षेत। दानपारमितादि प्रज्ञापारमितया व्याप्तम्। यथा सूर्यो द्वीपान् परिवर्त्यं निवर्तते तथा॥



पारमितासंग्रहः। स्वार्थत्यागो दानम्। परानुग्रहः शीलम्। गतिवर्जनं क्षमा। कुशलोत्साहो वीर्यम्। मलानुपलेपो ध्यानम्। परमार्थसत्यदेशनां प्रज्ञा। सत्त्वेषु करुणाव्याप्तीकरणं प्रज्ञारसः। बुद्धसाधकः पितृमातृदुहितृबन्धु परिवारपत्न्यादिराज्यभूम्यैश्वर्यसौख्यादि [उत्] शिष्टान्नवत् विहाय मोक्षार्थं वनं गच्छेत्। दानादिकन्तु न दुःखम्, बुद्धलाभसुखविषमञ्च॥



उपायदेशनापरिवर्तश्चतुर्थः



उपायप्रज्ञयोस्तिष्ठम्। इति।

प्रज्ञा यथा पूर्वोक्ता। कथम्, प्रतीत्यसमुत्पादेन वस्तुप्रज्ञप्तिलक्षणता। उपायः पूर्वोक्तवद्दानादिक्रिया। तावुभावेकीकृत्य देशको गुरुर्नास्ति चेत्, स्वप्नेऽपि [न] उत्पद्यते। एवं सति उपायप्रज्ञे द्वे, तद्भेदाद्वये जाते पुनर्दानादिभेदे बहवो दाषाः स्युरिति चेत्। नाममात्रमिदं सर्वम्। उपायप्रज्ञानिदर्शनं संवृतिमात्रमाश्रित्य सिद्ध्यति। [प्रज्ञा]पारमितायामप्युक्तम्। दनपारमिता नाममात्रम्। प्रज्ञापारमिता नाममात्रम्। त्रैधातुकमपि नाममात्रम्॥ इति।



तदुभयं निराकर्तुमाह।

यतोऽभूद्यच्च नाम तत्। इत्यादि।

पूर्वं परीक्षितवत् धर्मो नाममात्रमुच्यते। न परमार्थतो भावोऽस्ति।

धर्मता न स धर्मोऽस्तीति। इति।

नाममात्रतया सिद्धः, वस्तुशून्यता। प्रतीत्यसमुत्पन्नः संवृतिमात्रम्।

अभूतं नाम शून्यता। इत्यादि।

संवृतौ नाम निमित्तमात्रम्। शब्दविद आहुः। शब्दात्सर्वमुत्पन्नमिति। स स्वयमेव संवृतौ नाममात्रं सिद्धः।



विकल्पो यस्तथोदितः। इत्यादि।

नाममात्रम् शून्यता, परीक्षा पूर्ववत्सुगमा।

रूपं तच्चक्षुषेक्षितम्। इत्यादि।

चक्षू रूपं पश्यतीत्यादि व्याकरणं भगवता संवृतावुक्तम्।



मिथ्याभिमानलोकतः। इत्यादि।

अभिमानेन सत्त्वं देशकालमात्रां वाश्रित्य भगवता वराकिसदृशमुक्तम्। परमार्थस्त्ववचनः। परमार्थनिश्चयोपायो मृषोक्तः। दुःखसत्यं दुःखसमुदयसत्यं निरोधसत्यं मार्गसत्यमित्याद्यार्यसत्यानि चत्वारि संवृतौ देशितानि।



दर्शनं यत्प्रतीत्यजम्। इत्यादि।

नायको भगवतो वचनम्। रूपशब्दादिसमागमकामानां सत्त्वानां प्रकाशयति। येन यान् विविधैरुपायैः सत्त्वान् विनेयान् विनयति, तान् मोचयित्वा नयति; तेन भगवान् [नायकः]।



उपचारावनिं सतीम्। इत्यादि।

संवृतिमाश्रित्य प्रथभूम्याद्युच्यते। परमार्थभूमिस्तु सूक्ष्मबुद्ध्यपर्यन्ता। कल्पनाविकलशून्यतावेदिप्रज्ञा यस्यास्ति स बुद्धिमान्। स च भगवान्।



न चक्षू रूपमीक्षते। इत्यादि।

तैमिरिक इव चक्षुः स्वयं चक्षू रूपञ्च न पश्यति। स चित्तधर्मश्च,-चित्तेन चित्ते दृष्टमात्रे चित्तं न दृश्यते। तेन न भवेत्। समाधिराजसूत्रेऽप्युक्तम्।



चक्षुःश्रोत्रघ्राणजिव्हाकायमनोरूपशब्दगन्धरसस्प्रष्टव्यधर्मा न सन्ति। इति। तन्निगमयन्नाह।



सर्वं दृश्यं यत्। इत्यादि।

पूर्वोक्तमुपायप्रज्ञोभयैकीकरणज्ञानादिकमनृतमुच्यते।



लोकश्च विजहाति यत्। इति।

तदविपरीतं तत्त्वम्। लोकः प्राकृतः यदजानानः यत्-चिन्तापद्मभूतं मनसा अचिन्त्यमिन्द्रियाविषयभूतमज्ञानपटलान्धकारप्रतिरुद्धमदृष्टं-त्यजति। [स] परमार्थः अतितीक्ष्नेन्द्रियर्यज्ञान्दृष्टिगोचरः। आर्यघनव्यूहसूत्रे।



तत्त्वमत्यन्तमाश्चर्यं गम्भीरं तदनन्तवत्।

तद्धि दुर्लभमित्यस्माल्लोकस्य किल बुद्धिना॥

ज्ञानं तद्गोचरं नास्ति।

संवृतिपरमार्थसत्य [देशना] परिवर्तः पञ्चमः



षट्‍सु जगद्गतिषु भवसङ्क्रान्त्युपायो बुद्धलाभकरोपायः समाप्तः॥



पण्डितमैत्रेयनाथकृतः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project