Digital Sanskrit Buddhist Canon

3-6 प्रतिष्ठापटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 3-6 pratiṣṭhāpaṭalam
प्रतिष्ठापटलम्



चतस्रः सर्वाकाराः परिशुद्धयः कतमाः। आश्रयशुद्धिः। आलम्बनशुद्धिः। चित्तशुद्धिः ज्ञानशुद्धिश्च।



तत्राश्रयविशुद्धिः कतमा। सवासनानां सर्वक्लेशपक्ष्याणां दौष्ठुल्यानामाश्रयान् निरवशेषतोऽत्यन्तपरमः स्वे चात्मभावे यथाकामादानस्थानच्युतिवशवर्तिता सर्वाकारा आश्रयशुद्धिस्त्युच्यते।



तत्रालम्बनविशुद्धिः कतमा। निर्वाणे परिणामे संप्रख्याने च सर्वालम्बनेषु या वशवर्तिता। इयमुच्यते सर्वाकारा आलम्बनविशुद्धिः।



तत्र चित्तविशुद्धिः कतमा। पूर्ववत्सर्वचित्तदौष्ठुल्यापगमाच्चित्ते च सर्वाकार-कुशलमूलोपचयात्सर्वाकारा चित्तविशुद्धिरित्युच्यते।



तत्र कतमा ज्ञानविशुद्धिः। पूर्ववत्सर्वाविद्यापक्ष्यदौष्ठुल्यापगमात्सर्वत्र च ज्ञेये ज्ञानस्यानावरणात् ज्ञानवशवर्तिता सर्वाकारा ज्ञानविशुद्धिरित्युच्यते।



तत्र दश तथागतबलानि कतमानि। स्थानास्थानज्ञानबलं कर्मस्वकज्ञानबलं ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलम् इन्द्रियपरापरज्ञानबलं नाना धातुज्ञानबलं नानाधिमुक्तिज्ञानबलं सर्वत्रगामिनीप्रतिपज्ज्ञानबलं पूर्वनिवासानुस्मृतिज्ञानबलं च्युत्युपपत्तिज्ञानबलम् आस्रवक्षयज्ञानबलञ्च। इत्येतानि दश तथागतबलानि युथा दशबलसूत्रे निर्देशतो विस्तरेण वेदितव्यानि।



[तत्र] यत्किञ्चिदनेन भाषितं लपितमुदाहृतं सर्वं तत्तथा अवितथेति तस्मात्तथागत इत्युच्यते। तत्र फलस्य शुभाशभस्य यो भूतप्रवृत्तः अविषमो हेतुः तदस्य स्थानं प्रतिष्ठा निश्रयोऽभिनिर्वर्तकं इत्युच्यते। शुभाशुभस्यैव फलस्य विषमहेतुरेतद्विपर्ययेणास्थानमित्युच्यते। निरभिमानं ज्ञानं यथाभूतमित्युच्यते। सर्वज्ञानमसक्तज्ञानं शुद्धञ्च तन्निरभिमानं [ज्ञानं] वेदितव्यम्। एषाञ्च सर्वज्ञानादीनां पदानां पूर्ववद्‍व्याकरणं वेदितव्यं तद्यथा परमबोधिपटले। अनुपूर्वं गणनया प्रथमम्। निरुत्तरत्वात्सर्वाकार-सर्वसत्त्वार्थक्रियाशक्तियुक्तत्वात् सर्वमारबलात्यन्ताभिभवाच्च बलमित्युच्यते। यथावद्धेतुसमुदागमपरिग्रहाद्‍यथाकामसमुदाचारवशवर्तिता समन्वागत इत्युच्यते। निरुत्तरत्वान्निर्वाणमुदारमित्युच्यते। आर्याष्टाङ्गेण मार्गेण लभ्यत्वात्सर्वोपद्रवभयापगतत्वाच्चार्षभमित्युच्यते। आत्मनस्तदधिगमेन प्रतिज्ञानात्प्रतिजानातीत्युच्यते। स्वयमधिगम्य परेषामप्यनुकम्पया विस्तरेण प्रकाशनाद् ब्राह्मचक्रं प्रवर्तयतीत्युच्यते। तत्कस्य हेतोः। तथागतस्यैतदधिवचनं यदुत ब्रह्मा इत्यपि शान्तः शीतीभूत इत्यपि। तेन तत्प्रवर्तितं तत्प्रथमतः तदन्यैः पुनस्तदन्येषाम्। एवं पारंपर्येण ब्रह्मा प्रेरितं सर्वसत्त्वनिकाये भ्रमति। तस्माद् ब्राह्मञ्चक्रमितुच्यते। अग्रप्रज्ञप्तिपतितस्य निरुत्तरशास्तृसंपत्परिगृहीतस्य चात्मनो विख्यापनात् तन्मार्गदेशनया च सर्वतदन्यपाषण्डप्रतिक्षेपणात् तन्मार्गविप्रत्यनीकवादिषु च प्रत्युपस्थितेषु असंकोचात्सर्वपरवादाभिभवाय चोदारनिरुत्तरवागभ्युदोरणात्परिषदि सम्यक् सिंहनादं नदतीत्युच्यते। समासतस्त्वात्महित-प्रतिपत्तिसम्पत्-परहित-[प्रतिपत्ति-] स्व परहितप्रतिपत्तिसम्पदश्चासाधारणम्। तेषाम् उत्ताना विवृता प्रज्ञप्ता प्रकाशिता भवति। अपरः समासार्थपर्यायः। प्राप्तव्यन्तप्राप्त्यभ्युपायः। तस्य चाभ्युपायस्य सर्वजन्यतायो [यः] कश्चिदाकांक्षति देवभूतो वा [मनुष्यभूतोवा] सर्वेण तेन ममैवान्तिकाल्लभ्य एषोऽभ्युपाय इति। तत्र व्याधिप्रशमनवदुदारमार्षभं स्थानं द्रष्टव्यम्। व्याधिप्रशमनोपायवद् ब्राह्मचक्रप्रवर्तना द्रष्टव्या। सर्वं [कु] वैद्यप्रतिज्ञा प्रतिक्षेपणवत् स्वयं च नियतं व्याधिप्रशमनप्रतिज्ञानवत्परिषदि सम्यक् सिंहनादं नदितं द्रष्टव्यम्।



यानि कर्माणि कृतान्युपचितानि निरुद्धानि तान्यतीतानीत्युच्यन्ते। यानि नैव कृतानि न निरुद्धानि नापि करोति अपि तु करिष्यत्यायत्यां। तान्यनगतानीत्युच्यन्ते। यानि पुनः कर्माणि नैव कृतानि न निरुद्धान्यपि तु कर्तुमेव प्रणिहितो व्यवसितः तानि प्रत्युत्पन्नानीत्युच्यन्ते। तानि पुनःप्रकारभेदेन त्रीणि कायकर्म वाक्कर्म मनस्कर्म। धर्मसमादानानि चत्वारि यथापूर्वमेव निर्दिष्टानि। अस्ति धर्मसमादानं प्रत्युत्पन्नसुखमायत्यां दुःखविपाकमिति विस्तरेण। तानि पुनरेतानि दृष्टधर्मसम्परायहिताहितप्रयोगतो यथायोगं वेदितव्यानि। यस्मिन् देशे क्रियन्ते तत्तेषां स्थानमित्युच्यते। यच्च सत्त्वसंख्यातमसत्त्वसंख्यातं वा वस्त्वाधिष्ठाय क्रियन्ते तत्तेषां वस्तु इत्युच्यते। येनाकुशलमूलेन [कुशलमूलेन] वा निदानेन क्रियन्ते। तत्तेषां हेतुरित्युच्यते। यदिष्टानिष्टमादीनवानुशंसंयुक्तं फलमभिनिवर्तयन्ति तत्तेषां विपाक इत्युच्यते। तदेतदभिसमस्य सर्वकालं सर्वप्रकारं सर्वावस्थाप्रयोगं सर्वदेशं सर्वाधिष्ठानं सर्वनिदानं सर्वादीनवानुशंसञ्च सर्वाकारं तथागतानां कर्मज्ञानं भवति। नास्ति वात उत्तरि नातो भूयः।



चत्वारि ध्यानानि। अष्टौ विमोक्षाः। ध्यानविमोक्षैः कर्मण्यचेतसश्चेतोवशिप्राप्तस्य यथेप्सितस्यार्थस्य समृद्धये या तस्य तदनुरूपस्य समाधेः समापद्यनता ता समाधिसमापत्तिरित्युच्यते। [यथोच्यते च।] भगवांस्तद्रूपं समाधि समापन्नं। यथा समाहिते चित्ते सर्वो ब्रह्मलोक‍उदारेणावभासेन स्फुटो बभूव। भाषितस्य चास्य शब्दः श्रूयते। न चैनं कश्चित्पश्चतीति विस्तरः। एवं हि तथागतो यं यमेवार्थं प्रसाधयितुकामो लोकसाधारणं [असाधारणं वा] स तद्रूपं समाधिं समापद्य लघुलध्वेव प्रसाधयति। तत्रध्यानविमोक्षाभ्यां चित्तवशितया च चित्ताधीन-सर्वेप्सितार्थसमृद्धिः एतावच्च सर्वध्यायीनां करणीयम्। नात उत्तरि नातो भूयः। तच्चैतद् ध्यायिकरणीयं [सर्वाकारं] तथागतानां तस्माद् ध्यानविमोक्षसमाधिसमापत्तय एवोच्यन्ते। एषां पुनर्ध्यानादीनां समासतो द्वौ संक्लेशौ। अप्राप्तेषु चैषु प्राप्तये बिबन्धसंक्लेशः। तद्यथाऽनुपायप्रयोगो निवरणान्यतमसमुदाचारश्च। प्राप्तेषु चैषु तद्भूमिकं क्लेशपर्यवस्थानमनुशयो वा। व्यवदानं पुनर्विविधमेवैतद्विपर्ययेण वेदितव्यम्। तेषामेव च ध्यानादीनां विचित्राणामभिनिर्हृतानां नामसंकेतेन अनुरूपेण यथायोगं व्यवस्थितिर्व्यवस्थानामित्युच्यते। एषामेव च ध्यानादीनां प्रतिलब्धानामुत्तरि या भावना-परिपूरिर्निकामलाभिताऽकृच्छ्रेणानवरकलाभिता सैषां विशुद्धिरित्युच्यते। तत्र यथा चैषामप्राप्तिर्यथा च प्राप्तिः तेषु च या च हीनता या च प्रणीतता यच्चैषां नाम या चोत्कर्षपर्यन्तता तत् सर्वं प्रजानाति। तस्मादेवं निरुत्तरं तथागतानां ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलमित्युच्यन्ते।



यथा परिपाकसमुदागमतः श्रद्धादीनां पञ्चानामिन्द्रियाणां मृदुमध्याधिमात्रता इन्द्रिय-परापरतेत्युच्यते।



परश्रद्धापूर्वा धर्मविचारणा-पूर्वा च मृदुमध्याधिमात्रा रुचिः प्रत्यवगमः नानाधिमुक्तिकतेत्युच्यते। नानागोत्रव्यवस्थानम्। श्रावकप्रत्येकबुद्ध-तथागतगोत्राणां रागादिचरितप्रभेदनयेन च यावदशीति सत्त्वचरितसहस्राणि नानाधातुकतेत्युच्यते।



तेषामेवावतार-मुखानुरूपा प्रतिपत् तद्यथा रागचरितानामशुभा विस्तरेण तद्यथा श्रावकभूमौ सर्वत्रगामिनी प्रतिपदित्युच्यते। अपरः पर्यायः। सर्वा पञ्चगतिगामिनी प्रतिपत्सर्वत्रगामिनीत्युच्यते। अपरः पर्याय। परस्परविरुद्धेषु नानापक्षाश्रितेष्वन्योन्यरुचिदृष्टिविप्रत्यनीकवादिषु पृथगितो बाह्यकेषु श्रमणब्राह्मणेषु या प्रतिपत्सर्वप्रकारैरिहामुत्रानवद्यगामिनीत्युच्यते। तद्यथा कामसूत्रादिषु।



विचित्रेषु सत्त्वनिकायेषु तद्यथा पूर्वेषु दक्षिणेषु उत्तरेषु पश्चिमेषु नाना नामसंकेतव्यवस्थानभिन्नेषु अष्टासु व्यवहारपदेष्वनुगतं पूर्वकेष्वभ्यतीतेवात्मभावेषु षड्‍विधं समासतश्चरितमनुस्मरत्यनेकविधं पूर्वेनिवासे समनुस्मरन्। अष्टौ व्यवहारपदानि कतमानि। एवं नामा। एवं जात्यः। एवं गोत्रः। एवमाहारः। एवं सुखदुःखप्रतिसंवेदी। एवं दीर्घायुः। एवं चिरस्थितिकः। एवमायुः पर्यन्त इति।



षड्व्यवहारपदव्यरितानि कतमानि। आह्वानाय संकेतः क्षत्रियादयो वर्णा मातापितरं भोजनपानविधिः सम्पत्तिविपत्तिः आर्युर्वैचित्र्यञ्च। तथा हि लोके एतान्यष्टौ व्यवहारपदानि उपनिश्रित्य षट् चरितानि परेषामात्मनो व्यपदिशन्तो व्यपदिशन्ति। इदं मे नामास्येदं नामेति। क्षत्रियोऽहमयं वा। ब्राह्मणो वैश्यः शूद्रोऽहमयं वा अयं मे पिताऽस्य व। यथा पिता एवं माता। एवं रूपमहमाहारमाहरामि। मन्थान् वा अपूपान् वा ओदानकुल्माषान् वा परे वा। एवं रूपेऽहं व्यसने सम्पदि वा वर्तेऽयं वा। एवंरूपेऽहं वयसि व्यवस्थितो नवे वा मध्ये वा वृद्धे वा। अयं वा। इत्येतानि षड् [अष्ट] व्यवहार पदानुगतानि चरितानि भवन्ति। नास्ति चात उत्तरि व्यवहारपदं तच्चरितञ्च। तस्मादेतावदेवानुस्मरति। नातो भूयः। तत्र व्यवहारचरितानि आकारो व्यवहारपदान्युद्देशः। तस्य चानुस्मरणात् साकारं सोद्देशमनुस्मरतीत्युच्यते। तत्र दिव्यो विहारो ध्यानानीत्युच्यन्ते। तदाश्रितत्वात्तस्य चक्षुषस्तत्फलत्वात्तत्परिगृहीतत्वाद्दिव्यञ्चक्षुरित्युच्यते। सुपरिपूर्ण-परिशुद्धध्यानफलत्वात्सुविशुद्धमित्युच्यते। मनुष्याणामन्ततो [नाम-] वैधर्म्यादतिक्रान्तमानुष्यकर्मित्युच्यते। अस्ति च कामावचराणां देवानामुपपत्ति-प्रतिलम्भिकमपि तावद्दिव्यञ्चक्षुस्तन्नामसादृश्यानुर्ति। मनुष्याणां पुनस्तदपि नास्ति।



म्रियमाणाः सत्त्वाः व्ययमाना इत्युच्यन्ते। अन्तराभवस्था उपपद्यमाना इत्युच्यन्ते। द्वाभ्यामाकाराभ्यां तमःपरायणानामयमेवंरूपो मनोमयोऽन्तराभवो निर्वर्तते। तद्यथा कृष्णस्यकुतपस्य निर्भासः अन्धकारतमिस्राया वा रात्र्याः। तस्माद् दुर्वर्णा इत्युच्यन्ते। ये पुनर्द्वाभ्यामाकाराभ्यां ज्योतिः परायणास्तेषामयमेवंरूपो मनोमयोऽन्तराभवो निर्वर्तते। तद्यथा ज्योत्स्नया रात्र्या वाराणसेयकस्य वा सम्पन्नस्य वस्त्रस्य। तस्मात्सुवर्णा इत्युच्यन्ते। तत्र ये दुर्वर्णास्ते हीनाः। ये सुर्वर्णास्ते प्रणीताः। ये हीनास्ते दुर्गतिगामिनः। ये प्रणीतास्ते सुगतिगामिनः। स समुत्थानया शीलविपत्त्या कायवाङ्म नोदुश्चरितेन समन्वागता इत्युच्यन्ते। द्विविधया मिथ्यादर्शनदृष्टिविपत्त्या समन्वागमात् सर्वापवादिकया तन्मतविपक्षावस्थितार्यपवादिकया च मिथ्यादृष्टयः आर्याणामपवादका इत्युच्यन्ते। तया मिथ्यादृष्ट्या मिथ्याहेतुञ्च फलञ्चाभिनिवेशते। ततस्तत्प्रत्ययं मिथ्याकर्माभिसंस्करोति। मिथ्याकर्माभिसंस्कुर्वन् यदिदं धर्मसमादानं प्रत्युत्पन्नसुखमायत्यां दुःखविपाकम्। यत् वा प्रत्युत्पन्नदुःखमायत्यामपि दुःखविपाकंतत्समादत्ते। तस्मान्मिथ्यादृष्टिकर्मधर्मसमादानहेतोरित्युच्यते। समन्वागतस्यापि तदन्यैरनेकविधैः कुशलैर्धर्मैस्तेनैव दुर्गतिगमनात्तद्धेतोस्तत्प्रत्ययमित्युच्यते। नामरुपान्योन्यविश्लेषात् कायस्य भेद इत्युच्यते। सर्वमरणानां निहीनपरमत्वात् अस्य परम्मरणादित्युच्यते। नरकाणां सङ्कुचितावनतयाऽपायदुर्गतिविनिपाता इत्युच्यन्ते। स्वभावशरीरवस्तुविभावनतया नरका इत्युच्यन्ते। तत्रापयानमित्युच्यन्ते। अधर्मचर्या विषमचर्या च तया तत्र यानं भवति। तस्मादपाया इत्युच्यन्ते। दुःखसंस्पर्शत्वाद्दीर्घकालिक विचित्र तीव्रनिरन्तरदुःखोपभोगसमुद्गतत्वाद् दुर्गतय इत्युच्यन्ते।



अधोभागावस्थितत्वान्महाप्रपातभूतत्वात् कृच्छकरुणदीनमहाविप्रलापप्रलापित्वाद्विनिपाता इत्युच्यन्ते। अधिमात्रसंवेजकत्वान्नरका एवोच्यन्ते। इति येन चोपपद्यन्ते उपपन्नाश्च यदुपभुञ्जते तदुपभोगाच्च पुनर्यदन्यत् स्वयंकृतं दुःखान्तरमभिनिर्वर्तयन्ति तदेतदाभिः संज्ञाभिः परिदीपितम्। एतद्विपर्ययेण यथायोगं सर्वशुक्लपक्षो वेदितव्यः। तत्रायं विशेषः। सुचरितपूर्वा गतिः सुगतिरित्युच्यते। सुखोपभोगपरत्वात् स्वर्गलोक इत्युच्यते। सर्वास्रवाणामशेषानुशयप्रहाणाद्यत्तत् प्रातिपक्षिकमनास्रवं चित्तमनाश्रवा प्रज्ञापरमाधिप्रज्ञसंगृहीता आस्रवाणां क्षयादनास्रवा चेतोविमुक्तिः प्रज्ञाविमुक्तिरित्युच्यते। तां पुनश्चेतोविमुक्तिं [प्रज्ञाविमुक्ति] तस्मिन्नेव चरमे भवे प्रत्यात्मं षष्ठाभिज्ञया दर्शनमार्गसन्निश्रयेण भावनामार्ग-सन्निश्रयेण चाधिगम्य स्वञ्चाधिगमं यथावत्प्रजानन्ति। परेषां चाकांक्षमाणानामारोचयन्ति। तस्माद् दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्वोप-संपद्य प्रवेदयन्तीत्युच्यन्ते। क्षीणां मे जातिरित्येवमादीनां पदानां नानाकरणं वेदितव्यम्। तद्यथा पर्यायसंग्रहन्याम्।



उद्दानम्।



स्वभावश्च प्रभेदश्च कैवल्यं समता तथा।

कर्मक्रियानुक्रमश्च विशेषः पश्चिमो भवेत्॥



एषां पुनर्दशानां तथागतबलानां स्वभावो वेदितव्यः। प्रभेदो वेदितव्यः। कैवल्यं वेदितव्यम्। समता वेदितव्या। कर्मक्रिया वेदितव्या। अनुक्रमो वेदितव्यः। विशेषो वेदितव्यः। इत्येभिः सप्तभिराकारैः समासतो दश तथागतबलानि वेदितव्यानि।



तत्र [कतम] एषां स्वभावः। पञ्चेन्द्रियस्वभावान्येनाति। अपि तु प्रज्ञायाः प्राधान्यात्प्रज्ञास्वभावानीत्युच्यन्ते। तथा ह्युच्यते। स्थानास्थानज्ञानबलं न तु श्रद्धाबलं वा तदन्यद्वा बलमित्युच्यते। यथा स्थानास्थानज्ञानबलमेवमवशिष्टानि द्रष्टव्यानि। तत्र क एषां प्रभेदः। समासतस्रिविधेन प्रभेदेनैषामप्रमाणता वेदितव्या। कालप्रभेदेनातीतानागतवर्तमानाध्वपतितसर्वज्ञेयप्रवेशात्। प्रकारप्रभेदेनैकैकस्य संस्कृतस्य वस्तुनः स्वलक्षणसामान्यलक्षणसर्वाकारप्रवेशात्। सन्तानप्रभेदेन दशसु दिक्षु सर्वसत्त्वधातुप्रत्येकसर्वसन्तानसर्वार्थानुप्रवेशात्। एवमेभिस्त्रिभिः प्रभेदैरेषां दशानां तथागतबलानामप्रमेयता वेदितव्या। अयमेषां प्रभेदः। तत्र कैवल्यमेषां कतमत्। तथागतस्यैव एतानि दशबलानि केवलान्यावेणिकानि। न तु सर्वश्रावकप्रत्येकबुद्धानाम्। इदमेषां कैवल्यमित्युच्यते। सर्वतथागतानां चैतानि बलानि समानि निर्विशिष्टानि। इयमेषां समता विहारविशेषस्तु तथागतानामन्योन्यं भवेदन्येन बलविहारेण अन्यस्तथागतस्तद्वहुलविहारी भवति। अन्येनान्यः।



एषां दशानां बलानां तथागतः केन किं कर्मं करोति। स्थानास्थानज्ञानबलेन तथागतः हेतुञ्च हेतुतः फलञ्च फलतो यथाभूतं प्रजानाति। अहेतुविषमहेतुवादिनश्च श्रमण-ब्राह्मणान् निगृह्णाति। कर्मस्वकताज्ञानबलेन तथागतः स्वयंकृत-फलोपभोगताञ्च कर्मणां यथाभूतं प्रजानाति। दानपुण्यक्रियासंक्रान्तिवादिनश्च श्रमणब्राह्मणान् निगृह्णाति। ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तथागतस्रिभिश्च प्रातिहार्यैर्विनेयान् सम्यगववदति। प्रतिविरोधविपक्षप्रत्यनीकवादावस्थितांश्च श्रमणब्राह्मणान् निगृह्णाति। इन्द्रियपरापरज्ञानबलेन तथागतः सत्त्वानामिन्द्रियमृदुमध्याधिमात्रताञ्च विभज्य यथाभूतं प्रजानाति। तेषाञ्च यथार्हं यथायोगं धर्मदेशनां करोति। नानाधिमुक्तिज्ञानबलेन तथागतो मृदुमध्याधिमात्र-शुभाशुभाधिमुक्तितां यथाभूतं प्रजानाति। शुभाञ्चाधिमुक्तिमनुबृंहयति। अशुभाञ्च त्याजयति। नानाधातुज्ञानबलेन तथागतो हीनमध्येप्रणोतधातुकताश्च विभज्य यथाभूतं प्रजानाति। यथेन्द्रियान् यथाषयान् यथानुशयांश्च सत्त्वांस्तेषु तेष्ववतारमुखेष्वववादक्रियया सम्यग्यथायोगं संनियोजयति। तत्र यथा तथागताः श्रावकाणां तेषु तेष्ववतारमुखेष्वववादमनुप्रयच्छन्ति तथाश्रावकभूमौ सर्वेण सर्वं निरन्तरमाख्यातमुत्तानं विवृतं प्रज्ञप्तं प्रकाशितम्। कथञ्च पुनस्तथागता बोधिसत्त्वमादिकर्मिकं तत्प्रथमकर्मिकं समाधिसम्भारपरिग्रहेऽवस्थितञ्चित्तस्थितिकामं चित्तस्थितयेऽववदन्ति। इह तथागतो बोधिसत्त्वासतं समाधिसम्भारगुरुकमादिकर्मिकं तत्प्रथमकर्मिकं तत्प्रथमतः एवमववदति। एहि त्वं कुलपुत्र प्रविविक्तशयनासनगत एकाकी अद्वितीयो यत्ते मातापितृभ्यां नाम व्यवस्थापितमाचार्योपाध्यायाभ्यां वा तदेव नामाध्यात्मं मनसिकुरु। एवञ्च पुनर्मनसिकुरु-अस्ति मे [स] कश्चित्षडायतनविनिर्मुक्तो धर्मः स्वभावेन परिनिष्पन्नः अध्यात्मं वा बहिर्धा वा उभयमन्तरेण वा विद्यते। यत्रेदं नाम संज्ञा प्रज्ञप्तिः उपचारः प्रवर्तते स त्वमेवं योनिशो मनसिकुर्वंस्तं धर्मं नोपलप्स्यसे। नान्यत्र ते एवं भविष्यति।



आगन्तुकेष्वेषु धर्मेष्वियमागन्तुकी संज्ञाप्रवृत्तेति। यदा च ते कुलपुत्र तस्मिन् स्वनाम्नि आगन्तुकसंज्ञा उत्पान्न भवति प्रतिलब्धा स त्वं या ते चक्षुषि चक्षुर्नाम चक्षुःसंज्ञा चक्षुः-प्रज्ञप्तिस्तामध्यात्मं योनिशोमनसिकुरु। एवञ्च पुनर्मनसिकुरु। अस्मिञ्चक्षुषि द्वयमुपलभ्यते। इदं च नाम संज्ञा प्रज्ञप्तिश्चक्षुरिति। एतच्च वस्तुमात्रम्। यत्रेदं नाम संज्ञा प्रज्ञप्तिः। नात उत्तरि नातो भूयः। तत्र यच्चक्षुषि नाम संज्ञा प्रज्ञप्तिस्तत्तावन्न चक्षुः। यदपि तद्वस्तु यत्र चक्षुःसंज्ञा तदपि स्वभावतो न चक्षुः। तत्कस्य हेतोः। न हि तत्र चक्षुर्नाम चक्षुःसंज्ञां] चक्षुःप्रज्ञप्तिं विना कस्यचित् चक्षुर्बुद्धिः प्रवर्तते। स चेदेतद्वस्तु तेनात्मना परिनिष्पन्नं स्यात्। येन नाम्नाऽभिलप्यते न तत्र पुनस्तदपेक्षा चक्षुरित्येवं बुद्धिः प्रवर्तते। नान्यत्र प्रकृत्यैवाश्रुतोऽपरिकल्पित-नामकानामपि तस्मिन् वस्तुनि चक्षुरिति बुद्धिः प्रवर्तते। न च पुनः प्रवर्तमाना उपलभ्यते तस्मादिदमपि चक्षुर्नाम चक्षुःसंज्ञा चक्षुःप्रज्ञप्तिः आगन्तुके धर्मे संज्ञा आगन्तुकी। एवं तेऽध्यात्ममेतच्चक्षुर्योनिशो मनसिकुर्वतश्चक्षुःसंज्ञायामप्यागन्तुकसंज्ञा उत्पन्ना भविष्यति प्रतिलब्धा। यथा चक्षुष्येवं श्रोत्रघ्राणजिह्वाकायेषु विस्तरेण यावद्‍दृष्टश्रुतमतविज्ञातेषु प्राप्तेषु पर्येषितेषु मनसाऽनुवितर्कितेष्वनुविचारितेषु समासतः सर्वधर्मसंज्ञास्वागन्तुकसंज्ञा उत्पन्ना भविष्यति प्रतिलब्धा। एवं [ते] स्वात्मनि या संज्ञा [अवस्था] तस्या विभवाय प्रयोगमार्गः सम्यक् परिगृहीतो भविष्यति। विस्तरेण यावत्सर्वधर्मेषु या संज्ञा तस्या विभवाय प्रयोगमार्गः सम्यक् परिगृहीतो भविष्यति। स त्वमेवं सर्वज्ञेय-सुविचारितया बुद्‍ध्या एवं ते सर्वधर्मसंज्ञास्वागन्तुकसंज्ञया सर्वधर्मेषु सर्वप्रपञ्चसंज्ञामपनीयापनीय निर्विकारेण चेतसा निर्निमित्तेनार्थमात्रग्रहणप्रवृत्तेनास्मिन् वस्तुनि बहलं विहर। [एवं ते] तथागतज्ञान-विशुद्धिसमाधिगोत्राच्चित्तस्यैकाग्रता प्रतिलब्धा भविष्यति। स त्वं सचेदशुभां मनसिकरोषि एनं मनसिकारं मा रिञ्चिष्यसि। स चेन्मैत्री मिदंप्रत्ययता प्रतीत्यसमुत्पादं धातुप्रभेदमानापानस्मृतिं प्रथमं ध्यानं विस्तरेण यावन्नैवसंज्ञानासंज्ञायनमप्रमाण-बोधिसत्त्व ध्यानाभिज्ञा-समाधिसमापत्तीर्मनसिकरोषि। एतमेव मनसिकारं मा रिञ्चिष्यसि।



एवं तेऽयं बोधिसत्त्व मनस्कारोऽनुपूर्वेण यावदनुत्तरायै सम्यक्सम्बोधये निर्यास्यतीति। इयं सर्वत्रगामिनी बोधिसत्त्वानां प्रतिपद्वेदितव्या। अतीतेऽप्यध्वनि तथागता बोधिसत्त्वमादिकर्मकमेवमेवाववदितवन्तः। अनागतेऽप्यध्वन्येवमेववदिष्यन्ति। प्रत्युत्पन्नेऽप्यध्वन्येवमेववदन्ति। श्रावकोऽपि चानेन मनस्कारेण प्रयुज्यमानः क्षिप्राभिज्ञतरः स्याद् धर्माभिसमयाय यदि शक्नुयादेतं मनसिकारं यथावत्प्रतिवेद्धुम्। सर्वत्रागमिनी प्रतिपत् ज्ञानबलेन तथागतः सर्वदुःख-नैर्याणिकीमनैर्याणिकीं च प्रतिपदं यथाभूतं प्रजानाति। अनैर्याणिकीं च प्रतिपदं वर्जयित्वा नैर्याणिकीमुपसंहरति। पूर्वे निवासानुस्मृतिज्ञानबलेन तथागतः पूर्वान्ते इतिवृत्तकांश्च जातकांश्च स्मृत्वा चित्तसंवेगाय चित्तप्रसादाय विनेयानां देशयति। शाश्वतवादिनश्च श्रमणब्राह्मणान् निगृह्णाति। च्युत्युपपादज्ञानबलेन तथागतः श्रावकं चाभ्यतीतकालगतमुपपत्तौ व्याकरोति। उच्छेदवादिनश्च श्रमणब्राह्मणान् निगृह्णाति। आस्रवक्षयज्ञानबलेन तथागतः स्वे च विमोक्षे निष्कांक्षो भवति निर्विचिकित्सः। अर्हत्त्वाभिमानिनश्च श्रमणब्राह्मणान् निगृह्णाति। इदं तावत्तथागतस्य दशानां [बलानां] कर्म वेदितव्यम्।



तत्र क एषां दशानां तथागतबलानामनुक्रमः। सहाभिसंबोधादनुत्तरायाः सम्यक्संबोधेस्तथागतः सर्वाण्येव दश बलानि सकृत्प्रतिलभते। सकृत्प्रतिलब्धानां पुनरेषां क्रमेण सम्मुखीभावो भवति। अभिसंबुद्धमात्र एव तथागतो धर्माणां सम्यगेव हेतुफलव्यवस्थानं स्थानास्थानज्ञागबलेन व्यवलोकयति। व्यवलोक्य कामधातावेव सभागे धाताविष्टफल-विशेषार्थिकानां कर्मस्वकता-ज्ञानबलेनाकुशलकर्मपरिवर्जनां कुशलकर्मसमुदाचारताञ्च व्यपदिशति। लौकिक-वैराग्यकामानां पुनः सत्त्वानां ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन लौकिकवैराग्यगमनाय यथावन्मार्गप्रतिलाभायाववादमनुप्रयच्छति। लोकोत्तरवैराग्यकामानां पुनस्तदन्यैः सप्तभिस्थागतबलैर्लोकोत्तरवैराग्योपगमाय मार्गं व्यपदिशति। तत्र पूर्वं तावल्लोत्तरवैराग्यकामानामिन्द्रियं व्यवलोकयतीन्द्रियपरापरज्ञानबलेन। तत इन्द्रियपूर्वमाशयं व्यवलोकयति नानाधिमुक्तिज्ञानबलेन। ततश्चाशयपूर्वमनुशयं व्यवलोकयति नानाधातुज्ञानबलेन। स एवमिन्द्रियाशयानुशयज्ञः यथायोगमालम्बनावतारमुखेष्ववतारयति सर्वत्रगामिनी प्रतिपज्-ज्ञानबलेन। ततश्चानुरूपेणालम्बनावतारमुखप्रयोगेन चित्तस्थितिञ्च ग्राहयित्वा चरितानि च विशोधयित्वा सत्कायदृष्टिमूल-श्वाशतोच्छेदान्तग्राहविवर्जितां मध्यमां प्रतिपदं व्यपदिशति सर्वक्लेशप्रहाणाय पूर्वेनिवासानुस्मृतिज्ञानबलेन च्युत्युपपत्तिज्ञानबलेन च। तत एवं सम्यक् प्रयुक्तः शमथोपस्तब्धो अप्रहीणक्लेशसमुदाचारयोगाकृते कृताभिमानिनामभिमानं त्याजयति आस्रवक्षयज्ञानबलेन। अयं तावदेको बलानामनुक्रमपर्यायः।



अपरः पर्यायः। इह तथागतोऽनुत्तरां सम्यक्सम्बोधिभिसंबुध्य तत्प्रथमतः स्थानास्थानज्ञानबलं सम्मुखीकृत्य प्रतीत्यसमुत्पन्नेषु धर्मेषु परमं धर्मस्थितिज्ञानं व्यवचारयति। तच्च धर्मस्थितिज्ञानं निःश्रित्य कर्मस्वकताज्ञानबलेन गृहिपक्षं व्यवलोकयति येन येन कर्मणा विचित्रेण तेषां गृहिपक्षाश्रितानां समुदागमोऽभूद्भविष्यति विद्यते [च]। गृहिपक्षं व्यवलोक्य ध्यानविमोक्ष-समाधिसमापत्तिज्ञानबलेन प्रव्रजितपक्षं व्यवलोकयति। किमस्त्यस्मिन् कश्चिद् प्रव्रजितपक्षे दुःखान्निःसृतो दुःखान् निःसरणाय च मार्गस्य देशयिता। आहोश्वित् नास्तीति। स नास्तीति अवगम्य निस्राणमशरणं सर्वं लोकमवेक्ष्य महाकरुणामुपादाय बुद्धचक्षुषा लोकं व्यवलोकयति। स व्यवलोकयन्निन्द्रियपरापरज्ञानं सम्मुखीकृत्य प्रजानाति। सन्ति सत्त्वा लोके जाता [ लोके] वृद्धा मृद्विन्द्रिया अपि मध्येन्द्रिया अपि तीक्ष्णेन्द्रिया अपीति। [इति] विदित्वास्य धर्मदेशनायां चित्तं क्रामति। ततः पूर्ववत्सर्वानुक्रमो नानाधिमुक्त्यादिकानां तदन्येषां बलानां वेदितव्यः। अयं द्वितीयो बलानामनुक्रमपर्यायः।



अपरः पर्यायः। पूर्वं तावत्तथागतोऽभिसंबुध्यमात्र एव स्थानास्थानज्ञानबलेन प्रतीत्यसमुत्पन्नं धर्मधातुं विचारयति। ततः कर्मस्वकज्ञानबलेन येषु प्रतीतत्यसमुत्पन्नेषु धर्मेषु सत्त्वसंज्ञातं सत्त्वधातुं विचारयति। अमी सत्त्वा एवं रूपस्य स्वयंकृतस्य कर्मण एवं रूपं फलं प्रत्यनुभवन्तीति। धर्मधातुं [सत्त्वधातुं] च यथावद्व्यवचारयित्वा ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तानेव सत्त्वान् दुःखविमोक्षाय सम्यक् त्रिभिः प्रातिहार्यैरववदति। अववदन् पूर्वंवदननुक्रमेणावशिष्टैर्वलैरिन्द्रियादीनि ज्ञात्वा मार्गे चावतारयित्वा तान् सत्त्वान् दुःखाद्विमोचयति। अयं तृतीयो बलानाम नुक्रमपर्यायः।



तत्र स्थानास्थानज्ञानवलस्य कर्मस्वकज्ञानबलस्य च को विशेषः। यत्कुशलाकुशलस्य कर्मण इष्टानिष्टफलं निर्वर्तते इदं स्थानास्थानज्ञानबलात्। यत्पुनर्य एव कुशलाकुशलं कर्म करोति स एव तदिष्टानिष्टफलं प्रत्यनुभवति। इदं कर्मस्वकज्ञानबलात्। यत्तावद्य एव ध्यानविमोक्षादीनां समापत्त्या तस्यैव ते भवन्ति। नान्यस्य। इदं कर्मस्वकज्ञानबलात्। यत्पुनस्तानेव ध्यानादीनाश्रित्य विनेयांस्रिभिः प्रातिहार्यैरववदति। इदं ध्यानविमोक्ष [समाधि-] समापत्तिज्ञानबलात्। यत् तावच्छ्रद्धा-दिसहजेन संप्रयुक्तं चित्तं प्रगृह्णाति। इदं ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलात्। यत्पुनस्तान्येवेन्द्रियाणि मृदुमध्याधिमात्रादिप्रभेदेन विभजति। इदमिन्द्रियपरापरज्ञानबलात्। यत्तावदिन्द्रियपूर्व तेषु तेषु धर्मेष्वाशयं गृह्णाति। इदमिन्द्रियपरापरज्ञानबलात्। यत्पुनस्तमेवाशयं नाना विभजति इदं नानाधिमुक्तिज्ञानबलात्।



तस्य पुनराशयस्य समासतः षड्‍भिराकारैर्विभागो वेदितव्यः। अनैर्याणिक आशयः। तद्यथा पृथङ् महेश्वर-नारायण-ब्रह्मलोकाद्यधिमुक्तानाम्। नैर्याणिक आशयः तद्यथा त्रिषु यानेष्वधिमुक्तानाम्। शुद्धिदूर आशयः। तद्यथा मृदुमध्यपरिपाकव्यवस्थितानाम्। विशुद्धिसमासन्न आशयः। तद्यथाऽधिमात्रपरिपाकव्यवस्थितानाम्। दृष्टे एव धर्मे निर्वाणप्राप्त्याशयः। तद्यथा श्रावकयानेन निर्वाणप्राप्त्यधिमुक्तानाम्। आयत्यां निर्वाणप्राप्त्याशयः। तद्यथा महायानेन निर्वाणप्राप्त्यधिमुक्तानाम्। यत्तावदधिमुक्तिसमुत्थापितं तदुपमं बीजं गृह्णाति। इदं नानाधिमुक्तिज्ञानबलात्। यत्पुनस्तदेव बीजं बिभज्यानेकप्रकारं गृह्णाति। इदं नानाधातुज्ञानबलात्। स पुनर्धातुप्रविभागः समासतश्चतुष्प्रकारो वेदितव्यः। प्रकृतिस्थं बीजं पूर्वाभ्याससमुत्थितं बीजं विशोध्यं बीजम्। तद्यथा परिनिर्वाणधर्मकाणाम्। अविशोध्यञ्च बीजम्। तद्यथा परिनिर्वाणधर्मकाणाम्। यत्तावद्यथा धात्वनुरूपं प्रतिपदमवतारं प्रजानाति। इदं नानाधातुज्ञानबलात्। यत्पुनस्तामेव प्रतिपदं सर्वैः प्रकारैः प्रविभजति। इयं प्रतिपत्संक्लेशायेयं व्यवदानायेयमत्यन्तव्यवदानायेयं नात्यन्तव्यवदानायेति। इदं सर्वत्रगा मिनी प्रतिपज्ज्ञानबलात्। यत्तावत्पूर्वान्तमनुस्मरन् सर्वगतिहेतुं पूर्वान्तसहगतां यथाभूतं प्रजानाति। इदं सर्वत्रगामिनी प्रतिपज्ज्ञानबलात्। यत्पुनः प्रविभज्य व्यवहारपदानुगतं पूर्ववत् षड्‍विधं चरितं प्रजानाति। इदं पूर्वे निवासानुस्मृतिज्ञानबलात्। यत्तावत्पूर्वान्तमारभ्य सत्त्वानां च्युत्युपपादं प्रजानाति। इदं पूर्वे निवासानुस्मृतिज्ञानबलात्। यत्पुनपरान्तिकं सत्त्वानां च्युत्युपपादं पश्यति। इदं च्युत्युपपत्तिज्ञानबलात्। यत्तावदपरिनिष्ठित-स्वकार्थानां सत्त्वानामपरान्ते उपपत्तिं प्रतिसन्धिं प्रजानाति। इदं च्युत्युपपत्तिज्ञानबलात्। यत्पुनः परिनिष्ठितस्वकार्थानां सुविमुक्तचित्तानां दृष्टधर्मनिर्वाणप्राप्तिं प्रजानाति। इदमास्रवक्षयज्ञानबलात्। अयमेषां दशानां तथागतबलानामन्योन्यं विशेषश्चाविशेषश्च वेदितव्यः।



चत्वारि वैशारद्यानि ग्रन्थतो यथासूत्रमेव वेदितव्यानि। तत्र चत्वार्येतानि स्थानानि तथागतैः परिषदि प्रतिज्ञातव्यानि भवन्ति। श्रावकासाधारणो ज्ञेयावरणविमोक्षात्सर्वाकारसर्वधर्माभिसंबोधः। इदं प्रथमं स्थानम्। श्रावकसाधारणश्च क्लेशावरणविमोक्षः। इदं द्वितीयं स्थानम्। विमोक्षकामानां च सत्त्वानां दुःखसमतिक्रमाय नैर्याणिको मार्गः। इदं तृतीयं स्थानम्। तस्यैव च मार्गस्य प्राप्तिविबन्धभूता ये आन्तरायिका धर्माः परिवर्जयितव्याः। इदं चतुर्थं स्थानम्। यथार्थप्रतिज्ञश्च तथागतः एषु चतुर्षु स्थानेषु। अतः प्रतिज्ञाविगुणां द्वयोः पूर्वयोः स्थानयोः कायवाङ्मनश्चेष्टां प्रतिज्ञाविगुणां च द्वयोः पश्चिमयोः स्थानयोः पूर्वापरविरोधतामयुक्तिपतिताञ्चापरेषां दिव्यदृशां चादिव्यदृशाञ्च परचित्तविदामपरिचित्तविदां च प्रतिज्ञानस्थानप्रतिपक्षेण संचोदनायां निमित्तभूतामसमनुपश्यन् येनैतानि स्थानानि विशारदोऽलीनचित्तो निराशङ्को निर्भीः प्रतिजानाति। एतावच्च शास्त्रा प्रतिज्ञातव्यम् यदुत परिपूर्णा स्वहितप्रतिपत्तिः परहितप्रतिपत्तिश्च। तत्र पूर्वकाभ्यां द्वाभ्यां स्थानाभ्यां परिपूर्णा स्वहितप्रतिपत्तिः प्रतिज्ञाता भवति। पश्चिमकाभ्यां [स्थानाभ्यां] परिपूर्णा परिहितप्रतिपत्तिः प्रतिज्ञाता भवति। तत्रात्मनः सर्वधर्माभिसंबोधात्सम्यक्संबुद्धत्वं तथागतो महायानसंप्रस्थितान् बोधिसत्त्वानधिकृत्य प्रतिजानीते। सर्वास्त्रवक्षयं पुनः श्रावकप्रत्येकबुद्धयानसंप्रस्थितान् सत्त्वानधिकृत्य प्रतिजानीते। मार्गं नैर्याणिकं धर्मानान्तरायिकांस्तदुभयानधिकृत्य प्रतिजानीते। एवमेतत्सूत्रपदं तथागतेन देशितम्। यो वा मे बोधिसत्त्वानां श्रावकाणाञ्च नैर्याणिको मार्गो देशित इति विस्तरः। स च बोधिसत्त्वापदेशः संगीतिकारैः श्रावकपिटकाधिकारादपनीतः। बोधिसत्त्वपिटके पुनर्बोधिसत्त्वोपदेश एव केवलः पठ्यते।



त्रीणि स्मृत्युपस्थानानि ग्रन्थतो यथासूत्रमेव वेदितव्यानि। दीर्घरात्रं तथागत एवं कामः कच्चिन्मया सुदेशिते धर्मे विनेयाः प्रतिपत्तौ यथावदवतिष्टेरन्निति। तस्य च दीर्घरात्रं तत्कामस्य धर्मस्वामिनो गणपरिकर्षकस्य तस्याः प्रार्थितायाः सम्पत्तिभ्यामसंक्लेशस्रिभिः स्मृत्युपस्थानैः समासतः प्रभाव्यते।



तानि पुनरेतानि परिषत्‍त्रयप्रभेदात् त्रीणि व्यवस्थाप्यन्ते। तिस्रः परिषदा कतमाः। एकान्तेन सम्यक् प्रतिपद्यन्ते सर्व एव। इयमेका परिषत्। एकान्तेन मिथ्या प्रतिपद्यन्ते सर्व एव। इयं द्वितीया परिषत्। तृतीया पुनः परिषद्यास्यां तदेकत्याः सम्यक् प्रतिपद्यन्ते तदेकत्या मिथ्या प्रतिपद्यन्ते।



त्रीण्यरक्ष्याणि यथासूत्रमेव ग्रन्थतो वेदितव्यानि। समासतः सर्वाकारकुकृतप्रतिच्छादनता-प्रहाणम्। एतत्तथागतस्य त्रिभिररक्ष्यैः परिदीपितम् यदपि तदर्थतोऽपि किञ्चिदव्याकृतं कुकृतमात्रकं भवति कदाचित्कर्हिचित्स्मृतिप्रमोषात्। तदपि तथागतस्य सर्वेण सर्व नास्ति। अतस्तथागतो यथा प्रतिज्ञातस्तथा स्वभावः। श्रावकान् निगृह्य निगृह्य ब्रवीति। प्रसह्य प्रसह्य तदेकत्यानवसादयति। तदेकत्यान् प्रवासयति। अपि तु निष्ठुरं प्रतिपद्यते नास्य तेष्वनुरक्षा उत्पद्यते। मा हैव मे श्रावकाः संवासान्वयादपरिशुद्धकायवाङ्मनः-समुदाचारतां विदित्वा तेन वस्तुनाऽनात्तमनस्का अनभिराद्ध्याश्चोदयिष्यन्ति। परेषां वा आख्यास्यन्तीति।



तत्र तथागतानां महाकरुणा सर्वाकारा यथा पूर्वनिर्दिष्टा पूजासेवाप्रमाणपटले वेदितव्या। सा पुनरप्रमाणा निरुत्तरा ताथागती वेदितव्या। तत्र तथागतस्यानुष्टेयं यच्च भवति [यत्र च भवति] यथा च भवति यदा च भवति तत्र तस्य तथा तदा सम्यगनुष्ठानादियं तथागतस्यासम्मोषधर्मतेत्युच्यते। इति या च तत्र तथागतस्य सर्वकृत्येषु सर्वदेशेषु सर्वकृत्योपायेषु सर्वकालेषु स्मृत्यसंप्रमोषता सदोपस्थितस्मृतिता। इयमत्रासम्मोष-धर्मता द्रष्टव्या।



तत्र या तथागतस्य स्पन्दिते वा प्रेक्षिते वा कथिते वा विहारे वा क्लेशसद्भावसदृशं चेष्टाऽसमुदाचार-प्रचारता। अयं तथागतस्य वासनासमुद्घात इत्युच्यते। अर्हतां पुनः प्रहीणक्लेशानामपि क्लेशसद्भावसदृशी चेष्टा स्पन्दित-प्रेक्षित-कथित-विहृतेषु भवत्येव।



समासतस्तथागतेन धर्माणां त्रयो राशयोऽभिसंबुद्धाः। कतमे त्रयः। अर्थोपसंहिता धर्मा अनर्थोपसंहिता नैवार्थोपसंहिताः नानर्थोपसंहिताः। तत्र यत्तथागतस्यानर्थोपसंहितेषु नैवार्थोपसंहित-नानर्थोपसंहितेषु सर्वधर्मेषु ज्ञानम्। इदं तथागतस्य सर्वाकारज्ञानमित्युच्यते। तत्र यत्तथागतस्यार्थोपसंहितेषु सर्वधर्मेषु ज्ञानम्। इदं तथागतस्य वरज्ञानमित्युच्यते। तत्र यच्च सर्वाकारं ज्ञानं यच्च वरज्ञानं तदैकध्यमभिसंक्षिप्य सर्वाकारवरज्ञानमित्युच्यते।



तदेतदभिसमस्य सर्वञ्चत्वारिंशदुत्तरमावेणिकं बुद्धधर्मशतं भवति। तत्र लक्षणानुव्यञ्जनान्यनेन बोधिसत्त्वभूतेन चरमे भवे सुपरिशुद्धानि प्रतिलब्धानि भवन्ति। यदा तु बोधिमण्डे निषीदति सुपरिपूर्ण-बोधिसंभारमार्गो बोधिसत्त्वः पश्चिमे भवे तदासावनाचार्यकं सप्तत्रिंशतं बोधिपक्ष्यान् धर्मान् भावयन्नेकक्षणानावरणज्ञानदं नाम समाधिं प्रतिलभते शैक्ष्यभूतस्य बोधिसत्त्वस्य वज्रोपमसमाधि-संगृहीतम्। तस्यानन्तरं द्वितीये क्षणे परिशिष्टानां दशबलादीनां बुद्धधर्माणां सर्वाकार-वरज्ञान-पर्यवसानानां सुविशुद्धतां निरुत्तरतां सकृत्प्रतिलभते। तेषाञ्च लाभात् सर्वस्मिन् ज्ञेयेऽसक्तमनावरणं सुविशुद्धं निर्मलं ज्ञानं प्रवर्तते आभोगमात्र-प्रतिबद्धम्। परिपूर्णसंकल्पश्च भवति। तथा परिपूर्णमनोरथः समतिक्रान्तो बोधिसत्त्वचर्या बोधिसत्त्वभूमिम्। तथागतचर्यां तथागतभूमिमवक्रान्तो भवति। सारगतस्य च ज्ञेयावरणपक्ष्यस्य दौष्ठुल्यस्य निरवशेषं प्रहाणादस्याश्रयः परिवृत्तो भवति। सा चास्य निरुत्तरा आश्रयपरिवृत्तिः। अन्याः सर्वाः परमविहारावसाना बोधिसत्त्वानामाश्रयपरिवृत्तयः सोत्तरा एव वेदितव्याः।



तत्र निष्ठागमन-भूमिस्थितस्य च बोधिसत्त्वस्य [तथागतस्य च कथं ज्ञानविशेषोऽवगन्तव्यो ज्ञानान्तरम्। इह निष्ठागमन-भूमिस्थितस्य बोधिसत्त्वस्य] पेलवपटान्तरितं यथाचक्षुष्मतो रूपदर्शनम्। एवं तस्य सर्वस्मिन् ज्ञेये ज्ञानं वेदितव्यम्। यथा पुनर्न केनचिदन्तरितम्। एवं तथागतस्य ज्ञानं द्रष्टव्यम्। तद्यथा सर्वाकाररंग-परिपूर्णं चित्रकर्म पश्चिमया सुविशुद्धया रंगलेखयाऽपरिशोधितम्। एवं तस्य बोधिसत्त्वस्य ज्ञानं द्रष्टव्यम्। यथा सुविशोधितमेवं तथागतस्य ज्ञानं द्रष्टव्यम्। तद्यथा चक्षुष्मतः पुरुषस्य मन्दतमस्कं रूपदर्शनम्। एवं बोधिसत्त्वस्य पूर्ववत्। यथा सर्वाकारापगततमस्कमेवं तथागतस्य ज्ञानं द्रष्टव्यम्। तद्यथा चक्षुष्मत आराद्रूपदर्शनम् एवं एवं बोधिसत्त्वस्य पूर्ववत् यथा आसन्ने एवं तथागतस्य पूर्ववत्। यथा मृदुतैमिरिकस्य रूपदर्शनम् एवं बोधिसत्त्वस्य पूर्ववत् यथा सुविशुद्ध-चक्षुषः एवं तथागतस्य पूर्ववत्। यथा गर्भगतस्यात्मभाव एवं निष्ठागमनभूमिस्थितो बोधिसत्त्वो द्रष्टव्यः। यथोपपत्तिभवे जातस्यात्मभाव एवं तथागतो द्रष्टव्यः। यथार्हतः स्वप्नान्तरगतस्य चित्तप्रचारस्तथा निष्ठागमन-भूमिस्थितस्य बोधिसत्त्वस्य द्रष्टव्यः। यथा तस्यैव प्रतिविबुद्धस्य चित्तप्रचार एवं तथागतस्य द्रष्टव्यः। तद्यथा प्रदीपस्याविशुद्धस्य स्वभावः तथा निष्ठागमन-भूमिस्थितस्य बोधिसत्त्वस्य ज्ञानस्वभावो द्रष्टव्यः। यथा सुविशुद्धस्य प्रदीपस्य स्वभावः एवं तथागतस्य ज्ञानस्वभावो द्रष्टव्यः। अतो महज्‍ज्ञानान्तरमात्मभावान्तरं चिन्तान्तरं तथागतनिष्ठागमनभूमिस्थित-बोधिसत्त्वयोर्वेदितव्यम्।



एवमभिसंबुद्धो बोधिस्तथागतो दशसु दिक्षु सर्वबुद्धक्षेत्रे सर्वबुद्धकार्यं करोति। तत्र बुद्धकार्यं कतमत्। समासतो दशेमानि तथागतस्य तथागतकृत्यानि तथागतकरणीयानि। एकैकञ्च तथागतकृत्यमप्रमाणानां सत्त्वानामर्थकारकं भवति। नास्त्यत उत्तरि नास्त्यतो भूयः। कतमानि दश। स्वे महापुरुषभावे आदित एव चित्तप्रसादकारकमहापुरुष [भाव] संप्रत्ययजनना प्रथमं तथा [ गत] कृत्यं तच्च लक्षणानुव्यञ्जनैः सम्पादयति। सर्वसत्त्वानां सर्वाकाराववादप्रयोगतथागतकृत्यं [ यत्] चतस्रभिः सर्वाकारपरिशुद्धिभिः सम्पादयति। [इदं] द्वितीयं तथागतकृत्यम्। सर्वसत्त्वकार्यकरणसामर्थ्यं सर्वसंशयच्छेदनसामर्थ्यञ्च तृतीयं तथागतकृत्यम्। यत्तथागतो दशभिर्ताथागतबलैः सम्पादयति तथा हि तथागतो दशभिः पूर्वनिर्दिष्टैर्वलैः सर्वसत्त्वानां सर्वार्थसम्पादनं प्रति समर्थो भवति। ये चैनं तथागतबलान्यारभ्य प्रश्नं पृच्छन्ति यथा यानि तथागतेन ज्ञातानि दृष्टानि विदितानि विज्ञातानि तथा तानि तथागतस्तेषां प्रश्नं पृष्टो व्याकरोति। सर्वपरप्रववादनिग्रहः स्ववादव्यवस्थापना तथागतस्य चतुर्थं कृत्यम्। यत्तथागतो वैशारद्यैः सम्पादयति तथागताज्ञायां स्थितेष्वस्यितेषु च विनेयेष्वसंक्लिष्टचित्तता पञ्चमं तथागतकृत्यम्। यत्तथागतः स्मृत्युपस्थानैः सम्पादयति यथावादि तथाकारिता षष्ठं तथागतकृत्यम्। यत्तथागतः अरक्ष्यैः सम्पादयति बुद्धचक्षुषा रात्रिन्दिवं सर्वलोकव्यवलोकना सप्तमं तथागतकृत्यम्। यत्तथागतो महाकरुणया सम्पादयति। सर्वसत्त्वसर्वकृत्याविहाराणि अष्टमं तथागतकृत्यम्। यत्तथागतोऽसम्मोषधर्मतया सम्पादयति तथागतस्याचारविहारस्य यथावदनुवर्तना अधितिष्ठना नवमं तथागतकृत्यम्। यत्तथागतो वासनासमुद्धातेन सम्पादयति ये धर्मा अनर्थोपसंहिता ये च नैवार्थोपसंहितानानार्थोपसंहितास्तानभिनिर्वर्ज्य ये च धर्मा अर्थोपसंहितास्तेषां समाख्यानं विवरणा उत्तानीकर्मे दशमं तथागतकृत्यम्। यत्तथागतः सर्वाकारवरज्ञानेन सम्पादयति एवं हि तथागतोऽनेनावेणिकेन चत्वारिंशदुत्तरेण बुद्धधर्मशतेन दशतथागत कृत्यानि कुर्वन् सर्वबुद्धकार्यं करोति। विस्तरविभागतः पुनरस्यैव बुद्धकार्यस्य न सुकरासंख्यां कर्तुं यावत्कल्पकोटीनियुतशतसहस्रैरपि।



अयं स तथागतो विहारस्तथागती भूमिः प्रतिष्ठेत्युच्यते। तत्कस्य हेतोः। एतामाश्रित्यैतां प्रतिष्ठाय यस्याः स्पृहयमाणरूपा बोधिसत्त्वा बोधिसत्त्वशिक्षासु शिक्षन्ते अधिगम्यापि च तां प्रतिष्ठामेतामेवाश्रित्यैतां प्रतिष्ठाय सर्वसत्त्वानां सर्वार्थान् साम्पादयति। तस्मात्प्रतिष्ठेत्युच्यते।



सर्वे चैते बुद्धधर्मा अत्यर्थं परार्थक्रियानुकूलाः परार्थक्रियाप्रभाविताश्च तथागतानाम्। [न] तथा श्रावकप्रत्येकबुद्धानाम्। तस्मात्तस्यैव ते आवेणिका इत्युच्यन्ते। सन्ति च ते बुद्धधर्मा ये सर्वेण सर्वं श्रावकप्रत्येकबुद्धेषु नोपलभ्यन्ते। तद्यथा महाकरुणाऽसम्मोषधर्मता वासनासमुद्धातः सर्वाकारवरज्ञानम्। येऽपि चोपलभ्यन्ते तेऽपि न सर्वाकारपरिपूर्णाः। तथागतस्य तु सर्वे चोपलभ्यन्ते सर्वाकारपरिपूर्णाश्चातिक्रान्ततराश्च प्रणीततराश्च। तस्मात्ते तस्यावेणिका इत्युच्यन्ते। कैवल्यार्थश्चावेणिकार्थो वेदितव्यः।



इत्ययं परिपूर्णो बोधिसत्त्वानां शिक्षामार्गः। शिक्षामार्गफलञ्च प्रकाशितम्। सर्वबोधिसत्त्व-शिक्षामार्गस्य शिक्षामार्गफलस्य च तर्वाकारस्य निर्देशाय अधिष्ठानभूतम् सा खल्वियं बोधिसत्त्वभूमिर्बोधिसत्त्वपिटकमातृकेत्यप्युच्यते। महायानसंग्रह इत्यप्युच्यते। [प्रणाशा-] प्रणाशपथविवरणमित्युच्यते। अनावरणज्ञानविशुद्धि मूलमित्यप्युच्यते। यः कश्चित् सदेवमानुषा [सुरा] ल्लोकाद्देवभूतो वा [मनुष्यभूतो वा] श्रमणो वा ब्राह्मणो वास्यां बोधिसत्त्वभूमौ दृढामधिमुक्तिमुत्पाद्येमां श्रोष्यत्युद्ग्रहीष्यति धारयिष्यति भावनाकारेण वा प्रयोक्ष्यते परेषां वा विस्तरेण प्रकाशयिष्यत्यन्ततो लेखयित्वा धारयिष्यति पूजासत्कारञ्च प्रयोक्ष्यते। तस्य समासतो यावान् पुण्यस्कन्धो भगवता सर्वबोधिसत्त्वपिटके संगृहीतस्य सूत्रान्तस्य श्रवणादिकर्मण आख्यात उत्तानो विवृतः प्रज्ञप्तः प्रकाशितः तावानस्य पुण्यस्कन्धः प्रत्याशंसितव्यः। तत्कस्य हेतोः। तथा ह्यस्यां बोधिसत्त्वभूमौ सर्वस्य बोधिसत्त्वपिटकस्योद्देशनिर्देशमुखानि संगृहीतान्याख्यातानि। यावच्चास्यां [बोधिसत्त्व] भूमौ यो धर्मविनयो विस्तरेण प्रकाशितः स बहुलमुद्देशस्वाध्याय-धर्मानुधर्मप्रतिपत्तितः स्थास्यति पृथुवृद्धिवैपुल्यताञ्च गमिष्यति न तावत्सद्धर्मप्रतिरूपकाः प्रचुरा भविष्यन्ति सद्धर्मान्तर्द्धानाय। यतश्च पुनः सद्धर्मप्रतिरूपकाः प्रचुरा भविष्यन्ति ततश्चायं सद्धर्मो भूतार्थोपसंहितो तस्य तदन्तर्धानं भविष्यति।



इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने षष्ठं प्रतिष्ठापटलम्



॥समाप्ता च बोधिसत्त्वभूमिः॥

॥कृतिरियमाचार्यार्यासङ्गपादानाम्॥



ये धर्मा हेतुप्रभवा हेतुं तेषान्तथागतो ह्यवदत्।

तेषाञ्च यो निरोध एवं वादी महाश्रमणः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project