Digital Sanskrit Buddhist Canon

3-5 लक्ष्मणानुव्यञ्जनपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 3-5 lakṣmaṇānuvyañjanapaṭalam
लक्ष्मणानुव्यञ्जनपटलम्



तत्र तथागतविहारमारभ्य ताथागतीञ्च निष्ठागमनभूमिं भगवतां चत्वारिंशदुत्तरमावेणिकं बुद्धधर्मशतं भवति। द्वात्रिंशन्महापुरुषलक्षणानि अशीत्युनुव्यञ्जनानि चतस्रः सर्वाकाराः परिशुद्धयः दश तथागतबलानि चत्वारि वैशारद्यानि त्रीणि स्मृत्युपस्थानानि त्रीण्यरक्षाणि महांकरुणाऽसम्मोषधर्मता वासना-समुद्धातः सर्वाकार-वरज्ञानञ्च।



द्वात्रिंशन्महापुरुषलक्षणानि कतमानि। सुप्रतिष्ठितपादो महापुरुषः सममाक्रमति महीम्। इदं महापुरुषस्य महापुरुषलक्षणम्। अधस्थात्पादतलयोश्चक्रे जाते सहस्रारे सनाभिके सनेमिके सर्वाकारपरिपूर्णे। दीर्घाङ्गुलिमंहापुरुषः। आयतपादपार्ष्णिः। मृदुतरुणपाणिपादः। जालपाणिपादः। उच्छङ्गचरणः। एणेयजङ्घः। अनवनतकायः। कोशगतवस्तिगुह्यः। न्योग्रधपरिमण्डलः। व्यामप्रभः। ऊर्ध्वाङ्गरोमा। एकैकरोमा। एकैकमस्य रोमकूपे जातं नीलं कुण्डलकजातं प्रदक्षिणावर्तम्। काञ्चनसन्निभत्वक्। श्लक्ष्णवत्क्। श्लक्ष्णत्वात् त्वचे रजो मलस्य काये नावतिष्ठते। सप्तोत्सदकायः। सप्तास्योत्सदाः। काये जाताः-द्वौ हस्तयोर्द्वौ पादयोर्द्वावसंयोरेको ग्रीवायाम्। सिंहपूर्वार्धकायः। सुसंवृत्तस्कन्धः। चितान्तरांशः। बहदृजुगात्रः। चत्वारिंशत्समदन्तः। अविरलदन्तः। सुशुक्लदन्तः। सिंहहनुः। प्रभूत-तनुजिह्वः। प्रभूतत्वाज् जिह्वायाः मुखाज्जिहवां निर्णाम्य सर्वमुखमण्डलमवच्छादयति यावन्तकं क्लेशपर्यन्तम्। रसरसाग्रप्राप्तः। ब्रह्मस्वरः। कलविङ्क-मनोज्ञभाणी। दुन्दुभिस्वरनिर्घोषः। अभिनीलनेत्रः। गोपक्ष्मा। उष्णीषशीर्षा। ऊर्णा चास्य भ्रूवोर्मध्ये जाता श्वेता शंखनिभा प्रदक्षिणावर्ता। इदं महापुरुषस्य महापुरुषलक्षणम्।



अशीतिरनुव्यञ्जनानि कतमानि। हस्तपादयोर्विशतिरङ्गुल्यः सपर्वाणः सनखाः। विंशतिरनुव्यञ्जनानि। हस्तपादयोरेवाष्टौ तलानि। द्वयोर्हस्तयोश्चत्वारि द्वयोः पादयोश्चत्वार्यष्टावनुव्यञ्जनानि। षड्‍विधो गुल्फजानूरुसंघातः। षडनुव्यञ्जनानि। षड्‍विधो बाह-संघातः षडनुव्यञ्जनानि। जघनम्। सीवनी च। वृष्णेऽनुव्यञ्जनद्वयं। उपस्थम्। द्वे स्फिचौ अनुव्यञ्जनद्वयम्। त्रिकम्। उदरम्। नाभिः। द्वे पार्श्वे द्वे कक्षे द्वौ स्तनौ‍अभिसमस्य षडनुव्यञ्जने भवन्ति। उरः हृदयं ग्रीवा पृष्ठम्। इत्येत्यानि अधः कायगतानि ग्रीवायाम ऊर्ध्वं स्थापयित्वा षष्टिरनुव्यञ्जनानि भवति। द्वे दन्तमाले द्वे अनुव्यञ्जने। तालुकम्। द्वौ सपरिवारौ चोष्टौ अनुव्यञ्जनद्वयम्। सुपरिपूर्णं कपोलम्। द्वे गण्डे परिपूर्णे सुसंस्कृते अनुव्यञ्जनद्व्यम्। द्वौ अक्षिपरिवारावनुव्यञ्जनद्वयम्। द्वे भ्रुवावनुव्यञ्जनद्वयम्। द्वे नासिकाविले अनुव्यञ्जनद्वयम्। ललाटम्। द्वे शङ्खे द्वौ च कर्णावनुव्यञ्जन-चतुष्टम्। सकेशञ्च शिरोऽनुव्यञ्जनम्। इत्येतानि ग्रीवायाः ऊर्ध्वं काये विंशतिरनुव्यञ्जनानि भवन्ति। पूर्वकानि च षष्टिः पश्चिमकानि च विंशतिरेकध्यमभिसंक्षिप्य अशीतिरनुव्यञ्जनानि भवन्ति। इत्येतानि लक्षणानुव्यञ्जनानि [भद्राणि] शुद्धाशयभूमिप्रविष्टो बोधिसत्त्वो विपाकतः प्रतिलभते। ततस्तूर्ध्वमेषां शुद्धिरुत्तरोत्तरा यावद्बोधिमण्डनिषदनाद् वेदितव्या। परिशिष्टानावेणिकान् सर्वाकार-परिशुद्धादीन् सुविशुद्धान् परिपूर्णान् प्रतिलभते। हीनैस्तु तैः पूर्वमपि बोधिसत्त्वभूतः समन्वागतो भवति शुद्धाध्याशयभूमिमुपादाय। सर्वश्चाविशेषेण बोधिसम्भारः सर्वेषां लक्षणानुव्यञ्जनानां निर्वर्तको भवति।



स पुनर्बोधिसम्भारो द्विविधः। बोधेर्दूरश्चासन्नश्च। तत्र दूरः। यः प्रतिलब्धेषु विपाकतो लक्षणानुव्यञ्जनेषु। आसन्नः। यः प्रतिलब्धेषु तत्प्रथमतो विपाकतो लक्षणानुव्यञ्जनेषु। ततो वा उत्तरोत्तरविशुद्धिविशेषगतेषु।



विचित्रकर्माभिसंस्कारफलानि त्वेतानि लक्षणानुव्यञ्जनानि भगवता [अर्थि-] विनेयवशेन निर्देशितानि। तत्कस्य हेतोः। सत्त्वा विचित्रे पापकर्मसमुदाचारेऽभिरताः। अप्येव ते तस्य पापकस्य कर्मणो विपक्षभूतस्य विचित्रस्य यत्प्रातिपक्षिकं विचित्रं कुशलं लक्षणानुव्यञ्जननिर्वर्तकं कर्म तस्येदं विचित्रफलानुशंसं श्रुत्वा तस्य महतः फलानुशंसस्य स्पृह्यमानरूपारतस्माच्च पापाद्विरमेयुः। तच्च कुशलं समादाय वर्तेरन्निति। यथोक्तं लक्षणसूत्रे। शीलव्रतक्षान्तित्यागेषु प्रतिष्ठितत्वात्सुप्रतिष्ठितपादत्वं प्रतिलभते। मातापित्रोरुपस्थानेन विचित्रेण विचित्रया च सत्त्वोपद्रवारक्षया आगमन-गमनादिपरिस्पन्दमुपादाय चक्राङ्कपादतां प्रतिलभते। परविहिंसामदत्तादानञ्च प्रहाय गुरूणां चाभिवादनवन्दन-प्रत्युत्थानाञ्जलि-सामीची-कर्म कृत्वा परेषां मनस्तुष्टिप्रियभोगाह्रस्वीकरणान् निहतमानत्वाच्च दीर्घाङ्गुलित्वं महापुरुषलक्षणं प्रतिलभते। यैश्च त्रिभिः कर्मभिरेतानि त्रीणि महापुरुषलक्षणानि निर्दिष्टानि तैरेव सर्वैः समस्तैरायतपादपार्ष्णित्वं प्रतिलभते। तत्र त्रयाणामपि लक्षणानां संनिश्रयत्वात् चतुर्भिः संग्रहवस्तुभिर्गुरून् संगृह्य जालपाणिपादतां प्रतिलभते। गुरूणामेव चाभ्यङ्गोद्वर्तन-स्नानाच्छादनानि दत्त्वा मृदुतरुणपाणिपादतां प्रतिलभते। कुशलधर्मासंतुष्ट्या उत्तरोत्तरान् कुशलान्धर्मान्वर्ध यित्वा उच्छङ्गचरणतां प्रतिलभते। यथावद्धर्मानुद्गृह्य पर्यवाप्य परेषां च देशयित्वा दौत्यञ्च सम्यक् परेषां कृत्वा ऐणेयजङ्घतां प्रतिलभते। अनुपूर्वेण धर्मसमादानेन नेत्रीवर्तमानत्वात्पापकं कायवाङ्गमनःकर्म संयमय्य। तत्रानवनतः ग्लानेषु च ग्लानोपस्थानं कृत्वा भैषज्यञ्च दत्त्वा व्याध्यनवनतोच्छ्रयणान् मात्राशी च कामेष्वनवनतः अनवनतकायतां प्रतिलभते। परैर्निर्वासितान् सत्त्वान् धर्मेण समेन संहृत्य ह्रीमानपत्रापी वस्त्रप्रदश्च कोषगतवस्तिगुह्यतां प्रतिलभते। कायवाङ्मनोभिः संवृतात्मा प्रतिग्रह-भोजने च मात्रज्ञः ग्लानेषु भैषज्यप्रदः विषमे कर्मणि प्रतिग्रह-परिभोगवैषम्ये चाप्रवृत्तत्वात् [धातुवैषम्यानु] लोमनाच्च न्यग्रोधपरिमण्डलत्वं प्रतिलभते। येनैव च कर्मणा उत्सङ्गचरणतां प्रतिलभते तेनैवोर्ध्वङ्गरोमताम्। स्वयं कुशलमीमांसकः पण्डितविज्ञ-सेवी सूक्ष्मार्थचिन्तकः गुरूणां स्थानशोधकः उत्सादकः स्नापकश्च एकविहारित्वादेकमित्र-संश्रयत्वात्सूक्ष्मार्थप्रवेशात् तृणपर्णाद्याविलापकर्षणादागन्तुकमलापकर्षणाच्च एकैकरोमतां प्रतिलभते। मनोज्ञप्रीतिकरभोजनपानयानवस्त्रालङ्कारादि-कायपरिष्कारं दत्त्वा अक्रोधनः काञ्चनसन्निभत्वचतां व्यामप्रभताञ्च प्रतिलभते।



येनैव च कर्मणा एकैकरोमतोक्ता तेनैव सूक्ष्मश्लक्ष्णत्वचता वेदितव्या। प्रभूतेनोत्सदेन विशदेनान्नपानेन महाजनकायं संतर्पयित्वा सप्तोत्सदकायतां प्रतिलभते। सत्त्वानामुत्पन्नोत्पन्नेषु धर्मेषु करणीयेषु प्रामुख्येनावस्थितः। नाहं मानी न च निष्ठुरः। अहिताञ्च सत्त्वाना निवारयिता ताडिता हिताहिते च सन्नियोजयिता सिंहपूर्वार्धकायतां प्रतिलभते सिंहवत्सत्त्वार्थेषु पराक्रमशीलत्वात्। अनेनैव च कर्मणा सुसंवृत्तस्कन्धता चितान्तरांशता च वेदितव्या। येनैव च कर्मणा दीर्घाङ्गुलित्वं प्रतिलभते तेनैव बृहद्‍ऋजुगात्रतां प्रतिलभते। मित्रभेदकरीं पिशुनां वाचं प्रहाय भिन्नानाञ्च सत्त्वानां सामग्रीं कृत्वा चत्वारिंशद् दन्ततां समाविरलदन्तताञ्च प्रतिलभते। कामावचरीं मैत्रीं भावयित्वा धर्मार्थचिन्तकः सुशुक्लदन्ततां प्रतिलभते। अर्थिम्यः सत्त्वेभ्यो यथाभिप्रेतं धनं सम्यग्विसृज्य सिंहहनुतां प्रतिलभते। स्वसुतवत्-सत्त्वान्संरक्ष्य श्राद्धश्चानुकम्पकश्च भैषज्यप्रदश्च [प्रसन्नश्च] रसरसाग्रतां प्रतिलभते धर्मरसानुप्रदानाद्धर्मरसास्वादनात् प्रनष्टरसविशोधनाच्च। पञ्च शिक्षापदानि प्राणातिपातविरत्यादीनि स्वयञ्च समादाय संरक्ष्य परांश्च तेष्वेव समादापयित्वा करुणाचित्ततामुपादाय महती धर्मसमादाने प्रतिपन्नत्वादुष्णीषशिरस्कताञ्च प्रभूत-तनुजिह्वतां च प्रतिलभते। सत्यवादितया प्रियवादितया कालधर्मवादितया च ब्रह्मस्वरतां प्रतिलभते। कृत्स्नं जगन्मैत्रेण चेतसाऽनुकम्प्य मातृवत्पितृवदभिनीलनेत्रतां गोपक्ष्मनेत्रताञ्च प्रतिलभते। गुणवतां तु भूतस्य वर्णस्य हर्तां वर्णवादी भ्रुवोर्मध्ये ऊर्णां प्रतिलभते श्वेतां शंखनिभां प्रदक्षिणावर्ताम्। सर्वेषु च द्वात्रिंशत्सु महापुरुषलक्षणेष्वविशेषेण शीलं कारणं प्रतिलम्भाय वेदितव्यम्। तत्कस्य हेतोः। न हि शीलविपन्नो बोधिसत्त्वो मनुष्यत्वमेव तावदासादयेत् कुतः पुनर्महापुरुषलक्षणम्। तत्रोष्णीषशिरस्कता अनव लोकितमूर्धता चैकं महापुरुषक्षणं वेदितव्ये तद्‍व्यतिरेकेणानुपलम्भात्। इदं तावद्विस्तरेण लक्षणाभिनिवृत्त्यानुरूप्येण विचित्रकर्मव्यवस्थानम्।



समासतः पुनश्चतुराकारया पक्षद्वयगतया सुकृतकर्मान्ततया सर्वलक्षणाभिनिर्वृत्तिर्वेदितव्या। तत्र नियतकारितया सुप्रतिष्ठितपादया निर्वर्तते। निपुणकारितया चक्रचरणता उच्छङ्गचरणता जालपाणिपादता सूक्ष्मत्वचता चितान्तरांशता सुसंवृत्तस्कन्धता वृहद्‍ऋजुगात्रता प्रभूततनुजिह्वता च निर्वर्तते। नित्यकारितया दीर्घाङ्ग लित्वं आयतपादपार्ष्णिता अनवनतकायता न्यग्रोधपरिमण्डलता अविरलदन्तता च निर्वर्तते। अनवद्यकारितया परिशिष्टानां लक्षणानामभिनिर्वृत्तिः। तत्र सत्त्वेष्वव्याबाध्यप्रयोगान्मृदुतरुणपाणिपादता श्लक्ष्ण-सूक्ष्म-त्वचता च निर्वर्तते। क्रमप्रयोगाच्च कालप्रयोगाच्च कुशले ऐणेयजङ्घता निर्वर्तते। प्रामोद्यप्रीतिप्रभास्वरेण चित्तेन कुशलसमाचाराद् व्याम-प्रभता च काञ्चनसन्निभत्वचता शुक्लदन्तता ऊर्णा च श्वेता निर्वर्तते। कीर्तिशब्दश्लोकेऽसन्निश्रयात् प्रतिच्छन्न-कल्याणत्वाच्च कोशगतवस्तिगुह्यता निर्वर्तते। बोधाय कुशलमूलपरिणमनादूर्ध्वाङ्ग-रोमता चत्वारिंशत्समदन्तता रसरसाग्रता उष्णीषशिरस्कता च निर्वर्तते। कुशले अतृप्तालीनप्रयोगात् सिंहपूर्वार्धकायता सिंहहनुता च निर्वर्तंते। सत्त्वेषु हितचित्ततया समदर्शनात् समदन्तता अभिनीलनेत्रता गोपक्ष्ममा च निर्वर्तते। हीनेनासन्तुष्टिप्रयोगाच्च ब्रह्मस्वरता च निर्वर्तंते। एवमनया चतुराकारया सुकृतकर्मान्ततया बोधिसत्त्वानामेषां द्वात्रिंशतां-महापुरुष लक्षणानां प्रतिलम्भो विशुद्धिश्च भवति।



तत्र गोत्रभूमौ बोधिसत्त्वानामेतल्लक्षणबीजमात्रेऽवस्थानं वेदितव्यम्। अधिमुक्तिचर्याभूमौ प्राप्त्युपाये वृत्तिरेषां वेदितव्या। अध्याशयशुद्धि भूमौ प्राप्तिरेषां वेदितव्या। तदन्यासु तदुत्तरोत्तरासु बोधिसत्त्वभूमिषु विशुद्धिरेषां वेदितव्या ताथागत्यां निष्ठागमनभूमौ सुविशुद्धतैषां निरुत्तरता च वेदितव्या। तत्र रूपित्वादेषां लक्षणानां हीनमध्योत्तमैश्च सत्त्वैः सूपलक्ष्यत्वात् सत्सु सर्वेष्वेव बुद्धधर्मेषु महापुरुषलक्षणेष्वेतान्येव महापुरुषलक्षणानि व्यवस्थापितानि। एतान्येव च द्वात्रिंशन्महापुरुषलक्षणान्याश्रयभावेन धारयन्त्यानुरूप्याच्च शोभयन्ते तस्मादनुव्यञ्जनानीत्युच्यन्ते।



तत्र समासतः सर्वसत्त्वेषु पुण्यसदृशेन पुण्यस्कन्धेन तथागतस्यैकैको रोमकूपो निर्वर्तते। यावत्सर्वरोमकूपप्रविष्टः पुण्यस्कन्धः। इयता पुण्यस्कन्धेनैकैकमनुव्यञ्जनगति निर्वर्तते। यावत्‍सर्वानुव्यञ्जनप्रविष्टः पुण्यस्कन्धः। ततः शतगुणेन पुण्यस्कन्धेन तथागतस्यैकं लक्षणं निर्वर्तते। यावत्सर्वलक्षणप्रविष्टः पुण्यस्कन्धः स्थापयित्वा ऊर्णामुष्णीषञ्च। ततः सहस्रगुणेन पुण्यस्कन्धेनोर्णा निर्वर्तते।यावानूर्णा-प्रविष्टः पुण्यस्कन्धः ततः शतसहस्रगुणेन पुण्यस्कन्धेन उष्णीषशिरस्कता अनवलोकितमूर्धता च निर्वर्तते। यावानुष्णीषप्रविष्टः पुण्यस्कन्धः। ततः कोटीशतसहस्रगुणेन पुण्यस्कन्धेन तथागतस्य लक्षणानुव्यञ्जनासंगृहीतोऽन्यो धर्मशंख्यो नाम निर्वर्तते। येन तथागत आकांक्षमाणः अनन्तापर्यन्तान् लोकधातून् स्वरेण विज्ञापयति। एवमप्रमेयः पुण्यसम्भार-समुदागतस्तथागतः। तथागतानामचिन्त्यो निरुत्तरः सर्वाकारसम्पत्तिपरिगृहीत आत्मभावो निर्वर्तते।



तेषां पुनर्लक्षणानुव्यञ्जननिर्वर्तकानां कुशलानां कर्मणां समासतस्त्रिभिः कारणेप्रमेयता वेदितव्या। कल्पासंख्येयतयाऽभ्याससमुदागमात् कालाप्रमेयतया‍अप्रमेयसत्त्वहितसुखाशयाधिपतेयत्वादाशयाऽप्रमेयतया अप्रमेयकुशलकर्मवैचित्र्याकाराप्रमेयतया च। तस्मादप्रमेयपुण्यसम्भारसमुदागतस्तथागतानां लक्षणानुव्यञ्जनादय इत्युच्यते।



इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने पञ्चमं लक्षणानुव्यञ्जनपटलम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project