Digital Sanskrit Buddhist Canon

3-2 परिग्रहपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 3-2 parigrahapaṭalam
परिग्रहपटलम्



तत्र सर्वासु विहारगतासु बोधिसत्त्वचर्यासु बोधिसत्त्वानां समासतः षड्‍विधः सम्यक्‍त्वपरिग्रहो वेदितव्यः। सकृत्सर्वसत्त्वपरिग्रहः। अधिपत्यपरिग्रहः। उपादानपरिग्रहः। दीर्घकालिकः। अदीर्घकालिकः। चरमश्च परिग्रहः।



प्रथम एव चित्तोत्पादे बोधिसत्त्वेन सर्वः सत्त्वधातुः कलत्रभावेन परिगृहीतः। एषां मया यथाशक्ति यथाबलं सर्वाकारहितसुखोपसंहारः करणीय इति। तथैव च करोति। अयं बोधिसत्त्वस्य सकृत् सर्वसत्त्वपरिग्रहः।



स्वामिभूतस्य मातापितृपुत्रदारदासीदासकर्मकरपौरुषेयपरिग्रहे राजभूतस्य च राज्यजने बोधिसत्त्वस्याधिपत्यपरिग्रहसंज्ञा। स च तस्मिन्परिग्रहे परिग्रहानुरूपया क्रियया बोधिसत्त्वानुरूपया प्रवर्तते। मातापितरञ्च कुशलमूले सन्नियोजयति विविधैरुपायैः। कालेन च कालं पूजोपस्थानं करोति। कृतज्ञश्च भवति कृतवेदी। चित्तानुवर्तकश्च मातापित्रोर्भवति। धर्मेष्वर्थेषु तद्वशवर्ती। पुत्रदारदासीदासादीनां कालेन कालं सम्यग्भक्तप्रावरणमनुप्रयच्छति। कर्मान्तैश्चैनां न बाधते। व्यतिक्रमञ्चैषां क्षमते। ग्लानानाञ्च सम्यक्‍ग्लानोपस्थानं करोति। कुशले चैनां सन्नियोजयति। कालेन च कालं वैशेषिकेण लाभेन प्रियवादितया चोपवत्सयति न चैषु दासदासीसंज्ञां करोति। आत्मवच्चैनां विशेषेण वा परिपालयति। राज्यजने पुना राजभूतो बोधिसत्त्वः अदण्डेनाशस्त्रेण राज्यं कारयति। धर्मेण भोगानुपसंहरति। अन्वयागतञ्च राज्यं परिभुंक्ते। न परराष्ट्रं सहसा बलेनाक्रामति। यथाशक्ति च यथाबलं सत्त्वान् पापान्निवारयति। पितृभूतश्च भवति प्रजानाम्। संविभागशीलश्च भवति परसत्त्वानामपि प्रागेव स्वभृत्यानाम्। अनभिद्रोही च भवति सत्यवादी च। वधबन्धनदण्डनच्छेदनताडनादि-सत्त्वोत्पीडा विवर्जिताः।



तत्र सम्यग्गणपरिकर्षणं बोधिसत्त्वस्योपादानपरिग्रह इत्युच्यते। स द्वाभ्यां कारणाभ्यां सम्यक् परिषदं परिगृह्णाति। निरामिषचित्तेन परिगृह्णाति। सम्यक् च स्वार्थे प्रयोजयति। न मिथ्याप्रयोगेण विप्रतिपादयति। सर्वस्मिंश्च परिग्रहे समचित्तो भवति न पक्षपतितः। न च तेषामन्तिके धर्ममात्सर्यं करोति न चाचार्यमुष्टिम्। न च तेषामन्तिकादुपस्थानपरिचर्यां प्रत्याशंसते। कुशलकामतया तु स्वयं कुर्वतां न निवारयति तेषामेव-पुण्यसम्भारोपचयनिमित्तम् कालं च प्राप्य स्वयमेवतेषामुपस्थानपरिचर्याकर्ता भवति। अव्युत्पन्नञ्चैषामार्थं व्युत्पादयति। व्युत्पञ्च पर्यवदापयति। उत्पन्नोत्पन्नञ्च संशयं नाशयति। कौकृत्यञ्च प्रतिविनोद यति। गम्भीरं चार्थपदं प्रज्ञया प्रतिविध्य कालेन कालं संप्रकाशयति। समदुःखसुखी च तैर्भवति। आत्मनश्चान्तिकात् तेषामर्थे आमिषहेतोरधिकेन व्यापारेण समन्वागतो भवति। कालेन च कालमेषांव्यतिक्रमे सम्यक्चोदको भवति। कालेन च न्यायेनावसादकः। व्याधितांश्चैतां विमनस्कं वा सर्वथा नाभ्युपेक्षते व्याधिप्रशमाय दौर्मनस्यापगमाय। हीनांश्चैनान् रूपस्मृतिवीर्यज्ञानादिभिर्न परिभवति। कालेन च कालं तेषां खेदमनुप्रविश्य युक्तरूपं धर्मं देशयति। कालेन च कालमेषामालम्बने सम्यगववादमनुप्रयच्छति। विमर्दसहिष्णुश्च भवत्यसंक्षोभ्यः। तैश्च सह तुल्यवृत्तसमाचारो भवत्यधिको वा [न] न्यूनः। लाभसत्कारे च निष्पृहो भवति। कारुणिकश्च भवति। अनुद्धतश्चाचपलश्च शलीदृष्ट्याचाराजीवसम्पन्नश्च भवति। उत्तानमुखवर्णश्च [भवति।] विगतभृकुटिः पेशलो मधुरभाणी पूर्वाभिलापी स्मितपूर्वङ्गमः। सततसमितमभियुक्तश्च भवति। कुशलपक्षे। प्रमादकौसीद्यापगतः। तथैव परिषदोऽनु शिक्षणार्थमात्मविशेषता-गमनतायै च। न च बोधिसत्त्वः सर्वं कालं परिषदुपादानं करोति। नैव न करोति। न चान्यथा करोति।



तत्र ये मृदुके परिपाके व्यवस्थिताः सत्त्वास्ते बोधिसत्त्वस्य दीर्घकालिकमुपादानमित्युच्यन्ते चिरेण कालेन विशुद्धिभव्यतया।



ये पुनर्मध्ये परिपाके व्यवस्थितास्तेऽदीर्घकालिकमुपादानमित्युच्यन्ते न चिरेण विशुद्धिभव्यतया।



ये पुनः सत्त्वा अधिमात्रे परिपाके व्यवस्थितास्ते बोधिसत्त्वस्य चरममुपादानमित्युच्यन्ते तस्मिन्नेव जन्मनि विशुद्धिभव्यतया। इत्ययं षड्‍विधः सम्यक्सत्त्वपरिग्रहो बोधिसत्त्वानाम्। येन परिग्रहेणातीतानागतप्रत्युत्पन्ना बोधिसत्त्वाः सत्त्वान् परिगृहीतवन्तः परिग्रहीष्यन्ति परिगृह्णन्ति वा। पुनः नास्त्यत उत्तरि नास्तो भूयः।



एवञ्च सम्यक्सत्त्वपरिग्रहवृत्तानां बोधिसत्त्वानां द्वादशसम्बाधसंकटप्राप्तयो वेदितव्याः। तासु च विचक्षणेन बोधिसत्त्वेन भवितव्यम्। व्यतिक्रमव्यवस्थितेषु सत्त्वेषु युदि वा बाधनं यदि वाऽध्युपेक्षणा बोधिसत्त्वस्य संबाधसंकटप्राप्तिः कटुकेन च प्रयोगेण सत्त्वे समुदाचारः स्वस्य चाशयस्य क्लेशारक्षासम्बाधसंकटप्राप्तिः। अल्पके च देयधर्मे संविद्यमाने बहूनां याचकानां सम्मुखीभावो याचनाय संबाधसंकटप्राप्तिः। एकात्मकस्य चास्य बहूनां सत्त्वानां कृत्येषु विचित्रेषूत्पन्नेषु सहायीभावयाचना संबाधसंकटप्राप्तिः। प्रमादस्थानीया च शुभा लौकिकी समापत्तिर्देवलोकोत्पत्तिश्चाकर्मण्यचेतसः संबाधसंकटप्राप्तिः। सत्त्वार्थक्रियार्थिनश्च सत्त्वार्थकरणासमर्थता संबाधसंकटप्राप्तिः। मूढशठखठुंकेषु सत्त्वेषु धर्मस्य देशना वाध्युपेक्षणा वा संबाधसंकटप्राप्तिः। संसारे च नित्यकालं दोषदर्शनं संसारापरित्यागश्च संबाधसंकटप्राप्तिः। अविशुद्धेऽध्याशये मुषितस्मृते मरणं संबाधसंकटप्राप्तिः। अविशुद्धे चाध्याषये परैरग्रस्य परम-प्रियस्य वस्तुनो याचना संबाधसंकटप्राप्तिः नानाधिभिन्नमतानां नानाधिमुक्तिकानां सत्त्वानां संज्ञप्तिका अध्युपेक्षणा वा संबाधसंकटप्राप्तिः। आत्यन्तिकश्चाप्रमादः करणीयः क्लेशाश्च सर्वेण सर्वं न प्रहातव्य इति संबाधसंकटप्राप्तिः। एवं संबाधसंकटप्राप्तेन बोधिसत्त्वे क्वचिद्गुरुलाघवं लक्षयित्वा तथैव प्रयोक्तव्यम् क्वचित्पुद्गलप्रविचयः करणीयः। क्वचिद्धैर्यमालम्ब्य हेतुं समादाय वर्तितव्यम्। सम्यक् प्रणिधानानि च करणीयानि। क्वचिच्चित्तस्य प्रसरो न देयः। क्वचित्तीव्रं प्रतिसंख्यानमुपस्थाप्याखिन्नेन क्षमेन भवितव्यम्। क्वचिद् उपेक्षकेण भवितव्यम्। क्वचिदारब्धवीर्येण आतप्तकारिणा भवितव्यम्। क्वचिद्‍उपायकुशलेन भवितव्यम्। एवं सम्यक् प्रतिपक्षकुशलो बोधिसत्त्वः सर्वसंबाधसंकटप्राप्तिसम्मुखीभावेऽपि न विषीदति सम्यक्चात्मानं परिहरति।



इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने परिग्रहपटलं द्वितीयम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project