Digital Sanskrit Buddhist Canon

3-1 उपपत्तिपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 3-1 upapattipaṭalam
आधारनिष्ठायोगस्थानम्



उपपत्तिपटलम्



समासतो बोधिसत्त्वानां पञ्चविधा उपपत्तिः सर्वत्रं सर्वविहारेषु च सर्वेषाञ्च बोधिसत्त्वानामनवद्या पर्वसत्त्वहितसुखाय। ईति-संशमनी तत्‍सभागानुवर्तनी महत्त्वोपपत्तिराधिपत्योपपत्तिश्चरमा चोपपत्तिः।



तत्रेति-संशमनी उपपत्तिः कतमा। इह बोधिसत्त्वो दुर्भिक्षेषु कृच्छ्रेषु महाकान्तारेषु कालेषु प्रणिधाय सत्त्वानामल्पकृच्छ्रेण यात्रानिमित्तं महामत्स्यादियोनिषूपपद्यते। विपुलेष्वात्मभावेषु यत्रोपपन्नः कृत्स्नं जगत्स्वमांसेन सन्तर्पयति। व्याधिबहुलेषु च सत्त्वेषु प्रणिधाय सिद्धविद्याधर-महावैद्यात्मभावं परिगृह्णाति तेषां व्याधीनां प्रशमाय। भृश -परचक्रोपद्रवेषु च सत्त्वेषु बलवान् भूमिपतिर्भवति धर्मेण शमेनोपायकौशल्येन परचक्रोपद्रवप्रशमनार्थं परस्पर-विरुद्धेषु च सत्त्वेष्वादेयवचनो भवति सन्धिक्रियायै वैराशयप्रहाणाय च। दण्डबन्धनचित्रपीडाप्रवृत्तेषु च प्रजानां राजसु तेषामेव सत्त्वोपद्रवाणां प्रहाणाय तद्रूपेषु राजकुलेषूपपद्यते। राजा च धार्मिको भवति सत्त्वानुकम्पः। ये च सत्त्वा मिथ्यादृष्टयश्च पापकारिणश्च कस्मिंश्चिद्देवायतनेऽधिमुक्ताः तेषामनुकम्पया मिथ्यादृष्टिदुश्चिरितप्रहाणाय तस्मिन्देवायतने उपपद्यते। प्रणिधानवशिताबलाभ्याञ्च इयमुपपत्तिरनुकम्पा-पूर्विका अप्रमेया वेदितव्या विस्तरनिर्देशतस्तासु तासु विचित्रासु योनिषु तिर्यग्योन्युपपन्नेषु सत्त्वेषु समास-निर्देशस्त्वयमाशयः।



तत्सभागानुवर्तिनी उपपत्तिः कतमा। इह बोधिसत्त्वः प्रणिधाय वा वशिताप्राप्तितो वा विचित्रेषु तिर्यग्योन्युपपन्नेषु सत्त्वेषु देवनागयक्षासुरादिषु चान्योन्यद्रुग्ध विरुद्धेषु तथा मिथ्यादृष्टिकेषु ब्राह्मणेषु तथा दुश्चरितचारिषु तत् आजीवेषु तदभिरतेषु तथाकामेष्वत्यर्थाध्यवसितेषु कामाधिमुक्तेषु [सत्त्वेषु] तेषां सत्त्वानां सभा [गता] यामुपपद्यते प्रामुख्येन तस्य दोषस्य विनिवर्तनार्थम्। स प्रमुखो भूत्वा यत्ते सत्त्वाः समुदाचरन्ति तदसा न समुदाचरन्ति। यत्ते न समुदाचरन्ति कुशलं तदसौ समुदाचरति। कुशलसमुदाचाराय चैषां धर्मं देशयति। ते तया [च] धर्मदेशनया [तया] च विसभागसमुदाचारतया तेभ्यो दोषेभ्यस्तेनोपायकौशल्येन विनिवर्तन्ते। इयमप्युपपत्तिप्रमेया पूर्ववद्वेदितव्या।



तत्र महत्त्वोपपत्तिः कतमा। इह बोधिसत्त्वः प्रकृत्यैवौपपद्यमानः सर्वलोकप्रतिविशिष्टमायुर्वर्णकुलैश्वर्यादि-विपाकमभिनिर्वर्तयति। तेन च विपाकेन यथोक्तं स्वपरार्थपटले कर्म करोति। साप्युपपत्तिर्बोधिसत्त्वस्याप्रमेया तासु तासु योनिषु वेदितव्या।



तत्र कतमा बोधिसत्त्वस्याधिपत्योपपत्तिः। या बोधिसत्त्वस्य प्रथमं प्रमुदितविहारमुपादाय यावद्दशमाद्विहारादुपपत्तिर्वर्णिता साऽस्याधिपत्त्योपपत्तिरित्युच्यते। जम्बूद्वीपेश्वरत्वमुपादाय यावन्महेश्वरत्वादकनिष्ठानतिक्रम्य सर्वोपपत्त्यायतनप्रविष्टं यत्र

परमविहारप्राप्ता एव बोधिसत्त्वा उपपद्यन्ते। तेषां हि तत् कर्माधिपत्येन निर्वृत्तम्।



तत्र चरमा बोधिसत्त्वोपपत्तिः कतमा। यस्यामुपपत्तौ परिपूर्णबोधिसम्भारी बोधिसत्त्वः पुरोहितकुले वा राजकुले वा उपपद्यानुत्तराञ्च सम्यक्संबोधिमभिसंबुध्यते। सर्वञ्च बुद्धकार्य करोति। इयमुपपत्तिश्चरमा पश्चिममेत्युच्यते। ये केचिद् बोधिसत्त्वा अतीतानागतप्रत्युत्पन्नेष्वध्वसु शुभासु भद्रासु कल्याणासु उपपत्तिषूपपन्ना उपपत्स्यन्ते उपपद्यन्ते च सर्वे ते आस्वेव पञ्चसु। नात उत्तरि नातो भूयः स्थापयित्वा बालभूम्युपपत्तीः। तथा हि विज्ञैर्बोधिसत्त्वैः उपपत्तय एताः पञ्चाभिप्रेताः। ताः खल्वेता उपपत्तयो महाबोधिफलाः। या आश्रित्य बोधिसत्त्वाः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते।



इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने प्रथममपपत्तिपटलम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project