Digital Sanskrit Buddhist Canon

2-4 विहारपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 2-4 vihārapaṭalam
विहारपटलम्



उद्दानम्।



गोत्रं तथाऽधिमुक्तिश्च प्रमुदितोऽधिशीलमधिचितम्।

त्रयः प्रज्ञा द्वे अनिमित्तेसाभोगश्च अनाभोगश्च।

प्रतिसंविदश्च परमश्च स्यात्तथागतोत्तमो विहारः॥



एवं गोत्रसंपदमुपादाय यथोक्तायां बोधिसत्त्वशिक्षायां शिक्षमाणानां यथोक्तेषु च बोधिसत्त्वलिङ्गेषु संदृश्यमानानां बोधिसत्त्वपक्ष्यप्रयोगेषु च सम्यक् प्रयुक्तानां बोधिसत्त्वाध्याशयाञ्च यथोक्तां विशोधयतां बोधिसत्त्वानां समासतो द्वादशबोधिसत्त्वविहारा भवन्ति। यैर्बोधिसत्त्वविहारैः सर्वा बोधिसत्त्वचर्या संगृहीता वेदितव्याः। त्रयोदशश्च तथागतो विहारो योऽस्य भवत्यभिसंबोधेर्निरुत्तरो विहारः।



तत्र द्वादशबोधिसत्त्वविहाराः कतमे। [गोत्रविहारः।] अधिमुक्तिचर्याविहारः। प्रमुदितविहारः। अधिशीलविहारः। अधिचित्तविहारः। अधिप्रज्ञविहारास्त्रयः। बोधिपक्ष्यप्रतिसंयुक्तः। सत्यप्रतिसंयुक्तः। प्रतीत्यसमुत्पादप्रवृत्तिनिवृत्तिप्रतिसंयुक्तश्च। इति येन [च] बोधिसत्त्वस्तत्त्वं पश्यति यञ्च तत्त्वं पश्यति तस्य च तत्त्वस्याज्ञानाद् यथा प्रवृत्तिर्दुःखस्य ज्ञानाच्च पुनरप्रवृत्तिर्दुःखस्य भवति सत्त्वानाम्। तदेतद्बोधिसत्त्वस्य त्रिभिर्मुखैः प्रज्ञया व्यवचारयतः त्रयोरधिप्रज्ञविहारा भवन्ति। साभिसंस्कारःसाभागो निश्छिद्रमार्गवाहनो निर्निमित्तो विहारः। अनभिसंस्कारोऽनाभोगमार्गवाहनो निर्निमित्त एव विहारः। [प्रतिसंविद्‍विहारः] परमश्च परिनिष्पन्नो बोधिसत्त्वविहारः। इमे ते द्वादश [विधा] बोधिसत्त्वानां बोधिसत्त्वविहाराः। यैर्विहारैरेषां सर्वविहारसंग्रहः सर्वबोधिसत्त्वचर्यासंग्रहो भवति। ताथागतः पुनर्विहारो यः सर्वबोधिसत्त्वविहारसमतिक्रान्तस्याभिसंबुद्धबोधेर्विहारः तत्र तथागतस्य पश्चिमस्य विहारस्य प्रतिष्ठायोगस्थाने पश्चिमे साकल्येन निर्देशो भविष्यति।



द्वादशानां पुनर्बोधिसत्त्वविहाराणां यथा व्यवस्थानं भवति तथा निर्देक्षामि।



कतमश्च बोधिसत्त्वस्य गोत्रविहारः। कथं च बोधिसत्त्वो गोत्रस्थो विहरति। इह बोधिसत्त्वो गोत्रविहारी प्रकृतिभद्रसन्तानतया प्रकृत्या बोधिसत्त्वगुणैर्बोधिसत्त्वार्हैः कुशलैर्धर्मैः समन्वागतो भवति। तत्समुदाचारे संदृश्यते। प्रकृतिभद्रतयैव न हठयोगेन तस्मिन् कुशले प्रवर्त्तते। अपि तु प्रतिसंख्यानतः सावग्रहः सम्भृतो भवति। सर्वेषां च बुद्धधर्माणां गोत्रविहारी बोधिसत्त्वो बीजधरो भवति। सर्वबुद्धधर्माणामस्य [सर्व] बीजान्यात्मभावगतान्याश्रयगतानि विद्यन्ते। औदारिकमलविगतश्च बोधिसत्त्वो गोत्रविहारी भवति। अभव्यः स तद्रूपं [सं] क्लेशपर्यवस्थानं सम्मुखीकर्तुम्। येन पर्यवस्थानेन पर्यवस्थितः अन्यतमदानन्तर्यकर्म समुदाचरेत्। कुशलमूलानि वा समुच्छिन्द्यात्। यश्च विधिर्गोत्रस्थस्य गोत्रपटले निर्दिष्टः। स गोत्रविहारिणो बोधिसत्त्वस्य विस्तरेण वेदितव्यः। [इति] अयमुच्यते बोधिसत्त्वस्य गोत्रविहारः।



तत्र कतमो बोधिसत्त्वस्याधिमुक्तिचर्याविहारः। इह बोधिसत्त्वस्य प्रथमं चित्तोत्पादमुपादाय अशुद्धाध्याशयस्य या काचिद्बोधिसत्त्वचर्या अयमस्याधिमुक्तिचर्याविहार इत्युच्यते। तत्र गोत्रविहारी बोधिसत्त्वस्तदन्येषां [सर्वेषां] बोधिसत्त्वविहाराणामेकादशानां ताथागतस्य च विहारस्य हेतुमात्रे वर्तते हेतु परिग्रहेण। नो तु तेन कश्चितु तदन्यो बोधिसत्त्वविहार आरब्धो भवति न प्रतिलब्धो न विशोधितः। कुतः पुनस्तथागतविहारः। अधिमुक्तिचर्याविहारिणा पुनर्बोधिसत्त्वेन सर्वे बोधिसत्त्वविहारास्ताथागतश्च विहार आरब्धा भवन्ति नो तु प्रतिलब्धा न विशोधिताः। स एव त्वधिमुक्तिचर्याविहारः प्रतिलब्धो भवति। तस्यैव चायं विशुद्धये प्रतिपन्नः। अधिमुक्तिचर्याविहारे परिशुद्धे प्रमुदितविहारं पूर्वारब्धमेव प्रतिलभते। तस्यैव च विशुद्धये प्रतिपन्नो भवति। प्रमुदित विहारे परिशुद्धेऽधिशीलविहारं पूर्वारब्धमेव प्रतिलभते। तस्यैव च विशुद्धये प्रतिपन्नो भवति। एवं विस्तरेण यावत्परमः परनिष्पन्नो बोधिसत्त्वविहारो वेदितव्यः। परमे परिनिष्पन्ने बोधिसत्त्वविहारे परिशुद्धेऽनन्तरं पूर्वारब्धस्य तातथागतस्य विहारस्य सकृत्प्रतिलम्भो विशुद्धिश्च वेदितव्या। इदं ताथागतविहारे बोधिसत्त्वविहारेभ्यो विशेषणं वेदितव्यम्।



तत्र कतमो बोधिसत्त्वस्य प्रमुदितविहारः। यः शुद्धाशयस्य बोधिसत्त्वस्य विहारः। तत्र कतमो बोधिसत्त्वस्याधिशीलविहारः। योऽध्याशयशुद्धिनिदानेन प्रकृतिशीलेन संयुक्तस्तस्य विहारः। तत्र कतमो बोधिसत्त्वस्याधिचित्तविहारः। योऽधिशीलविहार विशुद्धिनिदानैलौकिकध्यानसमाधिसमापत्तिभिर्विहारः। तत्र कतमो बोधिसत्त्वस्य बोधिपक्ष्यप्रतिसंयुक्तोऽधिप्रज्ञविहारः। यो लौकिकं ज्ञानविशुद्धिसन्निश्रयभूतं समाधिं निश्रृत्य सत्यावबोधाय सम्यक् स्मृत्युपस्थानादीनां सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणां प्रविचयविहारः।



तत्र कतमो बोधिसत्त्वस्य सत्यप्रतिसंयुक्तोऽधिप्रज्ञविहारः। यो बोधिपक्ष्यप्रविचयं निश्रित्य यथावत्सत्यावबोधविहारः। तत्र कतमो बोधिसत्त्वस्य प्रतीत्यसमुत्पादप्रवृत्तिनिवृत्तिप्रतिसंयुक्तोऽधिप्रज्ञविहारः। यस्तमेव सत्यावबोध[मधि] पतिं कृत्वा तदज्ञानात् सहेतुकदुःखप्रवृति। प्रविचयप्रभावितस्तज्ज्ञानाच्च सहेतुकदुःखनिरोधप्रविचयप्रभावितो विहारः।



तत्र कतमो बोधिसत्त्वानां साभिसंस्कारः साभोगो निर्निमित्तो विहारः। यस्तमेव त्रिविधमप्यधिप्रज्ञविहारमधिपतिं कृत्वाऽभिसंस्कारेणाभोगेन निश्छिद्रनिरन्तरः सर्वधर्मेषु तथता-निर्विकल्पप्रज्ञाभावना सहगतो विहारः।



तत्र कतमो बोधिसत्त्वानां अनभिसंस्कारोऽनाभोगो निर्निमित्तो विहारः। यस्तस्यैव पूर्वकस्य निर्निमित्तस्य विहारस्य भावना-बाहुल्यात् स्वरसेनैव निश्छिद्रनिरन्तर- वाहिर्मार्गानुगतो विहारः।



तत्र कतमो बोधिसत्त्वानां प्रविसंविद्विहारः। यस्तमेव सुपरिशुद्धं निश्चलं प्रज्ञासमाधिं निश्रित्य महामतिवैपुल्यमनुप्राप्तस्य परेषां धर्मसमाख्यानानुत्तर्यमारभ्य धर्माणां पर्यायार्थ-निर्वचनप्रभेदप्रविचयविहारः।



तत्र कतमो बोधिसत्त्वस्य परमो विहारः। यत्र स्थितो बोधिसत्त्वो बोधिसत्त्वमार्गनिष्ठागतोऽनुत्तरायां सम्यक्संबोधौ महाधर्माभिषेकप्राप्त एकजातिप्रतिबद्धो वा भवति चरमभविको वा। यस्य विहारस्यानन्तरं संहितमेवानुत्तरां सम्यक्संबोधिमभिसंबुध्य सर्वबुद्धकार्यं करोति। तत्राधिमुक्तिचर्याविहारे [बोधिसत्त्वो] बोधिसत्त्वभावनायां परीत्तकारी भवति च्छिद्रकारी अनियतकारी पुनर्लाभपरिहाणितः। प्रमुदितविहारे बोधिसत्त्वस्तस्यामेव बोधिसत्त्वभावनायां विपुलकारी भवत्यच्छिद्रकारी नियतकारी यथाप्रतिलब्धापरिहाणितः। यथा प्रमुदितविहारे एवं यावत् त्रिष्वधिप्रज्ञविहारेषु। प्रथर्म निर्निमित्तं विहारमुपादाय यावत्परमाद्बोधिसत्त्वविहाराद्बोधिसत्त्वो बोधिसत्त्वभावनायां अप्रमाणकारी भवत्यच्छिद्रकारी नियतकारी च। तत्राधिमुक्तिचर्याविहारे बोधिसत्त्व-निर्निमित्तभावनायाः समारम्भो वेदितव्यः। प्रमुदितविहारेऽघिशीलाधिचित्ताधिप्रज्ञविहारेषु च तस्या बोधिसत्त्व-निर्निमित्तभावनायाः प्रतिलम्भो वेदितव्यः। प्रथमेऽनिमित्तविहारे समुदागमो द्वितीयेऽनिमित्तविहारे बोधिसत्त्व-निर्निमित्तभावनायाः परिशुद्धिर्वेदितव्या। प्रतिसंविद्विहारे परमे च विहारे तस्या एव बोधिसत्त्व-निर्निमित्त-भावनायाः फलप्रत्यनुभावना वेदितव्या।



अधिमुक्तिचर्याविहारे वर्तमानस्य बोधिसत्त्वस्य के आकाराः कानि लिंगानि कानि निमित्तानि भवन्ति। अधिमुक्तिचर्या-विहारे वर्तमानो बोधिसत्त्वः प्रतिसंख्यानबलिको भवति। बोधिसत्त्वकृत्यप्रयोगेषु प्रतिसंख्याय प्रज्ञया प्रयुज्यते। नो तु प्रकृत्या तन्मयतया। दृढायाः स्थिरायाः अविवर्तया बोधिसत्त्वभावनायाः अलाभी भवति। यथा भावनाया एवं भावनाफलस्य विविधानां प्रतिसंविदभिज्ञाविमोक्षसमाधिसमापत्तीनाम्। पञ्च च भयान्यसमतिक्रान्तो भवति। अजीविकाभयमश्लोकभयं मरणभयं दुर्गतिभयं परिषद्शारद्यभयं च। प्रतिसंख्याय च सत्त्वार्थेषु प्रयुज्यते न प्रकृत्यनुकम्पा-प्रेमतया। एकदा च सत्त्वेषु मिथ्यापि प्रतिपद्यते कायेन वाचा मनसा। एकदा विषयेष्वप्यध्यवसितो भवति। एकदा आगृहीत-परिष्कारतायामपि संदृश्यते। श्रद्धागामी च भवति परेषां बुद्धबोधिसत्त्वानाम्। नो तु प्रत्यात्मं तत्त्वज्ञो भवति यदुत तथागतं वा आरभ्य धर्मं वा संघं वा तत्त्वार्थं वा बुद्धबोधिसत्त्वप्रभावं वा हेतुं वा फलं वा प्राप्तव्यं वाऽर्थं प्राप्त्युपायं वा गोचरं वा। परीत्तेन च श्रुतमयचिन्तामयेन ज्ञानेन समन्वागतो भवति नाप्रमाणेन। तदपि चास्यैकदा संप्रमुष्यते। संप्रमोषधर्मो च भवति। दुःखया च धन्धाभिज्ञया बोधिसत्त्व-प्रतिपदा समन्वागतो भवति। न च तीव्रच्छन्दो भवति महाबोधौ। नोत्तप्तवीर्यो न गम्भीरसुसन्निविष्टप्रसादः।



त्रिषु च स्थानेषु मुषित-स्मृतिर्भवति। विषयेषु मनापामनापेषु रूपशब्दगन्धरसस्प्रष्टव्यधर्मेष्वेकदा विपर्यस्तचित्ततायाः। उपपत्तौ तत्र तत्रात्मभावान्तरे प्रत्याजातस्य पूर्वकात्मभावविस्मरणात्। उद्दिष्टानामुद्गृहीतानां धर्माणां चिरकृतचिरभाषितस्य चैकदा विस्मरणात्। एवमेषु त्रिषु स्थानेषु मुषितस्मृतिर्भवति। एकदा च मेधावी भवति धर्माणामुद्ग्रहणधारणार्थप्रवेशसमर्थः। एकदा न तथा। एकदा स्मृतिमान् भवति। एकदा मुषितस्मृतिजातीयः। न च सत्त्वानां यथावद्विनयोपायाभिज्ञो भवति। नाप्यात्मनो बुद्धधर्माभिनिर्हारोपायाभिज्ञः। हठेन च परेषां धर्मं देशयति। अववादानुशासनीं वा प्रवर्तयति। सा चास्य हठेन प्रवर्तिता न यथाभूतमाज्ञाय। एकदा च वन्ध्या भवत्येकदा चावन्ध्या। रात्रिक्षिप्तानामिव शराणां यदृच्छासिद्धितामुपादाय। एकदा च चित्तमप्युत्पादितं महाबोधादुत्सृजति। एकदा च बोधिसत्त्वशीलसंवरसमादानान् निवर्तते नोत्सहते वा। एकदा सत्त्वार्थक्रियाप्रयुक्तोऽपि खेदमन्तरा कृत्वा तस्मात्सत्त्वार्थक्रियाप्रयोगात् प्रतिनिवर्तते। आशयतश्चात्मनः सुखकामो भवति प्रतिसंख्याय च परसुखकामः। बोधिसत्त्वस्खलितेषु च परिज्ञाबहुलो भवति। नो तु परिज्ञाय परिज्ञायाशेष-प्रहाणवान् पुनः पुनः स्खलिताध्याचारतया। एकदा नेयश्च भवत्यस्माद्बोधिसत्त्वपिटकधर्मविनयात्। एकदा गम्भीरामुदारां धर्मदेशनां श्रुत्वा उत्व्रस्यति। भवति चास्य चेतसो विकम्पितत्वं विमतिः सन्देहश्च। सर्वेण च सर्वं महाकरुणासमुदाचारविवर्जितो भवति सत्त्वेषु। अल्पेन च हितसुखोपसंहारेण सत्त्वेषु प्रत्युपस्थितो भवति। न विपुलेन नाप्रमेयेण च सर्वासु परिपूर्णासु यथानिर्दिष्टासु बोधिसत्त्वशिक्षासु शिक्षते। न च सर्वैः परिपूर्णैर्यथानिर्दिष्टैर्बोधिसत्त्वलिङ्गैः समन्वागतो भवति। न च सर्वेषु यथानिर्दिष्टेषु बोधिपक्षप्रयोगेषु परिपूर्णेषु संदृश्यते। दूरे चानुत्तरायां सम्यक्संबोधेरात्मानं प्रत्येति। न च तथा निर्वाणेऽस्याध्याशयः सन्निविष्टो भवति यथा संसारसंसृतौ।



उत्तप्तैरचलैश्च कुशलैर्बोधिपक्ष्यैर्धर्मैरसमन्वागतो भवति। इतीमान्येवंभागीयानि लिङ्गानि निमित्तानीमे आकारा अधिमुक्तिचर्याविहारे वर्तमानस्य बोधिसत्त्वस्य वेदितव्याः। अधिमुक्तिचर्याविहारे मृद्ध्यां क्षान्त्यां वर्तमानस्य बोधिसत्त्वस्यैषां यथा निर्दिष्टानामाकारलिङ्ग-निमित्तानामधिमात्रता वेदितव्या। मध्यायां क्षान्तौ वर्तमानस्य [मध्यता] वेदितव्या। अधिमात्रायां क्षान्तौ वर्तमानस्य बोधिसत्त्वस्यैषामाकारलिङ्गनिमित्तानां मृदुता तनुत्वं वेदितव्यम्। अधिमात्रायामेव क्षान्तौ वर्तमानस्यैषामाकारलिङ्गनिमित्तानामशेषप्रहाणामनन्तरञ्च प्रमुदितविहारप्रवेशो बोधिसत्त्वस्य वेदितव्यः प्रतिलम्भयोगेन। तस्यास्य प्रमुदितविहारविहारिण एते [सर्व] धर्माः सर्वेन सर्वं न भवन्ति येऽधिमुक्तिचर्याविहार-विहारिण आख्याताः। एतद्विपर्ययेण च सर्वे शुक्लपक्ष्या धर्माः संविद्यन्ते। यैरयं समन्वागतो बोधिसत्त्वः शुद्धाशय इत्युच्यते। किञ्चाप्यधिमुक्तिचर्याविहारेऽपि वर्तमानस्य बोधिसत्त्वस्य मृदुमध्याधिमात्रयोगेनोत्तरोत्तरा शुद्धिरधिमोक्षस्यास्ति। न त्वसौ अध्याशयशुद्धिरित्युच्यते। तत् कस्य हेतोः। तथा हि सोऽधिमोक्ष एभिरनेकविधैरुपक्लेशैरुपक्लिष्टः प्रवर्तते। प्रमुदितविहारस्थितस्य तु बोधिसत्त्वस्य सर्वेषामेषामधिमोक्षोपक्लेशानां प्रहाणान्निरूपक्लेशः शुद्धोऽधिमोक्षः प्रवर्तते।



तत्रप्रमुदितविहारे वर्तमानस्य बोधिसत्त्वस्य के आकाराः कानि लिङ्गानि कानि निमित्तानि वेदितव्यानि। इह बोधिसत्त्वोऽधिमुक्तिचर्याविहारात् प्रमुदितविहारमनुप्रवेशन-पूर्वकञ्च बोधिसत्त्वप्रणिधानमनुत्तरायां सम्यक्संबोधौ असुप्रतिविद्धबोध्य सुप्रतिविद्धबोध्युपायं यद्भूयसा परप्रत्ययगासुनिश्चितं प्रहायान्यदभिनवं षड्‍भिराकारैः सु [वि] निश्चितं प्रत्यात्मं भावानामयं बोधिसत्त्वप्रणिधानमुत्पादयति। सर्वं तदन्यशुल्कप्रणिधान-समतिक्रान्तमतुल्यमसाधारणफलम्। लौकिकं च तत्सर्व [लोक] विषय-समतिक्रान्तं च। सर्वसत्त्वदुःखपरित्राणानुगतत्वात् सर्वश्रावकप्रत्येकबुद्धासाधारणम्। एकक्षण [मात्रं] समुत्पन्ने अपि तस्मिन् प्रणिधाने धर्मप्रकृतिः सा तादृशी याऽप्रमेयशुल्कधर्मेष्टफला भवति बोधिसत्त्वानाम्। निर्विकारञ्च तत्प्रणिधान [म] क्षयम्। नास्य प्रतिलब्धस्य केनचित्पर्यायेण परिहाणिरन्यथाभावो वा उपलभ्यते। विशेषभागीयञ्च तदपरान्तकोटीपतितम्। महाबोधिनिष्ठं तत्।



पुनरेतत्सुविनिश्चितं बोधिसत्त्वप्रणिधानं चित्तोत्पादे इत्युच्यते। स पुनरेष चित्तोत्पादो बोधिसत्त्वस्य समासतश्चतुर्भिराकारैर्वेदितव्यः। कतमैश्चतुर्भिः। आदित एव तावत्कीदृशानां बोधिसत्त्वानां तच्चित्तमुत्पद्यते। किञ्चालम्ब्योत्पद्यते। कीदृशञ्च किं लक्षणं केनात्मना उत्पद्यते। उत्पन्ने च तस्मिश्चित्ते कोऽनुशंसो भवति। इत्येभिश्चतुर्भिराकारैः स चित्तोत्पादो वेदितव्यः। तत्राधिमुक्तिचर्याविहारिणां सर्वाकारसूपचितकुशलमूलानां समासतः सम्यग्बोधिसत्त्वचर्यानिर्यातानां बोधिसत्त्वानां तच्चित्तमुत्पद्यते। आयत्यां सम्यगाशु सर्वबोधिसम्भारपरिपूरिं सर्वबोधिसत्त्व-सत्त्वार्थक्रियापरिपूरिमनुत्तरसम्यक्संबोधि सर्वाकार-सर्वबुद्धधर्मपरिपूरिं बुद्धकार्यक्रियापरिपूरिं च समासतः आलम्बनीकृत्य तद्बोधिसत्त्वानाञ्चित्तमुत्पद्यते। सम्यगाशु च सर्वाकारसर्वबोधिसंभारानुकूलं सर्वसत्त्वेषु सर्वाकारबोधिसत्त्वकृत्यानुकूलमनुत्तर-सम्यक्संबोधिस्वयंभूज्ञानप्रतिलम्भानुकूलं सर्वाकारबुद्धकृत्यकरणानुकूलं तच्चित्तमुत्पद्यते। तस्य च चित्तस्योत्पादाद्बोधिसत्त्वोऽतिक्रान्तो भवति बालबोधिसत्त्वपृथग्जनभूमिम्। अवक्रान्तो भवति बोधिसत्त्वनियामम्। जातो भवति तथागतकुले। तथागतस्यौरसः पुत्रो भवति। नियतं संबोधिपरायणः तथागतवंशनियतो भवति। स च तथाभूतोऽवेत्यप्रसादप्राप्तः प्रामोद्यबहुलो भवति। असंरम्भाविहिंसाक्रोधबहुलः परेषां सर्वाकारां बोधिसत्त्व-सत्त्वार्थक्रियां सर्वाकारां बोधिसंभारपरिपूरिं सर्वाकारां बोधिं बुद्धधर्मांश्च बुद्धकृत्यानुष्ठानं च शुद्धेनाध्याशयेनालम्बनीकुर्वन् अधिमुच्यमानोऽवतरन् एतद्धर्माशु-समुदागमोऽनुकूलताञ्चात्मनः सम्पश्यन् प्रत्यवगच्छन् प्रामोद्यबहुलो भवति।



कुशलेनोदारेण नैष्क्रम्योपसंहितेन निरामिषेणाप्रतिसमेन कायचित्तानुग्राहकेण प्रामोद्येन उत्तप्तैरचलैरस्मि कुशलैर्धर्मैः समन्वागतः। आसन्नीभूतश्चास्म्यनुत्तरायाः सम्यक्सम्बोधेः। विशुद्धश्च मे आध्याशयो महाबोधौ। सर्वाणि च मे भयान्यपगतानि। इति अतोऽपि प्रामोद्यबहुलो भवति। तथा ह्यस्य सु[वि] निश्चितोत्पादितचित्तस्य बोधिसत्त्वस्य पञ्च भयानि प्रहीणानि भवन्ति। सुपरिभावितनैरात्म्यज्ञानस्यात्मसंज्ञा तावन् न प्रवर्तते। कुतः पुनरस्य आत्म [स्नेहो] वा उपकरणस्नेहो वा भविष्यति। अतोऽस्य जीविकाभयं न भवति। न च परेषमन्तिकात्किञ्चित्प्रतिकांक्षति। एवंकामश्च भवति। मयैवैषां सत्त्वानां सर्वार्था उपसंहर्तव्या इति। अतोऽस्य अश्लोकभयं न भवति। आत्मदृष्टिविगमाच्चास्यात्म [विगम] संज्ञा न प्रवर्तते। अतोऽस्य मरणभयं न भवति। मरणात् मे ऊर्ध्वमायत्यां नियतं बुद्धबोधिसत्त्वैः समवधानं भविष्यतीति एवं निश्चितो भवति। अतोऽस्य दुर्गतिभयं न भवति।



आत्मनश्च सर्वलोके न पश्यत्याशयेन कञ्चित्समसमम्। कुतः पुनरुत्तरतरमिति। अतोऽस्य परिषच्छारद्यभयं न भवति। स एवं सर्व भयापगतः सर्वगम्भींरनिर्देशत्रासापगतः सर्वोच्छ्रयमानस्तंभापगतः सर्वपरापकारविप्रतिपत्तिषु द्वेषापगतः सर्वलोकामिष हर्षापगतः अक्लिष्टत्वादनुपहतेन उत्तप्तत्वादप्रकृतेनाशयेन सर्वकुशलधर्मसमुदागमाय दृष्टे च धर्मे सर्वाकारं बोधिसत्त्ववीर्यमारभते श्रद्धाधिपतेयं पूर्वङ्गमां कृत्वा। आयत्याञ्च यानि तानि पूर्वनिर्दिष्टानि बोधिपक्ष्यपटले दशमहाप्रणिधानानि तान्यस्मिन् प्रमुदितविहारेऽभिनिर्हृत्याशय-शुद्धितामुपादाय अग्रयसत्त्वदक्षिणीयशास्तृधर्मस्वामिपूजायै महाप्रणिधानं तत्प्रणीत-[सद्]-धर्मसन्धारणाय द्वितीयमनुपूर्वसद्धर्मप्रवर्तनाय तृतीयं तदनुकूल-बोधिसत्त्वचर्याचरणतायै चतुर्थं तद्भाजनसत्त्वपरिपाचनतायै पञ्चमं बुद्धक्षेत्रेषूपसंक्रम्य तथागतदर्शनपर्युपासनसद्धर्मश्रवणतायै षष्ठं स्वबुद्धक्षेत्र-परिशोधनतायै सप्तमं सर्वजातिषु बुद्धबोधिसत्त्वाविरहिततायै बोधिसत्त्वैश्च सहैकाशयप्रयोगितायै अष्टमं सर्वसत्त्वार्थक्रियामोघतायै नवममनुत्तरसम्यक्सम्बोध्यभिसंबुध्यनतायै बुद्धकृत्यकरणतायै च दशमं महाप्रणिधानभिनिर्हरति पारम्पर्येण च सत्त्वधात्वनुपच्छेदवल्लोकधर्मानुपच्छेदवदेषामेव [मे] महाप्रणिधानानां जन्मनि जन्मनि यवद्बोधिपर्यन्तगमनादविगमश्चासंप्रमोषश्चाविसयोगश्च स्यादिति सम्यक् चित्तं प्रणिदधाति। पूर्वकं प्रणिधातव्येऽर्थे प्रणिधानं पश्चिमकं प्रणिधानं वेदितव्यम्। एतान्येव च महाप्रणिधानानि प्रमुखानि कृत्वा तस्य बोधिसत्त्वस्य दशप्रणिधानासंख्येयशतसहस्राण्युत्पद्यन्ते सम्यक् प्रणिधानानाम्।



तस्यैवमायत्याञ्च प्रणिधानवतः दृष्टे च धर्मे आरब्धवीर्यस्य दशविहारपरिशोधना धर्माः प्रमुदितविहारपरिशुद्धये संवर्तन्ते। सर्वबुद्धधर्मानभिश्रद्दधाति। प्रतीत्यसमुत्पादयोगेन केवलं सत्त्वानां दुःखस्कन्धसमुदागमं पश्यतः करुणा। मयैते सत्त्वा अस्मात्केवलाद् दुःखस्कन्धाद्विमोचयितव्या इति संपश्यतो मैत्री। सर्वदुःखपरित्राणाभिप्रायस्यात्मनिरपेक्षता। तन्निरपेक्षस्य सत्त्वेष्वाध्यात्मिकबाह्यवस्तुपरित्यागः। परतश्च तेषामेव सत्त्वानामर्थे लौकिक-लोकोत्तरधर्मपरिगवेषणोऽखेदः। अखिन्नस्य च सर्वशास्त्रज्ञानसमुदागमविशुद्धितः शास्त्रज्ञता। शास्रज्ञस्य हीनमध्यविशिष्टेषु सत्त्वेषु यथायोगानुरूपप्रतिपत्तितो लोकज्ञता। तेष्वेव प्रयोगेषु कालवेलामात्रादिचर्यामारभ्य ह्री-व्यपत्राप्यता। तेष्वेव च प्रयोगेष्वप्रत्युदावर्तनतया धृतिबलाधानता। लामसत्कारप्रतिपत्तिभ्याञ्च तथागतपूजोपस्थानता। इमे दश धर्मा विहारपरिशुद्धये संवर्तन्ते। यदुत श्रद्धा करुणामैत्रीत्यागः अखेदः शास्त्रज्ञता लोकज्ञता ह्रीव्यपत्राप्यता धृतिबलाधानता तथागतपूजोपस्थानता च।



स च बोधिसत्त्व एतांश्च धर्मां समादाय वर्तते बहलीकरोति। तदन्येषाञ्च नवानामधिशीलादीनां बोधिसत्त्वविहाराणां सर्वाकारमार्गगुणदोषान् पर्येषते बुद्धबोधिसत्त्वानामन्तिकात्। तदभिज्ञाश्च सुखाविप्रनष्टमार्गः सूद्गृहीताकारप्रतिलम्भनिष्यन्दनिमित्तः। स्वयञ्च सर्वविहारानाक्रम्य महाबोधिमधिगच्छति महासत्त्वसार्थञ्च संसारकान्तारमार्गादुत्तारयति। यैराकारैः प्रवेशति त आकाराः यः प्रवेशः स प्रतिलम्भः। प्रविष्टस्य या [महा] फलानुशंसनिष्पत्तिः समुदागमश्च स निष्यन्दो वेदितव्यः। तस्यास्मिन्विहारे व्यवस्थितस्य द्वाभ्यां कारणाभ्यां बहवो बुद्धा आभासमागच्छन्ति औदारिकदर्शनस्य। ये च तेन श्रुता भवन्ति बोधिसत्त्वपटिके। ये च चेतसाऽधिमुक्ता भवन्ति। सन्ति दशसु दिक्षु नाना-नामसु लोकधातुषु नाना-नामानस्तथागता इति। तानौदारिकप्रसादसहगतेन चेतसा दर्शनायायाचते। तस्य च तथाभूतस्य ऋध्यत्येव। सा आयाचना इदमेकं कारणम्। एवञ्च चित्तं प्रणिदधाति। तत्र बुद्धोत्पादस्तत्र मे जन्म भवेदिति। तस्य तथाभूतस्य ऋध्यत्येव तत्प्रणिधानम्। स एवमौदारिकप्रसाददर्शनतया प्रणिधानबलाधानतया च तांस्तथागतान् दृष्ट्वा सर्वाकारां पूजां सुखोपधानतामुपसंहरति यथाशक्त्या यथाबलं संघसम्माननां च करोति। तेषां च तथागतानामन्तिकाद्धर्मं शृणोति उद्गृहणाति धारयति। धर्मानुधर्मप्रतिपत्त्या च सम्पादयति। तानि च सर्वाणि कुशलमूलानि महाबोधौ परिणामयति। चतुर्भिश्च संग्रहवस्तुभिः सत्त्वान्परिपाचयति। तस्यैभिस्त्रिभिर्विशुद्धिकारणैस्तानि कुशलमूलानि [यद्] भूयस्या मात्राया विशुध्यन्ति तथागतधर्मसंघपूजा-परिग्रह [ण] तया संग्रहवस्तुभिः सत्त्वपरिपाचनतया कुशलमूलानां बोधिपरिणमनतया च यावदनेकानि कल्पकोटीनियुतशतसहस्राणि।



तद्यथा सुवर्णं प्रकृतिस्थितं यथा यथाग्नौ प्रक्षिप्यते दक्षेण कर्मारेण तथा तथा विशुद्धतरतां गच्छति। एवमेवास्याशयशुद्धस्य बोधिसत्त्वस्य तानि कुशलमूलानि तैविंशुद्धिकारणैर्विशुद्धितरतां गच्छन्ति। तत्रस्थश्चासावुपपत्तितो यद्भूयसा चक्रवर्ती भवति जन्मनि जन्मनि जम्बुद्वीपेश्वरः। सर्वमात्सर्यमलापगतः प्रभुः सत्त्वानां मात्सर्यविनयनतायै। यच्च किञ्चिच्चतुर्भिः संग्रहवस्तुभिः कर्मारभ्यते तत्सर्वमविरहितं रत्नसर्वाकारबोधिसमुदागम-मनस्कारैः। कश्चिदहं सर्वसत्त्वानामग्र्यः सर्वार्थप्रतिशरणो भवेयमिति। आकांक्षमाणश्च तद्रूपं वीर्यमारभते यत्सर्वगृहकलत्रभोगानुत्सृज्य तथागतशासने प्रव्रजित्वा एकक्षणलवमुहूर्तेन शतं बोधिसत्त्वसमाधीनां समापद्यते। तथागतशतं नानाबुद्धक्षेत्रेषु दिव्येन चक्षुषा पश्यति। तेषां च निर्मिताधिष्ठानं बोधिसत्त्वाधिष्ठाञ्च जानाति। लोकधातुशतं च कम्पयति। तथा कायेनाक्रामते। आभया स्फरित्वा परेषामुपदर्शयति। विनेयसत्त्वशतं निर्मितशतेन परिपाचयति। कल्पशतमप्याकांक्षमाणः स्थानमधितिष्ठति। कल्पशतं च पूर्वान्तापरान्ततो ज्ञानदर्शनेन प्रविशति। [धर्ममुखशतं च] प्रविचिनोति स्कन्धधात्वायतनादिकानां धर्ममुखानाम्। कायशतं च निर्मिमीते। कायञ्च कायं बोधिसत्त्वशतपरिवारमादर्शयति अतःपरं प्रणिधानबलेनाप्रमाणा प्रभावविकुर्वणा बोधिसत्त्वानां वेदितव्या अस्मिन् प्रमुदितविहारे स्थितानाम्। प्रणिधानबलिका हि ते प्रणिधानविशेषैर्विकुर्वन्ति। तेषां सम्यक् प्रणिधानां न सुकरां संख्या कर्तु यावत्कल्पकोटीनियुतशतसहस्रैरपि। एवमयं बोधिसत्त्वानां प्रमुदितविहारः सुविनिश्चित[तः] चतुराकारः चित्तोत्पादतः सम्यक् प्रणिधानवीर्यारम्भाभिनिर्हारतः विहारपरिशोधनतस्तदन्यविहारव्युत्पत्तितः कुशलमूलपरिशोधनतः उपपत्तितः प्रभावतश्च समासनिर्देशतो वेदितव्यः। विस्तरनिर्देश [तः] पुनर्यथासूत्रमेव दशभूमिके प्रमुदितभूमिनिर्देशमारभ्य। याश्च दशभूमिके सूत्रे दश बोधिसत्त्वभूमयः त इह बोधिसत्त्वपिटके मातृकानिर्देश-दश-बोधिसत्त्वविहारा यथाक्रमं प्रमुदितविहारमुपादाय यावत्परमविहाराद्वेदितव्याः। तत्र बोधिसत्त्वानां परिग्रहार्थेन भूमिरित्युच्यते। उपभोगवासार्थेन पुनर्विहार इत्युच्यते।



तत्र कतमे बोधिसत्त्वानामधिशीलविहारस्य आकाराः कानि लिङ्गानि कानि निमित्तनि वेदितव्यानि। इह बोधिसत्त्वेन पूर्वमेव प्रमुदितविहारे दशाकारेण चित्ताशयेनाशयशुद्धिः प्रतिलब्धा भवति। सर्वाचार्यगुरुदक्षिणीयाविसंवादना-[ध्या] शयः। सहधार्मिकबोधिसत्त्वसौरत्यसुखसंवासाशयः। सर्वक्लेशोपक्लेशमारकर्माभिभव-स्वचित्तवशवर्तनाशयः। सर्वसंस्कारेषु दोषाशयः निर्वाणेऽनुशंसाशयः। कुशलानां बोधिपक्ष्याणां धर्माणां भावनासातत्याशयः। तेषामेव च भावनानुकूलतया प्राविविक्याशयः। सर्वलौकामिषसमुच्छ्रयलाभसत्कारनिरपेक्षाशयः। हीनयानमपहाय महायानाधिगमाशयः सर्वसत्त्वसर्वार्थकरणाशयश्च। इतीमे दश सम्यगाशयास्तस्मिंश्चित्ते प्रवृत्ता भवन्ति। यैरस्याशयः शुद्ध इत्युच्यते। एषामेव चाशयानामधिमात्रत्वात्परिपूर्णत्वात् द्वितीयमधिशीलविहारं बोधिसत्त्वः प्रविशत्याक्रमते। सोऽधिशीलविहारे प्रकृतिशीली भवति। स्वल्पमपि मिथ्याकर्मपथसंगृहीतदौःशील्यं न समुदाचरति। प्रागेव मध्यमधिमात्रं वा। दशसु च परिपूर्णेषु [कुशलेषु] कर्मपथेषु प्रकृत्या संदृश्यते।



स एवं प्रकृतिशीली प्रज्ञया क्लिष्टाक्लिष्टानां कर्मपथानां दुर्गतिसुगतियानेषु कर्मसमुदाचारे हेतुफलसमुदागमव्यवस्थानं यथाभूतं प्रजानाति। विपाकनिष्यन्दफल [त] श्च तानि कर्माणि यथाभूतं प्रजानाति। स स्वयं चाकुशलकर्मप्रहाणे कुशलकर्मसमादाने संदृश्यते। परांश्च तत्रैव समादापयितुकामो भवति समादापयति च विषमकर्मसमाचारदोषदुष्टञ्च सत्त्वधातुं सर्वमविशेषेण सम्पत्तिविपत्तिगतं परमार्थतो दुःखितं व्यसनस्थं विचित्रैर्व्यसनाकारैरनुकम्पमानोऽनुकम्पावैपुल्यमनुप्राप्तः प्रत्यवेक्षते। तस्यास्मिन् अधिशीलविहारे व्यवस्थितस्य बुद्धदर्शनं कुशलमूलविशुद्धिः पूर्ववद्वेदितव्या। तत्रायं विशेषः। तद्यथा तदेव सुवर्णं कुशलेन कर्मकारेण कासीसं ग्रक्षिप्तं भूयस्या मात्रया विशुद्धतरं भवत्यग्नौ प्रक्षिप्यमाणम्। एवमस्य बोधिसत्त्वस्य सा कुशलमूलविशुद्धिर्वेदितव्या। अस्मिंश्च विहारे शुद्धचित्ताशयनिष्पत्तिप्रवेशत उपपत्ति [त] श्चातुर्द्वीपकश्चक्रवर्ती भवति। यद्भूयसा बाहुल्येन च दौःशील्यादकुशलेभ्यः कर्मपथेभ्यः सत्त्वान् व्यावर्तयति। कुशलेषु च कर्मपथेषु समादापयति। प्रभावोऽप्यस्य पूर्वकाद् दशगुणो वेदितव्यः। इत्येवं बोधिसत्त्वानामधिशीलविहारः। प्रकृतिशीलतश्च सर्वाकारदौःशील्यमलापकर्षतश्च सर्वकर्मपथसर्वाकारहेतुफलज्ञानप्रतिवेधतश्च शुभे कर्मणी परसमादापनकामश्चानुकम्पा वैपुल्यप्रतिलम्भतश्च सत्त्वधातुकर्मजदुःखव्यसनालोचनतश्च कुशलमूलविशुद्धितश्च उपपत्तितश्च प्रभावतश्च समासनिर्देशतो वेदितव्यः। विस्तरनिर्देशतः पुनर्यथा सूत्रमेव यथा दशभूमिके विमलायां भूमौ दौःशील्यमलापगतत्वात् विमला भूमिरित्युच्यते। दौःशील्यमलापगतत्वात् एवाधिशीलविहार इति। या तत्र विमला भूमिः सेहाधिशीलविहारो वेदितव्यः।



तत्र कतमे बोधिसत्त्वानामाकाराः कानि लिङ्गानि कानि निमित्तानि अधिचित्तविहारस्य। इह बोधिसत्त्वेन पूर्वमेवाधिशीलविहारे ते दश शुद्धाशया मनसिकृता भवन्ति जुष्टाः प्रतिविद्धाः। दशभिरपरैराकारैस्तेषां चित्ताशयमनसिकाराणामधिमात्रत्वात् परिपूर्णत्वादधिशीलविहारं समतिक्रम्याधिचित्तविहारमनुप्रविशति। शुद्धो मे दशभिराकारैश्चित्ताशय इति मनसिकारेण। अभव्यश्चाहं तस्माद् दशाकारात्त्छुद्धाशयात्परिहाणायेति मनसिकारेण। सर्वास्रवसास्रवेषु मे धर्मेषु चित्तं न प्रस्कन्दति प्रतिकूलतायां च सन्तिष्ठत इति मनसिकारेण। तत्प्रतिपक्षभावनायां च मे विज्ञानं संस्थितमिति मनसिकारेण। अभव्यश्चाहमस्मात्प्रतिपक्षात्पुनः परिहाणायेति मनसिकारेण। अभव्यश्चाहमेवं दृढप्रतिपक्षस्तैः सर्वास्रवसास्रवैर्धर्मैः सर्वमारैश्चाभिभवितुमिति मनसिकारेण। असंलीनं च मे मानसं प्रवर्तते सर्वबुद्धधर्मेष्विति मनसिकारेण। सर्वदुष्करचर्यासु च मे नास्ति व्यथेति मनसिकारेण। अधिमुक्तं च मे महायाने चित्तमेकान्तेन न तदन्यहीनयानेष्विति मनसिकारेण। सर्वसत्त्वार्थक्रियाभिरतञ्च मे चित्तमिति मनसिकारेण। एभिर्दशभिश्चित्ताशयमनसिकारैः प्रविशति।

अधिचित्तविहारस्थितो बोधिसत्त्वः सर्वसंस्कारानादीनवाकारैर्विचित्रैर्विदूषयति। तेभ्यश्च मानसमुद्वेजयति। बुद्धज्ञाने चानुशंसदर्शी भवति विचित्रैरनुशंसाकारैः। तत्र च स्पृहाजातो भवति घनरसेन च्छन्देन। सत्त्वधातुं दुःखितं व्यवलोकयति विचित्रैर्दुःखाकारैः। तेषु च सत्त्वेषुपेक्षाचित्तो भवत्यर्थप्रतिशरणचित्तः। सर्वसंस्कारेष्वप्रमत्तः। बोधायोत्तप्तवीर्यः। सत्त्वेषु विपुलकरुणाशयः। तेषां सत्त्वानामत्यन्तदुःखविमोक्षोपायं सर्वक्लेशानावरणज्ञानमेव पश्यति। तस्य च विमोक्षस्य समुदागमाय धर्मधातौ सर्वविकल्पप्रचार-संल्केशोत्पत्तिप्रतिपक्षं प्रज्ञां पश्यति। तस्य च ज्ञानालोकस्य निष्पत्तये सम्यक्संबोधिं पश्यति। तञ्च ध्यानसमाधिसमापत्तिनिर्हारं बोधिसत्त्वपिटकश्रवणपूर्वकं श्रवणनिदानं पश्यति। दृष्ट्वा [च] महता वीर्यारम्भेण श्रुतपर्येष्टिमापद्यते। सद्धर्मश्रवणहेतोर्नास्ति तद्‍द्रविणं परिष्कारमाध्यात्मिक-वाह्यं वस्तु यन्न परित्यजति। नास्ति सा गुरुपरिचर्या यान्नाभ्युपगच्छति। नास्ति सा सन्ततिर्यान्नाभ्युपगच्छति। नास्ति सा कायोत्पीडा यान्नाभ्युपगच्छति। स प्रीततरो भवत्येक चतुष्पदगाथाश्रवणेन न त्वेवं त्रिसाहस्रपूर्णप्रतिमेन महारत्न‍राशिना। प्रीततरो भवत्येकधर्मपदश्रवणेन सम्यक्संबुद्धोपनीतेन बोधिसत्त्वचर्यापरिशोधकेन न सर्वशक्रत्व [-मारत्व-] ब्रह्मत्व-लोकपालत्व-चक्रवर्तित्व-समुच्छ्रयप्रतिलम्भैः। स चेदेनं कश्चिदेवं वदेत्। एवमहमिदं [धर्मपदं] सम्यक्संबुद्धोपनीतं सर्वबोधिसत्त्वचर्यापरिशोधकं तेऽनुश्रावयिष्यामि स चेन्महत्यामग्निखदायामात्मानं प्रक्षिपसि महान्तञ्च दुःखोपक्रमं संप्रतीच्छसीति। श्रुत्वास्यैवं भवेत्। उत्सहाम्यहमस्य धर्मपदस्यार्थे पूर्ववत् त्रिसाहस्रमहासाहस्रप्रतिमायामाप्यग्निखदायां ब्रह्मलोकादात्मानमुत्स्रष्टुं प्रागेव प्रत्यवरायाम्।



नारकदुःखसंवासैरप्यस्माभिर्बुद्धधर्माः पर्येषितव्याः प्रागेव प्राकृतैर्दुःखोपक्रमैरिति। एवंरूपेण वीर्यारम्भेण धर्मान् पर्येष्यैवं योनिशो मनसिकरोति। यथा धर्मान्नुधर्मप्रतिपत्तिं बुद्धधर्मानुगतां न व्यञ्जनस्वरमात्रविशद्धिमिति विदित्वा तदेव श्रुतं निश्रित्य धर्मनिमित्तानि सम्यगालम्बनीकुर्वन् विविक्तं कामैर्विस्तरेण प्रथमं द्वितीयं तृतीयं चतुर्थञ्च ध्यानं लौकिकं चतस्र आरूप्यसमापत्तीर्लौकिकीश्चत्वार्यप्रमाणानि पञ्च चाभिज्ञा उपसंपद्य विहरति। स तैर्बहुलं विहृत्य तानि ध्यानानि समाधीन् समापत्तीः व्यावर्तयित्वा प्रणिधानवशेन कामधातौ यत्र सत्त्वार्थं बोधिपक्षधर्मपरिपूरिं च पश्यति तत्रोपपद्यते। न त्वेवास्य तद्वशेनोपपत्तिर्भवति। तस्य कामवीतरागत्वात्कामबन्धनानि प्रहीणानि भवन्ति ध्यानसमाधिसमापत्तिव्यावर्तनत्वाद् भवबन्धनानि। अधिमुक्तिचर्या-भूमावेवास्य पूर्वमेव धर्मतथताधिमोक्षाद् दृष्टिकृतबन्धनानि प्रहीणानि भवन्ति। मिथ्यारागद्वेषमोहाश्चास्यात्यन्तं न प्रवर्तन्ते। तस्य बुद्धदर्शनं विस्तरेण कुशलमूलविशुद्धिः पूर्ववद्वेदितव्या। तत्रायं विशेषः। तद्यथा तदेव सुवर्णकुशलस्य कर्मारस्य हस्तगतं प्रक्षीणमलकषायमपि समधरणमवतिष्ठते तुल्यमानम्।





एवमस्य सा कुशल मूलविशुद्धिर्वेदितव्या। उपपत्तितश्च शक्रो भवति देवेन्द्रो यद्भूयसा। कुशलः सत्त्वानां कामरागविनिवर्तनतायै। प्रभावेऽपि यत्र पूर्वके विहारे सहस्रमाख्यातं तत्रेह शतसहस्रं वेदितव्यम्। अयं बोधिसत्त्वानामधिचित्तविहारश्चित्तमनस्कार-परिनिष्प [त्ति-] प्रवेशतश्च संसारसत्त्वधातुमहाबोधिसम्यक्-प्रतिवेध [त] श्च सत्त्वदुःखविमोक्षोपाय-सम्यक्-पर्येषणतश्च महागौरवधर्मपर्येषणतश्च धर्मानुधर्मप्रतिपत्ति-लौकिकध्यानसमाधिसमापत्त्यभिज्ञाभिनिर्हार-विहारतश्च तद्व्यावर्तनं प्रणिधाय यत्र कामोपपत्तितश्च कुशलमूलविशुद्धितश्चोपपत्तितश्च प्रभावतश्च समासनिर्देशतो वेदितव्यः। विस्तरनिर्देशः पुनर्यथासूत्रं तद्यथा दशभूमिके प्रभाकर्यां भूमौ। श्रुताकारधर्मालोकावभास-समाध्यालोकावभास-प्रभावितत्वादस्या भूमेः प्रभाकरीत्युच्यते। अध्यात्मं चित्तविशुद्धिमुपादाय सा प्रभा संभवति तस्मात्स विहारः अधिचित्त इत्युच्यते। येनार्थेन प्रभाकरी भूमिः तेनैवार्थेनाधिचित्तविहारो वेदितव्यः।



तत्र कतमो बोधिसत्त्वानां बोधिपक्ष्यप्रतिसंयुक्तोऽधिप्रज्ञविहारः। इह बोधिसत्त्वेन पूर्वमेवाधिचित्तविहारे दश धर्मालोकप्रवेशाः श्रुतपर्येष्टिमधिपत्तिं कृत्वा प्रतिलब्धा भवन्ति। येषामधिमात्रत्वात्परिपूर्णत्वादधिचित्तविहारमतिक्रम्य प्रथममधिप्रज्ञविहारं प्रविशति। [ते] पुनर्दश धर्मालोकप्रवेशा ग्रन्थतो यथा सूत्रमेव वेदितव्यः। ये च प्रज्ञप्यन्ते यत्र च प्रज्ञप्यन्ते येन च प्रज्ञप्यन्ते ते च यत्समाः परमार्थः यस्य च संक्लेश-व्यवदानश्च संक्लिश्यन्ते विशुद्धन्ते च यत्प्रतियुसंक्तेन संक्लेशेन संक्लिश्यन्ते यया चानुत्तरया विशुद्ध्या विशुध्यन्ते। इत्ययं समासार्थस्तेषां धर्मालोकनिर्देशानां वेदितव्यः। स तस्मिन् विहारे व्यवस्थितः। अभेद्याशयता पूर्वङ्गमैर्यथासूत्रमेव दशाकारेण ज्ञानपरिपाकेन [ज्ञान-] परिपाचकैर्धर्मैः समन्वागतः संवृत्तो भवति तथागतकुले तदात्मक-धर्मप्रतिलम्भात्। सर्वाकारां बोधिसत्त्वापेक्षामधिपतिं कृत्वा स्मृत्युपस्थानप्रमुखान् सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् भावयन्ति यथासूत्रमेव। तस्य तान्धर्मानुपायपरिग्रहेण भावयतः सत्कायदृष्टिः सुसूक्ष्माप्यस्य स्कन्धधात्वायतनान्यभिनिवेशः सर्वेञ्जितानि चात्यन्तासमुदाचारतः प्रहीयन्ते। तेषां प्रहाणाद् यानि तथागत-विवर्णितानि कर्माणि तानि सर्वेण सर्वं नाध्याचरति। यानि पुनस्तथागत-वर्णितानि तानि सर्वाप्यनुवर्तन्ते यथावत्। तथाभूतश्च भूयसा मात्रया स्निग्धमृदुकर्मण्यचित्तश्च भवति तथा चित्राकारसुविशुद्धचित्तश्च।



कृतज्ञकृतवेदितादिभिस्तदाशयानुगुणैर्विचित्रैः शुक्ल-धर्मैः समन्वागतो भवति। उत्तरि च भूमिपरिशोधकानि कर्माणि समन्वेषमाणो महावीर्यारम्भप्राप्तो भवति। तस्य तन्निदानमाशयाध्याशयाधिमुक्तिधातुः परिपूर्यते। तन्निदानं चासंहार्यो भवति अविकम्प्यः सर्वतीर्थ्यमारशासनप्रत्यर्थिकभूतैः। पूर्ववच्च बुद्धदर्शनं विस्तरेण कुशलमूलविशुद्धिर्वेदितव्या। तत्रायं विशेषः। तद्यथा तदेव सुवर्णकुशलेन कर्मकारेणालंकारविधिकृतमसंहार्यं भवत्यकृताभरणैर्जातरुपैः। एवमस्य बोधिसत्त्वस्य तानि कुशलमूलान्यसंहार्याणि भवन्ति तदन्यबालविहारस्थितैर्बोधिसत्त्वकुशलमूलैः। तद्यथा च मणिरत्नमुक्तालोकमसंहार्यं भवति तदन्यैर्मणिभिः। सर्ववातोदकवृष्टिभिश्चानाच्छेद्यप्रभं भवति। एवमयं बोधिसत्त्वोऽसंहार्यो भवति सर्वश्रावकप्रत्येकबुद्धैः। अनाच्छेद्यप्रज्ञालोकश्च भवति सर्वमारप्रत्यर्थिकैः। उपपत्तितश्च सुयामो भवति देवराजः। कुशलः सत्त्वानां सत्कायदृष्टिविनिवर्तनतायै। प्रभावे च यत्र पूर्वविहारे शतसहस्रगुणं समाख्यातं तत्रास्मिन् कोटिसमाख्यातं वेदितव्यम्। अयं बोधिसत्त्वानां बोधिपक्ष्याधिप्रज्ञविहारः। धर्मालोकप्रवेशनिष्पत्तिं प्रतिलाभतश्च ज्ञानपरिपाचनतश्च बोधिपक्ष्यधर्मनिषेवणतश्च सत्कायदृष्ट्यादि-सर्वाभिनिवेशेञ्जितप्रहाणतश्च प्रतिषिद्धानुज्ञातकर्मविवर्जन-निषेवणतश्च तन्निदानं चित्तमार्दवतश्च तदनु-कूलगुणसमृद्धितश्च भूमिपरिशोधक-कर्मपर्येष्टिमारभ्य महावीर्यारम्भतश्च तन्निदानमाशयाध्याशयाधिमुक्तिविशोधनतश्च तन्निदानं सर्वशासनप्रत्यर्थिकासंहार्यतश्च कुशलमूलविशुद्धितश्चोपपत्तितश्च प्रभावतश्च समासनिर्देशतो वेदितव्यः। विस्तरनिर्देशः पुनस्तद्यथादशभूमिकेऽर्चिष्मती भूमिनिर्देशे बोधिपक्ष्या धर्मास्तस्यां भूमौ ज्ञानार्चिभूताः सम्यग्धर्मदेशना प्रज्ञावभासकरकालोकानाम्। तस्मात्सा भूमिरर्चिष्मतीत्युच्यते। सैव चेह बोधिपक्ष्याप्रज्ञावभासकर-धिप्रज्ञविहार इत्युच्यते।



तत्र कतमो बोधिसत्त्वानां सत्यप्रतिसंयुक्तो द्वितीयोऽधिप्रज्ञविहारः। इह बोधिसत्त्वः पूर्वकेऽधिप्रज्ञविहारे [या] दश विशुद्धाशयसमताः प्रतिलब्धाः तासामधिमात्रात्वात् परिपूर्णत्वात् द्वितीयमधिप्रज्ञविहारं प्रविशति। दश विशुद्धाशयसमता यथासूत्रं ग्रन्थतो वेदितव्याः। असमैश्च बुद्धैर्बुद्धाः समाः। तदन्यसत्त्वधातुसमतिक्रान्ताः। यैश्च धर्मैर्यथा समाः। इत्ययं समासार्थो विशुद्धाशयसमतानां वेदितव्यः। सोऽस्मिन्विहारे व्यवस्थितः। भूयो ज्ञानवैशेषिकतां प्रार्थयमानः चत्वार्यसत्यानि दशभिराकारैर्यथाभूतं प्रजानाति। ग्रन्थतो यथासूत्रमेव सर्वं वेदितव्यम्। परसंज्ञापनतां [प्रत्यात्मज्ञानतां] तदुभयाधिष्ठानतां चारभ्य यच्च देश्यते। सूत्रविनयमातृकामारभ्य येन च देश्यते। प्रत्युपन्नदुःखात्मकतां हेतु [त-] श्चानागतदुःखप्रभावतां हेतुक्षयात् [तत्-] क्षयानुत्पाद [न] तां तत्प्रहाणोपायनिषेवणतां चारभ्य यथा देश्यते। इत्ययं समासार्थस्तस्य दशाकारस्य चतुरार्यसत्यज्ञानस्य वेदितव्यः। स एवं सत्यकुशलः सर्वञ्च संस्कारगतं प्रज्ञया सम्यग् विदूषयति। सत्त्वधातौ च करूणाशयं विवर्धयति। पूर्वान्तापरान्ततश्च बालसत्त्वमिथ्याप्रतिपत्तिं सम्यक् प्रतिविध्यति। तेषाञ्च विमोक्षाय महापुण्यज्ञानसम्भारपरिग्रहे चित्तं प्रणिधत्ते। तद्गताशयं च समुदानयति।



स्मृतिमतिगतिप्रमुखैः प्रभूतैर्विचित्रैर्गुणैः समृद्धश्च। अन्य मनसिकारापगतः। चित्रैः परिपाचनोपायै सत्त्वान् परिपाचयति। यानि च सत्त्वानुग्राहकानि लौकिकानि लिपिशास्त्रमुद्रागणनादीनि यथासूत्रमेव शिल्पकर्मंस्थानानि तानि सर्वाण्याभिनिर्हरति सत्त्वकरुण [त] या। अनुपूर्वेण यावत् बोधिप्रतिष्ठापनार्थं लौकिकव्यवहारानुकूलतया दारिद्र्य-नाशोपायतया धातुवैषम्यमनुष्यामनुष्योपसंहृतोपद्रवप्रशमनतयाऽनवद्यक्रीडारतिवस्तूपसंहारतो धर्मरतिव्यावर्तनतया सन्निवासोपकरणार्थिनामल्पकृच्छ्रेण सन्निवासोपकरणोपसंहरणतया राजचौराद्युपद्रवपरित्राणतया स्थानास्थानप्रयोगानुज्ञाप्रतिषेधनतया मङ्गल्यामङ्गल्यवस्त्वादानत्यागसन्नियोजनतया दृष्टे धर्मे परस्परानभिद्रोहसम्परायाविपरीताभ्युदयमार्गोपदेशनतया। इत्ययं तेषां सत्त्वानुग्राहकानां शिल्पकर्मस्थानानां समासार्थो वेदितव्यः। सर्वमन्यत्पूर्ववत्। तत्रायं विशेषः। तद्यथा तदेव स्वर्णकुशलेन कर्मकारेण मुसारगल्व-मृष्टं प्रत्यर्पितमतुल्यतयाऽसंहार्यं भवति तदन्यैः सुवर्णैः। एवमयं बोधिसत्त्वोऽसंहार्यो भवति सर्वश्रावकप्रत्येकबुद्धैः तदन्यभूमिस्थितैश्च बोधिसत्त्वैः। तद्यथा चन्द्रसूर्यनक्षत्राणामाभा असंहार्या च भवति सर्व वातमण्डलैः। [सर्व] वातवाहा साधारणा च भवति। एवमेवास्य बोधिसत्त्वस्य सा प्रज्ञा असंहार्या भवति सर्वश्रावकप्रत्येकबुद्धैः। लौकिकक्रिया साधारणा च भवति। उपपत्तितः संतुषितो भवति देवराजः। कुशलः सर्वतीर्थ्यविनिवर्तनतायै। प्रभावश्च कोटीशतसहस्रसंख्या निर्देशतो वेदितव्यः। अयं बोधिसत्त्वानां सत्यप्रतिसंयुक्तोऽधिप्रज्ञविहारः। शुद्धाशयसमता-निष्पत्ति-प्रवेशतश्च उपायसत्यव्यवचारणा-प्रतिविवर्धनतश्च सर्वसंस्कारविदूषणतश्च कारूण्यविवर्धनतश्च तदर्थं पुण्यज्ञानसंभारोपचयप्रणिधानप्रयोगतश्च स्मृतिमतिगत्यादिगुणविवृद्धितश्चानन्यमनसिकार-सर्वाकार-सत्त्वपरिपाचनाभियोगतश्च लौकिकशिल्पाभिनिर्हारतश्च कुशलमूलविशुद्धितश्चोपपत्तितश्च प्रभावतश्च समासनिर्देशतो वेदितव्यः। विस्तरनिर्देशतः पुनस्तद्यथा दशभूमिके सुदुर्जयायां भूमौ सत्त्वेषु निश्चयज्ञानं सुदुर्जयम्। तच्चेह परिदीपितम्। तस्मात्सा भुमिः सुदुर्जयेत्युच्यते। तेनैव चार्थेन सत्यप्रतिसंयुक्तोऽधिप्रज्ञविहारो द्रष्टव्यः।



तत्र कतमो बोधिसत्त्वानां प्रतीत्यसमुत्पादप्रतिसंयुक्तोऽधिप्रज्ञविहारः। इह बोधिसत्त्वेन पूर्वमेव सत्यप्रतिसंयुक्ते अधिप्रज्ञविहारे दश धर्मसमताः प्रतिलब्धः भवन्ति। यथासूत्रं ग्रन्थतस्ता वेदितव्याः। तासामधिमत्रत्वात्परिपूर्णत्वादिदं विहारमनुप्रविशति। सर्वधर्मेषु पारमार्थिकस्य सतः स्वभावस्य निर्निमित्तसमतया अभिलापाभिसंस्कारप्रतिभासस्यालक्षणसमतया तस्यैवालक्षणत्वात् स्वयमजातसमतया हेतुतोऽनुत्पन्नसमता स्वयं हेतु [त] श्चानुप्तन्नत्वादत्यन्तमादिशान्तसमतया विद्यमान [स्य] वस्तुग्राहकस्य ज्ञानस्य निष्प्रपञ्चसमतया आदानत्यागाभिसंस्कारविगमसमतया च तस्यैव क्लेशदुःखसंक्लेश-विसंयोगाद् विविक्तसमतया विकल्पितस्य ज्ञेयस्वभावस्य मायानिर्मितोपमसमतया निर्विकल्पज्ञानगोचरस्य स्वभावस्य भावाभावाद्वयसमतया। इत्ययं तासां दशानां धर्मसमतानामर्थविभागो वेदितव्यः। सोऽस्मिन्विहारे स्थितः सत्त्वेषु संवृद्धकरुणो बोधौ तीव्रच्छन्दाभिलाषजातः। लोकानां संभवञ्च विभवञ्च सर्वाकारया प्रतीत्यसमुत्पाद-सम्यग्‍व्यवचारणतया व्यवचारयति प्रजानाति। प्रतीत्यसमुत्पादज्ञानसन्निश्रितं चास्य विमोक्षमुखत्रयमाजातं भवति शून्यमनिमित्तमप्रणिहितम्। ततो निदानं चास्यात्म-पर-कारक-वेदकभावाभावसंज्ञा न प्रवर्तन्ते। स एवं परमार्थकुशलः सत्त्वसापेक्षः योनिशः प्रतिविध्यति क्लेशसंयोगात्। प्रत्ययसामग्र्याच्च संस्कृतं प्रकृतिदुर्बलमात्मात्मीयविरहितमनेकदोषदुष्टं प्रवर्तते न विना क्लेशसंयोगप्रत्ययसामग्रीम्। तेन मया क्लेशसंयोगप्रत्ययसामग्रीं च विकलीकर्तव्या चात्मरक्षार्थम्। न च सर्वेण सर्वं संस्कृतं व्युपशमयितव्यं सत्त्वानुग्रहार्थम्। तस्यैवं ज्ञानकारूण्यानुगतस्यास्मिन् विहारेऽसङ्गज्ञानाभिमुखो नाम प्रज्ञापारमिताविहारः अभिसंमुखी भवति। येनायं सर्वलोकिकचर्यास्वशक्तश्चरति। स च विहारो या तीक्ष्णा सप्तम्यां भूमौ प्रायोगिकचर्यापर्यन्तगता बोधिसत्त्वक्षान्तिः तयानुलोमिक्या क्षान्त्या संगृहीतो वेदितव्यः। सोऽसङ्गज्ञानाभिमुख-प्रज्ञापारमिता-विहाराभिमुख्याद् बोध्याहारकांश्च प्रत्ययानाहरति।



लौकिकानाञ्च संस्कृतसंवासे न संवसति। प्रशमे च शान्तदर्शी भवति। न च तत्रावतिष्ठते। तस्यैवमुपाय-प्रज्ञाज्ञानानुगत-स्यावतार-शून्यतासमाधिप्रमुखानि दश समाधिमुखशतसहस्राण्यामुखी भवति। यथा शून्यतासमाधिः एवमप्रणिहितानिमित्तसमाधयो वेदितव्याः। तेषामामुखीभवादभेद्याशयश्च भवति। सर्वाकाराच्छासनादसंहार्यश्च भवति सर्वमारतीर्थ्यशासनप्रत्यर्थिकैः शेषं पूर्ववत्। तत्रायं विशेषः। तद्यथा तदेव सुवर्णं कुशलेन कर्मकारेण वैदूर्यमणिरत्नमुष्टं प्रत्यर्पितमसंहार्यं भवति तदन्यैः सर्वजातरूपैः एवमस्य बोधिसत्त्वस्य तानि कुशलमूलानि विशुद्धतराणि भवन्त्यसंहार्याणि पूर्ववत्। तद्यथा चन्द्रप्रभा सत्त्वाश्रयांश्च प्रहलादयत्यनाच्छेद्यप्रभा च भवति चतसृभिर्वातमण्डलिकाभिः। एवमस्य बोधिसत्त्वस्य सा प्रज्ञाभा सर्वसत्त्वक्लेशपरिदाहञ्च प्रशमयति। अनाच्छेद्या च भवति सर्वमारप्रत्यर्थिकैः। सुनिर्मितश्च भवति देवराजः। कुशलः सत्त्वानां सर्वाभिमानविनिवर्तनतायै। प्रभावोऽपि कोटीशतसहस्रं संख्यानिर्देशतो द्रष्टव्यः। अयं प्रतीत्यसमुत्पादप्रतिसंयुक्तोऽधिप्रज्ञविहारः। धर्मसमता-परिनिष्पत्तिप्रवेशतश्च प्रतीत्यसमुत्पादावबोधविमोक्षमुखसम्भवतश्च सर्वमिथ्यासंज्ञासमुदाचारतश्च उपायसंसारपरिग्रहतश्च असङ्गज्ञानाभिमुख-प्रज्ञापारमिताविहाराभिमुखतश्च अप्रमाण-समाधिप्रतिलम्भतश्च अभेद्याशयप्रतिलम्भतश्च शासनादासंहार्यतश्च कुशलमूलविशुद्धित उपपत्तितः प्रभावतश्च समासनिर्देशतो वेदितव्यः। विस्तर-[निर्दशत] स्तद्यथाऽभिमुख्यां भूमौ। असङ्गज्ञानाभिमुखस्य प्रज्ञापारमिताविहारस्याभिमुख्यादभिमुखीत्युच्यते। तनैवार्थेनायं विहारो वेदितव्यः।



तत्र कतमो बोधिसत्त्वानां साभिसंस्कारः साभोगो निर्निमित्तो विहारः। इह बोधिसत्त्वेनानन्तरेऽधिप्रज्ञविहारे दशोपायेन प्रज्ञया चाभिनिर्हृताः सर्वसत्त्वासाधारणा लौकिकाः सर्वलोकासाधारणाश्च मार्गान्तरारम्भविशेषाः प्रतिलब्धा भवन्ति। येषामधिमात्रत्वात्परिपूर्णत्वात्सप्तमं विहारमनुप्रविशति। तेषां यथासूत्रमेव ग्रन्थविस्तरो वेदितव्यः। लौकिकसम्पत्तिसंवर्तकं पुण्यपरिग्रह मारभ्य सत्त्वेषु हितसुखाशयमारभ्य बोधाय पुण्यसम्भारबोधिपक्ष्य-धर्मोत्तरोत्कर्षमारभ्य श्रावकासाधारणतामारभ्य प्रत्येकबुद्धासाधारणतामारभ्य सत्त्वधर्मधातुमारभ्य लोकधातुमारभ्य तथागतकायवाक्चित्तज्ञानमारम्य। इत्यथं तेषामुपायप्रज्ञाभिनिहृतानां मार्गान्तराणामारम्भविशेषाणामधिकारार्थः समासतो वेदितव्यः। स एभिर्युक्तोऽप्रमाणमसंख्येयं तथागतविषयं प्रतिविध्यति। तत्समुतथा नाय चानाभोगनिर्निमित्ताकल्पाविकल्पनतयाऽप्रमाणबुद्धिविषय-समुत्थानं पश्यन् निरन्तरं निश्च्छिद्रं प्रयुज्यते सर्वेर्यापथ-चारविहारमनसिकारेषु। नास्य सर्वावस्थागतस्य मार्गविप्रयुक्तो भवति। तस्य चित्तक्षणे दशपारमिताः प्रमुखाः सर्वे बोधिपक्ष्या धर्माः परिपूर्यन्ते विशेषेण। अन्येषु तु विहारेषु न तथा। प्रथमे प्रमुदितविहारे प्रणिधानाध्यालम्बनतया द्वितीये चित्तदौःशील्यमलापकर्षणतया तृतीये प्रणिधानविवर्धनधर्मालोकप्रतिलाभतया चतुर्थे मार्गावतारणतया पञ्चभे लौकिकक्रियावतारण या षष्ठे गम्भीरप्रवेशनतया। आस्मिन् पुनः सप्तमे विहारे सर्वबुद्धधर्मसमुत्थापनतया बोधङ्गानि परिपूर्यन्ते बोधिसत्त्वप्रायोगिकचर्यापरिपूरिसंग्रहादस्य विहारस्य ज्ञानाभिज्ञाचर्याविशुद्धाष्टमविहाराक्रमणाच्च। तथा हि स बोधिसत्त्वोऽस्य विहारस्यानन्तरमष्टमं विशुद्धं विहारं प्रविशति। स च विहार एकान्तविशुद्धः। इमे तु सप्त विहारा व्यामिश्राः। विशुद्धविहारपूर्वङ्गमत्वादसंक्लिष्टः। तदसंप्राप्तत्वात्संक्लिष्टचयपतिता वक्तव्याः। तस्मादस्मिन् विहारे सर्वे रागादिप्रमुखाः क्लेशाः प्रहीयन्ते। स च न संक्लेशो न निःक्लेशो वेदितव्यः असमुदाचाराद् बुद्धज्ञानाभिलाषाच्च।



तथाभूतस्यास्याध्याशयपरिशुद्धमप्रमाणं काय वाडभनस्कर्म प्रवर्तते। स यानि तथागतविवर्णितानि कर्माणि पूर्ववत् तस्य पञ्चमविहाराभिनिहृतानि लौकिकानि शिल्पज्ञानानीह परिपूर्यन्ते आचार्यसम्मतश्च भवति त्रिसाहस्रमहासाहस्रे स्थापयित्वा ऊर्ध्वविहारस्थान् बोधिसत्त्वांस्तथागतांश्च। न कश्चिदस्याशयप्रयोगाभ्यां समो भवति। सर्वे च ध्यानादयो बोधिपक्ष्या धर्मा आमुखी भवन्ति। भावनाकाराभिमुखतया नोत्तरियाकारस्थानतः। तद्यथा आमुखी भवन्ति। भावनाकाराभिमुखतया नोत्तरियाकारस्थानतः। तद्यथा अष्ठमे विहारे। स तथा प्रयुक्तः सुनिश्चितविषयसमाधिप्रमुखानि दश समाधिशतसहस्राण्यभिनिर्हरति बोधिसत्त्वसमाधीनाम्। तेषाञ्च लाभात्समतिक्रान्तो भवति श्रावकप्रत्येकबुद्धसमाधिविषयम्। स एवं सर्वक्लेशविविक्तेन दुर्विज्ञेयेन सर्वविकल्पप्रचारापगतेन कायवाङ्मनस्कर्मणा विहरति। न चोत्तरिविशेषपरिमार्गणाभियोगमुत्सृजति सत्त्वापेक्षया। बोधिपरिपूर्णार्थं तस्याप्रमाणं सर्वनिमित्तापगतं कायवाङ्मनस्कर्म प्रवर्तते सुपरिशोधितमनुत्पत्तिकधर्मक्षान्त्यावभासितम्। अस्मिन्विहारे स्वबुद्धिविषयतया सर्वश्रावकप्रत्येकबुद्धविषयसमतिक्रान्तास्तदन्येषु तु षट्षु बुद्धधर्माध्यालम्बनतया षष्ठे च विहारे बोधिसत्त्वो निरोधं समापद्यते। अस्मिंस्तु प्रतिक्षणं समापद्यते। इदञ्चास्यात्यद्भुतं कर्माचिन्त्यम्। यद् भूतकोटिविहारेण च विहरति न च निरोधं साक्षात्करोति। स तमेवोपायज्ञानाभिनिहारमधिपतिं कृत्वा सर्वसत्त्वासाधारणां बोधिसत्त्वचर्याञ्चरति लौकिकप्रतिभासाञ्चातन्मयीं च यथासूत्रमेव। तस्य तु पिण्डार्थः। पुण्यक्रियामारभ्य कडत्रपरिषत्परिग्रहमभिनिर्वृत्तिविशेषप्रार्थना-समारम्भं विमोक्षत्रयविहारतां हीनयानाधिमुक्तोपायविनयनतां कामपरिभोगं कामविशेषप्रार्थनां तीर्थिकव्यावर्तनतां परचित्तानुवर्तनतां महाजनकायानुवर्तनतां चारभ्य शेषं पूर्ववत्। तत्रायं विशेषः।



तद्यथा तदेव सुवर्णं कुशलेन कर्मकारेण सर्वमणिरत्नमृष्टुं प्रत्यर्पितमत्यर्थं भ्राजते। असंहार्यञ्च भवति तदन्यैर्जाम्बूद्वीपकैराभरणैः। एवमस्य तानि कुशलमूलानि विशुद्धतराण्यसंहार्याणि भवन्ति सर्वश्रावकप्रत्येकबुद्धकुशलमूलैस्तदन्यैश्च निकृष्टतरविहारस्थैर्बोधिसत्त्वकुशलमूलैः। तद्यथा सूर्याभा जम्बूद्वीपे यद्भूयसा स्नेहश्च परिशोषयति। असंहार्या च भवति स च तदन्यप्रभाभिः। एवमस्य बोधिसत्त्वस्य प्रज्ञाभा सत्त्वानां सर्वक्लेशविषाणि च शोषयति। असंहार्या च भवति पूर्ववत् श्रावकादिज्ञानप्रभाभिः। वशवर्ती च भवति देवराजः। कुशलः श्रावकप्रत्येकबुद्धाभिसमयोपसंहारेषु। प्रभावः कोटीशतसहस्रसंख्यानिर्देशतो वेदितव्यः। अयं साभोगो निर्निमित्तो विहारः उपायप्रज्ञाभिनिहृतमार्गान्तरारम्भविशेषनिष्पत्तिप्रवेशतश्च तथागतविषयसमुत्थान-प्रतिवेध-निरन्तरप्रयोगतश्च प्रतिक्षणं सर्वबोधिपक्ष्यधर्मसमुदागमतश्च क्लिष्टाक्लिष्ट-व्यवस्थानतश्च प्रयोगिकचर्यापरिपूरिसंग्रहतश्च आशयशुद्धिकर्मप्रवृत्तिम् अधिकृत्य सर्वलौकिकशिल्पकर्मादिपरिपूरणतश्च अप्रमेयश्रावकप्रत्येकबुद्धासाधारणसमाधि-प्रतिलम्भतश्च प्रतिक्षणनिरोधसमापत्तितश्च सर्वसत्त्वासाधारणलोकचर्याचरणतश्च कुशलमूलविशुद्धितश्च उपपत्तितः प्रभावतश्च समास-निर्देशतो वेदितव्यः। विस्तरतः पूर्ववत्। तद्यथा दूरंगमायां भूमौ। बोधिसत्त्व-प्रायोगिकचर्या-परिपूरिसंगृहीतत्वात् दूरंगमेत्युच्यते। तेनैव चार्थेन विहारो वेदितव्यः।



तत्र कतमो बोधिसत्त्वानाम् अनाभोगो निर्निमित्तो विहारः। इह बोधिसत्त्वेन प्रथमेऽनन्तरे विहारे दशाकारं सर्वधर्मपरमार्थावतारज्ञानं प्रतिलब्धं भवति। त्रिषु अध्वेषु यथायोगम् आद्यनुत्पन्नतामजन्मतामलक्षणताम् आरभ्य तदन्यहेतुभावासम्भवाविनाशताञ्चारभ्य परमार्थतो निरभिलाप्यस्वभावे वस्तुन्यभिलापाभिसंस्कारप्रतिभासस्य स्वभावस्य लक्षणेन हेतुभावेन चाविद्यमानस्य तस्यैव संक्लेशात्मनाप्रवृत्तिताञ्चानिवृत्तिताञ्चारभ्य तदज्ञानमिथ्याभिनिवेशहेतुकाञ्च तस्मिन्विद्यमाने वस्तुनि निरभिलाप्ये आदौ मध्ये पर्यवसाने सर्वकालसंक्लेशसमतां चारभ्य तथता-सम्यक्प्रवेशनिर्विकल्पसमतया च तत्संक्लेशापनयनमारभ्य। इत्यस्य ज्ञानस्य दशाकारस्याधिमात्रत्वात्परिपूर्णत्वादिममष्टमं परिशुद्धं विहारमवतरति।



इहस्थश्चानुत्पत्तिकेषु धर्मेषु परमां बोधिसत्त्वक्षान्तिं सुविशुद्धां लभते। सा पुनः कतमा। चतसृभिः पर्येषणाभिरयं बोधिसत्त्वः सर्वधमान् पर्येष्य यदा चतुर्भिरेव यथाभूतपरिज्ञानैः परिजानाति। तदा सर्वमिथ्याविकल्पाभिनिवेशेष्वपनीतेषु सर्वधर्माणां दृष्टे च धर्मे सर्वसंल्केशानुत्पत्त्यनुकूलतां पश्यति। सम्पराये च सर्वेण सर्वं निरवशेषतोऽनुत्पतिं पश्यति तेषामेव पूर्वमिथ्याविकल्पाभिनिवेशहेतुसमुत्पन्नानां धर्माणाम्। ताः पुनः चतस्रः पर्येषणा यथापूर्वं निर्दिष्टास्तत्त्वार्थपटले। चत्वारि च यथाभूतपरिज्ञानानि तान्यधिमुक्तिचर्याविहारमुपादाय यावत्साभोगनिर्निर्मित्ताद्विहारान् न सुविशुद्धानि भवन्ति। अस्मिंस्तु विहारे परिशुद्धानि भवन्ति। तस्मात् स बोधिसत्त्वः अनुत्पत्तिकेषु धर्मेषु क्षान्ति-प्रतिलब्ध इत्युच्यते। स तस्याः क्षान्तेर्लाभाद् गम्भीरं बोधिसत्त्वविहारमनुप्राप्तो भवति। तस्य ये पूर्वके निर्निमित्ते विहारे चत्वारोऽपक्षालास्ते प्रहीणा भवन्ति। यः साभोगाभिसंस्कारः स प्रहीणो भवति। उत्तरि च विशुद्धविहारे औत्सुक्यं प्रहीणं भवति। सर्वाकारसत्त्वार्थक्रियाशक्तावौत्सुक्यं प्रहीणं भवति। सूक्ष्मसंज्ञा-समुदाचारश्च प्रहीणो भवति। तस्मात् स विहारः सुविशुद्ध इत्युच्यते।



तस्य च तस्मिन् गम्भीरे विहारेऽभिरतस्य तस्मिन् धर्ममुखस्रोतसि तथागत-संचोदना-समादापना-अभिनिर्हारमुख-ज्ञानाभिज्ञा-कर्मोपसंहारोऽप्रमेयः। तथा संचोदितस्य चाप्रमाणकायविभक्तिज्ञानाभिनिर्हारो दशवशिता-प्राप्तिश्च यथासूत्रमेव विस्तरेण वेदितव्याः। वशिताप्राप्तः स तावदाकांक्षति तावत्तिष्ठति। येन वा ध्यानविमोक्षादिचित्तविहारेणाकांक्षति तेन विहरति। संकल्पमात्रेणैवास्य सर्वभोजनादि-परिष्कारसम्पद् भवति। सर्वशिल्पकर्मस्थानेषु चास्य यथाकामप्रचारता भवति। सर्वोपपत्तिसंवर्तनीयेषु च कर्मसु सर्वोपपत्त्यायतनेषु चास्य कामकामोपपत्तिता भवति। यथेप्सितञ्च सर्वर्द्धिकार्यं करोति। सर्वप्रणिधानानि चास्य यथाकामं समृध्यन्ति। यद् यदेव वस्तु यथाधिमुच्यते तत्तथैव भवति नान्यथा। यञ्च ज्ञेयं ज्ञातुकामो भवति तदपि जानीते यथावत्। नामकायपदकायव्यञ्जनकायानाञ्च निकामलाभी भवति। सर्वधर्मसम्यक्व्यवस्थानकुशलः। एवं वशिताप्राप्तस्य बोधिसत्त्वस्यातः परेण वशिताप्राप्तकृतोऽनुशंसो विस्तरेण यथासूत्रमेव वेदितव्यः। औदारिकञ्च बुद्धदर्शनं विहाय सततसमितमविरहितो भवति बुद्धदर्शनेन। शेषकुशलमूलविशुद्धिर्यथासूत्रं वेदितव्या। महर्घसुवर्णदृष्टान्तेन [आभादृष्टान्तेन] च। उपपत्तिः प्रभावविशेषश्चाप्यस्य बोधिसत्त्वस्यास्मिन्विहारे यथासूत्रमेव वेदितव्यः। अयमनाभोगो निर्निमित्तो विहारः। परमार्थवतारज्ञाननिष्पत्तिप्रवेशतश्च अनुत्पत्तिकधर्मक्षान्तिलाभतश्च सर्वापक्षालापगत-गम्भीर-बोधिसत्त्वविहारप्राप्तितश्च धर्ममुखस्रोतसि बुद्धैरप्रमेयाभिनिर्हारमुखज्ञानाभिज्ञाकर्मोपसंहारतश्च अप्रमाणकायविभक्तिज्ञानप्रवेशतश्च वशिताप्राप्तितश्च वशितानुशंसप्रत्यनुभवनतश्च कुशलमूलविशुद्धित उपपत्तिः प्रभावतश्च समासनिर्देशतो वेदितव्यः। विस्तरेण निर्देशतो यथासूत्रं तद्यथाऽचलायां भूमौ। पूर्वकाभिसंस्कारापगमादनाभोगानिश्चलवाहिमार्गसमारूढं तच्चित्तं तस्यां भूमौ प्रवर्तते। तस्मात् सा भूमिरचलेत्युच्यते। तेनैव चार्थेनायं विहारो द्रष्टव्यः।



तत्र कतमो बोधिसत्त्वानां प्रतिसंविद्विहारः। इह बोधिसत्त्वस्तेनापि विहारेण गम्भीरेणासंतुष्ट उत्तरिज्ञानविशेषतामनुगच्छन् यैश्च धर्मज्ञानाभिसंस्कारैः परेषां धर्मः सर्वाकारो बोधिसत्त्वेन देशयितव्यो यच्च धर्माख्यानकृत्यं तत्सर्वं यथाभूतं प्रजानाति तत्रेदं धर्मसमाख्यानकृत्यम्। गहनोपविचारेषु ये च संक्लिश्यन्ते विशुध्यन्ते च। येन च संक्लिश्यन्ते येन च विशुध्यन्ते। यच्च संक्लेशव्यवदानम्। या च तस्यानैकान्तिकता। या च तस्यैकान्तिकता। या च तस्यैकान्तिकताऽनैकान्तिकता। तस्य यथाभूतज्ञानम्। एवञ्च धर्म-देशनाकुशलस्य देशनाकृत्यकुशलस्य च यत् सर्वाकारमहाधर्म-भाणकत्वम् अप्रमेयधारणीप्राप्तस्य सर्वस्वराङ्गविभक्तिकुशलस्याक्षयप्रतिभानस्य। यादृश्या धर्मधारणोद्ग्रहणशक्त्या समन्वागतस्य। यया बोधिसत्त्वप्रतिसंविदभिनिहृतया वाचा। यदृशे धर्मासने निषण्णस्य। यत्र येषु च धर्म देशयतः यावद्‍भिर्मुखैः यया सत्त्व-विज्ञापन सन्तोषण-कृत्यसंनियोजन-शक्त्या समन्वागतस्य। तत् सर्वं यथासूत्रमेव विस्तरनिर्देशतो वेदितव्यम्। कुशलमूलविशुद्ध्युपपत्तिप्रभावविशेषोऽपि यथासूत्रमेव वेदितव्यः। अयं बोधिसत्त्वानां प्रतिसंविद्‍विहारः शान्तविमोक्षसन्तुष्टिप्रवेशतश्च धर्मसमाख्यानाभिसंस्कारज्ञानतश्च तत्कृत्यज्ञानतश्च अचिन्त्यमहाधर्मभाणकत्वप्रतिलम्भतश्चकशलमूलविशुद्धित उपपत्तितः प्रभावतश्च समासनिर्देशतो वेदितव्यः। विस्तरनिर्देशतः पुनः यथासूत्रमेव। तद्यथा साधुमत्यां भूमौ। सर्वसत्त्वानां हितसुखाशयपरिशुद्ध्या बोधिसत्त्वप्रतिसंविन्मत्या धर्मसमाख्यानाधिकारत्वात् सा भूमिः साधुमतीत्युच्यते। तेनैव चार्थेनायमपि विहारो द्रष्टव्यः।



तत्र कतमो बोधिसत्त्वानां परमो विहारः। इह बोधिसत्त्वस्य प्रतिसंविद्-विहारे सर्वाकारपरिशुद्धे धर्मराजत्वार्हस्य धर्माभिषेकसमासन्नस्य विमलादिसमाधि-अप्रमेयप्रतिलम्भ-तत्कृत्यकरणतः सर्वज्ञज्ञानविशेषाभिषेक पश्चिमसाधिसम्मुखीभावाच्च सर्वबुद्धेभ्यस्यदनुरूपासनकायपरिवारप्रतिलाभिनः स्वरश्मिगमनप्रत्यागमनैः सर्वाकारसर्वज्ञज्ञानाभिषेकप्रतिलम्भतश्च अभिषिक्तस्य च सर्वविनेय-समुदानयन-तद्‍विमोक्षोपाय-बुद्धकृत्यज्ञानतश्च अप्रमेय-विमोक्ष-धारणी अभिज्ञा प्रतिलम्भतश्च तदाधिपतेय महास्मृतिज्ञा नाभिनिर्हारनिर्वचनव्यवस्थानतश्च महाभिज्ञाभिनिर्हारतश्च कुशलमूलविशुद्धि-उपपत्तिप्रभावविशेषतश्च समासनिर्देशतः परमो विहारो वेदितव्यः। विस्तरनिर्देशतः पुनर्यथासूत्रमेव तद्यथा धर्ममेघायां बोधिसत्त्वभूमौ। परिपूर्णबोधिसत्त्वमार्गः सुपरिपूर्ण-बोधिसम्भारश्च स बोधिसत्त्वः तथागता नामन्तिकात् धर्ममेधभूम्यामत्युदारां दुःसहाः तदन्यैः सर्वसत्त्वैः सद्धर्मंवृष्टि सम्प्रतीच्छति। महामेधभूतश्च स्वयमनभिसम्बुद्धबोधि-अभिसम्बुद्धबोधिश्चाप्रमेयानां सत्त्वानां सद्धर्म-वृष्टया निरपमया क्लेशरजांसि प्रशमयति। विचित्राणि च कुशलमुलशस्यानि विरोहयति विवर्धयती पाचयती तस्यां भूमाववस्थितः। तस्मात् सा भूमिर्धर्ममेघेत्युच्यते। तेनैव चार्थेन परमो विहारो द्रष्टव्यः।



न च यान्युत्तरोत्तरेषु विहारेष्वङ्गानि निर्निष्टानि तानि पूर्वकेषु विहारेषु सर्वेण सर्वं न संविद्यन्ते। अपि तु मृदुत्वान् न संख्यां गच्छन्ति। तेषामेव च मध्याधिमात्रत्वात् [त] दन्योत्तरभूमिप्रतिलाभ-निष्पत्तिव्यवस्थानं वेदितव्यम्। एकैकश्चात्र विहारोऽनेकैर्महाकल्पकोटीशतसहस्रैस्ततो वा प्रभूततरैः प्रतिलभ्यते निष्पद्यते च। ते तु सर्वे विहारास्त्रिभिर्महाकल्पासंख्येयैः समुदागच्छन्ति महाकल्पासंख्येयेनाधिमुक्तिचर्या-विहारं समतिक्रम्य प्रमुदितविहारो लभ्यते। यच्च व्यायच्छमानो ध्रौव्येण नाव्यायच्छमानः। द्वितीयेन महाकल्पासंख्येयेन प्रमुदितविहारं यावत्साभोगं निर्निमित्तं विहारमतिक्रम्यानाभोगं निर्निमित्तं प्रतिलभते। तच्च निय मेव। तथा हि स शुद्धाशयो बोधिसत्त्वो नियतं व्यायच्छते। तृतीयेन महाकल्पासंख्येयेनानाभोगञ्च निर्निमित्तं प्रतिसंविद्विहारञ्च समतिक्रम्य परमं बोधिसत्त्वविहारं प्रतिलभते।



तत्र दौ कल्पासंख्येयौ वेदितव्यौ। योऽपि महाकल्पः सोऽपि रात्रिन्दिवसमासार्धमासगणनायोगेन कालाप्रमेयत्वादसंख्येय इत्युच्यते। यापि तेषामेव महाकल्पानां गणनायोगेन सर्वगणना समतिक्रान्ता संख्या सोऽप्यसंख्येयः। पूर्वकेण कल्पासंख्येयेन बोधिरनल्पैः कल्पासंख्येयैरधिगम्यते। पश्चिमकेन पुनः कल्पासंख्येयेन त्रिभिरेवनधिकैः। यस्त्वधिमात्राधिमात्रेण वीर्यारम्भेण प्रयुज्यते ततः कश्चिदन्तरकल्पान् प्रभूतान् व्यावर्तयति कश्चित् यावन्महाकल्पान्। न त्वसंख्येयव्यावृत्तिः कस्यचिदस्तीति वेदितव्यम्।



एभिश्च द्वादशभिर्बोधिसत्त्वविहारैस्त्रिभिरसंख्येयैः क्लेशावरणपक्ष्यञ्च दौष्ठुल्यं प्रहीयते ज्ञेयावरण-पक्ष्यञ्च। तत्र त्रिषु विहारेषु क्लेशावरणपक्ष्यदौष्ठुल्यस्य प्रहाणं वेदितव्यम्। प्रमुदिते [विहारे] आपायिकक्लेशपक्ष्यस्य सर्वेण सर्वं समुदाचारतस्त्वधिमात्रमम्यस्य सर्वक्लेशपक्ष्यस्य अनाभोगे निर्निमित्ते विहारेऽनुत्पत्तिकधर्मक्षान्ति-विशुद्धिविबन्धक्लेश पक्ष्यस्य सर्वेण सर्वं दौष्ठुल्यस्य प्रहाणं वेदितव्यम्। समुदाचारतस्तु सर्वक्लेशानाम्। परमे पुनर्विहारे सर्वक्लेश-[स] वासनानुशयावरणप्रहाणं वेदितव्यम्। तच्च तथागतं विहारमनुप्रविशतः ज्ञेयावरणपक्ष्यमपि दौष्ठुल्यं त्रिविधं वेदितव्यम्। त्वग्गतंफल्गुगतं सारगतञ्च। तत्र त्वग्गतस्य प्रमुदितविहारे प्रहाणं भवति। फल्गुगतस्यानाभोगे निर्निमित्ते सारगतस्य तथागते विहारे प्रहाणं भवति। सर्वावरणविशुद्धिज्ञानता च तेषु त्रिषु विहारेषु तस्य क्लेश-ज्ञेयावरणप्रहाणस्य तदन्ये विहारा यथानुक्रमं संभारभूता भवन्ति।



एषु त्रयोदशसु विहारेषु समासत एकादशविधा विशुद्धिर्वेदितव्या। प्रथमे गोत्रविशुद्धिः। द्वितीये श्रद्धाविमुक्तिविशुद्धिः। तृतीयेऽध्याशयविशुद्धिः। चतुर्थे शीलविशुद्धिः। पञ्चमे चित्तविशुद्धिः। षष्ठे सप्तमेऽष्टमे च सम्यक् ज्ञानसमारम्भविशुद्धिः। नवमे प्रायोगिकचर्या-परिपूरिविशुद्धिः। दशमे तत्त्वज्ञानाभिनिर्हारविशुद्धिः एकादशे तदर्थसम्यक् परसमाख्यानाय प्रतिर्सविद्‍विशुद्धिः। द्वादशे सर्वाकारसर्वज्ञेयानुप्रवेशज्ञानविशुद्धिः। त्रयोदशे तथागते विहारे सवासन-सर्वक्लेश-ज्ञेयावरणविशुद्धिः।



अष्टाभिश्च पूर्वनिर्दिष्टैर्महायानसंग्राहकैर्धर्मैरेषां त्रयोदशानां विहाराणां संग्रहो वेदितव्यः। प्रथमद्वितीययोर्विहारयोः श्रद्धाजातस्याधिमुक्तिगतस्य बोधिसत्त्वपिटक-श्रवणचिन्तना। तृतीये विहारेऽध्याशयोपगमनं भावनाकारप्रतिलाभपूर्वकम्। तदन्येषु सर्वविहारेषु यावत् साभोगनिर्निमित्ताद्भावनावाहुल्यम्। ततश्चोर्ध्वं त्रिषु बोधिसत्त्वविहारेषु परिशुद्धचर्या संगृहीतेषु भावनाफलनिष्पत्तिः। तथागते विहारेऽत्यन्त नैर्याणिकता वेदितव्या।



श्रावकविहारे साधर्म्येण चैषां द्वादशानां बोधिसत्त्वविहाराणामनुक्रमो वेदितव्यः। यथा श्रावकस्य स्वगोत्रविहारस्तथाऽस्य प्रथमो वेदितव्यः। यथा तस्य [सम्यकत्व-] न्यामावक्रान्तिप्रयोगविहारः एवमस्य द्वितीयः। यथा तस्य न्यामावक्रान्तिविहारः तथास्य तृतीयो विहारः। यथा तस्यावेत्यप्रसादलाभिनः आर्यकान्ताधिशीलविहार उत्तरि आस्रवक्षयाय तथास्य चतुर्थो विहारः। यथा तस्याधिशीलं निश्रित्याधिचित्तशिक्षानिर्हारविहारः तथास्य पञ्चमो विहारः। यथा तस्य यथा प्रतिलब्धसत्यज्ञानाधिप्रशिक्षाविहारः तथास्य षष्ठ सप्तमाष्टमा विहारा वेदितव्या। यथा तस्य सुविचारित ज्ञेयस्यानिमित्तसमाधिप्रयोगविहारः तथास्यनवमो विहारः। यथा तस्य परिनिष्पन्नो निर्निमित्तो विहारः तथास्य दशमो विहारः। यथा तस्य व्युत्थितस्य विमुक्त्यायतनविहारः तथास्यैकादशो विहारः। यथा तस्य सर्वाकारोऽर्हत्वविहारः तथास्य द्वादशो विहारो वेदितव्यः।



इति बोधिसत्त्वभूमावाधारानुधर्मे योगस्थाने चतुर्थं विहारपटलम्।



समाप्तञ्च योगस्थानं द्वितीयम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project