Digital Sanskrit Buddhist Canon

1-18 बोधिसत्त्वगुणपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 1-18 bodhisattvaguṇapaṭalam
बोधिसत्त्वगुणपटलम्



उद्दानम्।



आश्चर्यं चाप्यनाश्चर्यं समचित्तोपकारिता।

प्रतिकारस्तथा शास्ति स्यादबन्ध्यप्रयोगता॥



पञ्चेमे बोधिसत्त्वास्याश्चर्याद्भूता धर्मा अनुत्तरे सम्यक्संबोधियाने शिक्षमाणस्य वेदितव्याः। कतमे पञ्च। निष्कारणवत्सलता सर्वसत्त्वेषु। सत्त्वानामेवार्थाय संसारेऽप्रमेयदुःखसहिष्णुता। बहुक्लेशानां दुर्विनेयानां च सत्त्वानां विनयोपायज्ञता। परमदुर्विज्ञानतत्त्वार्थानुप्रवेशः। अचिन्त्यप्रभावता च। इमे पञ्च बोधिसत्त्वानामाश्चर्याद्भुता धर्मा असाधारणस्तदन्यैः सर्वसत्त्वैः।



पञ्चेमानि बोधिसत्त्वस्यानाश्चर्याणि यैः समन्वागतो बोधिसत्त्वः अनाश्चर्याद्भुतधर्मसमन्वागत इत्युच्यते। कतमानि पञ्च। यद् बोधिसत्त्वः परहितहेतुकेन दुःखेन सुखात्मक एव सन् कृत्स्नं परहितहेतुकं दुःखमभ्युपगच्छति। इदं बोधिसत्त्वस्य प्रथममनाश्चर्यं येन समन्वागतो बोधिसत्त्वः अनाश्चर्याद्भुतधर्मसमन्वागत इत्युच्यते। पुनरपरं यद् बोधिसत्त्वः संसारदोषज्ञो निर्वाणगुणज्ञ एव च सन् सत्त्वपरिशुद्धिप्रियस्तेनैव च सुखात्मकः सत्त्वपरिशुद्धिमेवाधिपतिं कृत्वा संसारमभ्युपगच्छति। इदं बोधिसत्त्वस्य द्वितीयमनाश्चर्यं पूर्ववत्। पुनरपरं यद् बोधिसत्त्वस्तूष्णींभाव-सुखरसज्ञ एव सन् सत्त्वपरिशुद्धिप्रियस्तेनैव च सुखात्मकं सत्त्वपरिशुद्धिमेवाधिपतिं कृत्वा सत्त्वानां धर्मेदेशनायै प्रयुज्यते। इदं बोधिसत्त्वस्य तृतीयमनाश्चर्यं पूर्ववत्। पुनरपरं यद् बोधिसत्त्वः [षट्] पारमितोपचितं कुशलमूलं सत्त्वपरिशुद्धिप्रियस्तेनैव च सुखात्मकः सत्त्वपरिशुद्धिमेवाधिपतिं कृत्वा सर्वसत्त्वानामाशयतः समुत्सृजति। न च पुनस्तस्य समुत्सर्गस्य विपाकेनार्थी भवति। इदं बोधिसत्त्वस्य चतुर्थमनाश्वर्यं पूर्ववत्। पुनरपरं यद् बोधिसत्त्वः परकार्यस्वकार्य इव सर्वपरकार्यार्थक्रियासु संदृश्यते। इदं बोधिसत्त्वस्य पञ्चममनाश्चर्यं येन समन्वागतो बोधिसत्त्वः अनाश्चर्याद्भुतधर्मसमन्वागत इत्युच्यते।



पञ्चभिराकारैर्बोधिसत्त्वः सर्वसत्त्वेषु समचित्तो वेदितव्यः। कतमैः पञ्चभिः। प्रथमेन बोधाय चित्तोत्पाद-प्रणिधानेन। तथा हि बोधिसत्त्वः सर्वसत्त्वानामर्थे समं तच्चित्तमुत्पादयति। अनुकम्पासहगतेन चित्तेन समचित्तो भवति। बोधिसत्त्वः सर्वसत्त्वेषु एकपुत्रक इव प्रेमसहगतेन चित्तेन समचित्तो भवति। बोधिसत्त्वः सर्वसत्त्वेषु एकपुत्रक एव प्रेमसहगतेन चित्तेन समचित्तो भवति। बोधिसत्त्वः सर्वसत्त्वेषु प्रतीत्यसमुत्पन्नेषु च [सर्व] संस्कारेषु सत्त्वसंज्ञेति विदित्वा बोधिसत्त्वो या एकस्य सत्त्वस्य धर्मता सा सर्वेषामिति धर्मसमतानुगतेन चेतसा सर्वसत्त्वेषु समचित्तो विहरति। यथा चैकस्य सत्त्वस्यार्थमाचरति तथा सर्वेषाम्। एवं हि बोधिसत्त्वः सर्वार्थक्रियासहगतेन चेतसा सर्वसत्त्वेषु स्मचित्तो विहरति। एभिः पञ्चभिराकारैर्बोधिसत्त्वः सत्त्वेषु समचित्तो भवति।



पञ्चभिराकारैर्बोधिसत्त्वानां सत्त्वेषु सर्वोपकारक्रिया वेदितव्या। कतमैः पञ्चभिः। सम्यगाजीवव्यपदेशोपसंहारेण। विलोमेषु च कृत्येष्वर्थोपसंहितेष्वनुलोमोपदेशोपसंहारेण। अनाथानां च दुःखितानां कृपणानामप्रतिशरणानां सनाथक्रियया। सुगतिगमनाय मार्गव्यपदेशोपसंहारेण यानत्रयव्यपदेशोपसंहारेण च।



पञ्चभिराकारैः सत्त्वा उपकारिणो बोधिसत्त्वस्य प्रत्युपकारेण प्रत्युपस्थितो भवन्ति। कतमैः पञ्चभिः। आत्मानं गुणैः संयोजयन्ति परगुणाधानाय प्रयुक्तारो भवन्ति। अनाथेषु दुःखितेषु कृपणेष्वप्रतिशरणेषु सत्त्वेषु सानाथ्यं कुर्वन्ति। तथागतान् पूजयन्ति। तथागताभाषितञ्च धर्ममुखेन वा लेखयित्वा वा धारयन्ति तञ्च पूजयन्ति।



पञ्चेमानि स्थानानि बोधिसत्त्वेन नित्यमेवमाशंसितव्यानि भवन्ति। कतमानि पञ्च। बुद्धोत्पादारागणता। तेषामेव च बुद्धानामन्तिकात् षटे पारमिता-बोधिसत्त्वपिटकश्रवणम्। सर्वाकारसत्त्वपरिपाचनप्रतिबलता। अनुत्तरसम्यक्संबोधिप्राप्तिः। अभिसंबोधेश्च श्रावकसामग्री।



पञ्चभिः कारणैः बोधिसत्त्वस्य सत्त्वेष्व्वबन्ध्योऽर्थक्रिया-प्रयोगो भवति। कतमैः पञ्चभिः। इह बोधिसत्त्व आदित एव सत्त्वेषु हितसुखैषी भवति। तच्च हितसुखं यथाभूतं प्रजानाति। अविपर्यस्तबुद्धिर्भवति। इति सर्वं पूर्ववद् वेदितव्यं यद्यथा पूजासेवाऽप्रमाणपटले।



उद्दानम्।



सम्यक् प्रयोगो हानिश्च विशेषगमनं तथा।

प्रतिरूपाश्च भूताश्च गुणा विनयनं तथा॥



पञ्चभिः प्रयोगैर्बोधिसत्त्वस्य सर्वसम्यक्संप्रयोग संग्रहो वेदितव्यः कतमैः पञ्चभिः। अनुरक्षणा-प्रयोगेण। अनवद्यप्रयोगेण प्रतिसंख्यानबलप्रयोगेण। अध्याशयशुद्धिप्रयोगेण। नियतपतितप्रयोगेण च।



तत्र बोधिसत्त्वोऽनुरक्षणा प्रयोगेण मेधां रक्षति येन सहजेन ज्ञानेन धर्मान् लघुलध्वेवोद्गृह्णाति। स्मृतिं रक्षति यया स्मृत्या उद्गृहीतान् धर्मान् धारयति। ज्ञानमारक्षति येन ज्ञानेन धृतानां धर्माणामर्थमुपपरीक्षते। सम्यक् प्रज्ञया प्रतिविध्यति मेधास्मृतिबुद्धिहानभागीयनिदानपरिवर्जनतया स्थितिवृद्धिभागीयनिदानप्रतिनिषेवणतया च। स्वचित्तमारक्षति इन्द्रियाणां गुप्तद्वारतया। परचित्तमारक्षति सम्यक्परिचित्तानुवर्तनतया। तत्र बोधिसत्त्वस्यानवद्यप्रयोगो यः कुशलेषु धर्मेष्वविपरीतश्चोत्तप्तश्चाप्रमाणश्च सततश्च बोधिपरिणामितश्च। प्रतिसंख्यानबलप्रयोगः पुनरस्य सर्वस्यामधिमुक्तिचर्याभूमौ द्रष्टव्यः। [ शुद्धाध्याशयप्रयोगः] शुद्धाध्याशयभूमौ चर्या प्रतिपत्तिभूमौ च द्रष्टव्यः। नियतिपतितप्रयोगो नियतायां भूमौ निष्ठागमनभूमौ च द्रष्टव्यः। इवमेभिः पञ्चभिः प्रयोगैर्बोधिसत्त्वस्य सर्वसम्यक्प्रयोगसंग्रहो भवति।



पञ्चेमे बोधिसत्त्वस्य हानभागीया धर्मा वेदितव्याः। कतमे पञ्च। अगौरवता धर्मे धर्मभाणके च। प्रमादकौसीद्यम्। क्लेश-आसेवाऽधिवासनता। दुश्चरित-आसेवाऽधिवासनता। तदन्यैश्च बोधिसत्त्वैः सह परितुलनाभिमानता धर्मविपर्यासाभिमानता च।



पञ्चेमे बोधिसत्त्वस्य धर्मा विशेषभागीया वेदितव्याः। ते पुनरेषामेव पञ्चानां कृष्णपक्ष्याणां धर्माणां यथाक्रमं विपर्ययेण वेदितव्याः।



पञ्चेमे बोधिसत्त्वानां गुणप्रतिरूपकः बोधिसत्त्वदोषा वेदितव्याः। कतमे पञ्च। रौद्रदुःशीलेषु सत्त्वेषु ततो निदानमपकारक्रिया। कुहकस्येर्यापथसम्पत्तिक्रल्पना। लोकायतैर्मन्त्रैस्तीर्थिकशास्त्रप्रविसंयुत्तैर्ज्ञात्र प्रतिलम्भः पण्डितसंख्या-गमनता च। सावद्यस्य च दानादिकस्य कुशलस्याध्याचारः। सद्धर्मप्रतिरूपकाणां च। रोचना देशना व्यवस्थापना।



पञ्चेमे बोधिसत्त्वस्य भूता बोधिसत्त्वगुणा वेदितव्याः। कतमे पञ्च। रौद्रदुःशीलेषु सत्त्वेषु विशेषेण कारुण्यचित्तता। प्रकृत्या ईर्यापथसंपन्नता। तथागतप्रणीतेनागमाधिगमेन ज्ञात्रप्रतिलम्भः। पण्डितसंख्यागमनता च। अनवद्यस्य च दानादिकस्य कुशलस्य क्रिया। सद्धर्मस्य च प्रकाशना सद्धर्मप्रतिरूपकाणां च प्रतिक्षेपणता।



दशसु स्थानेषु समासतो बोधिसत्त्वा विनेयान् सत्त्वान् सम्यगेव विनयन्ति। कतमेषु दशसु। दुश्चरितविवेके [कामविवेके]। आपत्त्यन ध्याचारव्युत्थाने। इन्द्रियैर्गुप्तद्वारतायाम्। संप्राजनविहारितायाम्। संसर्गविवेके प्रविविक्तस्यासद्वितर्कंविवेके। आवरणविवेके। क्लेशपर्यवस्थानविवेके। क्लेशपक्षदौष्ठुल्यविवेके च।



उद्दानम्।



व्याकृतिर्नियतौ पातो ह्यवश्यकरणीयता।

सातत्यकरणीयञ्च प्राधान्यं पश्चिमं भवेत्॥



षड्‍भिराकारैः समासतस्तथागता बोधिसत्त्वमनुत्तरायां सम्यक्संबोधौ व्याकुर्वन्ति। कतमैः षड्‍भिः। गोत्रस्थमनुत्पादितचित्तम्। तथोत्पादितं चित्तम् सम्मुखावस्थितम्। विपरोक्षावस्थितम्। परिमितं कालमियता कालेनानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यत इति। अपरिमितकालं व्याकुर्वन्ति न तु कालनियम कुर्वन्ति।



त्रय इमे बोधिसत्त्वस्य नियतिपाताः। कतमे त्रयः। गोत्रस्थ एव बोधिसत्त्वो नियतिपतित इत्युच्यते। तत्कस्य हेतोः। भव्योऽसौ प्रत्ययानासाद्य नियतमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। पुनरेकत्यो बोधिसत्त्वो नियतं चित्तमुत्पादयत्यनुत्तरायां सम्यक्संबोधौ न पुनस्तावत्प्रत्युदावर्तयति यावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। पुनर्बोधिसत्त्वो वशिताप्राप्तः सर्वां सत्त्वार्थचर्यां यथेच्छति यथारभते तथैवाबन्ध्यां करोति। त एते त्रयो नियतिपाता भवन्ति। गोत्रस्थनियतिपातः। चित्तोत्पादनियतिपातः। अबन्ध्य-चर्या-नियतिपातश्च। तत्र पश्चिमं नियतिपातमारभ्य तथागता नियतिपतितं बोधिसत्त्वं व्याकुर्वाणा व्याकुर्वन्ति।



पञ्चेमानि स्थानानि बोधिसत्त्वस्यावश्यकरणीयानि भवन्ति यान्यकृत्वा बोधिसत्त्वः अभव्यो भवत्यनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। कतमानि पञ्च। प्रथमश्चित्तोत्पादः। सत्त्वेष्वनुकम्पा। उत्तप्तवीर्यम्। सर्वविद्यास्थानेषु योग्यता। अखेदश्च।



पञ्चेमानि बोधिसत्त्वस्य स्थानानि सातत्यकरणीयानि। कतमानि पञ्च। अप्रमादो बोधिसत्त्वस्य सातत्यकरणीयः। अनाथेषु सत्त्वेषु [दुःखितेषु च] अप्रतिशरणेषु सनाथक्रिया। तथागतपूजा स्खलितपरिज्ञानम्। सर्वक्रियाचारविहारमनसिकारेषु बोधिचित्तपूर्वङ्गमता बोधिसत्त्वस्य पञ्चमं सातत्यकरणीयम्।



दशेमे धर्मा बोधिसत्त्वानां प्रधानसम्मता यान् बोधिसत्त्वा अग्रतो धारयन्त्यग्र्यप्रज्ञप्तिषु च प्रज्ञपयन्ति। कतमे दश। बोधिसत्त्वगोत्रं सर्वगोत्राणां प्रधानम्। प्रथमश्चित्तोत्पादः सर्वसम्यक् प्रणिधानानं प्रधानम्। वीर्यं च प्रज्ञा च सर्वपारमितानां प्रधानम्। प्रियवादिता सर्वसंग्रहवस्तूनां प्रधानम्। तथागतः सर्वसत्त्वानां प्रधानम्। करूणाऽप्रमाणानां प्रधानम्। चतुर्थं ध्यानं [ सर्वध्यानानां प्रधानम्।] त्रयाणां समाधीनां शून्यतासमाधिः प्रधानम्। सर्वसमापत्तीनां निरोधसमापत्तिः प्रधानम्। सर्वोपायकौशल्यानां विशुद्धमुपायकौशल्यं यथानिर्दिष्टं प्रधानम्।



उद्दानम्।



प्रज्ञप्तेः स्याद्‍व्यवस्थानं धर्माणामेषणा तथा।

यथाभूतपरिज्ञानमप्रमेयास्तथैव च।

देशनायाः फलं चैव महत्त्वं यानसंग्रहः।

बोधिसत्त्वा दश ज्ञेया नामप्रज्ञप्तयस्तथा॥



चत्वारीमानि बोधिसत्त्वानां प्रज्ञप्तिव्यवस्थानानि यानिं बोधिसत्त्वा एव सम्यक् प्रज्ञपयन्ति व्यवस्थापयन्ति तथागता वा। न त्वन्यः कश्चिद्देवभूतो वा मनुष्यभूतो वा श्रमणब्राह्मणभूतो वान्यत्रैतेभ्य एवं श्रुत्वा। कतमानि चत्वारि। धर्मप्रज्ञप्तिव्यवस्थानं सत्यप्रज्ञप्तिव्यवत्त्थानं युक्तिप्रज्ञप्तिव्यवस्थानं यानप्रज्ञप्तिव्यवस्थानञ्च।



तत्र या द्वादशाङ्गस्य सूत्रादिकस्य वचोगतस्यानुपूर्वरचना अनुपूर्वव्यवस्थानसमायोगः। इदमुच्यते धर्मप्रज्ञप्तिव्यवस्थानम्।



सत्यप्रज्ञप्तिव्यवस्थानं पुनरनेकविधम्। अवितथार्थेन तावदेकमेव सत्यं न द्वितीयमस्ति। द्विविधं सत्यम्। संवृतिसत्यं परमार्थसत्यं च। त्रिविधं सत्यम्। लक्षणसत्यं वाक्सत्यं क्रियासत्यं च। चतुर्विधं [सत्यम्।] दुःखसत्यं यावन्मार्गसत्यम्। पञ्चविधं [सत्यम्।] हेतुसत्यं फलसत्यं ज्ञानसत्यं ज्ञेयसत्यं अग्र्यसत्यं च। षड्‍विधं [सत्यम्]। सत्यसत्यं मृषासत्यं परिज्ञेयसत्यं प्रहातव्यसत्यं साक्षात्कर्तव्यसत्यं भावयितव्यसत्यं च। सप्तविधं सत्यम्। आस्वादसत्यं आदीनवसत्यं निःसरणसत्यं धर्मतासत्यं अधिमुक्तिसत्यं आर्याणां सत्यं अनार्याणां सत्यं च। अष्टविधं [सत्यं]। संस्कारदुःखतासत्यं विपरिणामदुःखतासत्यं दुःखदुःखतासत्यं प्रवृत्तिसत्यं निवृतिसत्यं संक्लेशसत्यं व्यवदानसत्यं सम्यक्प्रयोगसत्यं च। नवविधं [सत्यम्]। अनित्यसत्यं दुःखसत्यं शून्यतासत्यं नैरात्म्यसत्यं [भवतृष्णासत्यं] विभवतृष्णासत्यं तत्प्रहाणोपायसत्यं सोपधिशेषनिर्वाणसत्यं निरुपधिशेषनिर्वाणसत्यं [च]। दशविधं सत्यम्। औपक्रमिकदुःखसत्यं भोगवैकल्यदुःखसत्यं धातुर्वैषम्यदुःखसत्यं प्रियविपरिणामदुःखसत्यं दौष्ठुल्यदुःखसत्यं कर्मसत्यं क्लेशसत्यं तथा श्रवणयोनिशोमनस्कारसत्यं सम्यक्दृष्टिसत्यं सम्यग्दृष्टिफलसत्यं चेति। इदमुच्यते बोधिसत्त्वानां सत्यप्रज्ञप्तिव्यवस्थानम्। प्रभेदशः पुनरेतदप्रमाण वेदितव्यम्।



चतस्रो युक्तयो युक्तिप्रज्ञप्तिव्यवस्थानमित्युच्यते। तासां पुनः प्रविभागः पूर्ववद्वेदितव्यः।



त्रयाणां यानानां एकैकस्य सप्तभिराकारैः प्रज्ञप्तिव्यवस्थानम्। श्रावकयानस्य प्रत्येकबुद्धयानस्य महायानस्य यानप्रज्ञप्तिव्यवस्थानमित्युच्यते। चतुर्ष्वार्यसत्येषु या प्रज्ञा तस्या एव च प्रज्ञाया य आश्रयः आलम्बनं सहायः कर्म संभारस्तस्या एव च प्रज्ञाया यत् फलम् एभिः सप्तभिराकारैः श्रावकयानप्रज्ञप्तिव्यवस्थानं साकल्येन वेदितव्यम्। यथा श्रावकयानमेवं प्रत्येकबुद्धयानप्रज्ञप्तिव्यवस्थानम्। निरभिलाप्यं वस्त्वालम्बनीकृत्य सर्वधर्मेषु या तथता निर्विकल्पसमता निर्याणता प्रज्ञा तस्या एव च प्रज्ञाया य आश्रय आलम्बनं सहायः कर्म सम्भारस्तस्या एव च प्रज्ञाया यत्फलम्। इत्येभिः सप्तभिराकारैर्महायानप्रज्ञप्तिव्यवस्थानं वेदितव्यम्। अतीतानागतप्रत्युत्पन्नेष्वध्वषु ये केचिद्बोधिसत्त्वाः सम्यक्प्रज्ञप्तिव्यवस्थानं कृतवन्तः करिष्यन्ति कुर्वन्ति वा पुनः सर्वे त एभिश्चतुभिर्वस्तुभिः। नात उत्तरि नातो भूयः।



चत्वारीमानि बोधिसत्त्वानां सर्वधर्माणां यथाभूतपरिज्ञायै पर्येषणावस्तूनि। कतमानि चत्वारि। नामपर्येषणा। वस्तुपर्येषणा। स्वभावप्रज्ञप्तिपर्येषणा। विशेषप्रज्ञप्तिपर्येषणा च। एषां च विभागः पूर्ववद्वेदितव्यः तद्यथा तत्त्वार्थपटले।



चत्वारीमानि बोधिसत्त्वानां सर्वधर्माणां यथाभूतपरिज्ञानानि। कतमानि चत्वारि। नामपर्येषणागतं यथाभूतपरिज्ञानं वस्तुपर्येषणागतं स्वभावप्रज्ञप्तिपर्येषणागतं विशेषप्रज्ञप्तिपर्येषणागतं यथाभूतपरिज्ञानम्। एषामपि विभागः पूर्ववद्वेदितव्यः। [तद्यथा तत्त्वार्थपटले।]।



पञ्चेमे अप्रमेया बोधिसत्त्वानां सर्वकौशल्यक्रियायै संवर्तन्ते। कतमे पञ्च। सत्त्वधातुरप्रमेयो लोकधातुरप्रमेयो धर्मधातुरप्रमेयः। विनेयधातुरप्रमेयो विनेयोपायश्चाप्रमेयः। चतुःषष्टिः सत्त्वनिकायाः सत्त्वधातुस्तद्यथा मनोमप्यां भूमौ। सन्तानभेदेन पुनरप्रमेयः। दशसु दिक्षुप्रमेया अप्रमेयनामलोकधातवस्तद्यथा इयं सहा नाम लोकधातुर्यस्य नाम्ना ब्रह्मा सहांपतिरित्युच्यते। कुशलाकुशलाव्याकृता धर्माः प्रभेदनयेनाप्रमेया वेदितव्याः। स्यादेकविधो विनेयः सर्वसत्त्वा विनेया इति कृत्वा। स्याद् द्विविधः। सकलबन्धनो विकलबन्धनश्च। स्यात् त्रिविधः मृद्विन्द्रियो मध्येन्द्रियस्तीक्ष्णेन्द्रियश्च। चतुर्विधः। क्षत्रियो ब्राह्मणो वैश्यः शूद्रश्च। पञ्चविधः। रागचरितो द्वेषचरितो मोहचरितो मानचरितो वितर्कचरितश्च। षड्‍विधः। गृही प्रव्रजितः अपरिपक्वः परिपक्वो [ऽविमुक्तश्च] विमुक्तश्च। सप्तविधः। प्रतिहतो मध्यस्थः विपञ्चितज्ञः उद्धटितज्ञः तदात्वविनेयः आपत्तिविनेयः प्रत्ययहार्यश्चविनेयो यादृशान् प्रत्ययान् लभते तथा तथा परिणमति। अष्टविधः। अष्टौ परिषदः। क्षत्रियपरिषदमादिं कृत्वा यावद्ब्रह्मपरिषत्। नवविधः। तथागतविनेयः श्रावकप्रत्येकबुद्धविनेयः बोधिसत्त्वविनेयः कृच्छ्रसाध्यः [अकृच्छ्रसाध्यः] श्लक्ष्णसाध्यः अवसादना-साध्यः दूरे विनेयः अन्तिके च विनेयः। दशविधः। नारकः तैर्यक्योनिकः यामलौकिकः कामावचरो दिव्यमानुष्यकः आन्तराभविकः रूपी अरूपी सज्ञी असंज्ञी नैवसज्ञीनासंज्ञी च। अयं तावत् प्रकारभेदेन पञ्चपञ्चाशदाकारः। अप्रमाणस्तु सन्तानप्रभेदेन वेदितव्यः। तत्र सत्त्वधातु विनेयधात्वोः किं नानाकरणम् सत्त्वधातुरविशेषेण सर्वसत्त्वा गोत्रस्थाश्चागोत्रस्थाश्च। ये पुर्नगोत्रस्था एव तासु ताष्ववस्थासु वर्तन्ते। स विनेयधातुरित्युच्यते। विनेयोपायः पुनः पूर्ववद्यथा निर्दिष्टो वेदितव्यः। सोऽपि चाप्रभेयः प्रकारभेदतः।



त एतेऽभिसमस्य पञ्चाप्रमेया भवन्ति। तत्कस्य हेतोः। इह बोधिसत्त्वो येषां सत्त्वानामर्थे प्रयुज्यते स प्रथमोऽप्रमेयः। तान्पुनः सत्त्वान् यत्रस्थानुपलभते। स द्वितीयोऽप्रमेयः तान्पुनः सत्त्वांस्तेषु तेषु लोकधातुषु यैर्धर्मैः संक्लिश्यमानांश्च विशुध्यमानांश्चोपलभते। स तृतीयोऽप्रमेयः। तेभ्यश्च सत्त्वेभ्यो यान्सत्त्वान् भव्यान् शक्यरुपानत्यन्तदुःखविमोक्षाय पश्यति। स चतुर्थोऽप्रमेयः। यश्चोपायस्तेषामेव सत्त्वानां विमोक्षाय स पञ्चमोप्रमेयः। तस्मादेते पञ्चाप्रमेया बोधिसत्त्वानां सर्व[कौशल] क्रियायै संवर्तन्ते।



पञ्चेमे बुद्धबोधिसत्त्वानां सत्त्वेषु धर्मदेशनाया विपुलाः फलानुशंसा वेदितव्याः। कतमे पञ्च। तदेकत्याः सत्त्वाः तस्मिन्नेव सद्धर्मे देश्यमाने विरजो विगतमलं धर्मेषु धर्मचक्षुरूत्पादयन्ति। तदेकत्याः सत्त्वा देश्यमान एव सद्धर्मतः आस्रवक्षयमनुप्राप्नुवन्ति। तदेकत्याः सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्ति। तदेकत्याः सत्त्वाः परमां बोधिसत्त्वक्षान्तिं प्रतिलभन्ते। श्रुतमात्र एव तस्मिन्सद्धर्मे देशितश्च सद्धर्मो बुद्धैर्बोधिसत्त्वैश्च उद्देशस्वाध्यायसंप्रतिपत्तिपारंपर्ययोगेन सद्धर्मनेत्र्याश्चिरस्थितिकतायै संवर्तते। इतीमे पञ्च देशनाया विपुलाः फलानुशंसा वेदितव्याः।



सप्तेमानि महत्त्वानि यैर्युक्तं बोधिसत्त्वानां यानं महायानमित्युच्यते। कतमानि सप्त। धर्ममहत्त्वम्। तद्यथा द्वादशाङ्गाद्वचोगताद् बोधिसत्त्वपिटकवैपुल्यम्। चित्तोत्पादमहत्त्वम्। तद्यथा एकत्योऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति। अधिमुक्तिमहत्त्वम्। तद्यथैकत्यः तस्मिन्नेव च धर्ममहत्त्वेऽधिमुक्तो भवति। अध्याशयमहत्त्वम्। तद्यथैकत्यः अधिमुक्तिचर्याभूमिं समतिक्रम्याध्याशयशुद्धिभूमिमनुप्रविशति। सम्भारमहत्त्वम्। यस्य पुण्यसम्भारस्य ज्ञानसम्भारस्य समुदागमादनुत्तरां सम्यक्संबोधिमभिसम्बुध्यते। कालमहत्त्वम्। येन कालेन यैस्त्रिभिष्कल्पासंख्येयैरनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। समुदागममहत्त्वम्। सैवानुत्तरा सम्यक्संबोधिः। यस्यात्मभावसमुदागमस्यान्यः आत्मभावसमुदागमः समो नास्ति। कुतः पुनरुत्तरि कुतो भूयः। तत्र यच्च धर्ममहत्त्वं यच्च चित्तोत्पादमहत्त्वं यच्चाधिमुक्तिमहत्त्वं यच्चाध्याशयमहत्त्वं यच्च सम्भारमहत्त्वं यच्च कालमहत्त्वमितीमानि षट्महत्त्वानि हेतुभूमानि समुदागम-महत्त्वस्य। तत्पुनरेकं समुदागम-महत्त्वं फलस्थानीयमेषां षण्णां वेदितव्यम्।



अष्टाविमे धर्माः सर्वस्य महायानस्य संग्रहाय संवर्तन्ते। बोधिसत्त्वपिटकदेशना। तस्मिन्नेव च बोधिसत्त्वपिटके य सर्वधर्माणां तत्त्वार्थप्रकाशना। तस्मिन्नेव बोधिसत्त्वपिटके या सर्वबुद्धबोधिसत्त्वानामचिन्त्या परमोदारा प्रभावसंप्रकाशना। तस्य च यद्योनिशः श्रवणम्। योनिशश्च चिन्तापूर्वकमध्याशयोपगमनम्। अध्याशयोपगमनपूर्वंकश्च भावनाकारप्रवेशः। भावनाकारप्रवेशपूर्विका च भावनाफलपरिनिष्पत्तिः। तश्या एव च भावनाफलपरिनिष्पत्तेरत्यन्तनैर्याणिकता। एवं हि बोधिसत्त्वाः शिक्षमाणा अनुत्तरां सम्यक्संबोधिमभिसंबुध्थन्ते।



के पुनस्ते बोधिसत्त्वा य एवं शिक्षमाणा अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते। ते समासतो दश वेदितव्याः। गोत्रस्थः। अवतीर्णः। अशुद्धाशयः। शुद्धाशयः। अपरिपक्वः। परिपक्वः। अनियतिपतितः। नियतिपतितः। एकजातिप्रतिबद्धः। चरमभविकश्चेति। तत्र गोत्रस्थो बोधिसत्त्वः शिक्षमाणश्चित्तमुत्पादयति। सोऽवतीर्ण इत्युच्यते। स एव पुनरवतीर्णो यावत् शुद्धाशयभूमिमप्रविष्टो भवति तावदशुद्धाशय इत्युच्यते। प्रविष्टस्तु शुद्धाशयो भवति। स एव पुनः शुद्धाशयो यावन्निष्ठागमनभूमिमप्रविष्टो भवति तावदपरिपक्व इत्युच्यते। प्रविष्टस्तु परिपक्वो भवति। स पुनरपरिपक्वो यावन्नियतनियताचर्याभूमौ वा नानुप्रविष्टो भवति तावदनियत इत्युच्यते। प्रविष्टस्तु नियतो भवति। स एव पुनः परिपक्वौ द्विविधः। एकजातिप्रतिबद्धो यस्य जन्मनोऽनन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते। चरमभविकश्च तस्मिन्नेव जन्मनि स्थितोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। तत्र ते गोत्रमुपादाय यावदनुत्तरायाः सम्यक्संबोधेर्दश बोधिसत्त्वा निर्दिष्टाः। ये बोधिसत्त्वशिक्षासु शिक्षन्ते तेषां नात उत्तरि शिक्षा विद्यते। यत्र शिक्षेरन् यथा च शिक्षेरन् न च एभ्यो यथा निर्दिष्टेभ्यो बोधिसत्त्वेभ्य उत्तरि बोधिसत्त्वो विद्यते यो बोधिसत्त्वशिक्षासु शिक्षते।



तेषां पुनः सर्वेषां एव बोधिसत्त्वानामभेदेनिमान्येवं भागीयानि गौणानि नामानि वेदितव्यानि। तद्यथा बोधिसत्त्वो महासत्त्वः धीमानुत्तमद्युतिः जिनपुत्रो जिनाधारः विजेता जिनाङ्कुरः विक्रान्तः परमार्यः सार्थवाहो महायशः कृपालुर्महापुण्यः ईश्वरो धार्मिकश्चेति। तेषां पुनर्दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुष्वनन्तानां बोधिसत्त्वानामप्रमेयाः प्रयात्मगताः संज्ञाप्राप्तयो वेदितव्याः। तत्र ये बोधिसत्त्वाः स्म इति प्रतिज्ञायां बोधिसत्त्वा वर्तन्ते न च बोधिसत्त्वशिक्षासु सम्यक् प्रतिपद्यन्ते ते बोधिसत्त्वप्रतिरूपका वेदितव्याः। नो तु भूताः। बोधिसत्त्वाः स्म इति प्रतिज्ञायां वर्तन्ते सम्यक् [च ये] बोधिसत्त्वशिक्षाषु शिक्षन्ते ते भूता बोधिसत्त्वा वेदितव्याः।



इति बोधिसत्त्वभूमावाधारे योगस्थाने बोधिसत्त्वगुणपटलमष्टादशमम्।



समाप्तं चाधारयोगस्थानम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project