Digital Sanskrit Buddhist Canon

1-17 बोधिपक्ष्यपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1-17 bodhipakṣyapaṭalam

बोधिपक्ष्यपटलम्



उद्दानम्।



ह्रीधृत्यखेदता चैव शास्त्र-लोकज्ञता तथा।

सम्यक् स्यात्प्रतिसरणं तथैव प्रतिसंविदः॥



संभारो बोधिपक्ष्याश्च शमथश्च विपश्यना।

उपायकुशलत्वञ्च धारणी प्रणिधानता।

समाधयस्त्रयो ज्ञेया धर्मोद्दानचतुष्टयमिति॥



तत्र कतमद् बोधिसत्त्वानां ह्रीव्यपत्राप्यम्। तत् समासतो द्विविधं वेदितव्यम्। स्वभावतश्चाधिष्ठानतश्च।



अवद्यसमुदाचारे आत्मन एवाप्रतिरूपतां विदित्वा बोधिसत्त्वस्य लज्जा ह्रीः। तत्रैव परेषां भयगौरवाल्लज्जा व्यपत्राप्यम्। सा पुनर्ल्लज्जा बोधिसत्त्वस्य प्रकृत्यैव तीव्रा भवति प्रागेवाभ्यस्ता। एवं स्वभावतो बोधिसत्त्वस्य ह्रीव्यपत्राभ्यं वेदितव्यम्।



अधिष्ठानं पुनः समासतश्चतुर्विधम्। बोधिसत्त्वकरणीयस्याननुष्ठाने या लज्जा। इदं प्रथममधिष्ठानम्। तथा बोधिसत्त्वाकरणीयस्यानुष्ठाने या लज्जा। इदं द्वितीयमधिष्ठानम्। तथा बोधिसत्त्वस्यात्मनः प्रतिच्छन्नपापतायां या लज्जा। इदं तृतीयमधिष्ठानम्। तथा बोधिसत्त्वस्य कौकृत्ये समुत्पन्ने सप्रतिसरणे आनुषङ्गिके या लज्जा। इदं चतुर्थमधिष्ठानम्। एवमधिष्ठानतो वेदितव्यम्।



तत्र कतमा बोधिसत्त्वस्य धृतिबलाधानता। सापि द्विविधा द्रष्टव्या। स्वभावतश्चाधिष्ठानतश्च।



क्लिष्टचित्तसन्नियच्छनता क्लेशवशा [न] नुयायिता दुःखाधिवासनशीलता विचित्रप्रभूतोद्रिक्तैरपि भयभैरवैरामुखैः सम्यक् प्रयोगाविकम्पनता प्रकृतिसत्त्वयोगात् प्रतिसंख्यानाद्वा धीरता। इतीयं धृतिबलाधानता स्वभावतो वेदितव्या।



अस्याः खलु बोधिसत्त्वानां धृतिबलाधानतायाः समासतः पञ्चविधमधिष्ठानं वेदितव्यम्। विचित्रः संसारदुःखोपनिपातो विचित्रा विनेयकृता विप्रतिपत्तिः। दीर्घकालिकः सत्त्वानामर्थे संसाराभ्युपगमः। परवादिभिराकलनानुयोगो महत्याञ्च परिषदि धर्मदेशना। सर्वबोधि [सत्त्व-] शिक्षा [पदा-] भ्युपगमः। उदारगंभीरधर्मश्रवणञ्च पञ्चममधिष्ठानं वेदितव्यम्।



तत्र पञ्चभिः कारणैरपरिखिन्नमानसता बोधिसत्त्वानां सर्वसम्यक् प्रयोगेषु वेदितव्या। इह बोधिसत्त्वः प्रकृत्या बलवान् भवति येन न परिखिद्यते। पुनः सैवाखिन्नमानसताऽनेन पुनः पुनरभ्यस्ता भवति येन न परिखिद्यते। पुनरुपायपरिगृहीतेनवीर्यांरम्भेण प्रयुक्तो भवति येन पौर्वापर्येण विशेषं समनुपश्यन् न परिखिद्यते। तीव्रेण च प्रज्ञाप्रतिसंख्यानबलेन समन्वागतो भवति येन न परिखिद्यते। तीव्रञ्चास्य बोधिसत्त्वस्य सत्त्वेषु कारुण्यचित्तमनुकम्पाचित्तं सततसमितं प्रत्युपस्थितं भवति येन न परिखिद्यते।



तत्र कतमा बोधिसत्त्वस्य शास्त्रज्ञया। इह बोधिसत्त्वेन पञ्चविधास्थानान्यारभ्य नामकाय-पदकाय-व्यञ्जनकाय-प्रतिसंयुक्तो धर्मः परतः सुगृहीतो भवति। वचसा च सुपरिचितः। तस्यैव च धर्मस्यार्थः परतो वा सुश्रुतो भवति। स्वयं वा सुविचि[न्ति] तो भवति स्वभ्यूहितः। एवमपि च धर्मज्ञेनार्थज्ञेन बोधिसत्त्वेन तस्यैव च धर्मस्यार्थस्याविस्मरणाय प्रयोगोऽनिराकृतो भवत्यन्यस्य चाभिनवस्याभिनवस्योत्तरोत्तरस्य धर्मार्थविशेषस्य ज्ञानाय। श्रुतचिन्तानिष्ठागतेनापि चानेन कालान्तरकृतः परिपाकः प्रसादः तस्मिन्धर्मे चार्थे च प्रतिलब्धो भवति। एभिराकारैर्बोधिसत्त्वस्याप्रमाणा परिपूर्णा अविपरीता च शास्त्रज्ञता वेदितव्या।



तत्र कतमा बोधिसत्त्वस्य लोकज्ञता। इह बोधिसत्त्वः सत्त्वलोकमारभ्यैवं यथाभूतं प्रजानाति-कृच्छ्रं वतायं लोक आपन्नो यदुत जायतेऽपि जीर्यतेऽपि म्रियतेऽपि च्यवतेप्युपपद्यतेप्यथ च पुनरमी सत्त्वा जरामरणस्योत्तरि निःसरणं यथाभूतं [न] प्रजानन्तीति। पुनः सत्त्वलोकस्यैव कषायोत्सदकालताञ्च यथाभूतं प्रजानाति। निष्कषायानुत्सदकषायकालताञ्च यदुत पञ्चकषायानारभ्य आयुष्कषायं [सत्त्वकषायं] क्लेशकषायं कल्पकषायम्। तद्यथा एतर्ह्यल्पं जीवितं मनुष्याणां यश्चिरं जीवति स वर्षशतम्। तद्यथैतर्हि सत्त्वा यद्भूयसा [अ] मातृज्ञा अपितृज्ञा अश्रामण्या अब्राह्मण्या न कुलज्येष्ठापचायका नार्थकरा न कृत्यकरा न इह लोके न परलोके अवद्ये भयदर्शिनो न दानानि ददति न पुण्यानि कुर्वन्ति नोपवासमुपवसन्ति न शीलं समादाय वर्तन्ते। तद्यथैतर्हि यद्भूयसाऽधर्मरागाश्च विषमलोभाश्च शस्त्रादानदण्डादानकलहभण्डनविग्रहविवादशाठ्यवञ्चननिकृतिमृषावादमिथ्याधर्मसंगृहीता अनेकविधाः पापका अकुशला धर्माः प्रज्ञायन्ते। तद्यथैतर्हि सद्धर्मप्रलोपाय सद्धर्मान्तर्धानाय सद्धर्मप्रतिरूपकाणि प्रभूतानि प्रादुर्भूतानि मिथ्याधर्मार्थ-सन्तीरणापूर्विकाणि। तद्यथा एतर्हि दुर्भिक्षान्तरकल्पसमासन्नानि प्रचुराणि दुर्भिक्षाण्युपलभ्यन्ते। रोगान्तरकल्पसमासन्नाश्च रोगाश्च प्रचुरा उपलभ्यन्ते।



शस्त्रान्तरकल्पसमासन्नाश्च प्रचुराः शस्त्रकाः प्राणातिपाता उपलभ्यन्ते। न तु तथा पूर्वमासीत्। एवं हि बोधिसत्त्वः सत्त्वलोकमारभ्य लोकज्ञो भवति। पुनर्बोधिसत्त्वो भाजनलोकस्य संवर्तविवर्तं यथाभूतं प्रजानाति यथा भाजनलोकः संवर्तते विवर्तते च। पुनर्बोधिसत्त्वो लोकञ्च [लोक] समुदयञ्च लोकनिरोधञ्च लोकसमुदयगामिनीञ्च प्रतिपदं लोकनिरोधगामिनीञ्च प्रतिपदं लोकस्यास्वादमादीनवञ्च निःसरणञ्च यथाभूतं प्रजानाति। पुनर्बोधिसत्त्वः चक्षुर्यावन्मनः अरूपिणश्च स्कन्धांश्चातुर्महाभौतिकञ्च पुरुषस्य समुच्छ्रयमेतावन्मनुष्यत्वमित्युच्यते। तत्र या संज्ञा आत्मा वा सत्त्वो वेति संज्ञामात्रमेवैतत्। तत्र या प्रतिज्ञा अहं चक्षुषा रूपाणि पश्यामि यावन्मनसा धर्मान विजानामीति प्रतिज्ञामात्रमेव तत्। तत्र यो व्यवहार इत्यपि स आयुष्मानेवंनामा एवंजातीय एवंगोत्र एवमाहार एवं सुखदुःखप्रतिसंवेदी एवं दीर्यायुरेवं चिरस्थितिक एवमायुष्पर्यन्त इति व्यवहारमात्रमेवैतदिति सर्वं यथाभूतं प्रजानाति। इति हि स बोधिसत्त्वः सत्त्वलोकप्रवृत्तिञ्च भाजनलोकप्रवृत्तिञ्च अष्टाकारलोकोपपरीक्षार्थञ्च [लोकपरमार्थं च] यथाभूतं प्रजानाति। तस्माल्लोकज्ञ‍इत्युच्यते। पुनर्बोधिसत्त्वो वृद्धतरकं गुणप्रतिविशिष्टतरकं दृष्ट्वा सम्यक् संभाषयत्युत्थायासनेनोपनिमन्त्रयति अभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्म प्रवर्तयति। तुल्यं वा पुनर्वयसा गुणैश्च दृष्ट्वा सम्यगालपति प्रतिसमोदयति श्लक्ष्णैर्मधुरैर्वचनपथैः। न चानेन सह मानमाश्रित्यात्मान परितुलयति। हीनं वा पुनर्वयसा गुणैश्च दृष्ट्वा शक्त्या गुणाधानमारभ्य प्रोत्साहयति। भूतञ्चास्य गुणं स्वल्पमप्युद्भावयति। भूतञ्च दोषं प्रतिच्छादयति। न विवृणोति येनास्य स्यान्मंकुभावः। न चैनमवमन्यते। नाप्यर्थिकं केनचिद्धर्मामिषेण तं ज्ञात्वा विमुखो भवति भृकुटीकृतः। नापि चैनं स्खलितेऽवहसति। नापि विनिपतितं परिभवति। तथा सर्वेषामेव हीनतुल्यविशिष्टानां सत्त्वानां पूर्वाभिभाषी च भवति। एहि स्वागतवादी सम्यक् प्रतिशामकश्च सम्यग्धर्मामिषाभ्यां यथाशक्त्या संग्राहकश्च। नापि च सत्त्वेषु कुटिलगाम्भीर्योपेतो भवति न गर्वितः केनचिदेवोच्छ्रयविशेषेण। यथोपात्तं सत्त्वं सर्वोपकरणैरपि नाध्युपेक्षते ग्लानं वा स्वस्थं वा आनुलोमिकेन च कायवाक्कर्मणा। यथा संस्तुतं तथैवासंस्तुतं सर्वं मित्रसखा च भवति विगतप्रत्यर्थिकः। सर्वेषाञ्चानाथानामप्रतिसरणानां सत्त्वानां यथाशक्त्या यथाबलं चार्थक्रियां करोति। न च केनचित् पर्यायेण परेषां दुःखदौर्मनस्यमुपसंहरति कच्चिदेषां मुहूर्तमप्यस्पर्शविहारो भवत्विति। एतमेव प्रत्ययं कृत्वा परिहसन्नपि परैः सह युक्तपरिहासो भवति नायुक्तपरिहासः।



असत्यवचनानि च न कथयत्यपि निरत्ययैः परमविश्रम्भोपगतैर्वयस्यकैः। न च चिरं परेषां क्रुध्यति। क्रोद्धोऽपि च परेषां न मर्माणि कीर्तयति। परैश्च कायेन वाचा वाहतः सन् प्रतिसंख्याय धर्मतां वा प्रतिसरति आत्मानमेव वाऽपराधिकं पश्यति। स्थिरचित्तश्च भवत्यचलः। स्थिरकायवाङ्मनःप्रचारश्चतुर्दशमलकर्मापगतश्च भवति। षड्‍दिग्भागप्रतिच्छन्नः चतुःपापमित्रपरिवर्जितः। चतुःकल्याणमित्रपरिगृहीतः। एतच्च यथासूत्रमेव सर्वं वेदितव्यम्। दृष्टधर्महितार्थं वा भोगप्रतिसंयुक्तमारभ्य उत्थानसंपन्नो भवत्यारक्षासंपन्नः समजीवी। च लौकिकेषु च शिल्पकर्मस्थानेषु कौशल्यप्राप्तः। अशठश्च भवत्यमायावी न परवञ्चनशीलः। ह्रीमांश्च भवत्यवद्यसमुदाचारिषु। चारित्रसम्पन्नश्च भवति तद्गुरूकश्चारित्ररक्षकः। निक्षिप्तस्य विश्वासेन परद्रविणस्य न द्रोग्धा भवति। उपात्तस्य परत ऋणस्य न विसंवादयिता भवति। दायादस्य च न परिवञ्चयिता भवति। रत्नं वा रत्नसम्मतमुपादाय यावत् कार्षापणेऽपि सम्मूढानां न विप्रलम्भयिता भवति विप्रलोभ्यैनाम्। तथा लौकिकीषु व्यवहारनीतिषु लौकानुग्रहकारिषु पटुर्भवति। तेषु च तेष्वर्थकरणीयेषु परैरायाचितः सन् सहायीभावं गच्छति न विकम्पते नान्येनान्यं प्रतिसरति। सुसंप्रयुक्त-कर्मान्तश्च भवति न कुप्रयुक्त-कर्मान्तः। राज्यं वा पुनः कारयन् धर्मेण कारयति नाघर्मेण। न च दण्डरुचिर्भवति। दौःशील्याच्च महाजनकायं व्यावर्तयित्वा शीलेसु समादापयति। तथार्यैरष्टाभिर्व्यवहारैः समन्वागतो भवति। दृष्टे दृष्टवादितया श्रुते मते विज्ञाते विज्ञातवादितया अदृष्टेऽदृष्टवादितया अश्रुतेऽमतेऽविज्ञाते अविज्ञातवादितया इत्येभिरेवं भागीयैर्धर्मैः समन्वागतो बोधिसत्त्वो यथा लोके विज्ञातव्यो यथा लोके वर्तितव्यं तत्सर्वं यथाभूतं प्रजानाति तस्माल्लोकज्ञ इत्युच्यते।



तत्र कथं बोधिसत्त्वश्चतुर्षु प्रतिसरणेषु प्रयुज्यते। इह बोधिसत्त्वः अर्थार्थी परतो धर्मं श्रुणोति न व्यञ्जनाभिसंस्कारार्थी। सोऽर्थार्थी धर्मं शुण्वन् न व्यञ्जनार्थी प्राकृतयापि वाचा धर्मं देशयमानमर्थप्रतिसरणो बोधिसत्त्वः सत्कृत्य शृणोति। पुनर्बोधिसत्त्वः कालापदेशञ्च [महापदेशञ्च] यथाभूतं प्रजानाति। प्रजानन् युक्तिप्रतिशरणो भवति न स्थविरेणाभिज्ञातेन वा पुद्गलेन तथागतेन वा [संघेन वा] इमे धर्मा भाषिता इति पुद्गलप्रतिसरणो भवति। स एवं युक्तिप्रतिसरणो न पुद्गलप्रतिसरणस्तत्त्वार्थात् न विचलति। अ-परप्रत्ययश्च भवति धर्मेषु पुनर्बोधिसत्त्वस्तथागते विविष्टश्रद्धो निविष्टप्रसाद एकान्तिको वचस्यभिप्रसन्नस्तथागत-नीतार्थं सूत्रं प्रतिसरति न नेयार्थम्। नीतार्थं सूत्रं प्रतिसरन् असंहार्यो भवत्यस्माद्धर्मविनयात्। तथाहि नेयार्थस्य सूत्रस्य नानामुखप्रकृतार्थविभागोऽनिश्चितः संदेहकरो भवति। सचेत्पुनर्बोधिसत्त्वो नीतार्थेऽपि सूत्रेऽनैकान्तिकः स्यादेवमसौ संहार्यः स्यादस्माद्धर्मविनयात्। पुनर्बोधिसत्त्वोऽधिगमज्ञाने सारदर्शी भवति न श्रुतचिन्ताधर्मार्थविज्ञानमात्रके। स यद्भावनामयेन ज्ञानेन ज्ञातव्यं न तच्छक्यं श्रुतचिन्ताविज्ञानमात्रकेण विज्ञातुमिति विदित्वा परमगम्भीरानपि तथागतभाषितान्धर्मान् श्रुत्वा न प्रतिक्षिपति नापवदति। एवं हि बोधिसत्त्वश्चतुर्षुप्रतिसरणेषु प्रयुज्यते। एवञ्च पुनः सुप्रयुक्तो भवति। तत्रैषु चतुर्षु प्रतिसरणेषु समासतश्चतुर्णां प्रामाण्यं संप्रकाशितम्। भाषितस्यार्थस्य युक्तेः शास्तुः भावनामयस्य चाधिगमज्ञानस्य। सर्वैश्च [पुनश्च] तुर्भिः प्रतिसरणैः सम्यक्प्रयोगसमारम्भगतस्य बोधिसत्त्वस्याविभ्रान्तनिर्याणमभिद्योतितं भवति।



तत्र कतमा बोधिसत्त्वस्य चतस्रो बोधिसत्त्वप्रतिसंविदः। यत्सर्वधर्माणां सर्वपर्यायेषु यावद्भाविकतया यथावद्भाविकतया च भावनामयमसक्तमविवर्त्यं ज्ञानम्। इयमेषां धर्मप्रतिसंवित्। यत्पुनः सर्वधर्माणामेव सर्वलक्षणेषु यावद्भाविकतया यथावद्भाविकतया च भावनामयमसक्तमविवर्त्यं ज्ञानम्। इयमेषामर्थप्रतिसंवित्।यत्पुनः सर्वधर्माणामेव सर्वनिर्वचनेषु यावद्भाविकतया यथावद्भाविकतया च भावनामयमसक्तमविवर्त्यं ज्ञानम्। इयमेषां निरुक्तिप्रतिसंवित्। यत्पुनः सर्वधर्माणामेव सर्वप्रकारपदप्रभेदेषु यावद्भाविकतया यथावद्भाविकतया च भावनामयमसक्तमविवर्त्यं ज्ञानम्। इयमेषां प्रतिभानप्रतिसंवत्। एताश्चतस्रो बोधिसत्त्वप्रतिसंविदो निश्रित्योऽप्रमेयं बोधिसत्त्वानां पञ्चस्थानकौशल्यं वेदितव्यम्। स्कन्धकौशल्यं धात्वायतनप्रतीत्यसमुत्पादस्थानास्थानकौशल्यञ्च। एभिश्चतुर्भिराकारैः। सर्वधर्मा बोधिसत्त्वेन स्वयञ्च स्वभिसंबुद्धा भवन्ति। परेषाञ्च सुप्रकाशिताः। अत उत्तरि स्वयमभिसंबोधो नास्ति कुतः पुनः परेषां प्रकाशना।



तत्र कतमो बोधिसत्त्वस्य बोधिसंभारः। स द्विविधो द्रष्टव्यः। पुण्यसंभारो ज्ञानसंभारश्च। तस्य पुनर्द्विविधस्यापि संभारस्य विस्तरविभागो वेदितव्यः। तद्यथा स्वपरार्थपटले। स पुनः पुण्यज्ञानसंभारो बोधिसत्त्वस्य प्रथमे कल्पासंख्येये मृदुर्वेदितव्यो द्वितीये मध्यस्तृतीयेऽधिमात्रो वेदितव्यः।



कथं बोधिसत्त्वः सप्तत्रिंसत्सु बोधिपक्ष्येषु धर्मेषु योगं करोति। इह बोधिसत्त्वश्चतस्रो बोधिसत्त्वप्रतिसंविदो निश्रित्योपाय-परिगृहीतेन ज्ञानेन सप्तत्रिंशद्बोधिपक्ष्यान्धर्मान्यथाभूतं प्रजानाति। न चैतान् साक्षात्करोति। स द्विविधेनापि याननयेन तान् यथाभूतं प्रजानाति श्रावकयाननयेन च महायाननयेन च। तत्र श्रावकयाननयेन यथाभूतं प्रजानाति। तद्यथा श्रावकभूमौ सर्वं यथा निर्दिष्टं वेदितव्यम्। कथञ्च बोधिसत्त्वो महायाननयेन सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् यथाभूतं प्रजानाति। इह बोधिसत्त्वः काये कायानुदर्शी विहरन् नैव कायं कायभावतो विकल्पयति। नापि सर्वेण सर्वमभावतः। तञ्च कायनिरभिलाप्यस्वभावधर्मतां यथाभूतं प्रजानाति। इयमस्य परमार्थिकी काये कायानुपश्यना स्मृत्युपस्थानम्। संवृतिनयेन पुनर्बोधिसत्त्वस्याप्रमाणव्यवस्थान-नयज्ञानानुगतं काये कायानुपश्यना स्मृत्युपस्थानं वेदितव्यम्। यथा काये कायानुपश्यना स्मृत्युपस्थानं एवमवशिष्टानि स्मृत्युपस्थानानि अविशिष्टाश्च बोधिपक्ष्या धर्मा वेदितव्याः। स नैव कायादीन्धर्मान् दुःखतो वा विकल्पयति समुदयतो वा। नापि तत्कृतं प्रहाणं निरोधतः कल्पयति। नापि तत्प्राप्तिहेतुं मार्गतः कल्पयति। निरभिलाप्यस्वभावधर्मतया च दुःखधर्मतां समुदयधर्मतां निरोधधर्मतां मार्गधर्मतां यथाभूतं प्रजानाति। इयमस्य पारमार्थिकी बोधिपक्ष्यभावना-सन्निश्रयेण सत्यभावना भवति। संवृत्त्या पुनरप्रमाणव्यवस्थान-नयज्ञानानुगता बोधिसत्त्वस्य सत्यालम्बनभावना दृष्टव्या।



तत्र या बोधिसत्त्वस्यैषा धर्माणामेवमविकल्पना सोऽस्य शमथो द्रष्टव्यः। यच्च तद्यथाभूतज्ञानं पारमार्थिकं यच्च तदप्रमाण-व्यवस्थाननयज्ञानं धर्मेषु इयमस्य विपश्यना द्रष्टव्या।



तत्र बोधिसत्त्वस्य समासतश्चतुराकारः शमथो वेदितव्यः। पारमार्थिकसाङ्केतिक-ज्ञानपूर्वङ्गमः पारमार्थिकसांकेतिक-ज्ञानफलं सर्वप्रपञ्चसंज्ञासु अनाभोगवाहनः तस्मिंश्च निरभिलाप्ये वस्तुमात्रै निर्निमित्ततया च निर्विकल्पचित्ताशान्त्या सर्वधर्मसमतैकरसगामी। एभिश्चतुर्भिराकारैबोधिसत्त्वानां शमथमार्गः प्रवर्तते यावदनुत्तर-सम्यक्संबोधिज्ञानदर्शन-परिनिष्पत्तये समुदागमाय।



तत्र बोधिसत्त्वानां समासतश्चतुराकारैव विपश्यना वेदितव्या। एतच्चतुराकार-शमथपूर्वङ्गमा सर्वधर्मेषु समारोपासद्ग्राहान्तविवर्जिता अपवादासद्ग्राहान्तविवर्जिता अप्रमाणधर्मप्रभेदव्यवस्थान-नयानुगता च विपश्यना। एभिश्चतुर्भिराकारै र्बोधिसत्त्वानां विपश्यनामार्गः प्रवर्तते यावदनुत्तर-सम्यक्संबोधिज्ञानिदर्शन-[परि] निष्पत्तये समुदागमाय। इतीयं बोधिसत्त्वानां शमथविपश्यना समासनिर्देशतः।



तत्र कतमद्बोधिसत्त्वानामुपायकौशल्यम्। तत्समासतो द्वादशाकारम्। अध्यात्म-बुद्धधर्मसमुदागममारभ्य [षड्‍विधम्।] बहिर्धा-सत्त्वपरिपाकमारभ्य षड्‍विधमेव।



अध्यात्म-बुद्धधर्मसमुदागममारभ्य षड्‍विधमुपायकौशल्यं कतमत्। या बोधिसत्त्वस्य सर्वसत्त्वेषु करुणासहगता अपेक्षा यच्च सर्वसंस्कारेषु यथाभूतसर्वपरिज्ञानं या चानुत्तरसम्यक्संबोधिज्ञाने स्पृहा। यच्च सत्त्वापेक्षां निश्रित्य संसारापरित्यागः या च संस्कारेषु यथाभूतपरिज्ञानं निश्रित्यासंक्लिष्टचित्तस्य संसारसंसृती। या च बुद्धज्ञाने स्पृहा निश्रित्योत्तप्तवीर्यता। इदमध्यात्मबुद्धधर्मंसमुदागममारभ्य षडिवधमुपायकौशल्यं वेदितव्यम्।



तत्र कतमद्बहिर्धा-सत्त्वपरिपाकमारभ्य षड्‍विधमुपायकौशल्यम्। येनोपायकौशल्येन बोधिसत्त्वः परात्तानि कुशलमूलानि अप्रमाणफलतायामुपनयति। तथाल्पकृच्छ्रेण विपुलान्यप्रमाणानि कुशलमूलानि समावर्तयत्युपसंहरति। तथा बुद्धशासनप्रतिहतानां सत्त्वानां प्रतिघातमपनयति। मध्यस्थानवतारयति। अवतीर्णान् परिपाचयति। परिपक्वान् विमोचयति।



कथञ्च बोधिसत्त्वः सत्त्वानां परीत्तानि कुशलमूलानि अप्रमाणफलतायामुपनयति। इह बोधिसत्त्वो यत् किंचित् सत्त्वं प्रत्यवरमपि वस्त्वन्ततः सक्तुप्रसृतं प्रत्यवर एव क्षेत्रे प्रदापयति अन्ततस्तिर्यग्योनिगतेऽपि परीत्तं तच्च प्राणिभूते दापयित्वा चानुत्तरायां सम्यक्संम्बोधौ परिणामयति। एवं तत्कुशलमूलं वस्तुतोऽपि क्षेत्रतोऽपि परीत्तं तच्च परिणामना-वशेनाप्रमाणफलतयामुपनीतं भवति



कथं च बोधिसत्त्वः सत्त्वानामल्पकृच्छ्रेण विपुलान्यप्रमाणानि कुशलमूलानि संजनयति। इह बोधिसत्त्वो मिथ्या-मासोपवासानशनाद्यधिमुक्तानां सत्त्वानामार्याष्टाङ्गमुपवासं व्यपदिशति। तस्माद्विच्छन्दयति कृच्छ्रादनिष्टफलादुपवासात्। तस्मिन्नकृच्छ्रसमादाने महाफले चोपवासे समादापयति। तथा आत्मक्लमथयोगमनुयुक्तानां मोक्षकामानां मिथ्याप्रयुक्तानां [सत्त्वानां] मध्यमां प्रतिपदमन्तद्वयविगतां व्यपदिशति तस्यां चावतारयति। तथा स्वर्गकामानां [सत्त्वानां] मिथ्याप्रयुक्तानामग्निप्रवेशातटप्रपाताऽनशनस्थानादिभिः सम्यग्ध्यानं दृष्टधर्मसुखविहाराय चायत्यां अकृछ्रेण सहैव सुखेन सह सौमनस्येन स्वर्गोपपत्तये व्यपदिशति। पुनर्वैदिकमन्त्रोद्देशस्वाध्यायशुद्धिनिष्ठागमनाधिमुक्तान् बुद्धवचनोद्देशस्वाध्यायक्रियायामर्थचिन्तायाञ्च समादापयति।



पुनर्गम्भीरांस्तथागतभाषितान् शून्यताप्रतिसंयुक्तान्धर्मान् तथा तथा उत्तानीकरोति संप्रकाशयति यथा परे श्रुत्वा तीव्रञ्च संवेगमुत्पादयन्ति तीव्रं च प्रसादम्। तदेकक्षणिकमपि संवेगप्रसादसहगतं चित्तं विपुल [कुशमूल] संग्रहे संख्यां गच्छति प्रागेव प्राबन्धिकम्। पुनर्बोधिसत्त्वो यानि कानिचिन्माल्यानि गन्धजातानि च लोके विविधानि प्रवराणि प्रणीतानि तैः प्रसादसहगतेनाध्याशयेन बुद्धधर्मसंघ[त्रि] रत्नपूजामधिमुच्यते परांश्चाधिमोचयति दशसु दिक्षु। पुनः सर्वा दिशस्तेनैव प्रसादसहगतेनाध्याशयेन स्फरित्वा सर्वां त्रिरत्नपूजामभ्यनुमोदते परांश्चाभ्यनुमोदयति। पुनर्बुद्धानुस्मृतिं सततसमितं भावयति परेषाञ्च समादापयति धर्मानुस्मृतिं संघानुस्मृतिं यावद्देवतानुस्मृतिम्। पुनर्मनोजल्पैस्त्रिरत्न-नमस्क्रियया अबन्ध्यं कालं करोति कारयति च। पुनः सर्वसत्त्वानां सर्वपुण्यमनुमोदते अनुमोदयति च। पुनः सर्वसत्त्वानां विपुलकरुणानुप्रविष्टेनाध्याशयेन सर्वदुःखमात्मनि संप्रतीच्छति। तत्रैव परं समादापयति। पुनरतीतप्रत्युत्पन्नानि सर्व-स्खलितानि सर्वव्यतिक्रमांश्च कल्याणेन शिक्षाकामानुगतेन चेतसा सर्वदिक्षु बुद्धानां भगवतामन्तिके प्रतिदेशयति। तत्रैव च परान् समादापयति। तस्यैवमभीक्ष्णं स्खलितं प्रतिदेशयतः सर्वकर्मावरणेभ्यो विमोक्षो भवत्यल्पकृच्छ्रेण। पुनः प्रभूतैर्विचित्रैश्च निर्माणैः सर्वदिक्षु बुद्धधर्मसंघाधिष्ठानं सत्त्वाधिष्ठानञ्चाप्रमेयं बोधिसत्त्वः ऋद्धिमांश्चेतोवशिप्राप्तः पुण्यपरिग्रहं करोति। पुनर्बोधिसत्त्वः मैत्रीं करुणां मुदितामुपेक्षां भावयति। तत्रैव च परं समादापयति। एवं हि बोधिसत्त्वोऽल्पकृच्छ्रेण विपुलान्यप्रमेयफलानि कुशलमूलान्यभिनिर्हरति समुदानयति।



कथञ्च बोधिसत्त्वः प्रतिहतानाञ्च सत्त्वानां प्रतिघातमपनयति। मध्यस्थांश्चावतारयति। अवतीर्णांश्च परिपाचयति। परिक्वांश्च विमोचयति। अत्रापि बोधिसत्त्वस्य चतुर्विधस्याप्यस्य सत्त्वार्थस्याभिनिष्पत्तये समासतः षड्‍विध एवोपायो वेदितव्यः। आनुलोमिको विबन्धस्थायी विसभागाशयः अवष्टम्भजः कृतप्रकृतिकः विशुद्धश्च षष्ठ उपायः।



तत्रायं बोधिसत्त्वस्यानुलोमिक उपायः। इह बोधिसत्त्वः पूर्वमेव तावद् येषां सत्त्वानां धर्मं देशयितुकामो भवति तेषां श्लक्ष्णैर्मधुरैः कायवाक्समुदाचारैरुपप्रदानानुवृत्तिसमुदाचारैश्चात्मगतं तेषां प्रतिघातमपनयति। प्रतिघातमपनीय प्रेमगौरव जनयति। प्रेमगौरवं जनयित्वा धर्मेऽर्थित्वं जनयति। तत एषां पश्चाद्धर्मं देशयति। तञ्च पुनर्धर्मं यथार्हं सुप्रवेशं गमकं कालेनानुपूर्वमविपरीतमर्थोपसंहितञ्च देशयति। विमर्दसहिष्णुश्च भवति। सत्त्वविनये परमया च कर्तुकामतया अनुकम्पाचित्तेन समन्वागतो भवति। स ऋद्ध्या चित्तादेशनया युक्तरूपया धर्मदेशनया परं वाऽध्येष्य विचित्रैर्वा प्रभूतैश्च निर्मितैः सत्त्वान्विनयति। संक्षिप्तानाञ्चार्थोपसंहितानां शास्त्राणां प्रविस्तरणतया अतिविस्तृतानां चाभिसंक्षेपणतया तथा उद्देशदानेन अनुस्मरणपरिपृच्छादानेन धृतानाञ्चोद्गृहीतानाञ्च धर्माणां सम्यगर्थविवरणतया सर्वालम्बनसमाध्यवतारमुखेषुचानुलोमिक्या अववादानुसासन्या सत्त्वाननुगृह्णाति सत्त्वानामर्थमाचरति। ये च सत्त्वा गम्भीराणां तथागतभाषितानां शून्यताप्रतिसंयुक्तानां सूत्रान्तानामाभिप्रायिकं तथागतानामर्थमविज्ञाय ये ते सूत्रान्ताः निःस्वभावतां धर्माणामभिवदन्ति निर्वस्तुकतामनुत्पन्नानिरुद्धतामा काशसमतां मायास्वप्नोपमतां धर्माणामभिवदन्ति तेषां यथावदर्थमविज्ञायोत्रस्तमानसाः तान् सूत्रान्तान् सर्वेण सर्वं प्रतिक्षिपन्ति नैते तथागतभाषिता इति। तेषामपि सत्त्वानां स बोधिसत्त्वः आनुलोमिकेनोपायकौशल्येन तेषां सूत्रान्तानां तथागताभिप्रायिकमर्थं यथावदनुलोमयति।



तांश्च सत्त्वान् ग्राहयति। एवञ्च पुनरनुलोमयति। यथा नेमे धर्माः सर्वेण सर्वं न संविद्यन्ते अपि त्वभिलापात्मकः स्वभाव एषां नास्ति तेनेमे निःस्वभावा इत्युच्यन्ते। यद्यप्येतवभिलाप्यवस्तु विद्यते यदाश्रित्याभिलापाः प्रवर्तन्ते तदपि यैरभिलापैर्यत् स्वभावमभिलप्यते तदपि न तत्स्वभाव परमार्थतः। तस्मान्निर्वस्तुका इत्युच्यन्ते एवञ्च सति तेऽभिलाप्याः स्वभावा धर्माणामादित एव सर्वेण सर्वं न संविद्यन्ते। ते किमुत्पत्स्यन्ते वा निरोत्स्यन्ते वा तस्मादनुत्पन्ना अनिरुद्धा इत्युच्यन्ते। तद्यथा चाकाशे विचित्राणि प्रभूतानि रूपाणि रूपकर्माणि चोपलभ्यन्ते। सर्वेषाञ्च तेषां रूपाणां रूपकर्मणां चावकाशं ददाति। तदाकाशं गमनागमनस्थानोत्पतननिपतनाकुञ्चनप्रसारणादीनाम्। यदा च पुनस्तद् रूपं तानि च रूपकर्माण्यपनीतानि भवन्ति तदा रूपाभावमात्रात्मकमेव परिशुद्धमाकाशं ख्याति। एवं तस्मिन्नाकाशस्थानीये निरभिलाप्ये वस्तुनि विविधाभिलापकृताः संज्ञा विकल्पाः प्रपञ्चसंज्ञानुगताः रूपकर्मस्थानीयाः प्रवर्तन्ते। सर्वेषाञ्च तेषामभिलापकृतानां संज्ञाविकल्पानां प्रपञ्चसंज्ञानुगतानां चित्ररूपकर्मस्थानीयानां तन्निरभिलाप्यं वस्त्वाकाश स्थानीयमवकाशं ददाति। यदा च पुनर्बोधिसत्त्वैर्ज्ञानेनार्येण तेऽभिलापसमुत्थिता मिथ्यासंज्ञाविकल्पाः प्रपञ्चसंज्ञानुगताः सर्वेण सर्वमपनीता भवन्ति तदा तेषां बोधिसत्त्वानां परमार्याणां तेनार्यज्ञानेन तन्निरभिलाप्यं वस्तु सर्वाभिलाप्यस्वभावाभावमात्रमाकाशोपमं परिशुद्धं ख्याति। न च तस्मात् परमन्यं स्वभावमस्य मृगयन्ते। तस्माद्धर्मा आकाश समा इत्युच्यन्ते। तद्यथा माया न च यथा ख्याति तथास्ति। न च पुनः सर्वेणैव सर्वं नास्ति तन्मायाकृतम्। एवं न चैते धर्मा यथैवाभिलापसंस्तववशेन ख्यान्ति बालानां तथैव संविद्यन्ते। न च पुनः सर्वेण सर्वं न संविद्यन्ते पारमार्थिक-निरभिलाप्यात्मना। ते चानेन नयप्रवेशेन न सन्तो नासन्त इत्यद्वया मायावत्। तस्मान्मायोपमा इत्युच्यन्ते। एवं हि बोधिसत्त्वः सर्वस्माद्धर्मधातोर्न किञ्चिदुत्क्षिपति न च किञ्चित् प्रतिक्षिपति नोनी-करोति नाधिकं करोति न विनाशयति। भूतञ्च भूततः प्रजानाति। तथैव च संप्रकाशयति। अयं बोधिसत्त्वस्यानुलोमिक उपायो वेदितव्यः।



तत्र कतमो बोधिसत्त्वस्य विबन्धस्थायी उपायः इह बोधिसत्त्वो भोजनपानादि-दश-कायादिपरिष्कारार्थिकानां [सत्त्वानां] विप्रतिबन्धेनावतिष्ठते। स चेन्मातृज्ञा भवथेति पितृज्ञाः श्रामण्याः ब्राह्मण्या विस्तरेण पूर्ववत् यावत्सचेच्छीलं समादाय वर्तध्वे एवमहं युष्माकं भोजनपानादीन् कायपरिष्कारान्यावदर्थमनुप्रदास्यामि। अन्यथा न दास्यामीति। तथा क्षेत्रवस्तुगृहवस्त्वापणवस्तु-राज्यवस्तु-देशवस्तु-धनवस्तु-धान्यवस्तु अर्थिकानां तथा शिल्पकर्मस्थानविद्यार्थिकानां तथा तेन सह सख्यार्थिकानामावाहविवाहार्थिकानामाभक्षणसंभक्षणार्थिकानां कृत्यसहायार्थिकानाञ्च सत्त्वानां कार्यविप्रतिबन्धेनावतिष्ठते। एवमहं युष्माकं विस्तरेण यावत्कृत्येषु सहायीभावं गमिष्यामि स चेन्मातृज्ञा भवथेति पूर्ववत्। पुनर्बोधिसत्त्वः अपराधिषु दुषिष्वपकारिषु सत्त्वेषु परैर्वधबन्धनच्छेदनताडनकुत्सनतर्जनप्रवासनायोपात्तेष्वाधमनबन्धन-विक्रयाय चोपात्तेषु विप्रतिबन्धे नावतिष्ठते शक्तः प्रतिबलः। स चेन्मातृज्ञाः [पितृज्ञा] भवथेति विस्तरेण पूर्ववत् एवमहं भवतोऽस्माद्‍व्यसनाद्विमोचयिष्यामीति। पुनर्बोधिसत्त्वो राजचौरोदकाग्निमनुष्यामनुष्याजीविकाश्लोकादिभयभीतानां सत्त्वानां विप्रतिबन्धेनावतिष्ठते। स चेन्मातृज्ञा भवथेति पूर्ववत् विस्तरेणैवमहं भवतोऽस्माद्भयात् परित्रास्यामीति। पुनर्बोधिसत्त्वः प्रियसमागमकामानां वाप्रियवियोगकामानाञ्च सत्त्वानां विप्रतिबन्धेनावतिष्ठते। स चेन्मातृज्ञा भवथ विस्तरेण पूर्ववत् एवमहं भवतां प्रियसमागममप्रियविनाभावं चोपसंहरिष्यामीति। पुनर्बोधिसत्त्व आबाधिकानां सत्त्वानां व्याधितानां विप्रतिबन्धेनावतिष्ठते। स चेन्मातृज्ञा भवथ विस्तरेण पूर्ववत् एवमहं भवतोऽस्माद्‍व्याधिदुःखात् परिमोचयिष्यामीति। ते च सत्त्वाः एवं विबन्धावस्थितस्य बोधिसत्त्वस्य लघुलध्वेव तस्मिन् कुशलसमादाने पापप्रहाणे च यथाकामं करणीया भवन्ति। अयं बोधिसत्त्वस्य विबन्धस्थायी उपाय इत्युच्यते।



ये पुनः सत्त्वा एवं विबन्धस्थायिनो बोधिसत्त्वस्य यथापरिकीर्तितेषु वस्तुषु न लघु-लघ्वेव यथाकामं प्रतिपद्यन्ते तेषां बोधिसत्त्वो यथा परिकीर्तितैर्वस्तुभिरर्थिकानां तानि वस्तूनि नानुप्रयच्छति हितकामतया। न चादातुकामाशयो भवति। व्यसनस्थान् भीतान्प्रियाप्रियसंयोगविसंयोगकामान् व्याधिदुःखेन आर्तान् सत्त्वान् कञ्चित्कालमध्युपेक्षते हितकामतया। न चोपेक्षणाशयो भवति नापरित्राणाशयः। ते च सत्त्वा एवं निष्ठुरकर्मणा प्रतिपद्यमानस्य बोधिसत्त्वस्य न त्वाशयतः अपरेण समयेन यथाकामकरणीया भवन्ति पापप्रहाणाय कुशलसमादानाय च। ये च सत्त्वा नाप्यर्थिनो बोधिसत्त्वस्य नापि च व्यसनस्था नापि विस्तरेण यावद्‍व्याधितास्ते चास्य संस्तुताः सप्रणयाः। तानपि बोधिसत्त्वस्तस्मिन्नेव कुशल-[मूले] समादापयति यदुत मातृज्ञतायां विस्तरेण यावच्छीलसमादानानुवर्तनायाम्। त एवं बोधिसत्त्वेन समादाप्यमानाः स चेद्विकम्पनेन [न] प्रतिपद्यन्ते तेषां बोधिसत्त्वः कुपितमप्यात्मानमुपदर्शयति हितकामतया। न चाशयतः कुपितो भवति। कृत्येषु वैमुख्यमुपदर्शयति हितकामतया। न चाशयतो विमुखो भवति। तदेकत्वमप्यस्यानर्थं लौकिकमुपसंहरति हितकामतया। न चाशयतोऽनर्थकामो भवति। विसभागोऽस्य बोधिसत्त्वस्य तेषु [सत्त्वेषु] तस्याश्चेष्टायाः स आशयो भवति। तेन च तान्सत्त्वांस्तस्मिन् पापप्रहाणे कुशलसमादाने च सन्नियोजयति। तस्मादयं सत्त्वविनयोपायो बोधिसत्त्वस्य विसभागाशय इत्युच्यते।



तत्र कतमो बोधिसत्त्वस्यावष्टम्भज उपायः। इह बोधिसत्त्वः स्वामिभूतो वा राजभूतो वा आधिपत्यप्राप्तः स्वं वा परिजनं स्व वा विजितमेवं सम्यक् समनुशास्ति। यो मे कश्चित्परिजने वा विजिते वाऽमातृज्ञो भविष्यति विस्तरेण यावद्दौशील्यं समादाय वर्तिष्यते तस्याहमुचितं वा भक्ताच्छादनं समुच्छेत्स्यामि वारयिष्यामि वा ताडयिष्यामि वा सर्वस्वेन वा वियोजयिष्यामि सर्वेण वा सर्व विजितात् प्रवासयिष्यामीति। तत्र च कर्मणि कुशलान् दक्षान् पौरुषेयान्विनियोजयति। ते च सत्त्वास्तस्मान्महतो दण्डकर्मणो भीताः पापञ्च प्रजहति कुशलञ्च समादाय वर्तन्ते। अकामका अपि तेन बलावष्टम्भेन कुशले सन्नियोज्यन्ते ते सत्त्वा अनेनोपायेन। तस्मादयमवष्टम्भज उपाय इत्युच्यते।



तत्र कतमो बोधिसत्त्वस्य कृतप्रतिकृतिक उपायः। सह बोधिसत्त्वेन येषां सत्त्वानां पूर्वमेवोपकारः परीत्तः प्रभूतो वा कृतो भवति दानेन वा व्यसनपरित्राणतया वा भयपरित्राणतया वा प्रियाप्रियसंयोगविसयोगोपसंहरणतया वा व्याधिसशमनतया वा तेषां कृतज्ञानां कृतवेदिनां प्रत्युपकार-कामानामन्तिकाद्बोधिसत्त्वः कुशलसमादानमेव प्रतिकारतो याचते संप्रतीच्छति। न किञ्चिदन्यल्लोकामिषम्। एवं चाह। अयमेव मे भवतामन्तिकान्महाप्रत्युपकारो भविष्यति। स चेद्यूयमेव मातृज्ञा भवथ पितृज्ञा विस्तरेण यावच्छीलं समादाय वर्तध्वे कृतस्य प्रतिकृतं कुशलसमादानं परतः प्रत्यासंशते तेन चोपायेन परांस्तत्र कुशले समादापयति। तस्मादयमुपायः कृतिप्रतिकृतिक इत्युच्यते।



तत्र कतमो बोधिसत्त्वस्य विशुद्ध उपायः। इह निष्ठागमन-बोधिसत्त्वभूमि-स्थितो बोधिसत्त्वः सुविशोधितबोधिसत्त्वमार्गस्तुषिते देवनिकाये उपपद्यते। अमुको बोधिसत्त्ववस्तुषिते देवनिकाये उपपन्नः। स न चिरस्येदानीं जम्बूद्वीपे अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते। तं वयमारागयेम न विरागयेम। तस्य च बोधिसत्त्वस्यान्तिकेऽस्माकं जन्म भवेदित्यपरिमितसत्त्व-सम्यक्-छन्द-जननार्थं छन्दबहुलीकरणार्थम्। पुनर्बोधिसत्त्वस्तुषिताद्देवनिकायाच्च्युत्वा उच्चे वा सम्मते वा कुले उपपद्यते यदुत राजकुले वा पुरोहितकुले वा। तथोदारान् कामानुत्सृज्य निष्क्रामति सत्त्वानां बहुमानोत्पादनार्थम्। पुनर्दुष्करचर्यामभ्युपगच्छति दुष्करचर्याधिमुक्तानां सत्त्वान विच्छन्दनार्थम्। पुनरनुत्तरां सम्यक् संबोधिमभिसंबुध्यते। तदन्येषां सत्त्वानां बोधिविमुक्तिसामान्योपगमनपरिहर्षणार्थम्। पुनरनुत्तरां सम्यक्संबोधिमभिसंबुध्य ब्रह्माध्येषणां प्रतीक्षते। न तावत्सत्त्वानां धर्मं देशयति। तेषां सत्त्वानां धर्मगौरवोत्पादनार्थम्। नावरमात्रकमेतद्धर्माख्यानं भवति यत्रेदानीं ब्रह्मा [स्वयं] धर्मदेशनायै भगवन्तमध्येषत इति। पुनर्बुद्धचक्षुषा लोकं व्यवलोकां यति। ब्रह्माध्येषितेऽनेन धर्मो देशितो ब्रह्मगौरवात्। परव्यापारितेन न तु स्वेन सत्त्वेषु कारुण्यचित्तेन नात्मन एव प्रतिरुपतां विदित्वेति। तदेकत्यानां सत्त्वानामेवंरूपस्य मिथ्याग्राहस्य विप्रणाशार्थम्। पुनर्धर्मचक्रमप्रवर्तितपूर्वं लोके प्रवर्तयति। तथा धर्मं देशयति। शिक्षापदानि च प्रज्ञपयति। अयमुच्यते बोधिसत्त्वस्य विशुद्ध उपायः। यस्मादुपायादन्य उपाय उत्तरि अतिक्रान्ततरश्च प्रणीततरश्च नास्ति।



इतीदं षड्‍विधमुपायकौशल्यं बोधिसत्त्वानां समासव्यासनिर्देशतः प्रतिहतानां सत्त्वानां प्रतिघाताय नयनाय मध्यस्थानामवतारायावतीर्णानां परिपाकाय परिपक्कानां विमोचनाय। इति नास्त्यत उत्तरि नास्त्यतो भूयः। इदं बोधिसत्त्वानामुपायकौशल्यम्।



तत्र कतमा बोधिसत्त्वानां धारणी। समासतश्चतुर्विधा द्रष्टव्या। धर्मधारणी। अर्थधारणी। मन्त्रधारणी। बोधिसत्त्वक्षान्तिलाभाय च धारणी।



तत्र धर्माधारणी कतमा। इह बोधिसत्त्वस्तद्रूपां स्मृतिप्रज्ञाबलाधानतां प्रतिलभते यथा श्रुतमात्रकेणैवानाम्नातान् वचसाऽपरिचितान् नामपदव्यञ्जनकायसंगृहीताननुपूर्वचरिताननुपूर्वसमायुक्तान् प्रमाणान् ग्रन्थानप्रमाणं कालं धारयति।



तत्रार्थधारणी कतमा। पूर्ववत्। तत्रायं विशेषः। तेषामेव धर्माणामप्रमाणमर्थमनाम्नातमपरिचितं मनसाऽप्रमाणं कालं धारयति।



तत्र मन्त्रधारणी कतमा। इह बोधिसत्त्वस्तद्रूपं समाधिवशितां प्रतिलभते यथा यानि मन्त्रपदानीति संशमनाय सत्त्वानामधितिष्ठन्ति। तानि सिद्धानि भवन्ति। परमसिद्धान्यमोघान्येनेकविधानामीतीनां संशमनाय। इयमुच्यते बोधिसत्त्वस्य मन्त्रधारणी।



तत्र कतमा बोधिसत्त्वस्य बोधिसत्त्वक्षान्तिलाभाय धारणी। इह बोधिसत्त्वः स्वयं प्रगाढहेतुचरितः प्रज्ञावान् प्रविविक्तविहारी वाचमप्यनुदीरयन् दर्शनपथमप्यनागच्छन् केनचित् सह तथा मात्राभोजी असंकीर्णभोजी एकप्रकाराशनभोजी प्रध्यानपरतः अल्पं रात्रौ स्वपन् बहु जाग्रन् यानीमानि तथागतभाषितानि बोधिसत्त्वक्षान्तिलाभाय मन्त्रपदानि तद्यथा इटि मिटि किटिभिः क्षान्तिपदानि स्वाहा। इत्येतेषां मन्त्रपदानामर्थं चिन्तयति तुलयत्युपपरीक्षते। स तेषां मन्त्रपदानामेवं सम्यक् प्रतिपन्न एवमर्थं स्वयमेवाश्रुत्वा कुतश्चित् प्रतिविध्यति। तद् यथा नास्त्येषां मन्त्रपदानां काचिदर्थपरिनिष्पत्तिः निरर्था एवैते। अयमेव चैषामर्थो यदुत निरर्थता। तस्माच्च परं पुनरपरमर्थं न समन्वेषते। इयता तेन तेषां मन्त्रपदानामर्थः सुप्रतिविद्धो भवति। स तेषां मन्त्रपदानामर्थं सम्यक् प्रतिविध्य तेनैवार्थानुसारेण सर्वधर्माणामत्यर्थं सम्यक् प्रतिविध्यति स्वयमेवाश्रुत्वा परतः। एवञ्च पुनरर्थं प्रतिविध्यति। सर्वाभिलापैः सर्वधर्माणां स्वभावार्थापरिनिष्पत्तिः। या पुनरेषां निरभिलाप्यस्वभावता अयमेवैषां स्वभावार्थः। स एवं सर्वधर्माणां स्वभावार्थं सम्यक् प्रतिविध्य तस्मात्परमर्थं न समन्वेषते। उदारञ्च तस्यार्थस्य प्रतिवेधात् प्रीतिप्रामोद्यं प्रतिलभते। तेन बोधिसत्त्वेन प्रतिलब्धा तानि धारणीपदान्यधिष्ठाय बोधिसत्त्वक्षान्तिर्वक्तव्या। तस्याश्च लाभात् स बोधिसत्त्वो न चिरस्येदानीमध्याशयविशुद्धिं प्रतिलभते। अधिमात्रायामधिमुत्तिचर्याभूमिक्षान्तौ वर्तते। इयं बोधिसत्त्वस्य बोधिसत्त्वक्षान्तिलाभाय धारणी वेदितव्या।



तत्र धर्मधारणीमर्थधारणीञ्च बोधिसत्त्वः प्रथमस्य कल्पासंख्येयस्यात्ययाच्छुद्धाध्याशयभूमिप्रविष्टो लभते नियतां स्थिरामुदाराञ्च। ततः पुनरर्वाग् लभते प्रणिधानवशेन वा ध्यानसन्निश्रयेण वा नतु नियतां न स्थिरां नोदाराम्। यथाधर्मार्थधारणी एवं मन्त्रधारणी वेदितव्या। बोधिसत्त्वक्षान्तिलाभाय तु धारणी यथैव व्याख्याता तथैव लभ्यते।



एताः पुनः सर्वा धारणीर्बोधिसत्त्वश्चतुर्भिगुणैर्युक्तो लभते नान्यतमविकलः। कतमैश्चतुर्भिः। कामेष्वनध्ववसितो भवति परसमुच्छ्रयेष्वीर्यां नोत्पादयति। अनीर्षुर्भवति सर्व-याचित-प्रदश्च भवत्यननुताप्यदायी। धर्मारामश्च भवति धर्मरतो बोधिसत्त्वपिटकमारभ्य पिटकमातृकां वा



तत्र कतमद्बोधिसत्त्वस्य बोधिसत्त्वप्रणिधानम्। तत् समासतः पञ्चविधं द्रष्टव्यम्। चित्तोत्पादप्रणिधानं उपपत्तिप्रणिधानं गोचरप्रणिधानं सम्यक्प्रणिधानं महाप्रणिधानञ्च।



तत्र प्रथमचित्तोत्पादो बोधिसत्त्वस्यानुत्तरायां सम्यक्संबोधौ चित्तोत्पादप्रणिधानमित्युच्यते।



आयत्यां सत्त्वार्थानुकूलासु सुगत्युपपत्तिषु प्रणिधानं बोधिसत्त्वस्योपपत्तिप्रणिधानमित्युच्यते।



सम्यग्धर्मप्रविचयप्रणिधानं अप्रमाणादिकुशलधर्मभावना-विषय-प्रणिधानञ्च बोधिसत्त्वस्य गोचरप्रणिधानमित्युच्यते।



आयत्यां सर्वबोधिसत्त्वकुशलसंग्रहाय सर्वगुणसंग्रहाय च समासतो व्यासतो वा प्रणिधानं बोधिसत्त्वस्य सम्यक् प्रणिधानमित्युच्यते।



महाप्रणिधानं पुनर्बोधिसत्त्वसत्त्वस्यास्मादेव सम्यक्प्रणिधानाद्वेदितव्यम्। तत् पुनर्दशविंधम्। आयत्यां सर्वाकाराप्रमेय-तथागत-पूजोपस्थानतायै प्रथमं प्रणिधान बोधिसत्त्वस्य महाप्रणिधानमित्युच्यते। बुद्धानां च भगवतां सद्धर्म-परिग्रहारक्षणतायै धर्मनेत्रीसन्धारणाय महाप्रणिधानम्। तुषितभवनवासमुपादाय पुर्ववद्यावत् परिनिर्वाणाय महाप्रणिधानम्। बोधिसत्त्व-सर्वाकारसम्यक्चर्याचरणतायै महाप्रणिधानम्। सर्वसत्त्वपरिपाकाय महाप्रणिधानम्। सर्वलोकधातुसन्दर्शनाय महाप्रणिधानम्। बुद्धक्षेत्रपरिशोधनाय महाप्रणिधानम्। सर्वबोधिसत्त्वैकाशयप्रयोगतायै महायानावतरणतायै महाप्रणिधानम्। अबन्ध्यसर्व-सम्यक्प्रयोगतायै महाप्रणिधानम्। अनुत्तरसम्यक्संबोध्यभिसंबोधाय महाप्रणिधानम्।



तत्र कतमो बोधिसत्त्वस्य शून्यतासमाधिः। इह बोधिसत्त्वस्य सर्वाभिलाषात्मकेन स्वभावेन विरहितं निरभिलाप्यस्वभावं वस्तु पश्यतः या चित्तस्य स्थितिः। अयमस्योच्यते शून्यतासमाधिः।



अप्रणिहितः समाधिः कतमः। इह बोधिसत्त्वस्य तदेव निरभिलाप्यस्वभावं वस्तु मिथ्याविकल्पसमुत्थापितेन क्लेशेन दुःखेन च परिगृहीतत्वादनेकदोषदुष्टं समनुपश्यतो या आयत्यां तत्राप्रणिधानपूर्विका चित्तस्थितिः। अयमस्याप्रणिहितः समाधिरित्युच्यते।



अनिमित्तः समाधिः कतमः। इह बोधिसत्त्वस्य तदेव निरभिलाप्यस्वभावं वस्तु सर्वविकल्पप्रपञ्च निमित्तान्यपनीय यथाभूतं शान्ततो मनसि कुर्वतो या चित्तस्थितिः। अयमस्योच्यते अनिमित्तः समाधिः। कस्मात्पुनरेषामेव त्रयाणां समाधीनां प्रज्ञप्तिर्भवति। नात उत्तरि नातो भूयः द्वयमिदं सच्चासच्च। तत्र संस्कृतमसस्कृतञ्च सत् असदात्मा वात्मीयं वा। तत्रः संस्कृते सत्यप्रणिधानतः प्रातिकूल्यतोऽप्रणिहितसमाधिव्यवस्थानम्। असंस्कृते पुनर्निर्वाणे प्रणिधानतः सम्यगभिरतिग्रहणतो निर्निमित्तसमाधिव्यवस्थानम्। यत् पुनरेतदसदेव वस्तु तत्र बोधिसत्त्वेन न प्रणिधानं नाप्रणिधानं करणीयम्। अपि तु तदसदसदित्येव यथाभूतं द्रष्टव्यम्। तच्च दर्शनमधिकृत्य शून्यतासमाधिव्यवस्थानं वेदितव्यम्। एवं हि बोधिसत्त्व एषु त्रिषु समाधिषु योगं करोति। एवं च व्यवस्थानं यथाभूतं प्रजानाति। तदन्याकारानपि त्रीन्समाधीन्यथाभूत-व्यवस्थान-नयप्रवेशेन भावना-नयप्रवेशेन च यथाभूतं प्रजानाति येषु श्रावकाः शिक्षन्ते समुदागच्छति च।



चत्वारीमानि धर्मोद्दानानि यानि बुद्धाश्च बोधिसत्त्वाश्च सत्त्वानां विशुद्धये देशयन्ति। कतमानि चत्वारि। अनित्याः सर्वसंस्कारा इति धर्मोद्दानम्। दुःखाः सर्वसंस्कारा इति धर्मोद्दानम्। अनात्मानः सर्वधर्मा इति धर्मोद्दानम्। शान्तं निर्वाणमिति धर्मोद्दानम्। एतत् प्रतिसंयुक्तार्थ यद्भूयसा धर्ममुदीरयन्ति बुद्धबोधिसत्त्वाः सत्त्वानाम्। तस्मादेतानि धर्मोद्दानानीत्युच्यन्ते। पौराणेश्च शान्तमानसैर्मुनिभिरुदितोदितत्वान्नित्यकालमुद्दानानीत्युच्यन्ते। महोदयगामिनी भवाग्रोर्ध्वंगामिनी चैषा प्रतिपत् तस्मादुद्दानानीत्युच्यन्ते।



कथं च बोधिसत्त्वः सर्वसंस्काराननित्यतः समनुपश्यति। इह बोधिसत्त्वः सर्वसंस्काराणामभिलाप्यस्वभावं नित्यकालमेव नास्तीत्युपलभ्यानित्यतः सर्वसंस्कारान् पश्यति। पुनरविज्ञातस्य भूततस्तस्यैव निरभिलाप्यस्य वस्तुनः अपरिज्ञानहेतुकमुदयव्ययमुपलभ्यतान् निरभिलाप्यस्वभावान् सर्वसंस्काराननित्यतः समनुपश्यति। सोऽतीतान् संस्कारानुत्पन्ननिरुद्धान्समनुपश्यति। तेषां नैव हेतुमुपलभते नापि स्वभावम्। तस्मात्तेषां नैव हेतुतो नैव स्वभावतो विद्यमानतां समनुपश्यति। प्रत्युत्पन्नानिरुद्धान्समनुपश्यति। तेषां हेतुं नोपलभते दत्तफलत्वात्। स्वभावं पुनरुपलभते अनिरुद्धत्वात्। तस्मात्तेषां स्वभावतो विद्यमानतां समनुपश्यति नो तु हेतुतः। अनागतान् संस्काराननुत्पन्नानिरुद्धान् पश्यति। तेषां हेतुमुपलभते अदत्तफलत्वात्। नो तु स्वभावमनुत्पन्नत्वात्। तस्मात्तेषां बोधिसत्त्वो हेतुतो विद्यमानतां पश्यति नो तु स्वभावतः। स एव त्रिष्वध्वस्वव्यवच्छिन्नां संस्कार-सन्ततिं प्रवर्तमानां दृष्ट्वा एकैकस्मिन् संस्कारक्षणे त्रीणि संस्कृतस्य संस्कृतलक्षणानि पश्यति। क्षणादुर्क्ष्वं चतुर्थं संस्कृतलक्षणं समनुपश्यति। तत्र पूर्वसंस्कारक्षणे स्वभावविनाशानन्तर योऽपूर्वसंस्कारक्षणस्वभावप्रादुर्भावः सा जातिरिति पश्यति। उत्पन्नस्य यस्तत्कालाविप्रणाशः सा स्थितिरिति पश्यति। तं पूर्वनिरुद्धं संस्कारज्ञणस्वभावमपेक्ष्य तस्योत्पन्नस्य यदन्यत्वमन्यथात्वं वा सा जरेति पश्यति। तस्माज्जातिक्षणादूर्ध्वं तस्यैवोत्पन्नस्य संस्कारक्षणस्य यः स्वभावविनाशः स व्यय इति पश्यति। स यत्स्वभावमेव तमुत्पन्नं संस्कारक्षणं समनुपश्यति। तत्स्वभावानेव तस्य जातिं स्थितिं जरां च। [न] पश्यति तदन्यस्वभावान्।



तस्माच्च क्षणादूर्ध्वं च एव तस्य संस्कारक्षण [स्वभाव] स्यापगमः स एव तेषां जात्यादीनामिति यथाभूतं पश्यति तान्येतानि चत्वार्यषि संस्कृतलक्षणान्यभिसमस्य संस्काराणां समासतो द्वयावस्था-प्रभावितानि। भावप्रभावितान्यभावप्रभावितानि च। तत्र भगवता यो भावस्तदेकं संस्कृतलक्षणं व्यवस्थापितम्। यस्त्वभावस्तत् द्वितीयं संस्कृतलक्षणं व्यवस्थापितम्। स च भावस्तेषां संस्काराणां स्थित्यन्यथात्वप्रभावित इति कृत्वा तृतीयं संस्कृतलक्षणं व्यवस्थापितम्। तत्र बोधिसत्त्वः संस्कारमात्रं स्थापयित्वा न तस्य जातिं न स्थितिं न जरां नानित्यतां सर्वकालं द्रव्यस्वभावपरिनिष्पत्तितः पश्यति। तत्कस्य हेतोः। संस्कारमात्रं स उत्पद्यमानमुपलभते। नास्यान्यां जातिं न स्थितिं न जरां नानित्यताम्। संस्कारमात्रमेव च जायमानं तिष्ठन्तं जीर्यमाणं विनश्यमानमुपलभते। न तस्यान्यां जातिं स्थितिं जरामनित्यताञ्च। युक्त्यापि बोधिसत्त्वो विमृशन्नेतान् जात्यादीन् द्रव्यतो नोपलभते। एवञ्च पुनर्विमृशन्नोपलभते। स चेद्रूपादिसंस्कारविनिर्मुक्तः अन्यो जातिधर्मः स्यात् स यथैव रूपादिकः संस्कारः स्वात्मनोत्पद्यते। तथैव सोऽप्युत्पद्येत। एवं सति द्वे जन्मनी स्याताम् यच्च संस्कार-जन्म यच्च जाति-जन्म तत्र तत्संस्कारजन्म तस्माज्जातिजन्मनः अनन्यदेव वा स्यात्। [अन्यदेव वा।] यदि तावदनन्यदेवं सत्यपार्थिका जातिद्रव्यकल्पना। अन्या जातिर्द्रव्यतोऽस्तीतिं न युज्यते। अथ च पुनरन्यदेवं सति संस्कार-जन्म जातिर्न भवति। संस्कार-जन्म जातिरिति न युज्यते। यथा जातिरेवं स्थितिर्जरा विनाशश्च विस्तरेण वेदितव्यः। स चेद्विनाशो नाम स्वभावतो धर्मः परिनिष्पन्नः स्यात् सोऽप्युत्पद्येत निरुध्येत वा। यदा च विनाश उत्पन्नः स्यात्तदा सर्वसंस्कारैर्निरुद्धैर्भवितव्यं स्यात्। एवं सत्यल्पकृच्छ्रेण निरोधसमापन्नस्येव चित्तचैतसिकानां धर्माणामप्रवृत्तिः स्यात्। तस्य च पुनर्विनाशस्य निरोधात् निरुद्धैरपि तैः संस्कारैः पुनरेव भवितव्यं स्यात् विनाश एषां नास्तीति कृत्वा। अतो विनाश उत्पद्यते निरुध्यते चेति न युज्यते। न च पुनः कुलपुत्रस्य वा कुलदुहितुर्वा सर्वकालास्तिताञ्च द्रव्यसतां स्वभावपरिनिष्पतिञ्च प्रज्ञप्ति सतां पश्यतो निर्विद्विरागो विमुक्तिश्च युज्यते। अतो विपर्ययेण तु युज्यते। इत्येभिराकारैर्बोधिसत्त्वः सर्वसंस्कारा अनित्या इति यथाभूतं प्रजानाति।



तान् पुनरेव अनित्यान् संस्कारान् प्रबन्धेन वर्तमानाद्बोधिसत्त्वः त्रिःप्रकाराया दुःखतायाः सन्निश्रयभावेन पश्यति संस्कारदुःखतायाः विपरिणामदुःखतायाः दुःखदुःखतायाश्च। एवं हि बोधिसत्त्वः सर्वसंस्कारा दुःखा इति यथाभूतं प्रजानाति।



पुनः सर्वधर्माणां बोधिसत्त्वः संस्कृतासंस्कृतानां द्विविधं नैरात्म्यं यथाभूतं प्रजानाति। पुद्गलनैरात्म्यं धर्मनैरात्म्यं च। तत्रेदं पुद्गलनैरात्म्यम्। यन्नैवते विद्यमाना धर्माः पुद्गलाः। नापि विद्यमानधर्मविनिर्मुक्तोऽन्यः पुद्गलो विद्यते। तत्रेदं धर्मनैरात्म्यम्। यत्सर्वेष्वभिलाप्येषु वस्तुषु सर्वाभिलापस्वभावो धर्मो न संविद्यते। एवं हि बोधिसत्त्वः सर्वधर्मा अनात्मान इति यथाभूतं प्रजानाति।



यः पुनरेषामेव संस्काराणां पूर्वं हेतुसमुच्छिन्नानां पश्चादशेषोपरमस्तदन्येषाञ्चात्यन्तमनभिनिर्वृत्तिरप्रादुर्भावः। इदमुच्यते निर्वाणम्। तच्च शान्तं क्लेशोपशमात् दुःखोपशमाच्च वेदितव्यम्। एवं च तावदनध्याशयशुद्धो बोधिसत्त्वः अदृष्टसत्यो वा श्रावकायानीयो निर्वाणमधिमुक्तो भवति। एवञ्चाभिवदति-शान्तं निर्वाणमिति। न चास्य तस्मिन्निर्वाणे यथाभूतावगमो यथावज्ज्ञानदर्शनं प्रवर्तते। अस्ति त्वेष योनिशो मनस्कारः। तद्यथा राजपुत्रो वा गृहपतिपुत्रो वा राज्ञा गृहपतिना वाऽन्तर्गृहे संवर्धितः स्यात् तस्य च दहरस्यैव कुमारभूतस्य तेन राज्ञा गृहपतिना वा कृत्रिमका मृगरथका वा गो-अश्वरथका वा हस्तिरथका वा उपसंहृता भवेयुः। स च राजपुत्रो वा गृहपतिपुत्रो वा तैः क्रीडन् रममाणः परिचारयंस्तेष्वेव कृत्रिमेषु मृगेषु मृगसंज्ञी स्यात् कृत्रिमेषु गोऽश्वेषु हस्तिषु हस्तिसंज्ञी स्यात्। अथैकदा स राजा वा गृहपतिर्वा स्वस्य पुत्रस्य वृद्धेरन्वयादिन्द्रियाणां परिपाकाद्भूतानां मृगाणां वर्णं भाषेत। भूतानां यावद्धस्तिनां वर्णं भाषेत। तस्य पुना राजपुत्रस्य[वा] गृहपतिपुत्रस्य वा त वर्णवादं श्रुत्वा एवं स्यात्। एषामयं राजा गृहपतिर्वा अस्माकं मृगरथकानां यावद्धस्तिरथकानां वा वर्णं भाषत इति। अथापरेण समयेन स राजा गहपतिर्वा स्वं पुत्रं बहिरागारान्निवीष्य भूतानेव मृगांस्तस्मै उपदर्शयेद्भूतानेव यावद्धस्तिन उपदर्शयेत्। तस्य तान् दृष्ट्वा तस्मिन्समये प्रत्यात्मं प्रत्यवगमो यथाभूत उत्पद्येत।



इमे ते भूतार्थिका मृगरथका विस्तरेण यावद्धस्तिरथका येषामस्माकं पिता दीर्घरात्रं वर्णं भाषितवानस्माकमेव त्वयथाभूते अर्थे तत् प्रतिरूपमात्रके तत्प्रतिबिम्बप्रतिभासमात्रके अधिमोक्षः प्रवृत्त इति। तेन पूर्वकेणाधिमोक्षेणारितीयेरन्। एवमेव संसारान्तर्गृहसंवृद्धानामशुद्धाशयानां बोधिसत्त्वानामदृष्टसत्यानाञ्च श्रावकाणां पुत्रस्थानीयानां पितृकल्पैर्बुद्धैर्बोधिसत्त्वैश्च महाभूमिप्रविष्टैर्निर्वाणप्रत्यक्षदर्शिभिस्तेषां बोधिसत्त्वानां श्रावकाणाञ्च पुरस्तान्निर्वाणस्य यथादृष्टस्य वर्णो भाषितः। तैश्च तन्निर्वाणं गुणतो घोषमात्रानुसरिण्या बुद्ध्या दीर्घरात्रमधिमुक्तम्। यदा पुनस्तेषां संभारपरिपाकवृद्धेरन्वयात् श्रद्धाशयानाञ्च बोधिसत्त्वानां दृष्टसत्यानाञ्च श्रावकाणां निर्वाणे प्रत्यक्षं ज्ञानदर्शनमुत्पद्यते। तदा तेषामपि यथाभूतः प्रत्यवगम उत्पद्यते। इदं तन्निर्वाणं सर्वश्रावकप्रत्येकबुद्धानां यस्य बुद्धबोधिसत्त्वैर्वर्णा भाषितः। अस्माभिस्तु पूर्वबालप्रज्ञतया न यथाभूतमधिमुक्तम्। अस्ति तु तदस्य प्रतिरूपकम्।



अस्ति प्रतिभासमात्रकम्। ते तेन पूर्वकेणाधिमोक्षेण रितीयन्ते पश्चिमकं यथाभूताधिमोक्षं निश्रित्य। तद्यथा किञ्चिद्व्याधितं पुरुषं कश्चिन्महावैद्यस्तस्य प्रप्युपस्थितस्य व्याधेः प्रशमायानुलोमिकैर्भैषज्यैरूपतिष्ठेत्। स च व्याधितपुरुषो दीर्घकालप्रतिनिषेवणात्तेषां भैषज्यानां तदधिमुक्त एव भवेत् तदारामः। तेष्वेव सारदर्शी भवेत्। अथ तस्यैव व्याधितपुरुषस्य स च पूर्वको व्याधिस्तया भैषज्यासेवया व्युपशाम्येदन्यश्चापूर्वो व्याधिरन्यभैषज्यसाध्यः प्रादुर्भवेत्। अथ स महावैद्यः पूर्वकस्य च व्याधेः प्रशमं पश्चिमकस्य चोत्पादमन्यभैषज्यसाध्यं विदित्वा तञ्च पूर्वकं भैषज्यप्रयोगं प्रतिक्षिपेदन्यं चानुलोमिकं व्यपदिशेद् भैषज्यम्। स बालो व्याधित पुरुषः पूर्वभैषज्याधिमुक्तस्तेष्वेव पथ्यसंज्ञी येनैव महावैद्येन तानि पूर्वपश्चिमानि भैषज्यानि व्यपदिष्टानि। एवमप्युच्यमानस्तेन संमुखमपथ्यान्येतानि पूर्वकाणि भैषज्यानि पश्चिमे व्याधाविति संप्रत्ययेन न गच्छन्नाष्य वचनमभिश्रद्धव्यादेवमेव तदुपमास्ते बाला बोधिसत्त्वाः श्रावकाश्च वेदितव्याः। ये व्याधितपुरुषा एव क्लेशग्रस्ता महावैद्यस्य तथागतस्योत्तरादुत्तरतरामुत्तमतमामुत्तानादुत्तानतरां गम्भीराद् गम्भीरतरां गम्भीरतमां हीनादुदारामुदारतरामुदारतमां धर्मदेशनां सम्यग्व्यपदेशमववादानुशासनीं नावतरन्ति नाधिमुच्यन्ते न प्रतिपद्यन्ते धर्मस्यानुधर्मम्। तत्र श्राद्धो बोधिसत्त्वः श्रावको वा न कस्मिंश्चित्तथागतभाषिते विमतिसन्देहमुत्पादयति। स पुनः सर्वाङ्गपरिष्कारसुसमायुक्तमिवाजन्यरथं तं तथागतभाषितं धर्मरथमभिरूह्य कुशल इव सारथिर्यावती तेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या तां लघुलध्वेव गन्ता भवत्यधन्धायमानः।



इति बोधिसत्त्वभूमावाधारे योगस्थाने सप्तदशमं बोधिपक्ष्यपटलम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project