Digital Sanskrit Buddhist Canon

1-16 पूजासेवाऽप्रमाणपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 1-16 pūjāsevā'pramāṇapaṭalam
पूजासेवाऽप्रमाणपटलम्



उद्दानम्।



रत्न-पूजा मित्र-सेवा अप्रमाणैश्च पश्चिमम्।



तत्र बोधिसत्त्वस्य तथागतेषु तथागत-पूजा कतमा। सा सामासतो दशविधा वेदितव्या। शरीर-पूजा चैत्य-पूजा सम्मुख-पूजा विमुख-पूजा स्वयंकृत-पूजा पर-कारित-पूजा लाभ-सत्कार-पूजा उदार-पूजा असंक्लिष्टपूजा प्रतिपत्ति-पूजा च।



तत्र यद्बोधिसत्त्वः साक्षात् तथागत-रूप-कयमेव पूजयति। इयमस्योच्यते शरीर पूजा।



तत्र यद्बोधिसत्त्वस्तथागतमुद्दिस्य स्तूपं वा गहं वा कूटं वा पुराणचैत्य वा अभिनव-चैत्यं वा पूजयति। इयमस्योच्यते चैत्य-पूजा।



यद् बोधिसत्त्वस्तथागत-काय वा तथागत-चैत्यं वा सम्मुखीभूतमध्यक्ष पूजयति। इयमस्य सम्मुख-पूजेत्युच्यते।



तत्र यद् बोधिसत्त्वस्तथागते वा तथागते-चैत्ये वा सम्मुख-पूजां कुर्वन्नेवमध्याशय-सहगतं प्रसाद-सहगतं चित्तमभिसंस्करोति। या एकस्य तथागतस्य धर्मता सा सर्वेषां तथागतानामतीतानागतप्रत्युत्पन्नानां धर्मता। या एकस्य तथागत-चैत्यस्य धर्मता सा सर्वेषां तथागत-चैत्यानां धर्मता। इत्यतोऽहमेतञ्च सम्मुखीभूतं तथागतं पूजयामि सर्वांश्च तान् अतीतानागतप्रत्युत्पन्नांश्च तथागतान् पूजयामि। एतच्च सम्मुखीभूत तथागत-चैत्यं पूजयामि। तदन्यानि च दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु सर्वाणि स्तूपानि गहानि कूटागाराणि पुराण-चैत्यानि अभिनव-चैत्यानि पूजयामि। इतीयं तावद् बोधिसत्त्वस्य साधारणा सम्मुखा।



विमुखा च तथागत-पूजा तथागत-चैत्य-पूजा च वेदितव्या। यत्पुनर्बोधिसत्त्वः असम्मुखीभूते तथागते तथागत-चैत्ये वा तथागतचित्तमभिसंस्कृत्य पूजां प्रयोजयति सर्वबुद्धानुद्दिश्य सर्वतथागतचैत्यानि चोद्दिश्य। सास्य केवला विमुखैव पूजा वेदितव्या। यदपि बोधिसत्त्वः परिनिर्वृते तथागते तथागतमुद्दिश्य तथागतस्य शरीरं स्तूपं वा कारयति गहं वा कूटं वा एकं वा द्वौ वा सम्बहुलानि वा यावत् कोटि-शतसहस्राणि यथाशक्ति-यथाबलम्। इयमपि बोधिसत्त्वस्य तथागतेषु विमुखा विपुला पूजा अप्रमाण-पुण्य-फला ऽनेकब्राह्मपुण्यपरिगृहीता। यथा बोधिसत्त्वः अनेकैरेव कल्पै [र्महाकल्पै] रविनिपातगामी भवति। न चानुत्तरायाः सम्यक्संबोधेः सम्भारं न परिपूरयति तन्निदानम्। तत्र येयं बोधिसत्त्वस्य केवलैव तथागते तथागतचैत्ये वा पूजा इयमेव तावद्विपुलपुण्यफला द्रष्टव्या ततो विपुलतरपुण्यफला केवलैव विमुखा द्रष्टव्या। ततो विपुलतमपुण्यफला साधारणसम्सुखविमुखा पूजा द्रष्टव्या।



तत्र यद् बोधिसत्त्वस्तथागते वा तथागतचैत्ये वा पूजां कर्तुकामः स्वयमेव स्वहस्तं करोति न दासीदासकर्मंकर-[पौरुषेय-] मित्रामात्यज्ञातिसालोहितैः कारयत्यालस्यकौसीद्यं प्रमादस्थानं वा निश्रित्य। इयं बोधिसत्त्वस्य स्वयंकृता पूजा वेदितव्या। तत्र यद्बोधिसत्त्वस्तथागते वा तथागतचैत्ये वा पूजां कर्तुकामो न केवलं स्वयेव करोत्यपि तु मातापितृभ्यां कारयति पुत्रदारेण दासीदासकर्मकरपौरुषेयैर्मित्रामात्यज्ञातिसालोहितैः परैश्च राजभिः राजमहामात्रैर्ब्राह्मणैगृहपतिभिर्नैगमैर्जानपदैर्धनिभिः श्रेष्ठभिः सार्थवाहैरन्ततः स्त्रीपुरुषदारकदारिकाभिः कृपणैदुःखितैर आ-चण्डालैरपि कारयति। तथाऽचार्योपाध्यायैः सार्धविहार्यन्तेवासिभिः सब्रह्मचारिभिश्च प्रव्रजितैरप्यन्यतीर्थ्यैस्तथागते [ वा तथागत-] चैत्ये वा पूजां कारयति। इयं बोधिसत्त्वस्य साधारणा पूजा स्वपरकृता वेदितव्या



यत्पुनर्बोधिसत्त्वः परीत्ते पूजाकरणीये देयवस्तुनि संविद्यमाने करुणासहगतेन चेतसा संचिन्त्य परेषामेव तद्वस्त्वनुप्रयच्छत्येते दुःखिताः सत्त्वा अल्पपुण्याश्चाशक्ताश्च तथागते वा तथागतचैत्ये वा कारां कृत्वा सुखिता भवन्त्विति। परे च तेन वस्तुना तथागते वा तथागतचैत्ये वा पूजां कुर्वन्ति न बोधिसत्त्वः इयं बोधिसत्त्वस्य केवला परकारिता पूजा वेदितव्या।



तत्र या केवला स्वयंकृता सा महापुण्यफला। या केवला परकारिता सा महत्तरपुण्यफला। या पुनः साधारणा या महत्तमपुण्यफला निरुत्तरा वेदितव्या।



तत्र यद्बोधिसत्त्वः तथागते वा तथागतचैत्ये वा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरभिवादनवन्दनप्रत्युत्थानाञ्जलिकर्मभिश्च धूपगन्धैश्चूर्णगन्धैरनुलेपनगन्धैर्विचित्रैश्च माल्यैर्विचित्रैर्वाद्यै र्विचित्रैश्छत्रध्वजपताकाप्रदीपदानैर्विचित्रैः स्तोत्राभिव्याहारैः पञ्चमण्डलप्रणामैः प्रदक्षिणावर्तैः पूजां करोति। तथाऽक्षयणिकाप्रदानैः मणिमुक्तावैदूर्यशंखशिलाप्रवाडाश्मगर्भमुसारगल्वजातरूपरजतलोहितिका-दक्षिणावर्तप्रभृतिभिः रत्नप्रदानैर्मणिकुण्डलकेयूराद्यलङ्कारप्रदानैरन्ततश्च घण्टाप्रदानकार्षापण-क्षेपसूत्रपरिवेष्टनैः पूजयति। इयं बोधिसत्त्वस्य तथागते वा तथागतचैत्ये वा लाभसत्कारपूजा वेदितव्या।



तत्र यद्बोधिसत्त्वो दीर्घकालिकीञ्च तथागते वा तथागतचैत्ये वा एतामेव लाभसत्कारपूजां करोति प्रभूतवस्तुकाञ्च प्रणीतवस्तुकाञ्च सम्मुखविमुखाञ्च स्वयंकृतपरकृताञ्च घनरसेन च प्रसादेन सम्मुखीभूतेन तीव्रया चाधिमुक्त्या पूजां करोति। तच्च कुशलमूलमनुत्तरायै सम्यक्संबोधये परिणामयति। इयं बोधिसत्त्वस्य सप्ताकारा उदारपूजेत्युच्यते।



तत्र यद्बोधिसत्त्वः स्वहस्तं तथागते वा तथागतचैत्ये वा कारां करोति न परैरवज्ञया कारयति प्रमादकौसीद्याद्वा। सत्कृत्य करोति। नापविद्धमविक्षिप्तचित्तः करोत्यसंक्लिष्टचित्तः। न बुद्धाभिप्रसन्नानां राजादीनामुदारसत्त्वानां लाभसत्कारहेतोः कुहनार्थं प्रतिरूपेण च वस्तुना पूजयति। न हरिताल-लेपन-धृतस्नान-गुग्गुलुधूपार्कपुष्पादिभिरन्यैश्चाकल्पिकैरुपकरणैः। इयं बोधिसत्त्वस्य षडाकाराऽसंक्लिष्टा पूजा वेदितव्या।



तां पुनरेतामुदारामसंक्लिष्टां लाभसत्कारपूजां बोधिसत्त्वस्तथागते वा तथागतचैत्ये वा स्वबाहुबलोपार्जितैर्भोगैः करोति परतो वा पर्येषितैः। षरिष्कारवशिता-प्रतिलब्धैर्वा। तत्र परिष्कारवशिताप्राप्तो बोधिसत्त्वः द्वौ वा त्रीन्वा संबहुलान् वा समुच्छ्रयान् यावत् समुच्छ्र्यकोटीनियुतशतसहस्त्राण्यनेकान्यभिनिर्माय सर्वैस्तैः समुच्छ्रयैस्तथागतेषु प्रणामं करोति। तेषाञ्च समुच्छ्रयाणामेकैकस्य हस्तशतं हस्तसहस्रं वा ततो वा परेण निर्माय सर्वैस्तैर्दिव्यसमतिक्रान्तैः कुसुमैः परमसुगन्धिभिः परममनोरमैः तांस्तथागतानभ्यवकिरति। सर्वे च ते समुच्छ्रया अत्युदाराणि तथागतभूतगुणोपसंहितानि स्तोत्राणि भाषन्ते। सर्वैरेव च तैः समुच्छ्रयैर्विचित्राण्यमात्राणि [अग्राणि] प्रणीतानि केयूरमणिकुण्डलानि छत्रध्वजपताकाश्च तथागतेषूत्सृजयत्त्यारोपयति। इयमेवंभागीया परिष्कारवशिता-प्राप्तस्य बोधिसत्त्वस्य स्वचित्तप्रतिबद्धा पूजा। न चास्य पुनर्बुद्धोत्पादः प्रत्याशंसितव्यः प्रार्थयितव्यो वा भवति। तत्कस्य हेतोः। तथाहि तस्यावैवर्तिकभूमिप्रविष्टत्वात् सर्वबुद्धक्षेत्रेष्वव्याहता गतिर्भ वति। नो चापि बोधिसत्त्वस्य स्वबाहुबलोपार्जिता भोगा भवन्तिनापि च परतः पर्येषितलब्धा वा। नापि च बोधिसत्त्वः परिष्कारवशिताप्राप्तो भवति। अपि तु या काचित् तथागतपूजा जम्बूद्वीपे [वा] चातुर्द्वीपे वा साहस्रे [वा द्विसाहस्रे वा त्रिसाहस्र-] महासाहस्रे वा यावद्दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु मृदुमध्याधिमात्रा प्रवर्तते। तां सर्वां श्राद्धो बोधिसत्त्वः प्रसादसहगतेनोदाराधिमुक्तिसहगतेन चेतसा स्फरित्वाभ्यनुमोदते। इयमपि बोधिसत्त्वस्याल्पकृच्छ्रेण महती अप्रमाणा तथागतपूजा बोधाय महासंभारपरिगृहीता यस्यां बोधिसत्त्वेन सतत-समितं कल्याणचित्तेन हृष्टचित्तेन योगः करणीयः। तत्र यद्बोधिसत्त्वः स्तोकस्तोकं मुहूर्तमुहूर्तमन्ततो गोदोहमात्रमपि सर्वसत्त्व प्राणिभूतेषु मैत्रचित्तं भावयति। करुणासहगतं मुदितासहगतमुपेक्षासहगतं चित्तं भावयति। तथा सर्वसंस्कारेष्वनित्यसंज्ञामनित्ये दुःखसंज्ञां दुःखेऽनात्मसंज्ञां निर्वाणे चानुशंससंज्ञां भावयति। तथा तथागतानुस्मृतिं धर्मसंघपारमितानुस्मृतिं भावयति। तथा स्तोकस्तोकं मुहूर्तमुहूर्तं सर्वधर्माणां प्रादेशिकेन मृदुक्षान्तिकेनापि ज्ञानेन निरभिलाप्यधर्मस्वभावतथताधिमुक्तो निर्विकल्पेन निर्निमित्तेन चेतसा विहरति। प्रागेव तत उत्तरि ततो भूयः। तथा बोधिसत्त्वशीलसंवरपरिपालना। शमथविपश्यनायां बोधिपाक्षिकेषु च धर्मेषु योगक्रिया। तथा पारमितासु संग्रहवस्तुषु च सम्यग्योगक्रिया। इतीयं बोधिसत्त्वस्य प्रतिपत्तिसहगता तथागत पूजाऽग्र्यावरा प्रणीता निरुत्तरा। यस्याः पूजायाः पूर्विका लाभसत्कारपूजा सर्वाकारापि शततमीमपि कलां नोपैति सहस्रतमीमपि कलां नोपैति विस्तरेण यावदुपनिषदमपि नोपैति। इतीयं दशभिराकारैः सर्वाकारा तथागतपूजा वेदितव्या।



यथा तथागतपूजा एवं धर्मपूजा संघपूजा यथायोगं वेदितव्या।



तत्र त्रिषु रत्नेष्वेतां दशाकारां पूजां कुर्वन्बोधिसत्त्वस्तथागतालम्बनैः षड्‍मिरध्याशयैः करोति। गुणक्षेत्रनिरुत्तराध्याशयतया उपकारिनिरुत्तराध्याशयतयाऽपदद्विपदादिसर्वसत्त्वाग्र्याध्याशयतया उदुम्बरपुष्पवत् सुदुर्लंभाऽध्याशयतया एकाकिनस्त्रिसाहस्रम साहस्रे लोक उत्पादात्केवलाध्याशयतया लौकिकलोकोत्तरसम्पत्सर्वार्थंप्रतिसरणाध्याशयतया। तस्यैभिः षड्‍भिरध्याशयैः तथागते तस्य वा धर्मे तस्य वा संघे पूजा प्रकल्पिता परीत्ताप्यप्रमेयफला भवन्ति प्रागेव प्रभूता।



तत्र कतिभिराकारैः समन्वागतं बोधिसत्त्वस्य कल्याणमित्रं वेदितव्यम्। कतिभिश्चाकारैः कल्याणमित्रताऽबन्ध्या भवति। कतिभिकारारैः समन्वागतं कल्याणमित्रं प्रसादपदस्थानगतं भवति। कति कल्याणमित्रभूतस्य [बोधिसत्त्वस्य] विनेयेषु कल्याणमित्र-करणीयानि भवन्ति। कतिविधा च कल्याणमित्रसंसेवा बोधिसत्त्वस्य। कत्याकारया च संज्ञया कल्याणमित्रस्यान्तिकाद्बोधिसत्त्वेन धर्मः श्रोतव्यः। कतिषु च स्थानेषु कल्याणमित्रस्यान्तिकाद् बोधिसत्त्वेन धर्मं श्रुण्वता तस्मिन्धर्मभाणके पुद्गलेऽमनसिकारः करणीयः।



तत्राष्टाभिरङ्गैः समन्वागतं बोधिसत्त्वस्य कल्याणमित्रं सर्वाकारपरिपूर्णं वेदितव्यम्। वृत्तस्थो भवति बोधिसत्त्वसंवरशीलेषु व्यवस्थितोऽखण्डच्छिद्रकारी। बहुश्रुतो भवति नाव्युत्पन्नबुद्धिः। अधिगमयुक्तश्च भवति लाभी भावनामयस्यान्यतमान्यतमस्य कुशलस्य लामी शमथविपश्यनायाः। अनुकम्पकश्च भवति कारुणिकः सोऽध्युपेक्ष्य स्वं दृष्टधर्मंसुखविहारं परेषामर्थाय परयुज्यते। विशारदो भवति न परेषामस्य धर्मं देशयतः स्मृतिः प्रतिभानं - व शारद्यभयात् प्रमुष्यते। क्षमश्च भवति परतोऽवमाननावहसनावस्पन्दन दुरुक्त-दुराग-तादीनामनिष्टानां वचन्स्पथानां विविधानञ्च सत्त्वविप्रतिपत्तीनाम्। अपरिखिन्नमानसश्च भवति बलवान् प्रतिसंख्यानबहुलः अकिलासी चतसृणां परिषदां धर्मदेशनायै। कल्याणवाक्यश्च भवति वाक्करणेनोपेतो धर्मताप्रणष्टस्पष्टवाक्।



तत्र पञ्चभिराकारैरेव सर्वाकारगुणयुक्तस्य बोधिसत्त्वस्य कल्याणमित्रस्याबन्ध्यं कल्याणमित्रकरणीयं भवति। स हि परेषामादित एव हितसुखैषी भवति। तच्च हितसुखं यथाभूतं प्रजानाति। न तत्र विपर्यस्तबुद्धिर्भवति। येन चोपायेन यद्रुपया धर्मदेशनया यः सत्त्वः शक्यरूपो भवति विनेतुं तत्र शक्तो भवति प्रतिबलः। अपरिखिन्नमानसश्च भवति। समकारण्यश्च भवति। सर्वसत्त्वेषु हीनमध्यविशिष्टेषु न पक्षपतितः।



तत्र पञ्चभिराकारैस्तत्कल्याणमित्रं प्रसादपदस्थितं भवति येनैनं परेऽत्यर्थमभिप्रसीदन्त्यनुश्रवेणापि श्रुत्वा प्रागेव सम्मुखं निरीक्ष्य। ईर्यापथसंपन्नो भवति प्रशान्तेर्यापथः सर्वाङ्गप्रत्यङ्गैनिर्विकारः। स्थितो भवत्यनुद्धत‍अचपलकायवाङ्मनःकर्मान्तप्रचारः। निष्कुहकश्च भवति न परेषां कुहनार्थमीर्यापथं स्थैर्यं वा प्रतिसंख्याय कल्पयति। अनीर्षुकश्च भवति न परेषां धर्म्यं कथां लाभसत्कारं वा आरभ्यामर्षमुत्पादयति। अपि तु स्वयमध्येष्यमाणोऽपि धर्मकथने परैः लभमानोऽपि विपुलं लाभसत्कारं परमपदिशति अशठेन चेतसा प्रसन्नेन। परेषां तच्च धार्मकथिकत्वं तञ्च लाभसत्कारमारभ्यानुजनाति। यथा स्वेन लाभसत्कारेण तुष्टो भवति तथा भृशतरं परलाभेन परसत्कारेण तुष्टो भवति [सुमनाः] संलिखितश्च भवत्यल्पभाण्डोऽल्पपरिष्कारः उत्पन्नोत्पन्नपरित्यक्तसर्वोपकरणः।



तत्र पञ्चभिराकारैरयं कल्याणमित्रभूतो बोधिसत्त्वः परेषां विनेयानां कल्याणमित्रकार्यं करोति। चोदको भवति। स्मारको भवति। अववादको भवति। अनुशासको भवति। धर्मदेशको भवति। एषाञ्च पदानां विस्तरेण विभागो वेदितव्यः। तद्यथा श्रावकभूमावववादानुशासनञ्च भूयस्तत उत्तरि वेदितव्यं तद्यथा बलगोत्रपटले।



तत्र चतुर्भिराकारैर्बोधिसत्त्वस्य कल्याणमित्रसेवा परिपूर्णा वेदितव्या। कालेन कालं ग्लानोपस्थानस्वस्थोपस्थान क्रियया प्रेमगौरवप्रसादोपसंहृतया। कालेन कालमभिवादनवन्दनप्रत्युत्थानाञ्जलिसामिचीकर्मपूजाक्रियया धर्मचीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारदानपूजया च। निश्रितस्य च धार्मिकेष्वर्थसंयोग-वियोगेषु वशवर्तनतया अविकम्पनतया यथाभूतत्वाविष्करणतया। कालेन च चाज्ञामिप्रायस्योपसंक्रमणपर्युपासनपरिपृच्छनश्रवणतया।



तत्र कल्याणमित्रस्यान्तिकाद्धर्मं श्रोतुकामेन बोधिसत्त्वेन पञ्चाकारया संज्ञया धर्मः श्रोतव्यः। रत्नसंज्ञया दुर्लभार्थेन। चक्षुःसंज्ञयोदारसहजप्रज्ञाप्रतिलाभाय हेतुभावार्थेन। आलोकसंज्ञया प्रतिलब्धसहजज्ञानचक्षुषा सर्वाकार-यथाभूत-ज्ञेयसंप्रकाशनार्थेन। महाफलानुशंससंज्ञया निर्वाणसंबोधिनिरुत्तरपदप्राप्तिहेतुभावार्थेन। अनवद्यरतिसंज्ञया दृष्टे धर्मेऽप्राप्त निर्वाणसंबोधिधर्मयथाभूतप्रविचयशमथविपश्यनाऽनवद्यमहारतिहेतुभावार्थे।



तत्र बोधिसत्त्वेन कल्याणमित्रस्यान्तिकाद्धर्मं श्रुण्वता तस्मिन्धर्मभाणके पुद्गले पञ्चस्थानेष्वमनसिकारं कृत्वाऽवहितश्रोत्रेण प्रसन्नमानसेन धर्मः श्रोतव्यः। शीलभ्रंशेऽमनसिकारः करणीयः। नैवं चित्तमभिसंस्कर्तव्यं दुःशीलोऽयमसंवरस्थः नाहमतः श्रोष्यामि। कुलभ्रंशेऽप्यमनसिकारः करणीयः। नैवं चित्तमभिसंस्कर्तब्यं नीलकुलोऽयं नाहमतः श्रोष्यामि। रूपभ्रंशेऽप्यमनसिकारः करणीयः। नैवं चित्तमभिसंस्कर्तव्यं विरुपोऽयं नाहमतः श्रोष्यामि। व्यञ्जनभ्रंशेऽप्यमनसिकारः करणीयः। नैवं चित्तमभिसंस्कर्तव्यम् अनभिसंस्कृतवाक्योऽयं नाहमतः श्रोष्यामि। नान्यत्रार्थप्रतिसरणेन भवितव्यं न व्यञ्जनप्रतिसरणेन। माधुर्यभ्रंशेऽप्यमनसिकारः करणीयः। नैवं चित्तमभिसंस्कर्तव्यं परुषवाक्योयं क्रोधनो न च मधुरं धर्मं भाषते नाहमतः श्रोष्यामीति। इत्येवं पञ्चसु स्थानेष्वमनसिकारं कृत्वा बोधिसत्त्वेन सादरेण सद्धर्मपरिग्रहः कार्यो न जातु धर्मः पुद्गलदोषेण दुष्टो भवति। तत्र योऽसौ मन्दप्रज्ञो बोधिसत्त्वः पुद्गलदोषेषूपहतचित्तो धर्मं नेच्छति श्रोतुं स आत्मन एवाहिताय प्रज्ञापरिहाणाय प्रतिपन्नो वेदितव्यः।



कथञ्च बोधिसत्त्वश्चत्वार्यप्रमाणानि भावयति। मैत्रीं करुणां मुदितामुपेक्षाम्। इह बोधिसत्त्वः समासतस्त्रिविधानि चत्वार्यप्रमाणानि भावयति। सत्त्वालम्बनानि धर्मालम्बनान्यनालम्बनानि च। यद्बोधिसत्त्वस्त्रिषु राशिषु सर्वसत्त्वानवस्थाप्य सुखितान् दुःखितान् अदुःखितासुखितान् सत्त्वान् सुखकामानधिकृत्य सुखोपसंहाराध्याशयगतेन मैत्रेण चेतसा दशदिशः स्फरित्वा सत्त्वाधिमोक्षेण विहरति। इयमस्य सत्त्वालम्बना मैत्री वेदितव्या। यत्पुनः धर्ममात्रसंज्ञी धर्ममात्रे सत्त्वोपचारमाशयतः संपश्यंस्तामेव मैत्रीं भावयति। इयमस्य धर्मालम्बना मैत्री वेदितव्या। यत्पुनर्धर्मानप्यविकल्पयंस्तामेव मैत्रीं भावयति। इयमस्यानालम्बना मैत्री वेदितव्या। यथा सत्त्वालम्बना धर्मालम्बनाऽनालम्बना मैत्री एवं करुणा मुदितोपेक्षा अपि वेदितव्या। तत्र बोधिसत्त्वो दुःखितान् सत्त्वानारभ्य दुःखापनयनाध्याशयो दशसु दिक्षु करुणासहगतं चित्तं भावयति। सास्य करुणा। सुखितान्वा पुनः सत्त्वानारभ्य सुखानुमोदनाध्याशयो दसशु दिक्षु मुदितासहगतं चित्तं भावयति। सास्य मुदिता। स तेषामेव त्रिविधानां सत्त्वानामदुःखासुखिताना दुःखितानां सुखितानाञ्च यथाक्रमं मोहद्वेषरागक्लेशविवेकाध्याशयो दशसु दिक्षूपेक्षासहगतं चित्तं भावयति। इयमस्योपेक्षा। तत्र यानि बोधिसत्त्वस्य मैत्र्यादीन्यप्रमाणानि सत्त्वालम्बनानि तान्यन्यतीर्थ्य साधारणानि वेदितव्यानि। यानि पुनर्धर्मालम्बनानि तानि श्रावकप्रत्येकबुद्धसाधारणानि न त्वन्यतीर्थ्यसाधारणानि वेदितव्यानि। यानि तु बोधिसत्त्वस्यानालम्बनान्यप्रमाणानि तानि सर्वतीर्थ्य-श्रावकप्रत्येकबुद्धासाधारणानि वेदितव्यानि। तत्र बोधिसत्त्वस्य त्रीण्यप्रमाणानि सुखाध्याशयसंगृहीतानि वेदितव्यानि। मैत्री करुणा मुदिता च। एकम प्रमाणं हिताध्याशयसंगृहीतं वेदितव्यं यदुत उपेक्षा। सर्वाणि चैतान्यप्रमाणानि बोधिसत्त्वस्यानुकम्पेत्युच्यते। तस्मात्तैः समन्वागता बोधिसत्त्वा अनुकम्पका इत्युच्यन्ते।



तत्र दशोत्तरशताकारं दुःखं सत्त्वधातौ संपश्यन्तो बोधिसत्त्वाः सत्त्वेषु करुणां भावयन्ति। दशोत्तरशताकारं दुःखं कतमत्। एकविधं दुःखम्। अविशेषेण प्रवृत्तिदुःखमारभ्य सर्वसत्त्वाः प्रवृत्तिपतिता दुःखिताः। द्विविधं दुःखम्। छन्दमूलकं येषां [प्रियाणां] वस्तूनां परिणामादन्यथीभावाद् दुःखमुत्पद्यते। सम्मोहविपाकञ्च दुःखं यैस्तीव्रैः शारीरैर्वेदितैः स्पृष्टस्तस्मिन्नात्मभावे अहमिति वा ममेति वा सम्मूढोऽत्यर्थं शोचति। येन द्विशल्यां वेदनां वेदयते कायिकीञ्चैतसिकीञ्च। त्रिविधं दुःखं दुःखदुःखतया संस्कारदुःखतया विपरिणामदुःखतया च। चतुर्विधं दुःखम्। विरहदुःखं प्रियाणां विसंयोगाद्यदुत्पद्यते। समुच्छेददुःखं निकायसभागनिक्षेपान्मरणाद्यदुत्पद्यते। सन्ततिदुःखं मुत्तरत्रमृतस्य जन्मपारंपर्येण यदुत्पद्यते। अत्यन्तदुःखमपरिनिर्वाणधर्मकाणां सत्त्वानां ये पञ्चोपादानस्कन्धाः। पञ्चविधं दुःखम्। कामच्छन्दपर्यवस्थान प्रत्ययं व्यापादस्त्यान-मिद्धौद्धत्य-कौकृत्य-विचिकित्सा-पर्यवस्थानप्रत्ययञ्च यद्दूःखम्। षड्‍विधं दुःखम्। हेतुदुःखमापयहेतुर्निषेवणात् फलदुःखमपायोपपत्तितः। भोगान् पुनरारभ्य पर्येष्टिदुःखमारक्षादुःखमतृप्तिदुःखं विप्रणाशदुःखञ्च। तदेतदभिसमस्य षड्‍विधं दुःखं भवति। सप्तविधं दुःखम्। जातिर्दुःखं जराव्याधिर्मरणमप्रियसंयोगः प्रियविनाभावः यदपीच्छन्पर्येषमाणो न लभते तदपि दुःखम्। अष्टविधं दुःखम्। शीतदुःखभुष्णदुःखं जिघत्सादुःखं पिपसादुःखमस्वातन्त्र्यदुःखम्। आत्मोपक्रमदुःखं तद्यथा निग्रन्थप्रभृतीनाम्। परोपक्रमदुःखं तद्यथा पणिलोष्टसंस्पर्शादिभिः परतो दंशमशकादिसंस्पर्शैश्च।



ईर्यांपथैकजातीयविहारदुःखञ्च। नवविधं दुःखम्। आत्मविपत्तिदुःखं परविपत्तिदुःखं [ज्ञातिविपत्तिदुःखं भोगविपत्तिदुःखम्] आरोग्यविपत्तिदुःखं शीलविपत्तिदुःखं दृष्टि-[विपत्तिदुःखं] दृष्टधार्मिकदुःखं साम्परायिकञ्च दुःखम्। दशविधं दुःखम्। भोजनकायपरिष्कारवैकल्यदुःखं पानयानवस्त्रालङ्कारभाण्डोपष्करपरिष्कारवैकल्यदुःखं गन्धमाल्यविलेपनपरिष्कारवैकल्यदुःखं नृत्यगीतवादित्रपरिष्कारवैकल्यदुःखम् आलोकपरिष्कारवैकल्यदुःखं स्त्रीपुरुषपरिचर्याकायपरिष्कारवैकल्यदुःखञ्च दशमम् पुनरन्यं नवविधं दुःखं वेदितव्यम्। सर्वदुःखं महादुःखं सर्वतोमुखं दुःखं विप्रतिपत्तिदुःखं प्रवृत्तिदुःखमकामकारदुःखं विघातदुःखमानुषङ्गिकं दुःखं सर्वाकारञ्च दुःखम्। तत्र सर्वदुःखं यत् पूर्वहेतुसमुत्पन्नं वर्तमानप्रत्ययसमुत्पन्नञ्च। तत्र महादुःखं यद्दीर्घंकालिकं प्रगाढं चित्रं निरन्तरञ्च। तत्र सर्वतोमुखं दुःखं यन्नारकं तैर्यग्योनिकं प्रेतलौकिकं सुगतिपर्यापन्नञ्च। तत्र विप्रतिपत्तिदुःखं यद् दृष्टे वा धर्मे परव्यतिक्रमात् परापकारकरणाल्लभते समुत्थापयति। विषमभोजनपरिभोगाद्धातुवैषम्यजं दुःखं समुत्थापयति। अनयेन वात्मदृष्टधर्मदुःखोपक्रमात् स्वयं कृतं दुःखं समुत्थापयति। अयोनिशोमनस्कार-तद्बहुलविहारितया वा क्लेशोपक्लेशपर्यवस्थानदुःखं प्रत्यनुभवति। कायवाङ्मनोदुश्चरितबाहल्याद्बा आयत्यामापायिकं दुःखं प्रत्यनुभवति। तत्र प्रवृत्तिदुःखं यत् षडाकारादनियमादुत्पद्यते संसारे संसरतः। आत्मभावानियमाद्राजा भूत्वा आढ्यः कृपणो भवति। मातापित्रनियमात् पुत्रदारानियमाद्दासीदासकर्मकरपौरुषेयानियमात् मित्रामात्यज्ञातिसालोहितानियमात् मातापितरौ भूत्वा यावद्विस्तरेण मित्रामात्यज्ञातिसालोहितो भूत्वाऽपरेण समयेन संसरतो वधको भवति प्रत्यर्थिकः प्रत्यमित्रः। भोगानियमाच्च संसारे संसरन् महाभोगो भूत्वा पुनरपरेण समयेन परमदरिद्रो भवति। तत्राकामकारदुःख यद्दीर्घायुष्कामस्य अकाममल्पायुष्कतयोत्पद्यते।



आभिरुप्यकामस्य चाकामं वैरुप्यतः। उच्चकुलोपपत्तिकामस्य चाकामं नीचकुलोपपत्तितः। ऐश्वर्यकामस्याकामं दारिद्र्योपनिपाततः [महा-] बलकामस्य चाकामं दौर्वल्योपनिपातत उत्पद्यते। ज्ञेयं ज्ञातुकामस्य चाकामं सम्मोहाज्ञानसमुदाचार उत्पद्यते। परपराजयकामस्य चाकामं परापराजयादात्मपरजयाद्यद्दःखमुत्पद्यते। तत्र विघातदुःखं यद्गृहिणाञ्च पुत्रदाराद्यपचयाद् यदुत्पद्यते। प्रव्रजितानाञ्च रागादिक्लेशोपचयाद् यद् दुःखमुत्पद्यते। यच्च दुखं दुर्भिक्षोपघाताद्वा परचक्रोपधाताद्वाऽटवीदुर्गप्रवेशसम्बाध संकटोपघाताद्वा उत्पद्यते। यच्च दुःखं परायत्तवृत्ततया उत्पद्यते। यच्च दुःखंमङ्गप्रत्यङ्गवैकल्योपघाताद् वोत्पद्यते। यच्च दुःखं वधबन्धनच्छेदनताडनप्रवासनाद्युपद्यातादुत्पद्यते। तत्रानुषङ्गिकं दुःखं यदष्टासु लोकधर्मेषु दुःखं नशन धर्मके नष्टे क्षयधर्मके क्षीणे जराधर्मके जीर्णे व्याधिधर्मके व्याधिते मरणधर्मके मृतेऽलाभतो वा पुनरयशस्तो वा निन्दातो वा यद्दःखम्। इत्येतदष्टविधं दुःखं प्रार्यनादुःखञ्च। इदमुच्यते आनुषङ्गिकं दुःखम्। तत्र सर्वाकारं दुःखं यत्पञ्चाकारं यथोद्दिष्टसुखविपक्षेण दुःखं हेतुदुःखं वेदयितदुःखं सुखाभावमात्रदुःखं वेदितयानुपच्छेददुःखं नैष्क्रम्यप्रविवेकोपशमसंबोधिसुखविपक्षेण वागारिककामधातुसंयोगज-वितर्क-पृथग्जनदुःखं पञ्चमं वेदितव्यम्। इत्येतच्च पश्चविधं दुःखम्। औपक्रमिकमुपकरणवैकल्यजं धातुवैषम्यजं प्रियविपरिणामजं त्रैधातुकावचरक्लेशपक्ष्यदोष्ठुल्यदुःखञ्च पञ्चमम्। इत्येतत् पञ्चविधं पूर्वकं चैकध्यमभिसंक्षिप्य दशविधं दुखं सर्वाकारमित्युच्यते।



इति पूर्वकञ्च [पञ्चपञ्चाशदाकारमिदञ्च] पञ्चपञ्चाशदाकारमैकध्यमभिसंक्षिप्य दशोत्तरशताकारं दुःखं भवति बोधिसत्त्वः करुणाया आलम्बनं येनालम्बनेन बोधिसत्त्वानां करुणोत्पद्यते विवर्धते भावनापरिपूरिं गच्छति।



अतश्च महतो दुःखस्कन्धादेकान्नविंशतिप्रकारदुःखालम्बना महाकरुणा प्रवर्तते। एकान्नविंशतिप्रकारं दुःखं कतमत्। सम्मोहविपाकं दुःखं संस्कारदुःखतासंगृहीतं दुःखमात्यन्तिकं दुःखं हेतुदुःखं जातिदुःखं स्वयंकृतौपक्रमिकं दुःखं शीलविपत्तिदुःखं दृष्टिविपत्तिदुःखं पूर्वहेतुकं दुःखं महद्दुःखं नारकं दुःखं सुगतिसंगृहीतं दुःखं सर्वविप्रतिपत्तिजं दुःखं सर्वप्रवृत्तिदुःखमज्ञानदुःखमौपचयिकं दुःखमानुषङ्गिकं दुःखं वेदयितदुःखं दौष्ठुल्यदुःखञ्चेति।



तत्र चतुर्भिः कारणैः करुणा महाकरुणेत्युच्यते गम्भीरं सूक्ष्मं दुर्विज्ञेयं सत्त्वानां दुःखमालम्व्योत्पन्ना भवति। दीर्घकालपरिचिता च भवत्यनेक कल्पशतसहस्राभ्यस्ता। तीव्रेण चाभोगेनालम्बने प्रवृत्ता भवति यद्रूपेणाभोगेनायं करुणाविष्टो बोधिसत्त्वः सत्त्वानां दुःखापनयनहेतोः स्वजीवितशतान्यपि परित्यजेत् प्रागेवैकं जीवितं प्रागेव च कायपरिष्कारम्। सर्वदुःखयातनाप्रकारांश्चोद्वहेत्। सुविशुद्धा च भवति तद्यथा निष्ठागतानाश्च बोधिसत्त्वानां बोधिसत्त्वभूमिविशुद्ध्या तथागतानाञ्च तथागतभूमिविशुद्ध्या।



अनेन खलु दशोत्तरेणाकारशतेन ये बोधिसत्त्वः करुणां भावयन्ति सत्त्वेषु ते सर्वां बोधिसत्त्वकरुणां भावयन्ति। ते पुनः क्षिप्रमेव करुणाशयशुद्धिमधिगच्छन्ति शुद्धाशयभूमिप्रविष्टाम्। सत्त्वेषु चात्यर्थं स्निग्धचित्ताश्च भवन्ति प्रेमचित्ताश्च कर्तुकामचित्ताश्चाखिन्नचित्ताश्च दुःखोद्बहनचित्ताश्च कर्मण्यवश्यचित्ताश्च। न च तथा दुःखसत्यमभिसमितवत आर्यश्रावकस्य निष्ठागतस्य दूरीभूता निर्वित्-सहगता चित्तसंततिः प्रवर्तते यथा बोधिसत्त्वस्य सत्त्वेषु करुणापूर्वङ्गमेन चित्तेन दशोत्तराकारशतपतितमेतं महान्तं दुःखस्कन्धं संपश्यतः। न च बोधिसत्त्व एवं करुणापरिभावितमानसः किञ्चिदाध्यात्मिकबाह्यं वस्तु यन्न परित्यजेत्। नास्ति तच्छीलसंवरसमादानं यन्न कुर्यात्। नास्ति स परापकारः कश्चिद्यन्न क्षमेत्। नास्ति स वीर्यारम्भो यन्नारभेत। नास्ति तद्ध्यानं यन्न समापद्येत। नास्ति सा प्रज्ञा यां नानुप्रविशेत्। तस्मात्तथागताः पृष्टाः सन्तः-कुत्र प्रतिष्ठिता बोधिसत्त्वस्य बोधिरिति-सम्यक् व्याकुर्वाणा व्याकुर्वन्ति करुणाप्रतिष्ठिता बोधिसत्त्वस्य बोधिरिति।



तत्रैकैकमत्र यथानिर्दिष्टमप्रमाण [मप्रमाणया] समृद्ध्या समृद्धिं बोधिसत्त्वस्य प्रवर्तते। अप्रमाणेष्ठफलपरिग्राहकमप्रमाणैश्चाकारैरेकान्तकुशलैरनवद्यैः प्रवर्तते। एवमप्रमाणभावनानुयुक्तस्य बोधिसत्त्वस्य चत्वारोऽनुशंसा वेदितव्याः। सास्याप्रमाणभावना आदित एव परमदृष्टधर्मसुखविहाराय भवति। अप्रमाणपुण्यसंभारपरिग्रहोपचयाय भवति। अनुत्तरायां सम्यक्संबोधावाशयदृढत्वाय भवति। सत्त्वानां चार्थे संसारे सर्वदुःखोद्वहनाय भवति।



इति बोधिसत्त्वभूमावाधारे योगस्थाने षोडशमं पूजासेवाप्रमाणपटलम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project