Digital Sanskrit Buddhist Canon

1-15 संग्रहवस्तुपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1-15 saṁgrahavastupaṭalam

संग्रहवस्तुपटलम्



उद्दानं पूर्ववद्वेदितव्यम्।



तत्र कतमो बोधिसत्त्वानां प्रियवादितास्वभावः। इह बोधिसत्त्वो मनापां सत्यां धर्म्याञ्चार्थोपसंहिताञ्च सत्त्वेषु वाचमुदाहरति। अयं बोधिसत्त्वानां समासतः प्रियवादितास्वभावः।



तत्र कतमा बोधिसत्त्वस्य सर्वा प्रियवादिता। सा त्रिविधा द्रष्टव्या। इह बोधिसत्त्वस्य या वाक्सम्मोदनी यया वाचा बोधिसत्त्वो विगतभृकुटिः पूर्वाभिलापी उत्तानमुखवर्णः स्मितमुख पूर्वङ्गमः क्षेमस्वस्त्ययनपरिपृच्छया वा धातुसाम्यपरिपृच्छया वा सुखरात्रिन्दिवपरिपृच्छया वा एहीति स्वागत [वादि] तया वा इत्येवमादिभिराकारैः सत्त्वान् प्रतिसम्मोदयति लोकयात्रां नागरकभावमनुवर्तमानः। या च वाग्बोधिसत्त्वस्यानन्दनी यया वाचा बोधिसत्त्वः पुत्रवृद्धिं [दारवृद्धिं] ज्ञातिवृद्धिं धनवृद्धिं धान्यवृद्धिं वा दृष्ट्वा अप्रतिसंविदितात्मवृद्धिकानां सत्त्वानामावेदयन्नानन्दयति श्रद्धाशीलश्रुतत्यागप्रज्ञावृद्ध्या वा पुनरानन्दयति। या च बोधिसत्त्वस्य सर्वाकारगुणोपेतधर्मदेशनाप्रतिसंयुक्ता वाक् सत्त्वानां हितसुखाय सततसमितं प्रत्युपस्थिता परमेणोपकारेणोपकारिभूता। इयं बोधिसत्त्वानां प्रियवादिता प्रभेदशः सर्वा वेदितव्या।



तत्र कतमा बोधिसत्त्वानां समासतः सर्वा प्रियवादिता। सा द्विविधा द्रष्टव्या। लोकयात्रानुगता सम्यग्धर्मदेशनानुगता च। तत्र या च सम्मोदनीवाग् या चानन्दनी इयं लोकयात्रानुगता वेदितव्या। तत्र येयं वागुपकरा परमेणोपकारेण प्रत्युपस्थिता निर्दिष्टा इयं सम्यग्धर्मदेशनानुग्रता वेदितव्या।



तत्र कतमा बोधिसत्त्वस्य दुष्करा प्रियवादिता। सा त्रिविधा द्रष्टव्या। यद्बोधिसत्त्वो वधकेषु प्रत्यर्थिषु प्रत्यमित्रेषु सुविशुद्धेन निष्कलुषेण चेतसा प्रतिसंख्याय सम्मोदनीं वा आनन्दनीं वा उपकरां वाचमुदीरयति इयं बोधिसत्त्वस्य प्रथमा दुष्करा प्रियवादिता वेदितव्या। यत्पुनर्बोधिसत्त्वः अधिमात्रं संमूढेषु सत्त्वेषु धन्धेन्द्रियेष्वपरितस्यमानः प्रतिसंख्याय धर्म्यां कथां कथयति खेदमभ्युपगम्य ग्राहयति न्यायं धर्मं कुशलम् इयं द्वितीया बोधिसत्त्वस्य दुष्करा प्रियवादिता वेदितव्या। पुनर्यद्बोधिसत्त्वः शठेषु मायाविषु सत्त्वेष्वाचार्योपाध्यायगुरुदक्षिणीयविसंवादकेषु मिथ्याप्रतिपन्नेषु अनाघातचित्तोऽप्रतिघचित्तः सम्मोदनीमानन्दनीमुपकरां वाचमुदीरयति इयं बोधिसत्त्वस्य तृतीया दुष्करा प्रियवादिता वेदितव्या।



तत्र कतमा बोधिसत्त्वस्य सर्वतो-मुखी प्रियवादिता। सा चतुर्विधा द्रष्टव्या। निवरण-प्रहाणाय सुगतिगमनाय पूर्वकालकरणीया धर्मदेशना। विगतनिवरणस्य कल्य-चित्तस्य सामुत्कर्षिकी चतुरार्यसत्य-प्रतिसंयुक्ता धर्मदेशना। प्रमत्तानां सत्त्वानां गृहि-प्रव्रजितानां सम्यक्संचोदना प्रमादचर्याया उत्थाप्य अप्रमादचर्यायां प्रतिष्ठापनार्थम्। उत्पन्नोत्पन्नाञ्च संशयानामपनयाय या धर्मदेशना सांकथ्यविनिश्चय-क्रिया।



तत्र कतमा बोधिसत्त्वानां सत्-पुरुषाणां सत्पुरुषप्रियवादिता। सा पञ्चविधा द्रष्टव्या। इह बोधिसत्त्वभूतास्तथागतभूताश्च बोधिसत्त्वाः सनिदानमेव विनेयानां धर्मं देशयन्ति सनिःसरणं सप्रतिसरणं सपराक्रमं सप्रातिहार्यम्। स्थाने सोत्पत्तिकं शिक्षापदं प्रज्ञपयन्ति। तस्मात् एषां धर्मः सनिदानो भवति। समात्तशिक्षाणाञ्चापन्नानामापत्तेः व्युत्थानं प्रज्ञपयन्ति। तस्मात् एषा धर्मः सनिःसरणो भवति। चतुर्भिः प्रतिसरणैः संगृहीतामविपरीतां धर्मविनयेऽस्मिन् प्रतिपत्तिं प्रज्ञपयन्ति। तस्मादेषां धर्मः सप्रतिसरणो भवति। सर्वदुःख-नैर्याणिकीमप्रत्युदावर्तां प्रतिपदं संप्रकाशयन्ति। तस्मादेषां धर्मः सपराक्रमो भवति। त्रिभिश्च प्रातिहार्यैः सर्वां देशनामबन्ध्यां कुर्वन्ति। तस्मादेषां धर्मः सप्रातिहार्यो भवति।



तत्र कतमा बोधिसत्त्वानां सर्वाकारा प्रियवादिता। सा षड्‍विधा सप्तविधा चैकध्यमभिसंक्षिप्य त्रयोदशविधा द्रष्टव्या। अनुज्ञेयेषु धर्मेष्वनुज्ञाने प्रियवादिता। प्रतिषेद्धव्येषु धर्मेषु प्रतिषेधे। धर्माणां धर्मपर्यायोद्भाविका प्रियवादिता। धर्मलक्षणाविपरीतोद्भाविका। धर्म-निर्वचनाविपरीतोद्भाविका। धर्मपदप्रकारप्रभेदोद्भाविका प्रियवादिता। सम्मोदनी प्रियवादिता। आनन्दनी प्रियबादिता। परेषां सर्वोपकरणैरल्पोत्सुकतायां सर्वकृत्येषु च सम्यग्गतेष्वल्पोत्सुकतायां विशदप्रवारणी प्रियवादिता। विविधेषु च भयेषु भीतानामाश्वासनी प्रियवादिता। न्यायोपदेशसंगहीता च प्रियवादिता। अकुशलात् स्थानाद् वुत्थाप्य कुशले स्थाने प्रतिष्ठापनार्थं सम्यग्दृष्ट-श्रुत-परिशङ्कित-संचोदनावसादनी प्रियवादिता। परं प्रतिबलमध्येष्योपसंहृता प्रियवादिता। इयं बोधिसत्त्वानां त्रयोदशाकारा प्रियवादिता सर्वाकारा वेदितव्या।



तत्र कतमा बोधिसत्त्वानां विधातार्थिक-प्रियवादिता। साऽष्टविधा द्रष्टव्या। या बोधिसत्त्वस्य चतुर्विधां वाग्विशुद्धिं निश्रित्याष्टस्कार्येषु व्यवहारेषु वाक्। इयं विघातार्थिक-प्रियवादिता बोधिसत्त्वानामुच्यते। तत्रेयं चतुविधा वाग्विशुद्धिः। मृषावादात्प्रतिविरतिः। पैशुन्यात्पारुष्यात्संभिन्नप्रलापात् प्रतिविरतिः। तत्रेमेऽष्टावार्या व्यवहाराः। दृष्टे दृष्टवादिता श्रुते मते विज्ञाते विज्ञातबादिता। अदृष्टेऽदृष्टवादिता। अश्रुतेऽमते अविज्ञातेऽविज्ञातवादिता।



तत्र कतमा बोधिसत्त्वानामिहामुत्रसुखा प्रियवादिता। सा नवविधा द्रष्टव्या। ज्ञातिव्यसनशोकप्रहाणाय प्रियवादिता। भोगव्यसनशोक प्रहाणाय आरोग्यव्यसनशोकप्रहाणाय प्रियवादिता। शीलव्यसनप्रहाणाय दृष्टिव्यसनप्रहाणाय प्रियवादिता। शीलसंपदे दृष्टिसंपदे आचारसंपदे आजीवसंपदे च या प्रियवादिता सद्धर्मदेशना।



तत्र कतमा बोधिसत्त्वस्य विशुद्धा प्रियवादित्ता। सः विंशतिविधा द्रष्टव्या। विंशत्याकारैर्या धर्मदेशना सा पुनः पूर्ववद्वेदितव्या। तद्यथा बलगोत्रपटले। तत्रार्थचर्या यथैव प्रियवादिता तथैव विस्तरेण वेदितव्या। एयद्विशिष्टाञ्चार्थचर्यामन्यां वक्ष्यामि। तथा हि बोधिसत्त्वः सर्वप्रकारयाऽनया प्रियवादितया तत्र-तत्रोपगमार्थं सत्त्वानामाचरति। तत्र कतमो बोधिसत्त्वानामर्थचर्यास्वभावः। एवं प्रियवादितया युक्तिसंदर्शितानां सत्त्वानां यथायोगं शिक्षास्वर्थचर्यायां धर्मानुधर्मप्रतिचर्यायां कारुण्यचित्तमुपस्थाप्य निरामिषेण चेतसा समादापना विनयना निवेशना प्रतिष्ठापना। अयमर्थचर्यायाः समासतः स्वभावनिर्देशः



तत्र कतमा बोधिसत्त्वानां सर्वार्थचर्या। सा द्विविधा द्रष्टव्या। अपरिपक्वानाञ्च सत्त्वानां परिपाचना। परिपक्वानाञ्च सत्त्वानां विमोचना। सा पुनस्त्रिभिर्मुखैः वेदितव्या। दृष्टधार्मिकेऽर्थे समादापना। सांपरायिकेऽर्थे समादापना। दृष्टधर्म-सांपरायिकेऽर्थे समादापना। तत्र धार्मिकैः कर्मगुणैः भोगानामर्जन-रक्षण-वर्धन-सम्यक्-समादापनतया दृष्टधार्मिकेऽर्थे समादापना वेदितव्या। येनायं परतश्च प्रशंसां लभते दृष्टे च धर्मै सुखम्। उपकरणसुखेनानुगृहीतो विहरति। तत्र भोगान् उत्सृज्य भिक्षाकवृत्त-जीविका-प्रतिबद्धमव्रज्या-समादापना। सांपरायिकेऽर्थे समादापना वेदितव्या। येनायं नियतं संपरायसुखितो भवति न त्ववश्यं दृष्टे धर्मे। तत्र या गृहिणो वा प्रव्रजितस्य वानुपूर्वेण वैराग्य-गमन-समादापना। इयं दृष्टधर्म-सांपरायिकेऽर्थे समादापना वेदितव्या। येनायं दृष्टे च धर्मे प्रस्रब्ध-काय प्रस्रब्ध-चित्तः सुखं स्पर्शं विहरति। संपराये च विशुद्धिदेवेषूपद्यते। निरूपधिशेषे निर्वाणधातौ परिनिर्वाति।



तत्र कतमा बोधिसत्त्वानां दुष्करा अर्थचर्या। सा त्रिविधा द्रष्टव्या। पूर्वकुशलमूलहेत्वचरितेषु सत्त्वेष्वर्थचर्या बोधिसत्त्वानां दुष्करा। तथा हि ते दुःखसमादाप्या भवन्ति कुशले। महत्यां भोगसंपदि वर्तमानेषु सत्त्वेषु तदध्यवसानगतेष्वर्थचर्या बोधिसत्त्वानां दुष्करा। तथाहि ते महति प्रमादपदे प्रमादस्थाने वर्तन्ते। इतो बाह्यकेषु तीर्थिकेषु पूर्वं [च] तीर्थिक दृष्टिचरितेषु सत्त्वेष्वर्थंचर्या बोधिसत्त्वानां दुष्करा। तथा हि ते स्वयं संमूढाश्चाभिनिविष्टाश्चास्मिन् धर्मविनये।



तत्र कतमा बोधिसत्त्वानां सर्वतोमुखी अर्थचर्या। सा चतुर्विधा द्रष्टव्या। इह बोधिसत्त्वः अश्राद्धं श्रद्धासंपदि समादापयति यावत्प्रतिष्ठापयति। दुःशीलं शीलसंपदि दुष्प्रज्ञं प्रज्ञासंपदि मत्सरिणं त्यागसंपदि समादापयति यावत्प्रतिष्ठापयति।



तत्र कतमा बोधिसत्त्वस्य सत्पुरुषार्थचर्या। सा पञ्चविधा द्रष्टव्या। इह बोधिसत्त्वः सत्त्वान् भूतेऽर्थे समादापयति। कालेन समादायपति। अर्थोपसंहितेऽर्थे समादापयति। श्लक्ष्णेन समादापयति। मैत्रचित्तेन समादापयति।



तत्र कतमा बोधिसत्त्वानां सर्वाकारार्थचर्या। सा षड्‍विधा सप्तविधा चैकध्यमभिसक्षिप्य त्रयोदशविधा द्रष्टव्या। इह बोधिसत्त्वः संग्रहीतव्यांश्च सत्त्वान् सम्यक् संगृह्णाति। निग्रहीतव्यांश्च सत्त्वान् सम्यग्निगृह्णाति। शासनप्रतिहतानाञ्च सत्त्वानां प्रतिघातमपनयति। मध्यस्थान् सत्त्वानस्मिन् शासनेऽवतारयति। अवतीर्णाश्च सत्त्वान् सम्यक् त्रिषु यानेषु परिपाचयति। परिपक्वांश्च सत्त्वान् विमोचयति। तदेकत्यांश्च सम्भार-रक्षोपचये संनियोजयति। यदुत हीनयान-निःसृतिं वारभ्य महायान-निःसृतिं वारभ्य। यथा सम्भाररक्षोपचये एवं प्रविवेके चित्तैकाग्रतायामावरणविशुदौ मनस्कारभावनायां च सन्नियोजयति। श्रावक-प्रत्येक-बुद्धगोत्रान् श्रावक-प्रत्येक-बुद्धयाने सन्नियोजयति। तथागत-गोत्राननुत्तरे सम्यक्संबोधियाने नियोजयति।



तत्र कतमा बोधिसत्त्वानां विघातार्थिकार्थचर्या। साऽष्टविधा द्रष्टव्या। ह्रेतव्येषु स्थानेष्वाह्रीक्यपर्यवस्थान-पर्यवस्थितानां सत्त्वानामाह्रीक्यपर्यवस्थानं विनोदयत्यपनयति। यथा आह्रीक्यपर्यवस्थानमेवमपत्रपितव्येषु अनपत्राप्यपर्यवस्थानं मिद्धपर्यस्थानमौद्धत्यपर्यवस्थानं कौकृत्यपर्यंवस्थानमीर्षापर्यस्थानं [मात्सर्यपर्यवस्थानं] विनोदयत्यपनयति।



तत्र कतमा बोधिसत्त्वस्येहामुत्रसुखाऽर्थचर्या। सा नवविधा द्रष्टव्या। परसत्त्वानां कायकर्मपरिशुद्धिमारभ्य सर्वाकारा प्राणातिपातात् प्रतिविरतिसमानापनता। सर्वाकारादत्तादानात्-प्रतिविरति-समादापनता। सर्वाकारा काममिथ्याचारात्-प्रतिविरति-समादापनता। सर्वाकारा सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरति-समादापनता। वाक्कर्मपरिशुद्धिमारभ्य सर्वाकारा मृषावाद-प्रतिविरति-समादापनता। सर्वाकारा पैशुन्य-प्रतिविरति-समादापनता। सर्वाकारा पारुष्य-प्रतिविरति-समादापनता। सर्वाकारा सम्भिन्नप्रलाप-प्रतिविरति-समादापनता। मनस्कर्मपरिशुद्धिमारभ्य सर्वाकाराभिध्याव्यापादमिथ्यादृष्टि-प्रतिविरति-समादापनता।



तत्र कतमा बोधिसत्त्वस्य विशुद्धाऽर्थचर्या। सा दशविधा द्रष्टव्या। बहिःशुद्धिमुपादाय पञ्चविधा। अन्तःशुद्धिमुपादाय पञ्चविधा। बहिःशुद्धिमुपादाय बोधिसत्त्वानां पञ्चविधा सत्त्वेष्वर्थचर्या कतमा। अनवद्याऽपरावृत्ताऽनुपूर्वा सर्वत्रगा यथायोगं च।



इह बोधिसत्त्वः सत्त्वान्न दुश्चरितव्यामिश्रे दुश्चरितपूर्वगमे सावद्ये सक्लिष्टेऽकुशले सन्नियोजयति। इयमस्यानवद्या भवत्यर्थचर्या सत्त्वेषु।



पुनर्बोधिसत्त्वो नामोक्षे चानेकान्तविशुद्धे चायतने मोक्ष एष एकान्तविशुद्ध एष इति सत्त्वांस्तत्रैव समादापयति। इयमस्यापरावृत्ता सत्त्वेष्वर्थचर्या।



पुनर्बोधिसत्त्वः पूर्वं बालप्रज्ञानां सत्त्वानामुत्तानां धर्मदेशनां करोति। उत्तानामववादानुशासनीमनुप्रवर्तयति। मध्यप्रज्ञाँश्चैनाँ विदित्वा मध्यां धर्मदेशनां सूक्ष्मामववादानुशासनीमनुप्रवर्तयति अनुपूर्वेण कुशलपक्षसमुदागमाय। इयमस्यानुपूर्वा सत्त्वेष्वर्थचर्या।



पुनर्बोधिसत्त्वश्चतुर्णां वर्णानाम् आ-देवमनुष्याणां सर्वसत्त्वानां यथाशक्तियथाबलमर्थमाचरति। हितसुखं पर्येषते। तत्रैव समादापयति। इममस्य मर्वत्र्ःगा सत्त्वेष्वर्थचर्या।



पुनर्बोधिसत्त्वो ये सत्त्वा यस्मिन् स्वार्थे कुशले परीत्ते मध्येऽधिमात्रे वा शक्यरूपाः समादापयितुं येन चोपायेन शक्यरूपाः समादायितुं तान् यथायोगं तत्र तथा समादापयति। इयं तावद्बोधिसत्त्वानां सत्त्वेषु पञ्चविधा वहिःशुद्धा अर्थचर्या।



तत्र कतमा बोधिसत्त्वानां पञ्चविधाऽन्तःशुद्धा सत्त्वेष्वर्थचर्या। इह बोधिसत्त्वो विपुलेन सत्त्वेषु कारुण्याशयेन प्रत्युपस्थितेनार्थमाचरति। पुनर्बोधिसत्त्वः सत्त्वानामर्थे सर्वदुःखपरिश्रमैरप्यपरिखिन्नमानसः प्रमुदित एवं सत्त्वानामर्थमाचरति। पुनर्बोधिसत्त्वः प्रवरायामग्र्यायामपि संपदि वर्तमानो दासवत्प्रेष्यवद्वश्यपुत्रवच्चण्डालदारकवन्नीचचित्तो निहतमदमानाहंकारः नामर्थमाचरति। पुनर्बोधिसत्त्वो निरामिषेणाकृत्रिमेण च परमेण च प्रेम्णा सत्त्वानामर्थमाचरति। पुनर्बोधिसत्त्व आत्यन्तिकेनापुनः प्रत्युदावर्त्येन मैत्रेण चेतसा सत्त्वानामर्थमाचरति। इयं बोधिसत्त्वस्य पञ्चविधाऽन्तःशुद्धा सत्त्वेष्वर्थचर्या वेदितव्या। या च पञ्चविधा वहिःशुद्धा या च पञ्चविधाऽन्तःशुद्धा तां सर्वामेकध्यमभिसंक्षिप्य दशविधा बोधिसत्त्वानां विशुद्धाऽर्थचर्येत्युच्यते।



तत्र कतमा बोधिसत्त्वस्य समानार्थता। इह बोधिसत्त्वो यस्मिन्नर्थे यस्मिन् कुशलमूले परान् समादापयति तस्मिन्नर्थे तस्मिन् कुशलमूल समादापने तुल्ये वाऽधिके वा स्वयं संशिक्ष्यते। इति यैवं बोधिसत्त्वस्य परैस्तुल्यार्थता इयमुच्यते समानार्थता। तां समानार्थतां परे विनेया बोधिसत्त्वेभ्य उपलभ्य दृढनिश्चया भवन्त्यप्रत्युदावर्त्यास्तस्मिन् कुशल [मूल] समादापने। तत्कस्य हेतोः। तेषामेवं भवति। नूनमेतदस्माकं हितमेतत्सुखं यत्रायं बोधिसत्त्वोऽस्मान् समादापितवान्। यस्मादयं बोधिसत्त्वो यत्रैवास्मान् सन्नियोजयति तदेवात्मना समुदाचरति। तत्रायं जानन्नहितमसुखं नात्मना समुदाचरेदिति न चास्य समानार्थस्य बोधिसत्त्वस्यैवं भवन्ति परे वक्तारः। त्वं तावत् स्वयं न कुशलं समादाय वर्तसे। कस्मात्त्वं परं कुशलेऽत्यर्थ समादापयितव्यं वक्तव्यमववदितव्यं मन्यसे। त्वमेव तावदन्यैर्वक्तव्योऽववदितव्योऽनुशासितव्य इति। अस्ति बोधिसत्त्वः परैः समानार्थ एव संस्तां समानार्थतां परेषां नोपदर्शयति। अस्त्यसमानार्थ एव सन् समानार्थतामुपदर्शयति। अस्ति समानार्थः ससानार्थतामुपदर्शयति। अस्ति नैव समानार्थो नापि समानार्थतामुपदर्शयति। तत्र प्रथमा कोटि तुल्यगुणप्रभावानां बोधिसत्त्वानां बोधिसत्त्वमार्गे आचार्यत्वमभ्युपगतानां तुल्यगुणप्रभावो बोधिसत्त्वः प्रतिच्छन्नकल्याणतया गुणान् प्रभावञ्च नोपदर्शयति। द्वितीया कोटी हीनाधिमुक्तिकानां सत्त्वानां गंभीरेषु स्थानेषूत्त्रस्तानां प्रतिसंख्याय बोधिसत्त्वः तेषामेव सत्त्वानां तेनोपायेन विनयनार्थं सहधार्मिकमात्मानमुपदर्शयति। संचिन्त्य आ-चण्डालानाम् आ-शुनामर्थं कर्तुकाम उपद्रवं संशमितुकामो विनयितुकाम आ-चण्डालानाम् आशुनां सभागतायामुपपद्यते। तृतीया कोटी चलकुशलमूलसमादानानां विनेयानां स्थिरीकरणार्थं बोधिसत्त्वः समानार्थः अधिकार्थो वा समानार्थतामुपदर्शयति। चतुर्थी कोटी स्वयं प्रमत्तः परार्थमप्यभ्युपेक्षते।



तत्र यच्च दानमनेकविधं निर्दिष्टं यच्च शीलं विस्तरेण यावद्या च समानार्थता तत्र पारमिताभिरध्यात्मं बुद्धधर्मपरिपाकः। संग्रहवस्तुभिः [सर्व-] सत्त्वपरिपाकः। समासतो बोधिसत्त्वस्यैतत्कुशलानां धर्माणां कर्म वेदितव्यम्। तत्र यच्च दानमनेकविधं पूर्ववद्यावत् समानार्थता इत्येषामनेकविधानामप्रमेयाणां कुशलानां धर्माणां बोधिपाक्षिकानां त्रिभिः कारणैः समुदाचारो वेदितव्यः। द्वाभ्यां कारणाभ्यां श्रेष्ठता वेदितव्या। त्रिभिः कारणैर्विशुद्धिर्वेदितव्या।



कायेन वाचा मनसा समुदाचारो वेदितव्यः। उदारत्वादसंक्लिष्टत्वाच्च श्रेष्ठता निरुत्तरता असाधारणता च वेदितव्या। तत्र सत्त्वाभेदतो वस्त्वभेदतः कालाभेदत्तश्चोदारता वेदितव्या। तत्र सत्त्वाभेदो यद्बोधिसत्त्वः सर्वसत्त्वानधिष्ठाय सर्वसत्त्वानारभ्य तानि दानादीनि कुशलमूलानि समुदाचरति न केवलस्यात्मन एवार्थे। तत्र वस्त्वभेदो यद्बोधिसत्त्वः सर्वाणि सर्वाकाराणि तानि कुशलमूलानि दानादिकानि समादाय वर्तते। तत्र कालाभेदो यद्बोधिसत्त्वः सततसमितमनिराकृतप्रयोगोऽनिक्षिप्तधुरो रात्रौ च दिवा वा दृष्टे वा धर्मे तेनैव च हेतुनाऽभिसंपरायेऽपि तानि दानादीनि कुशलमूलानि समुदाचरति। तत्र चतुर्भिराकारैरसंक्लिष्टता वेदितव्या। इह बोधिसत्त्वो मुदितचित्तः तान् कुशलान् धर्मान्निषेवते न दुःखी न दुर्मना अविप्रतिसारी भवति ततो निदानम्। पुनर्बोधिसत्त्वः परमनपहत्य दृष्टिगतान्यनभिनिविश्य दुश्चरितेनाव्यामिश्राणि तानि कुशलमूलानि दानादिकानि समुदाचरति। पुनर्बोधिसत्त्वः सत्कृत्य सर्वात्मना तेष्वेव गुणदर्शी सारदर्शी शान्तदर्शी सुनिश्चितोऽपरप्रत्ययोऽनन्यनेयः तान् कुशलान् धर्मान् दानादीन् समादाय वर्तते। पुनर्बोधिसत्त्वो न तेर्षा दानादीनां कुशलानां धर्मांणां विपाकं प्रतिकांक्षते चक्रवर्तित्वं वा शक्रत्वं वा मारत्वं वा ब्रह्मत्वं वा नापि परतः प्रतिकारं प्रत्याशंसते। न तत्र निश्रितो भवति। न सर्वलाभसत्कारश्लोकेषु नाप्यन्ततः कायजीवितेऽपि निश्रितो भवति। इति य एभिराकारैः प्रसादप्रामोद्यसहगतश्चाविषमश्च सत्कृप्य चानिश्रितश्च पर्यवसानानां कुशलानां धर्माणां समुदाचारः। सा एषामसंक्लिष्टतेत्युच्यते। विशुद्धिरुत्तप्तता अचलता सुविशुद्धता च वेदितव्या। तत्राशय शुद्धिभूमिप्रविष्टस्य बोधिसत्त्वस्य उत्तप्तान्यचलानि चैतानि कुशलमूलानि भवन्ति। तत्रेयमुत्तप्तता यदाशयशुद्धस्य बोधिसत्त्वस्य सर्वे ते कुशला धर्मा अप्रतिसंख्यानकरणीया भवन्ति। तत्रेयमचलनता यदाशयशुद्धो बोधिसत्त्वो यथा प्रतिलब्धेभ्यो यथोपचितेभ्यश्च एभ्यः कुशलेभ्यो धर्मेभ्यो न परिहीयते। न भव्यो भवत्यायत्यां परिहाणाय। नान्यत्र तेषां तेषां रात्रिदिवानामत्ययात्तेषां तेषामात्मभावानां समतिक्रमाच्चन्द्रो वा शुक्लपक्षे प्रत्युपस्थिते वर्धत एव एभिः कुशलैर्धर्मैर्न [परि] हीयते बोधिसत्त्वः निष्ठागमनभूमिब्यवस्थितस्य पुनर्बोधिसत्त्वस्यैकजातिप्रतिबद्धस्य चरमभविकस्य वा एते कुशला धर्माः सुविशुद्धा वेदितव्या येषामुत्तरि बोधिसत्त्वभूमौ परिशुद्धतरता नास्ति। एवं त्रिभिः कारणैरेषां कुशलानां धर्माणां समुदाचारः। द्वाभ्यां कारणाभ्यां श्रेष्ठता। त्रिभिः कारणैः सुविशुद्धता वेदितव्या दानादीनां समानर्थतावसानानाम्।



तत्र सर्वदानस्य सर्वशीलस्य विस्तरेण यावत्सर्वसमानर्थताया आसेवितायाः सुविशोधितायाः सकलसंपूर्णाया अनुत्तरा सम्यक्संबोधिर्वज्रसारशरीरता सद्धर्मचिरस्थितिकता च फलमभिनिर्वर्तते। तत्र दुष्करदानेन दुष्करशीलेन यावद्दुष्करसमानार्थतया आसेवितया सुविशोधितया तथागतस्याप्रतिसमाश्चर्याद्भुतधर्मसमन्वागतत्वं फलमभिनिर्वर्तते। तत्र सर्वतोमुखेन दानेन सर्वतोमुखेन शीलेन विस्तरेण यावत्सर्वतोमुखया समानार्थतया तथागतस्य सर्वतः प्रधानसत्त्वैर्देवमनुष्यैः पूज्यत्वं फलमभिनिवर्तते। तत्र सत्पुरुषदानस्य सत्पुरुषशीलस्य यावत्सत्पुरुषसमानार्थतायाः तथागतस्य ये केचित्सत्त्वा अपदा वा [द्विपदा वा] चतुष्पदा वा बहुपदा वा रूपिणो वाऽरूपिणो वा संज्ञिनो वासंज्ञिनो वा नैवसंज्ञानासंज्ञायतनोपगा वा [तेषां] सर्वेषां सत्त्वानामग्र्यत्वं फलमभिनिर्वर्तते। तत्र सर्वाकारस्य दानस्य [सर्वाकारस्य] शीलस्य विस्तरेण यावत्सर्वाकारायाः समानार्थतायास्तथागतस्याप्रमेयविचित्रपुण्यपरिगृहीतं द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनकायता फलमभिनिर्वर्तते। तत्र विघातार्थिकदानस्य विघातार्थिकशीलस्य विस्तरेण यावद्विघातार्थिकसमानार्थतायाः तथागतस्य बोधिमण्ड निषण्णस्य सर्वमारप्रत्यर्थिकविधाताविहेठाविकम्पनाप्रतिबलनता फलमभिनिर्वर्तते। तत्रेहामुत्रसुखस्य दानस्य इहामुत्रसुखस्य शीलस्य विस्तरेण यावदिहामुत्रसुखायाः समानार्थतायास्तथागतस्य परमध्यानविमोक्षसमाधिसमापत्तिसुखं फलमभिनिर्वर्तते। तत्र विशुद्धस्य दानस्य विशुद्धस्य शीलस्य विस्तरेण यावद्विशुद्धायाः समानार्थंताया आसेवितायाः सुविशोधितायाः सकलसंपूर्णयास्तथागतस्य सर्वाकाराश्चतस्रः परिशुद्धयः आश्रयपरिशुद्धिरालम्बनपरिशुद्धिश्चित्तपरिशुद्धिर्ज्ञानपरिशुद्धिः फलमभिनिर्वर्तते। तथा त्रीण्यारक्ष्याणि दशबलवैशारद्यस्मृत्युपस्थान-सर्वावेणिकबुद्धधर्मविशुद्धिश्च फलमभिनिर्वर्तते। इदमस्य बोधिसत्त्वस्य दानादीनां कुशलानां धर्माणां पर्यन्तगतं फलं निरुत्तरम्। अन्यच्चास्याप्रमाणमिष्टमनवद्यं बोधिसत्त्वचर्यासु संसरतो वेदितव्यम्।



इति बोधिसत्त्वभूमावाधारे योगस्थाने पञ्चदशमं संग्रहवस्तुपटलम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project