Digital Sanskrit Buddhist Canon

1-12 वीर्यंपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1-12 vīryaṁpaṭalam

वीर्यंपटलम्



उद्दानं पूर्ववद्वेदितव्यम।



तत्र कतमद्बोधिसत्त्वस्य स्वभाववीर्यम्। यो बोधिसत्त्वस्य चित्ताभ्युत्साहोऽप्रमेयकुशलधर्मसंग्रहाय सत्त्वार्थक्रियायै। उत्तप्तश्च निश्छिद्रश्चाविपर्यस्तश्च तत्समुत्थितश्च कायवाङ्मनः परिस्पन्दः। अयं बोधिसत्त्वस्य वीर्यस्वभावो वेदितव्यः।



तत्र कतमद्बोधिसत्त्वस्य सर्ववीर्यंम्। तत्समासतो द्विविधं वेदितव्यम्। गृहिपक्षाश्रितं प्रव्रजितपक्षाश्रितञ्च। तत्पुनरुभयपक्षाश्रितमपि त्रिविधं वेदितव्यम्। सन्नाहवीर्यं कुशलधर्मसंग्राहकं सत्त्वार्थक्रियायै च।



तत्रेदं बोधिसत्त्वस्य सन्नाहवीर्यम्। इह बोधिसत्त्वः पूर्वमेव वीर्यारम्भप्रयोगादेवं चेतसोऽभ्युत्साहपूर्वकं सन्नाहं सन्नह्यते। स चेदहमेकसत्त्वस्यापि दुःखविमोक्षहेतोर्महाकल्पसहस्रतुल्यै रात्रिन्दिवसैर्नंरकवासेनैव नान्यगतिवासेन यावता कालेन बोधिसत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते तेनैव कोटीनियुतशतसहस्रगुणितेन कालेनाहमनुत्तरां सम्यक्संबोधिमासादयेयम्। तथापि चोत्सहेयम्। न नानुत्तरायाः सम्यक्संबोधेरर्थेन प्रयुज्येयम्। न च प्रयुक्त-वीर्यं संस्रयेयम्। प्रागेव न्यूनतरेण कालेन तनुतरेण च दुःखेन। इदमेवंरूपं बोधिसत्त्वस्य सन्नाहवीर्यम्। यो बोधिसत्त्वः एवरूपे बोधिसत्त्वानां सन्नाहवीर्येऽधिमुक्तिमात्रकं प्रसादमात्रकमप्युत्पादयेत् सोऽपि तावद्बोधिसत्त्वो धीरोऽप्रमाणस्य बोधाय वीर्यारम्भस्य धातुं परिपोषयेत्। प्रागेव यो बोधिसत्त्वः ईदृशेनैव सन्नाहवीर्येण समन्वागतः स्यात् न च पुनस्तस्य बोधिसत्त्वस्य बोधेरर्थे सत्त्वानामर्थाय किञ्चिदस्ति दुष्करं करणीयं कर्म यत्रास्य बोधिसत्त्वस्य संकोचो वा स्यात् चेतसो दुष्करं वा कर्तुम्।



तत्र कतमद्बोधिसत्त्वानां कुशलधर्मसंग्राहकं वीर्यम्। यद्वीर्यं दानपारमिताप्रायोगिकं दानपारमितासमुदागमाय यद्वीर्यं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताप्रायोगिकं यावत्प्रज्ञापारमिता-समुदागमाय। तत्पुनः समासतः सप्ताकारं वेदितव्यम्। अचलं सर्वकल्पविकल्पक्लेशोपक्लेशपरप्रवादिदुःखसंस्पर्शैरविचाल्यत्वात्। गाढं सत्कृत्य प्रयोगित्वात्। अप्रमेयं सर्वविद्यास्थानसमुदागमप्रत्युपस्थानत्वात्। उपायप्रयुक्तं प्राप्तव्यस्यार्थस्याविपरीतमार्गा नुगतत्वात् समताप्रतिवेधाच्च। सम्यग्वीर्यमर्थोपसंहितस्य प्राप्तव्यस्यार्थस्य प्राप्तये प्रणिहितत्वात्। प्रततं सातत्यप्रयोगित्वात्। विगतमानं तेन वीर्यारम्भेणानुन्नमनात्। इत्येभिः सप्तभिराकारैः कुशलधर्मसंग्रहाय वीर्यारम्भप्रयोगो बोधिसत्त्वानां क्षिप्रं पारमितापरिपूरयेऽनुत्तरसम्यक्संबोध्यधिगमाय संवर्तते। यतश्च सर्वेषां बोधिकरकाणां कुशलानां धर्मणामेवं समुदागमाय वीर्यमेव प्रधानं श्रेष्ठं कारणं न तथान्यत्। तस्माद्वीर्यमनुत्तरायै सम्यक्संबोधये इति निर्दिशन्ति तथागताः।



सत्त्वार्थक्रियावीर्यं पुनर्बोधिसत्त्वानां वेदितव्यमेकादशप्रकारम्। तद्यथा शीलपटले। यत्तत्र शीलयुक्तं तदिह वीर्यं वक्तव्यम्। अयं विशेषः।



तत्र कतमद्बोधिसत्त्वस्य दुष्करवीर्यम्। तत् त्रिविधं द्रष्टव्यम्। यद्बोधिसत्त्वो नैरन्तर्येण चीवरसंज्ञां पिण्डपातसंज्ञां शयनासनसंज्ञामपि आत्मसंज्ञामकुर्वन् कुशलेषु धर्मेषु भावनासातत्येन प्रयुक्तो भवति। इदं बोधिसत्त्वस्य प्रथमं दुष्करवीर्यम्। पुनर्बोधिसत्त्वस्तेन तथारूपेण वीर्यारम्भेण आ-निकायसभागनिक्षेपात् सर्वकालं प्रयुक्तो भवति। इदं द्वितीयं बोधिसत्त्वस्य दुष्करवीर्यम्। पुनर्बोधिसत्त्वः समताप्रतिवेधगुणयुक्तेन नातिलीनेन नात्यारब्धेनाविपरीतेनार्थोपसंहितेन वीर्येण समन्वागतो भवति। इदं बोधिसत्त्वस्य तृतीयं दुष्करवीर्यं वेदितव्यम्। अस्य खलु बोधिसत्त्वानां दुष्करवीर्यस्य बलं सत्त्वेषु करुणा प्रज्ञा च संग्रहहेतुर्वेदितव्यः।



तत्र कतमद्बोधिसत्त्वस्य सर्वतोमुखं वीर्यम्। तच्चतुर्विध द्रष्टव्यम्। क्लिष्टधर्मविवर्जकं शुक्लधर्मावर्जकं कर्मपरिशोधकं ज्ञानविवर्धकञ्च। तत्र क्लिष्टधर्मविवर्जकं बोधिसत्त्वस्य वीर्यमनुत्पन्नानाञ्च संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानामनुत्पादायोत्पन्नानाञ्च प्रहाणाय। तत्र शक्लधर्मावर्जकं बोधिसत्त्वस्य वीर्यं यदनुत्पन्नानाञ्च कुशलानां धर्माणामुत्पत्तये वीर्यम्। उत्पन्नानाञ्च स्थितये असंमोषायै वृद्धिविपुलतायै यद्वीर्यम्। तत्र कर्मपरिशोधकं बोधिसत्त्वस्य वीर्यं यत् त्रयाणां कर्मणां विशुद्धये संग्रहाय कुशलस्य कायकर्मणो वाक्कर्मणो मनस्कर्मणश्च। तत्र ज्ञानविवर्धके बोधिसत्त्वस्य वीर्यम्। यच्छ्रु तचिन्ताभावनामय्याः प्रज्ञायाः समुदागमाय परिवृद्धये संवर्तते।



तत्र कतमद्बोधिसत्त्वस्य सत्पुरुषवीर्यम्। तत्पञ्चविधं द्रष्टव्यम्। अनिराकृतं सर्वेण सर्वं छन्दप्रयोगानिराकरणतया। अन्यूनं यथोपात्ततुल्याधिकवीर्यानुबृंहणतया। अलीनमुत्तप्तदीर्घकालिक-निरन्तरवीर्यारम्भायासंकुचिताविषण्णचित्ततया। अविपरीतमर्थोपसंहितोपायपरिगृहीततया। उत्तप्तप्रयोगञ्च बोधिसत्त्वानां वीर्यमनुत्तरायां सम्यक् संबोधावभिकरणतया।



तत्र कतमद्बोधिसत्त्वानां सर्वाकारं वीर्यम्। तत्षडाकारं सप्ताकारञ्च ऐकध्यमभिसंक्षिप्य त्रयोदशाकारं वेदितव्यम्। सातत्यवीर्यं नित्यकालप्रयोगितया। सत्कृत्यवीर्यं निपुणप्रयोगितया। नैष्यन्दिकं वीर्यं पूर्ववीर्यहेतुबलाधानतया। प्रायोगिकं वीर्यं प्रतिसंख्याय कुशलपक्षप्रयोगितया। अकोप्यवीर्यं सर्वदुःखसंस्पर्शैरविकोप्यतयाऽनन्यथाभावोपगमनतया असंतुष्टिवीर्यमल्पावरमात्रविशेषाधिगमासन्तुष्टतया। इदं तावत् षड्‍विधं सर्वाकारं वीर्यं येन समन्वागतो बोधिसत्त्वः आरब्धवीर्यः स्थामवान् वीर्यवानुत्साही दृढपराक्रमः अनिक्षिप्तधुरः कुशलेषु धर्मेष्वित्युच्यते। सप्तविधं पुनः छन्दसहगतं बोधिसत्त्वस्य वीर्यं पुनः पुनरनुत्तरायां सम्यक्संबोधौ तीव्रच्छन्द प्रणिधानानुवृंहणतया साम्ययुक्तं बोधिसत्त्वस्य वीर्यं यदन्यतमेन क्लेशोपक्लेशेनासंक्लिष्टचेतसोऽपर्यवस्थितस्य येन वीर्येण बोधिसत्त्वः कुशलेषु धर्मेषु तुल्योचित्तविहारी संभवति। वैशेषिकं वीर्यं बोधिसत्त्वस्यान्यतमेनोपक्लेशेनोपक्लिष्टचेतसः [पर्यवसितचेतसः] तस्योपक्लेशस्य प्रहाणाय यदादीप्तशिरो निर्वाणोपमं वीर्यम्। एषकं वीर्यं बोधिसत्त्वस्य सर्वविद्यास्थानपर्येषणतया। शिक्षावीर्यं बोधिसत्त्वस्य तेष्वेव पर्येषितेषु धर्मेषु यथायोग्यं यथार्हं धर्मानुधर्मप्रतिपत्तिसंपादनतया। परार्थक्रियावीर्यं बोधिसत्त्वस्य पूर्ववदेकादशविधं वेदितव्यम्। आत्मनः सम्यक्प्रयोगारक्षायै स्खलितस्य च यथाधर्मप्रतिकरणतायै वीर्यं सप्तमं बोधिसत्त्वस्य। इतीदं त्रयोदशाकारं बोधिसत्त्वस्य वीर्य सर्वाकारमित्युच्यते।



विघातार्थिकवीर्यं चेहामुत्रसुखञ्च बोधिसत्त्वानां वीर्यं क्षान्तिवद् द्रष्टव्यम्। तत्रायं विशेषः। या तत्र क्षान्तिः सेह वीर्यमभ्युत्साहो वक्तव्यः।



तत्र कतमद्बोधिसत्त्वस्य विशुद्धं वीर्यम्। तत्समासतो दशविधं वेदितव्यम्। अनुरूपमभ्यस्तमश्लथं सुगृहीतं कालाभ्यास-प्रयुक्तं निमित्तप्रतिवेधयुक्तमलीनमविधुरं समं महाबोधिपरिणमितञ्चेति।



इह बोधिसत्त्वो येन येनोपक्लेशेनात्यर्थं बाध्यते। तस्य तस्योपक्लेशस्य प्रहाणायानुरूपं प्रतिपक्षं भजते। कामरागस्य प्रतिपक्षेणाशुभां भावयति। व्यापादप्रतिपक्षेण मैत्रीम्। मोहप्रतिपक्षेणेदंप्रत्ययता-प्रतीत्यसमुत्पादं भावयति। वितर्कप्रतिपक्षेणानापानस्मृतिम्। मानप्रतिपक्षेण धातुप्रभेदं भावयति। इदमेवंभागीयं बोधिसत्त्वस्य अनुरूप [वीर्य] मित्युच्यते।



इह बोधिसत्त्वो न आदिकर्मिक-तत्प्रथमकर्मिकवीर्येण समन्वागतो भवति। यदुत चित्तस्थितयेऽऽववादानुशासन्याम्। नान्यत्राभ्यस्तप्रयोगो भवति परिचितप्रयोगः। इतीदं बोधिसत्त्वस्याभ्यस्तं वीर्यमित्युच्यते।



न चापि बोधिसत्त्वः अभ्यस्तप्रयोगो भवति अववादानुशासन्यां चित्तस्थितिमारभ्य। अपि त्वादिकर्मिक एव स बोधिसत्त्वस्तस्मिन् प्रयोगेऽश्लथप्रयोगो भवति सातत्यसत्कृत्यप्रयोगितया। इतीदं बोधिसत्त्वस्याश्लथं वीर्यमित्युच्यते।



पुनर्बोधिसत्त्वो गुरुणामन्तिकात स्वयमेव वा बाहुश्रुत्यबलाधानतयाऽविपरीतग्राहितया चित्तस्थितये वीर्यमारभते। इतीदं बोधिसत्त्वस्य सुगृहीतं वीर्यमित्युच्यते।



पुनर्बोधिसत्त्वः एवमविपरीतग्राही शमथकाले शमथं भावयति। प्रग्रहकाले चित्तं प्रतिगृहणाति। उपेक्षाकाले उपेक्षां भावयति। इदमस्य कालप्रयुक्तं वीर्यमित्युच्यते।



पुनर्बोधिसत्त्वः शमथप्रग्रहोपेक्षानिमित्तानां समाधिस्थितिव्युत्थाननिमित्तानां चोपलक्षणासंप्रमोष-प्रतिवेधाय सातत्यकारी भवति सत्कृत्यकारी। इतीदं बोधिसत्त्वस्य निमित्तप्रतिवेधं वीर्यमित्युच्यते।



पुनर्बोधिसत्त्वः परमोदारान् परमगम्भीरानचिन्त्याप्रमेयान् बोधिसत्त्वानां वीर्यारम्भनिर्देशान् श्रुत्वा नात्मानं परिभवति न सलीनचित्तो भवति। नापि चाल्पमात्रकेणावरमात्रकेण विशेषाधिगमेन सन्तुष्टो भवति। नोत्तरि न व्यायच्छते। इतीदं बोधिसत्त्वस्यालीनं वीर्यमित्युच्यते।



पुनर्बोधिसत्त्वः कालेन कालमिन्द्रियैर्गुप्तद्वारतां भोजने मात्रज्ञतां पूर्वरात्रापररात्रं जागरिकानुयुक्ततां सप्रजानन् विहारितामित्येवंभागीयान् समाधिसंभारान् समादाय वर्तते। तेषु चोद्युक्तो भवति। अविपरीतञ्चार्थोपसंहितं सर्वत्र यत्नमारभते। इतीदं बोधिसत्त्वस्याविधुरं वीर्यमित्युच्यते।



पुनर्बोधिसत्त्वो नातिलीनं नात्यारब्धं वीर्यमारभते। सम योगवाहि सर्वेषु चारम्भकरणीयेषु समं सत्कृत्यकारी भवति। इयं बोधिसत्त्वस्य समं वीर्यमित्युच्यते।



पुनर्बोधिसत्त्वः सर्ववीर्यारम्भानभिसंस्कृताननुत्तरायां सम्यक्संबोधौ परिणमयतीदं बोधिसत्त्वस्य सम्यक् परिणमितं वीर्यमित्युच्यते।



इत्येतत्स्वभाववीर्यादिकं विशुद्धवीर्यावसानञ्च बोधिसत्त्वानां वीर्य महाबोधिफलं यदाश्रित्य बोधिसत्त्वा वीर्यपारमितां परिपूर्य अनुत्तरां सम्यक् संबोधिमभिसंबुद्धा अभिसंभोत्स्यन्तेऽभिसंबुध्यन्ते च।



इति बोधिसत्त्वभूमावाधारे योगस्थाने द्वादशमं वीर्यपटलं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project