Digital Sanskrit Buddhist Canon

1-11 क्षान्तिपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 1-11 kṣāntipaṭalam
क्षान्तिपटलम्



उद्दानं पूर्वद्वेदितव्यं तद्यथा शीलपटले।



तत्र कतमा बोधिसत्त्वस्य स्वभावक्षान्तिः। या प्रतिसंख्यानबलसन्निश्रयेण वा प्रकृत्या वा परापकारस्य मर्षणा सर्वेषाञ्च मर्षणा सर्वस्य च मर्षणा निरामिषेण च चित्तेन केवलया करुणया [मर्षणा]। अयं समासतो बोधिसत्त्वस्य क्षान्तिस्वभावो वेदितव्यः।



तत्र कतमा बोधिसत्त्वस्य सर्वा क्षान्तिः। या द्विविधा द्रष्टव्या। गृहिपक्षाश्रिता प्रव्रजितपक्षाश्रिता च। सा पुनरुभयपक्षाश्रितापि त्रिविधा वेदितव्या। परापकारमर्पणा-क्षान्तिः। दुःखाधिवासना-क्षान्तिः। धर्मनिध्यानाधिमोक्ष क्षान्तिञ्च।



तत्र कथं बोधिसत्त्वः परापकारं मर्षयति क्षमते। इह बोधिसत्त्वस्तीव्रे निरन्तरे चित्रे दीर्घकालिके‍अऽपि परापकारजे दुःखे सम्मुखीभूते इदं प्रतिसंशिक्षते। स्वकर्मापराध एष मे। येनाहं स्वयंकृतस्याशुभस्य कर्मणो दुःखमीदृशं फलं प्रत्यनुभवामि। दुःखेन चाहमनर्थी। इयञ्चाक्षान्तिरायत्यां पुरनपि मे दुःखहेतुस्थानीया। सोऽहमेतद्‍दुःखहेतुभूतं धर्मं समादाय वर्तेयम्। यद्धा यन्ममैवानिष्टं तेनाहमात्मनैवात्मानं सयोजयेयम्। अत आत्मन एव मेऽपकृतं स्यात्। न तथा परेषाम्। स्वभावतश्च दुःखप्रकृतिका एवेमे सर्वसंस्काराः स्वपरसान्तानिकाः। तत्परे तावदज्ञाः ये अस्माकं प्रकृतिदुःखितानां भूयो दुःखमुपसंहरन्ति। अस्माकं तु विज्ञानां सतां न प्रतिरूपं स्याद्यद्वयमपि परेषां प्रकृतिदुःखितानां भूयो दुःखमुपसंहरेमः। भूयोऽपि चात्मार्थे तावत्प्रयुक्तानां श्रावकाणामक्षान्तिर्न युक्तरूपा स्यात् स्वपरेषां दुःखजनिका। प्रागेवास्माकं तु परार्थप्रयुक्तानाम्। इदं प्रतिसंख्याय स बोधिसत्त्वः पञ्चाकारां संज्ञां भावयन् मित्रामित्रोदासीनेभ्यः हीनतुल्यविशिष्टेभ्यः सुखितदुःखितेभ्यो गुणदोषयुक्तेभ्यश्च सत्त्वेभ्यः सर्वापकारांस्तितिक्षते।



पञ्च संज्ञाः कतमाः। पूर्वजन्मसुहृत्संज्ञा। धर्ममात्रानुसारिणीसंज्ञा [अनित्यसंज्ञा] दुःखसंज्ञा। परिग्रहसंज्ञा चेति।



कथञ्च बोधिसत्त्वोऽपकारिषु सत्त्वेषु सुहृत्संज्ञां भावयति। इह बोधिसत्त्व इदं प्रतिसंशिक्षते। नासौ सत्त्वः सुलभरूपो यो मे न दीर्घस्याध्वनोऽत्ययात् पूर्वमन्यासु जातिषु माता वाभूत् पिता वा भ्राता वा भगिनी वा आचार्यो वा उपाध्यायो वा गुरुर्वा गुरुस्थानीयो वा। तस्यैवं योनिशो मनसिकुर्वतः प्रत्यर्थिकसंज्ञा अपकारिषु सत्त्वेषु अन्तर्धीयते सुहृत्संज्ञा च संतिष्ठते। स तां सुहृत्संज्ञां निश्रित्यापकारान् मर्षयति क्षमते।



कथञ्च बोधिसत्त्वः अपकारिषु सत्त्वेषु धर्ममात्रानुसारिणीं संज्ञां भावयति। इह बोधिसत्त्व इदं प्रतिषंशिक्षते। प्रत्ययाधीनमिदं संस्कारमात्रं धर्ममात्रम्। नास्त्यत्र कश्चिदात्मा वा सत्त्वो वा जीवो वा जन्तुर्वाय आक्रोशेद्रोषयेत्ताडयेद् भण्डयेत् परिभाषेत वा यो वा पुनराक्रुश्येत वा रोष्येत वा ताडयेत वा भण्डयेत वा परिभाष्येत वा। तस्यैवं योनिशो मनसिकुर्वतः सत्त्वसंज्ञा चान्तर्धीयते। धर्ममात्रसंज्ञा च संतिष्ठते। स तां धर्ममात्रसंज्ञानिश्चित्य प्रतिष्ठाप्य परतः सर्वापकारान् मर्षयति क्षमते।



कथञ्च बोधिसत्त्वोऽपकारिषु सत्त्वेषु अनित्यसंज्ञां भावयति। इह बोधिसत्त्व इदं प्रतिसंशिक्षते। ये केचित् सत्त्वा जाता भूताः सर्वे ते अनित्या मरणधर्माणः। एष च परमः प्रत्यतकारो यदुत जीविताद्वयपरोपणम्। एवञ्च प्रकृत्त्या मरणधर्मकेष्वनित्येषु सत्त्वेषु न प्रतिरूपं स्याद्विज्ञपुरुषस्य कलुषमपि तावच्चित्तमुत्पादयितुं प्रागेव पाणिना वा प्रहर्तुं लोष्टेन वा दण्डेन वा प्रागेव सर्वेण सर्वं जीविताद्व्यपरोपयितुम्। तस्यैवं योनिशो मनसि कुर्वतः नित्यसारसज्ञा च प्रहीयते। अनित्यासारसंज्ञा च संतिष्ठते। स तामपि अनित्यासारसंज्ञां निश्रित्य सर्वापकारान् मर्षयति क्षमते।



कथञ्च बोधिसत्त्वः अपकारिषु सत्त्वेषु दुःखसंज्ञां भावयति। इह बोधिसत्त्वो ये तावत् सत्त्वा महत्यामपि सम्पदि वर्तन्ते तानपि तिसृभिः दुःखताभिरनुषक्तान् पश्यति-संस्कारदुःखतया विपरिणामदुःखतया दुःखदुःखतया च प्रागेव विपत्तिस्थितान्। स एवं पश्यन्निदं प्रतिसंशिक्षते। एवं सदा दुःखानुगतानां सत्त्वानां दुःखापकर्षणायास्माभिर्व्यायच्छितव्यं न दुःखोपसंहाराय। तस्यैवं योनिशो मनसि कुर्वतः सुखसंज्ञा प्रहीयते दुःखसंज्ञा चोत्पद्यते। स तां दुःखसंज्ञां निश्रित्य परेषां सर्वापकारान् मर्षयति क्षमते।



कथञ्च बोधिसत्त्वोऽपकारिषु सत्त्वेषु परिग्रहसंज्ञां भावयति। इह बोधिसत्त्व इदं प्रतिसंशिक्षते। मया खलु सर्वसत्त्वा बोधाय चित्तमुत्पादयता कडत्रभावेन परिगृहीताः। सर्वसत्त्वानां मयार्थः करणीय इति। तन्न मे प्रतिरूपं स्याद्यदहमेवं सर्वसत्त्वानुपादायैषामर्थं करिष्यामीत्यनर्थमेव कुर्यामपकारममर्षयन्। तस्यैव यानिशो मनसि कुर्वतः अपकारिषु सत्त्वेषु परसंज्ञा प्रहीयते। परिग्रहसंज्ञा च संतिष्ठते। स तां परिग्रहसज्ञां निश्रित्य परेषां सर्वापकारान् मर्षयति क्षमते।



क्षान्तिः कतमा। यन्न कुप्यति न प्रत्यपकारं करोति। नाप्यनुशयं वहति। इयमुच्यते क्षान्तिः।



तत्र बोधिसत्त्वस्य दुःखाधिवासनाक्षान्तिः कतमा। इह बोधिसत्त्व इदं प्रतिसंशिक्षते। मया खलु पूर्व कामचर्यासु वर्तमानेन कामान्पर्येषता प्रतिसंख्याय दुःखहेतुतया दुःखात्मकानां कामानामर्थे प्रभूतानि तीव्राणि दुःखानि अभ्युपगतानि अधिवासितान्यनुभूतानि कृषिवणिज्या राजपौरुष्यप्रयुक्तेन। एवं तद्वयर्थं दुःखस्यैवार्थे मया महद् दुःखमभ्युपगतं प्रतिसंख्यायाज्ञानदोषेण। सांप्रतं तु मम सुखाहारके कुशले प्रयुक्तस्य [प्रतिसंख्याय] ततः कोटीशतसहस्रगुणस्य दुःखस्याधिवासनाभ्युपगमः प्रतिरूपः स्यात्। प्रागेव ततो न्यूनस्य। एवं योनिशो मनसि कुर्वन् बोधाय प्रयुक्तो बोधिसत्त्वः सर्ववस्तुकं दुःखमधिवासयति।



सर्ववस्तुकं दुःखं कतमत्। तत्समासतः अष्टाकारं वेदितव्यम्। सन्निश्रयाधिष्ठानं लोकधर्माधिष्ठानम् ईर्यापथाधिष्ठानं धर्मपरिग्रहाधिष्ठान भिक्षाकवृत्ताधिष्ठानम् अभियोगक्लमाधिष्ठानं सत्त्वार्थक्रियाधिष्ठानम् इतिकरणीयाधिष्ठानञ्चेति।



चत्वारः सन्निश्रयाः। यानाश्रित्य स्वाख्याते धर्मविनये प्रव्रज्या-उपसम्पद्भिक्षुभावः। तद्यथा चीवरं पिण्डपातः शयनासनं ग्लानप्रत्ययभैषज्यपरिष्काराश्च। तैर्बोधिसत्त्वो लूहैः स्तोकैरसत्कृत्य धन्धञ्च लब्धैर्नोत्कण्ठ्यते न परित्रस्यति नापि ततो निदानं वीर्यं स्रंसयति। एवं सन्निश्रित्याधिष्ठानं दुःखमधिवासयति।



नव लोकधर्माः। अलाभः अयशो निन्दा दुःखंनाशधर्मकस्य नाशः क्षयधर्मकस्य क्षयः जराधर्मकस्य जरा व्याधिधर्मकस्य व्याधिः मरणधर्मकस्य मरणम्। एषां लोकधर्माणां समस्तव्यस्तानाम् आपतनात् सम्मुखीभावात् यद्‍दुःखमुत्पद्यते तल्लोकधर्माधिष्ठानमित्युच्यते। तेनापि स्पृष्टो बोधिसत्त्वो न तन्निदानं वीर्यं स्रंसयति प्रतिसंख्यायोद्वहते अधिवासयति।



चत्वार ईर्यापथाः। चंक्रमः स्थानं निषद्या शय्या च। तत्र बोधिसत्त्वः चंक्रमनिषद्याभ्यां दिवारात्रौ वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयंस्तन निदानं परिश्रमजं दुःखमधिवासयति। न त्वकाले पार्श्वमनुप्रयच्छति मञ्चे वा पीठे वा तृणसंस्तरे वा पर्णसंस्तरे वा।



सप्तविधो धर्मपरिग्रहः। रत्नत्रयपूजोपस्थानं गुरुपूजोपस्थानं धर्माणामुद्ग्रहणमुद्गृहीतानां परेषां विस्तरेण देशना विस्तरेण स्वरेण स्वाध्यायक्रिया एकाकिनो रहोगतस्य सम्यक् चिन्तना तुलना उपपरीक्षणा योगमनसिकारसंगृहीता शमथविपश्यना भावना च। अस्मिन् सप्ताकारे धर्मपरिग्रहे बोधिसत्त्वस्य व्यायच्छमानस्य यद् दुःखमुत्पद्यते तदप्यसावधिवासयति। न च तन्निदानं वीर्यं स्त्रंसयति।



भिक्षाकवृत्तमपि सप्ताकारं वेदितव्यम्। वैरूप्याभ्युपगमः शिरस्तुण्डमुण्डनादिभिरपहृतगृहिव्यञ्जनतया। वैवर्ण्याभ्युपगमो विकृतविवर्णवस्त्रधारणतया। आकल्पान्तरक्रिया सर्वलौकिकप्रचारेषु तन्त्रितविहारतया। परप्रतिबद्धाजीविका कृष्यादिकर्मान्तविवर्जितस्य परलब्धेन यात्राकल्पनतया। यावज्जीवं परतश्चीवरादिपर्येषणा लब्धानां सन्निधिकारापरिभोगतया। यावज्जीवं मानुष्यकेभ्यः कामेभ्य आवरणक्रिया अब्रह्मचर्यमैथुनधर्मप्रतिविवरणतया। यावज्जीवं मानुष्यकेभ्यो रतिक्रीडाभ्य आवरणकिया नटनर्तनकहासकलासकादिसंदर्शनप्रतिविरमणतया। मित्रसुहृद्वयस्यैश्च सह हसितक्रीडितरमितपरिचारित-प्रतिविरमणतया। इत्येवं रूपं कृच्छ्रसंबाधं भिक्षाकवृत्तमागम्य यद्दुःखमुत्पद्यते तदपि बोधिसत्त्वोऽधिवासयति। न च तन्निदानं वीयु स्त्रंसयति।



कुशलपक्षाभियुक्तस्यापि च बोधिसत्त्वस्य [ये] परिश्रमनिदाना उत्पद्यन्ते कायिकाः क्लमाः चैतसिकाः अप्युपायासा न बोधिसत्त्वस्तन्निदानं वीर्यं संस्त्रयति।



सत्त्वार्थकर्म त्वेकादशप्रकारं पूर्ववद्वेदितव्यमु। तन्निदानमपि बोधिसत्त्वो दुःखसमुत्पन्नमधिवासयति। न च तन्निदानं वीर्यं स्त्रंसयति।



इतिकरणीयं प्रव्रजितस्य चीवरपात्रकर्मादि। गृहिणः पुनः सम्यक्कृषिवणिज्या-राजपौरुष्यादि। तन्निदानमपि बोधिसत्त्वो दुःखमधिवासयति। नो तु तन्निदानं वीर्यं स्रंसयति। यत्पुनर्बोधिसत्त्वः स्पृष्टः सन्नन्यतमेन दुःखेन प्रयुज्यत एवानुत्तरायै सम्यक्संबोधये। न[न] प्रयुज्यते। प्रयुक्तश्च न विवर्तंते। अविमनस्कश्चासंक्लिष्टचित्तः प्रयुज्यते। इयमस्योच्यते दुःखाधिवासनाक्षान्तिः।



तत्र कतमा बोधिसत्त्वस्य धर्मनिध्यानाधिमुक्तिक्षान्तिः। इह बोधिसत्त्वस्य सम्यग्धर्मप्रविचयसुविचारितया बुद्ध्या अष्टविधे अधिमुक्त्यधिष्ठाने अधिमुक्तिः सुसन्निविष्टा भवति रत्नगुणेषु तत्त्वार्थे बुद्धबोधिसत्त्वानां महाप्रभावे हेतौ फले प्राप्तव्येऽर्थे आत्मनस्तत्प्राप्त्युपाये ज्ञेयगोचरे च। सा पुनरधिमुक्तिर्द्वाभ्यां कारणाभ्यां सुसन्निविष्टा भवति। दीर्घकालाभ्यासतश्च सुविशुद्धज्ञानसमुदागमतश्च। इतीयं बोधिसत्त्वानां सर्वक्षान्तिः पक्षद्वयमाश्रिता। यामाश्रित्य दुष्करक्षान्त्यादिविस्तरविभागो बोधिसत्त्वानां वेदितव्यः।



तत्र कतमा बोधिसत्त्वस्य दुष्करक्षान्तिः। सा त्रिविधा द्रष्टव्या। इह बोधिसत्त्वो दुर्बलानां सत्त्वानामन्तिकादपकारं क्षमते। इयं प्रथमा दुष्करक्षान्तिः। प्रभुर्भूत्वा स्वयं क्षमते। इयं द्वितीया दुष्करक्षान्तिः। जातिगोत्रनीचतराणाञ्च सत्त्वानामन्तिकादुत्कृष्टमधिमात्रमपकारं क्षमते। इयं तृतीया दुष्करक्षान्तिः।



तत्र कतमा बोधिसत्त्वस्य सर्वतोमुखी क्षान्तिः। सा चतुर्विधा द्रष्टव्या। इह बोधिसत्त्वो मित्रादप्यपकारं क्षमतेऽमित्रादप्युदासीनादपि। तेभ्यश्च त्रिभ्यो हीनतुल्याधिकेभ्यः क्षमते।



तत्र कतमा बोधिसत्त्वस्य सत्पुरुषक्षान्तिः। सा पञ्चविधा द्रष्टव्या। इह बोधिसत्त्वः आदित एव क्षान्तावनुशंसदर्शी भवति। क्षमः पुद्गलः आयत्त्यामवैरबहुलो भवति। अभेदबहुलो भवति। सुखसौमनस्यबहुलो भवति। अविप्रतिसारी कालं करोति। कायस्य च भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते। इति स एवमनुशंसदर्शी। स्वयञ्च क्षमो भवति। परञ्च क्षान्तौ समादापयति। क्षमायाश्च वर्णं भाषते। क्षमिणञ्च पुद्गलं दृष्ट्वा सुमनस्को भवत्यानन्दीजातः।



तत्र कतमा बोधिसत्त्वस्य सर्वाकारक्षान्तिः। सा षड्‍विधा सप्तविधा चैकध्यमभिसंक्षिप्य त्रयोदशविधा वेदितव्या। इह बोधिसत्त्वोऽनिष्टविपाकमक्षान्तिं विदित्वा भयादपि क्षमते। सत्त्वेषु च दयाचित्तः कारुण्यचित्त [स्निग्धचित्तः] स्नेहादपि क्षमते। अनुत्तरायां सम्यक्संबोधौ तीव्रच्छन्दः क्षान्तिपारमितां परिपूरयितुकामः कारणहेतोरपि क्षमते। क्षान्तिबलाश्च प्रव्रजिता उक्ता भगवता। तदनेनापि पर्यायेण न युक्तरूपा समात्तशीलस्य प्रव्रजितस्याक्षान्तिरिति धर्मसमादानतोऽपि क्षमते। गोत्रसम्पदि पूर्वके च क्षान्त्यभ्यासे वर्तमानोऽवस्थितः प्रकृत्यापि क्षमते। [निः] सत्त्वांश्च सर्वधर्मान् विदित्वा निरभिलाप्यधर्ममात्रदर्शी धर्मनिध्यानतोऽपि क्षमते। सर्वञ्चापकारं क्षमते। सर्वतश्च क्षमते। सर्वत्र च देशे क्षमते। रहसि वा महाजनसमक्षं वा सर्वकालञ्च क्षमते। पूर्वाह्नेऽपि मध्याह्नेऽपि सायाह्नेऽपि रात्रौ च दिवा वाऽती तमप्यनागतमपि प्रत्युत्पन्नमपि ग्लानोऽपि स्वस्थोऽपि पतितोऽप्युत्थितोऽपि। कायेनापि क्षमतेऽप्रहरणतया। वाचापि क्षमतेऽमनापवचनानिश्चारणतया। मनसापि क्षमतेऽकोप्यतया कलुषाशयाधारणतया च।



तत्र कतमा बोधिसत्त्वस्य विघातार्थिकक्षान्तिः। साऽष्टविधा द्रष्टव्या। दुःखितानां याचकानामन्तिकाद्याञ्चोपरोधनक्षान्तिः। रौद्रेष्वधिमात्रपापकर्मसु सत्त्वेषु धर्ममहाकरुणां निश्रित्याघाताकरण-क्षान्तिः। दुःशीलेषु प्रव्रजितेषु धर्ममहाकरुणां निश्रित्याघाताकरण-क्षान्तिः। पञ्चाकारा च व्यवसायसहिष्णुता] क्षान्तिः। दुःखितानां सत्त्वानां दुःखापनयनाय व्यायच्छतः धर्मान् पर्येषतः धर्मस्यानुधर्मे प्रतिपद्यभानस्य तानेव धर्मान् परेषां विस्तरेण संप्रकाशयतः सत्त्वकृत्येषु [सत्त्वकरणीयेषु] च सम्यक्सहायीभावं गच्छतो या व्यवसायसहिष्णुता। इतीयमष्टाकारा विघातार्थिकक्षान्तिरित्युच्यते। येन च सत्त्वा विधातिनः स्युः तस्य च क्षान्त्या परिवर्जनात्। येन चार्थिनस्तस्योपसंहारात्।



तत्र कतमा बोधिसत्त्वस्य इहामुत्रसुखा क्षान्तिः। सा नवविधा दृष्टव्या। इह बोधिसत्त्वः अप्रमत्तो विहरन् कुशलेषु धर्मेषु क्षमो भवति। शीतस्योष्णस्य जिघत्सापिपासयोः दंशसंस्पर्शानां [मशकसंस्पर्शानां वातातपयोः सरीसृपसंस्पर्शानां] क्षमो भवति। परिश्रमजन्य- कायचित्तक्लमोपायासस्य क्षमो भवति। संसारपतितजराव्याधिमरणादिकानां दुःखानां सत्त्वानुकम्पामेव पुरस्कृता इत्येवं क्षमो बोधिसत्त्व आत्मना च दृष्टे च धर्मे सुखसंस्पर्शं विहरत्यव्यवकीर्णः पापकैरकुशलैर्धर्मैः। सांपरायिकञ्च सुखहेतुं समादाय वर्तते। [परेषामपि च सुखहेतुं समादाय वर्तते।] परेषामपि च दृष्टे धर्मे संपराय सुखाय प्रतिपन्नो भवति। तस्मादियमिहामुत्रसुखा क्षान्तिरित्युच्यते।



तत्र कतमा बोधिसत्त्वस्य विशुद्धा क्षान्तिः। सा दशविधा द्रष्टव्या। इह बोधिसत्त्वः परेषामन्तिकादपकारं विघातं व्यतिक्रमं लभमानो नापि प्रत्यपकारं करोति। नापि मनसा कुप्यति। नापि प्रत्यर्थिकाशयं वहति। उपकाराय चाभिमुखो भवति यथा पूर्वं तथा पश्चान्नोपकारक्रिययाऽपकारमुपेक्षते अपकारिषु च स्वयमेव संज्ञप्तिमनुप्रयच्छति न च खेदयित्वा परेषामन्तिकात् संज्ञप्तिं प्रतिगृहणाति खेदितो भवत्विति। एतमेव प्रत्ययं कृत्वा अक्षान्तिमारभ्य तीव्रेण [ह्रीव्यपत्राप्येन] समन्वागतो भवति। क्षान्तिमारभ्य तीव्रेण शास्तरि प्रेमगौरवेण समन्वागतो भवति। सत्त्वाविहेठनतामारभ्य तीव्रेण सत्त्वेषु करुणाशयेन सन्वागतो भवति। सर्वेण वा सर्वमक्षान्तिधर्मसहायं प्रहाय कामवीतरागो भवति। सर्वेण एभिर्दशभिराकारैर्बोधिसत्त्वस्य क्षान्तिविशुद्धा वेदितव्या निर्मला।



इत्येतां स्वभाव-[क्षान्त्यादिकं विशुद्ध-] क्षान्तिपर्यवसानां क्षान्तिं विपुलामप्रमाणां महाबोधिफलो [दयां] निश्रित्य बोधिसत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते।



इति बोधिसत्त्वभूमावाधारे योगस्थाने एकादशमं क्षान्तिपटलं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project