Digital Sanskrit Buddhist Canon

1-10 शीलपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1-10 śīlapaṭalam

शीलपटलम्



उद्दानम्।



स्वभावश्चैव सर्वञ्च दुष्करं सर्वतोमुखम्।

स्यात् [सात्] पौरुष्ययुक्तञ्च सर्वाकारं तथैव च॥



विघातार्थिकयुक्तञ्च इहामुत्रसुखं तथा।

विशुद्धञ्च नवाकारं शीलमेतत्समासतः॥



तत्र शीलं बोधिसत्त्वानां कतमत्। तदपि नवविधं वेदितव्यम्। स्वभाव शीलं सर्वशीलं दुष्करशीलं सर्वतोमुखं शीलं सत्पुरुषशीलं सर्वाकारशीलं विघातार्थिकशीलं इहामुत्रसुखं शीलं विशुद्धशीलञ्च।



तत्र स्वभावशीलं कतमत्। चतुर्भिर्गुणैर्युक्तं समासतो बोधिसत्त्वानां स्वभावशीलं वेदितव्यम्। कतमैश्चतुर्भिः। परतः सम्यक्समादानतः सुविशुद्धाशयतया व्यतिक्रान्तैः प्रत्यापत्त्याऽव्यतिक्रमाय चादरजातस्योपस्थितस्मृतितया। तत्र परतः शीलसमादानाद्बोधिसत्त्वस्य परमुपनिधाय शिक्षाव्यतिक्रमे व्यपत्राप्यमुत्पद्यते। सुविशुद्धाशयतया शीलेषु बोधिसत्त्वस्यात्मानमुपनिधाय शिक्षाव्यतिक्रमे हीरुत्पद्यते। शिक्षापदानां व्यतिक्रम-प्रत्यापत्त्या आदरजातस्य चादित एवाव्यतिक्रमाद्बोधिसत्त्वो द्वाभ्यामाकाराभ्यां निष्कौकृत्यो भवति। एवमयं बोधिसत्त्वः समादनमाशयविशुद्धिञ्च निश्रित्य ह्रीव्यपत्राप्यमुत्पादयति। ह्रीव्यपत्राप्यात् शीलं समात्तं रक्षति। रक्षमाणो निष्कौकृत्यो भवति। तत्र यच्च परतः समादानं यश्च विशुद्धोऽध्याशयः इतीमौ द्वौ धमौं या च व्यतिक्रमप्रत्यापत्तिर्यश्चादरः अव्यतिक्रमेऽनयोर्द्वयोर्धर्मयोरावाहकौ। तत्र यच्च परतः समादानं यश्च सुविशुद्धोऽध्याशयः यश्चाव्यतिक्रमायादरजात इत्येभिस्त्रिभिर्धर्मैरविपत्तिर्बोधिसत्त्वशीलस्य वेदितव्या। व्यतिक्रमप्रत्यापत्त्या पुनश्छिद्रितस्य प्रत्यानयनव्युत्थानं वेदितव्यम्। तत्पुनरेतच्चतुर्भिगुणैर्युक्तं स्वभावशीलं बोधिसत्त्वानां कल्याणं वेदितव्यमात्महिताय परहिताय बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै चार्थाय हिताय सुखाय देवमनुष्याणां समादानतोऽनुशिक्षणतश्च। अप्रमेयं वेदितव्यमप्रमेयबोधिसत्त्वशिक्षापरिगृहीततया। सत्त्वानुग्राहकं वेदितव्यं सर्वसत्त्वहितसुखप्रत्युपस्थानतया। महाफलानुशंसं वेदितव्यम् अनुत्तरसम्यक् संबोधिफलपरिग्रहानुप्रदानतया।



तत्र कतमद् बोधिसत्त्वस्य सर्वशीलम्। समासतो बोधिसत्त्वस्य गृहिपक्षगतं प्रव्रजितपक्षगतञ्च शीलं सर्वशीलमित्युच्यते।



तत्पुनर्गृहिपक्षाश्रितं प्रव्रजितपक्षाश्रितञ्च शीलं समासतस्त्रिविधम्। संवरशीलं कुशलधर्मसंग्राहकशीलं सत्त्वार्थक्रियाशीलञ्च।



तत्र संवरशीलं बोधिसत्त्वस्य कतमत्। यत्सप्तनैर्णायिकं प्रातिमोक्षसंवरसमादानं भिक्षुभिक्षुणी-शिक्षमाणा-श्रामणेर-श्रमणेर्य्युपासकोपासिकाशीलम्। तदेतद् गृहिप्रव्रजितपक्षे यथायोगं वेदितव्यम्।



तत्र कुशलधर्मसंग्राहकं शीलं यत्किञ्चिद्बोधिसत्त्वः शीलसंवरसमादानादूर्ध्वं महाबोधाय कुशलमाचिनोति कायेन वाचा मनसा सर्वं तत्समासतः कुशलधर्मसंग्राहकं शीलमित्युच्यते। तत्पुनः कतमत्। इह बोधिसत्त्वः शीलं निश्रित्य शीलं प्रतिष्ठाय श्रुते योगं करोति चिन्तायां शमथविपश्यनाभावनायामेकारामतायाम्। तथा गुरूणामभिवादन-वन्दन प्रत्युत्थानाञ्जलिकर्मणः कालेन कालं कर्ता भवति। तथा कालेन कालं तेषामेव गुरूणां गौरवेणोपस्थानस्य कर्ता भवति। ग्लानानां सत्कृत्य कारुण्येन ग्लानोपस्थानस्य कर्ता भवति तथा सुभाषिते साधुकारस्य दाता भवति। गुणवतां पुद्गलानां भूतस्य वर्णस्याहर्ता भवति। तथा सर्वसत्त्वानां दशसु दिक्षु सर्वपुण्यस्याशयेन प्रसन्नचित्तमुत्पाद्य वाचं भाषामाणोऽनुमोदिता भवति। तथा सर्वं व्यतिक्रमं प्रतिसंख्याय परेषां क्षमिता भवति। तथा सर्वं कायेन वाचा मनसा कृतं कुशलमनुत्तरायां सम्यक्संबोधौ परिणामयिता भवति। कालेन च कालं विचित्राणां सम्यक् प्रणिधानानां त्रिरत्नपूजायाश्च सर्वाकाराया उदारायाः कर्ता भवति। अभियुक्तश्च भवत्यारब्धवीर्यः सततसमितं कुशलपक्षे। अप्रमादविहारी कायेन वाचा। शिक्षापदानां स्मृतिसंप्रजन्यचारिकया चारक्षकः। इन्द्रियैश्च गुप्तद्वारो भोजने मात्रज्ञः पूर्वरात्रापररात्रं जागरिकानुयुक्तः सत्पुरुषसेवी कल्याणमित्रसन्निश्रितः आत्मस्खलितानाञ्च परिज्ञाता भवति दोषदर्शी। परिज्ञाय च दोषं दृष्ट्वा प्रतिसंहर्ता भवति। स्खलितश्च बुद्धबोधिसत्त्वानां सहधार्मिकाणां चान्तिकेऽत्ययदेशको भवति। एवंभागीयानां कुशलानां धर्माणामर्जनरक्षणविवर्धनाय यच्छीलं [तद्] बोधिसत्त्वस्य कुशलधर्मसंग्राहकं शीलमित्युच्यते।



तत्र कतमद् बोधिसत्त्वस्य सत्त्वानुग्राहकं शीलम्। तत्समासत एकादशाकारं वेदितव्यम्। एकादशाकाराः कतमे। सत्त्वकृत्येष्वर्थोपसंहितेषु [विचित्रेषु] सहायीभावः। सत्त्वानामुत्पन्नोत्पन्नेषु व्याध्यादिदुःखेषु ग्लानोपस्थानादिकः सहायीभावः। तथा लौकिकलोकोत्तरेष्वर्थेषु धर्मदेशनापूर्वक उपायोपदेशपूर्वकश्च न्यायोपदेशः। उपकारिषु च सत्त्वेषु कृतज्ञतामनुरक्षतोऽनुरूप [प्रत्युपकार-] प्रत्युपस्थानम्। विविघेभ्यश्च सिंहव्याघ्रराजचौरोदकाग्न्यादिकेभ्यो विचित्रेभ्यो भयस्थानेभ्यः सत्त्वानामारक्षा। भोगज्ञातिव्यसनेषु शोकविनोदना। उपकरणविघातिषु सत्त्वेषु सर्वोपकरणोपसंहारः। न्यायपतितः सम्यङ्‍निश्रयदानतो धर्मेण गणपरिकर्षणा। आलपनसंलपनप्रतिसम्मोदनैः कालेनोपसंक्रमणतया परतो भोजनपानादि [प्रति] ग्रहतो लौकिकार्थानुव्यवहारतः आहूतस्यागमनगमनतः समासतः सर्वानर्थोपसंहितामनापसमुदाचारपरिवर्जनैश्चित्तानुवर्तनता। भूतैश्च गुणैः संप्रहर्षणता। रहः प्रकाशं वोद्भावनतामुपादाय। स्निग्धेन हिताध्याशयानुगतेनान्तर्गतमानसेन निग्रहक्रिया अवसादना वा दण्डकर्मानुप्रदानं व प्रवासना वा यावदेवाकुशलास्थानात् व्युत्थाप्य कुशले स्थाने सन्नियोजनार्थम्। ऋद्धिबलेन च नरकादिगतिप्रत्यक्षं सन्दर्शनतयाऽकुशलादुद्वेजना बुद्धशासनावताराय चावर्जना तोषणा विस्मापना।



कथञ्च बोधिसत्त्वः संवरशीले स्थितः कुशलधर्मसंग्राहके शीले स्थितः सत्त्वार्थक्रियाशीले च स्थितः सुसंवृतशीली च भवति सुसंगृहीतकुशलशीली च सर्वाकारसत्त्वार्थक्रियाशीली च। इह बोधिसत्त्वः प्रातिमोक्षसंवरव्यवस्थितः स चेच्चक्रवर्तिराज्यमप्युत्सृज्य प्रव्रजितो भवति स तस्मिंश्चक्रवर्तिराज्ये एवं निरपेक्षो भवति तद्यथा तृणे वाऽमेध्ये वा। निहीनपुरुषस्य जीविकाभिप्रायस्य प्रव्रजितस्य प्रत्यवरान् कामानपहाय न तथा तेषु प्रत्यवरेषु कामेषु निरपेक्षता भवति यथा बोधिसत्त्वस्याशयविशुद्धतामुपादाय प्रव्रजितस्य सर्वमानुष्यककामप्रवरेषु चक्रवर्तिकामेषु। अनागतेष्वपि मारभवनपर्यापन्नेष्वपि कामेषु बोधिसत्त्वो नाभिनन्दी भवति नापि च तेषामर्थाय प्रणिधाय ब्रह्मचर्यं चरति महाविचित्रप्रतिभयगहनप्रवेशमिव तान् कामान् यथाभूतं संपश्यन् प्रागेव तदन्येषु दिव्येषु। वर्तमानेऽप्यध्वनि प्रव्रजितो बोधिसत्त्व उदारेभ्यः सत्त्वेभ्य उदारमपि लाभसत्कारं वान्ताशनमिव सम्यक् प्रज्ञया पश्यन् नास्वादयति प्रागेव प्रत्यवरेभ्यः [ सत्त्वेभ्यः] प्रत्यवरम्। प्रविवेकाभिरतश्च भवति एकाकी संवमध्ये वा सर्वकालं चित्तव्यपकृष्टविहारी। स न शीलसंवरमात्रकेण तुष्ठो भवति। अपि तु शीलं निश्रित्य शीलं प्रतिष्ठाय ये तेऽप्रमेया बोधिसत्त्वसमाधयस्तेषामभिनिर्हाराय वशिताप्राप्तये व्यायच्छते। सः संसर्गतोऽप्यणुकाम् अप्यसत्‍संकथा मसद्वाचं नाधिवासयति प्रविवेकगतश्चाणुकमप्यसद्वितर्कम्। प्रमुषितया च स्मृत्या तत्समुदाचारहेतोः कालेन कालं तीव्रं विप्रतिसारमादीनवदर्शनमुत्पादयति। यमाभीक्ष्णकं विप्रतिसारमादीनवदर्शनमागम्योत्पन्नमात्रायामसत्संकथायामसद्वितर्के च त्वरितत्वरितं सा स्मृतिरुपतिष्ठते। अकरणचित्तञ्च प्रतिलभते। येन प्रतिसंहरति। प्रतिसंहरणाभ्यासतश्च क्रमेण तद्यथा पूर्वं तत्समुदाचार-रतिरभूत् तथा एतहर्यसमुदाचार-रतिः सन्तिष्ठते समुदाचारप्रातिकूल्यञ्च। सर्वबोधिसत्त्वशिक्षापदानि चास्य महाभूमिप्रविष्टानां बोधिसत्त्वानां श्रुत्वा उदाराण्यप्रमेयाण्यचिन्त्यानि दीर्घकालिकानि परमदुश्कराणि न भवति चेतस उत्तासो वा लयः संकोचो वा नान्यत्रास्यैवं भवति। तेऽपि मनुष्यभूताः क्रमेण शिक्षमाणाः बोधिसत्त्वशिक्षाष्वप्रमेयाचिन्त्यकायवाक्संवरसमन्वागताः संवृत्ताः।



वयमपि मनुष्यभूताः क्रमेण च शिक्षमाणाः असंशयमनुप्राप्स्यामस्तां कायवाक्संवरसम्पत्तिमिति। आत्मदोषान्तरस्खलितगवेषी च बोधिसत्त्वो भवति शीलसंवरे व्यवस्थितो न परदोषान्तरस्खलितगवेषी। सर्वरौद्रदुःशीलानाञ्च सत्त्वानामन्तिके नाघातचित्तो भवति न प्रतिघचित्तः। धर्ममहाकरुणतामुपादायाधिमात्रमेव तेषामन्तिके बोधिसत्त्वानामनुकम्पाचित्तञ्च कर्तुकामताचित्तञ्च प्रत्युपस्थितं भवति। संवरशीलव्यस्थितश्च बोधिसत्त्वः पाणिलोष्टदण्डशस्त्रसंस्पर्शैरपि परेषामन्तिके चित्तमपि न प्रदूषयति। कुतः पुनः पापिकां वाचं निश्चारयिष्यति प्रतिहनिष्यति वा प्रागेव पुनः आक्रोशरोषणपरिभाषणैस्तनुकदुःखस्पर्शजैरपकारैः। संवरशीलव्यवस्थितश्च बोधिसत्त्वः पञ्चाङ्गपरिगृहीतेनाप्रमादेन समन्वागतो भवति पूर्वान्तसहगतेनापरान्तसहगतेन मध्यान्तसहगतेन पूर्वकालकरणीयेन सहानुचरेण च। बोधिसत्त्वशिक्षासु शिक्षमाणो बोधिसत्त्वः अतीतमध्वानमुपादाय यामापत्तिमापन्नः साऽनेन यथाधर्मं प्रतिकृता भवति। अयमस्य पूर्वान्तसहगतोऽप्रमादः। अनागतेऽप्यध्वनि यामापत्तिमापत्स्यते तामपि यथाधर्मं प्रतिकरिष्यति। अयमस्यापरान्तसहगतोऽप्रमादः। प्रत्युत्पन्नेऽप्यध्वनि यामापत्तिमापद्यते तामपि यथाधर्मं प्रतिकरोति। अयमस्य मध्यान्तसहगतोऽप्रमादः। पूर्वमेव चापत्तेर्बोधिसत्त्वस्तीव्रमौत्सुक्यमापद्यते। कच्चिदहं तथा तथा चरेयं यथा यथा चरन् यथा यथा विहरन् आपत्तिं नापद्येयम्। अयं बोधिसत्त्वस्य पूर्वकालकरणीयोऽप्रमादः। स पूर्वकालकरणीयमेवाप्रमादं निश्रित्य तथा तथा चरति तथा तथा विहरति यथा यथास्य चरतो विहरतो वा आपत्तिर्नोत्तिष्ठते। अयमस्य सहानुचरोऽप्रमादः। संवरशील-व्यवस्थितो बोधिसत्त्वः प्रतिच्छन्नकल्याणो भवति विवृतपापः अल्पेच्छः सन्तुष्टः दुःखसहिष्णुरपरितसनजातीयः अनुद्धतश्च अचपलश्च प्रशान्तेर्यापथः कुहनादिसर्वमिथ्याजीवकरकधर्मविवर्जितः। एभिर्दशभिरङ्गैः समन्वागतो बोधिसत्त्वः संवरशीलव्यवस्थितः सुसंवृतशीली भवति। यदुतातीतेषु कामेषु निरपेक्षतया अनागतेष्वनभिनन्दनतया प्रत्युत्प-न्नेष्वनध्यवसानतया प्रविवेकवासाभिरत्या वाग्वितर्कपरिशोधनतया आत्मनोऽपरिभवनतया सौरत्येन क्षान्त्याऽप्रमादेन आचाराजीवविशुद्ध्या चेति।



पुनर्बोधिसत्त्वः कुशल [धर्म] संग्राहकशीले व्यवस्थितः उत्त्पन्नां कायभोगापेक्षां स्वल्पामपि नाधिवासयति प्रागेव प्रभूताम्। सर्वदौःशील्यनिदान भूतांश्च क्लेशोपक्लेशान् क्रोधोपनाहादीनुत्पन्नान् नाधिवासयति। उत्पन्नां परेषामन्तिके आघातप्रतिघवैरचित्ततां नाधिवासयति। उत्पन्नमालस्यकौसीद्यं नाधिवासयति।उत्पन्नं समापत्यास्वादं समापत्तिक्लेशं नाधिवासयति। पञ्च च स्थानानि यथाभूतं प्रजानाति। कुशलफलानुशंसं यथाभूतं प्रजानाति। कुशलहेतुं कुशलहेतुफले विपर्यासमविपर्यासञ्च कुशलसंग्रहाय चान्तरायं यथाभूतं प्रजानाति। कुशलफले बोधिसत्त्वः अनुशंसदर्शी कुशलहेतुं पर्येषते। कुशलसंग्रहाय विपर्यासञ्चाविपर्यासञ्च यथाभूतं प्रजानन् बोधिसत्त्वः प्राप्य कुशलफलं नानित्ये नित्यदर्शी भवति। न दुःखे सुखदर्शी। नाशुचौ शचिदर्शी। नानात्मन्यात्मदर्शी। अन्तरायञ्च प्रजानन् कुशलसंग्रहाय परिवर्जयति। तस्यैभिर्दशभिराकारैः कुशलधर्मसंग्राहकशीलव्यवस्थितस्य क्षिप्रमेव कुशलसंग्रहो भवति सर्वाकार [संग्रह] श्च यदुत दानोपनिषदाशीलोपनिषदा क्षान्त्युपनिषदा वीर्योपनिषदा ध्यानोपनिषदा पञ्चाकारया च [प्र] ज्ञया।



पुनर्बोधिसत्त्वः एकादशभिराकारैः सर्वाकारे सत्त्वार्थक्रियाशीले व्यवस्थितः। एकैकेन सर्वाकारेणाकारेण समन्वागतो भवति। इह बोधिसत्त्वः सत्त्वानां तेषु तेषु कृत्येषु सहायीभावं गच्छन् कृत्यचिन्तायां कृत्यसमर्थने सहायीभावं गच्छति अध्वगमनागमने सम्यक्कर्मान्तप्रयोगे भोगानामारक्षणे विभिन्नान्योऽन्यप्रतिसन्धाने उत्सवे पुण्यक्रियायाञ्च दुःखेषु वा। पुनर्बोधिसत्त्वः सहायीभावं गच्छन् व्याधितान् सत्त्वान् परिचरति। अन्धान् प्रणयति पन्थानं व्यपदिशति। बधिरान् हस्तसवाचिकयार्थं ग्राहयति संज्ञानिमित्तव्यपदेशेन। व्यङ्गान् शिरसा वा यानेन वा वहति। कामच्छन्दपर्यवस्थानदुःखितानां सत्त्वानां कामच्छन्दपर्यवस्थानदुःखं प्रतिविनोदयति। व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सापर्यवस्थानदुःखितानां सत्त्वानां यावद्विचिकित्सापर्यवस्थानदुःखं प्रतिविनोदयति। कामवितर्कपर्यवस्थानेन दुःखितानां सत्त्वानां कामवितर्कं प्रतिविनोदयति। यथाकामवितर्कम् एवं व्यापादहिंसाज्ञातिजनपदापर वितर्कावमन्यनाप्रतिसंयुक्तः कुलोदय प्रतिसंयुक्तश्च वितर्को वेदितव्यः परिपरिभवपराजयदुःखेन दुःखितानां सत्त्वानां परपरिभवपराजयदुःखं प्रतिविनोदयति। अध्वपरिश्रान्तानां स्थानासनदानेनाङ्गप्रपीडनेन श्रमक्लमदुःखं प्रतिविनोदयति। पुनर्बोधिसत्त्वः सत्त्वानां न्यायं व्यपदिशन् दुश्चरितचारिणां सत्त्वानां दुश्चरितप्रहाणाय धर्मं देशयति युक्तैः पदव्यञ्जनैः सहितैरानुलोमिकैरानुच्छविकैरौपयिकैः प्रतिरूपैः प्रदक्षिणैः निपकस्याङ्गसंभारैः। उपायकौशल्यं वा पुनर्व्यपदिशति यथा दुश्चरितचारिणां सत्त्वानां दुश्चरितप्रहाणाय एवं मर्त्सारणां [सत्त्वानां] मात्सर्यप्रहाणाय दृष्टे वा धर्मे सम्यगल्पकृच्छ्रेण भोगानामर्जनाय रक्षणाय च शासनेऽस्मिन् प्रतिहतानां श्रद्धाप्रतिलम्भाय दर्शनप्रतिलम्भाय।



दर्शनविशुद्ध्याऽपायसमतिक्रमाय सर्वसंयोजनपर्यादानात् सर्वदुःखसमतिक्रमाय पुनर्बोधिसत्त्व उपकारिणां सत्त्वानां कृतज्ञतां प्राविष्कुर्वन् दृष्ट्वा सत्कृत्यालपति [संलपति] प्रतिसम्मोदयति-एहि स्वागतवादितया। आसनस्थानानुप्रदानेन च संप्रतीच्छति। तुल्याधिकेन चास्य प्रतिलाभसत्कारेण प्रत्युपस्थितो भवति न न्यूनेन। स कृत्येष्वस्यायाचितोऽपि सहायीभावं गच्छति प्रागेव याचितः। यथा कृत्येषु एवं दुःखेषु नयोपदेशे भयपरित्राणे व्यसनस्थशोकप्रतिविनोदने उपकरणोपसंहारे सन्निश्रयदाने चित्तानुवर्तने भूतैर्गुणैः संप्रहर्षणे स्निग्धेन चान्तर्भावेन विनिग्रहे ऋद्ध्या चोत्तासनावर्जनेनेति। पेयालम्। पुनर्बोधिसत्त्वो भीतानां सत्त्वानां भयेस्वारक्षकः। क्षुद्रमृगभयादपि सत्त्वान् रक्षति आवर्तग्राहभयादपि राजभयादपि चोरभयादपि प्रत्यर्थिकभयादपि स्वाम्यधिपतिभयादपि अनाजीविकभयादप्यश्लोकभयात्परिषच्छारद्यभयादपि अमनुष्यवेताडभयादपि। पुनर्बोधिसत्त्वो व्यसनस्थानां सत्त्वानां शोकप्रतिविनोदनं ज्ञातिव्यसनमारभ्य मातापितृमरणेऽपि शोकं [प्रति] विनोदयति। पुत्रदारमरणेऽपि दासीदासकर्मकरपौरुषेयमरणेऽपि मित्रामात्यज्ञातिसालोहितमरणेप्याचार्योपाध्यायगुरूस्थानीयमरणेऽपि शोकं प्रतिविनोदयति। भोग व्यसनं वा पुनरारभ्य स चेद्भोगा राज्ञा वा परेषामपहृता भवन्ति। तत्र शोकं प्रतिविनोदयति। चौरैर्वाऽपहृता भवन्ति। अग्निना वा दग्धा उदकेन वा अपहृताः कुनिहिता वा निधयः प्रनष्टा भवन्ति। कुप्रयुक्ता वा कर्मान्ताः प्रलुग्ना भवन्ति। अप्रियैर्वा दायादैरधिगता भवन्ति। कुले वा कुलांगार उत्पन्नो भवति। येन ते भोगा अनयेन व्यसनमापादिता भवन्ति। तन्निदानमपि शोकमुत्पन्नं मृदुमध्याधिमात्रं सत्त्वानां बोधिसत्त्वः सम्यक् प्रतिविनोदयति। पुनरुपकरणार्थिनाम् उपकरणोपसंहारं कुर्वन् बोधिसत्त्वो भोजनं भोजनार्थिभ्यो ददाति। पानं पानार्थिभ्यः। यानं यानार्थिभ्यः। वस्त्रं वस्त्रार्थिभ्यः। अलङ्कारमलङ्कारार्थिभ्यः। भाण्डोपस्करं भाण्डोपस्करार्थिभ्यः। गन्धमाल्यविलेपनं गन्धमाल्यविलेपनार्थिभ्यः। प्रतिश्रयं प्रतिश्रयार्थिभ्यः। आलोकमालोकार्थिभ्यो ददाति। पुनः परिग्रहशीलेन बोधिसत्त्वः सत्त्वानां गणपरिकर्षणयोगेन परिग्रहं कुर्वन् पूर्वन्तावत् निश्रयं ददाति निरामिषेण चित्तेनानुकम्पाचित्तेनानुकम्पाचित्तमेव [सं] पुरष्कृत्य।



ततो धर्मेण चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारानेषामर्थे श्राद्धानां ब्राह्मणगृहपतीनामन्तिकात्पर्येषते। धार्मिकैश्च धर्मलब्धैः स्वैश्चीवरपिण्डपातशयानासनग्लान [प्रत्ययभैषज्यपरिष्कारैः साधारणपरिभोगी च भवत्यप्रतिगुप्तभोजी। अष्टाकारञ्चानुलोमिकमववादं कालेन कालमनुप्रयच्छति। पञ्चाकारया चानुशासन्या सम्यक्समनुशास्ति। तद्यथोक्तेऽनुशासनी-बलगोत्रपटले तथेहापि वेदितव्या। पुनर्बोधिसत्त्वश्चित्तानुवर्तनशीलेन सत्त्वानां चित्तमनुवर्तमानः आदित एवं सत्त्वानां भावं च जानाति प्रकृतिञ्च। भावञ्च ज्ञात्वा प्रकृतिञ्च यथा यैः सत्त्वैः सार्धं संवस्तव्यं भवति तथा [तैः] संवसति। यथा येषु सत्त्वेषु प्रतिपत्तव्यं भवति तथा तेषु प्रतिपद्यते। यस्य च सत्त्वस्य बोधिसत्त्वश्चित्तमनुवर्तितुकामो भवति तस्य च चेत्पश्यत्येवंरूपेणास्य वस्तुसमुदाचारेण कायिकवाचिकेन दुःखदौर्मस्यमुत्पत्स्येते। तच्चदुःखदौर्मनस्यमस्य नाकुशलात् स्थानाद् व्युत्थानाय कुशले च स्थाने प्रतिष्ठापनाय संवर्तिष्यते। प्रतिसंख्याय बोधिसत्त्वस्तं कायिकवाचिकं वस्तसमुदाचारं यत्नतः परिहरति न समुदाचरति। स चेत्पुनस्तद् दुःखदौर्मनस्यमस्याकुशलात् स्थानाद् व्युत्थाप्य कुशले स्थाने प्रतिष्ठापनाय पश्यति नानुवर्तते। प्रतिसंख्याय बोधिसत्त्वः परचित्तं यदुत परानुकम्पामेवोपादाय येन च परेषां वस्तुसमुदाचारेण कायिकवाचिकेनान्येषामुत्पद्यते दुःखदौर्मनस्यम् तच्च परेषां तदन्येषामकुशलात् स्थानाद् व्युत्थानाय कुशले स्थाने प्रतिष्ठा [प] नाय [न] संवर्तते प्रतिसंख्याय प्रतिसंहरति बोधिसत्त्वस्तत्कायवाक् [कर्म] समुदाचारं तदन्येषां चित्तानुरक्षया। स चेत्पुनः पश्यति परेषां तदन्येषां वा तदुभयोर्वा अकुशलात् स्थानाद् व्युत्थाप्य कुशले स्थाने प्रतिष्ठापनाय प्रतिसंख्याय समुदाचरति बोधिसत्त्वस्तं कायवाक्समुदाचारम्। नानुवर्तते तेषां सत्त्वानां चित्तमनुकम्पाचित्तमेवोपस्थाप्य। येन च बोधिसत्त्व आत्मनो वस्तुसमुदाचारेण कायिकवाचिकेन परेषां दुःखदौर्मनस्यमुत्पद्यमानं समनुपश्यति स च कायवाक्समुदाचारो न शिक्षापदपरिगृहीतो भवति न पुण्यज्ञानसम्भारानुगतः तच्च दुःखदौर्मनस्यं परेषां नाकुशलात् स्थानादिति पूर्ववद्वेदितव्यम्। प्रतिसंहरति बोधिसत्त्वस्तं कायवाक्समुदाचारं परचित्तानुरक्षया। [तद्] विपर्ययात्समुदाचारः पूर्ववद्वेदितव्यः। यथा दुःखदौर्मनस्यमेवं सुखसौमनस्यं यथायोगं विस्तरेण वेदितव्यम्। न च परचित्तानुवर्ती बोधिसत्त्वः परस्य क्रोधपर्यवस्थानेन पर्यवस्थितस्य सम्मुखमविगते क्रोधपर्यवस्थाने वर्णमपि भाषते प्रागेवावर्णम्। नापि संज्ञाप्तिमनुप्रयच्छति। पुनः परचित्तानुवर्ती बोधिसत्त्वः परमनालपन्तमप्यालपति [प्रति] सम्मोदयति प्रागेवालपन्तं प्रतिसम्मोदयन्तम्। [न च] परचित्तानुवर्ती बोधिसत्त्वः परेषां क्षुभ्यति नान्यत्रावसादयितुकामः।



तेषामेवानुकम्पया प्रशान्तैरिन्द्रियैरवसादयति। न च परिचित्तानुवर्ती बोधिसत्त्वः परमवहसति नावस्पण्डयति न मड्कुभावमस्योपसंहरति नाप्यस्पर्शविहाराय कौकृत्यमुपसंहरति। निगृहीतस्यापि पराजितस्य न निग्रहस्थानेन संचोदयति। नीचैः प्रपन्नस्य न चोच्छ्रितमात्मानं विख्यापयति। न च परचित्तानुवर्ती बोधिसत्त्वः परेषामसेवी भवति नाप्यतिसेवी नाप्यकालसेवी नापि तेषां पुरस्तात्प्रियविगर्हको भवति नाप्यप्रियप्रशंसकः। नाप्यसंस्तुतविश्वासी भवति। नाभीक्ष्णयाचकः। प्रतिग्रहेऽपि च मात्रां जानाति। प्रतिग्रहेण च भोजनपानादिकेनोपनिमन्त्रितो न निराकरोति। धार्मिको वा न्यायसंज्ञप्तिमनुप्रयच्छति। पुनर्बोधिसत्त्वो भूतगुणसंहर्षणशीलेन सत्त्वान् संप्रहर्षयन् श्रद्धागुणसम्पन्नान् श्रद्धागुणसंकथया संप्रहर्षयति शीलगुणसम्पन्नान् शीलगुणसंकथया श्रुतगुणसंपन्नान् श्रुतगुणसङ्कथया त्यागगुणसम्पन्नांस्त्यागगुणसङ्कथया प्रज्ञागुणसम्पन्नान् प्रज्ञागुणसंकथया संप्रहर्षयति। पुनर्बोधिसत्त्वः निग्रहशीलेन सत्त्वान्निगृह्णन् मृद्वपराधं मृदुव्यतिक्रमं स्निग्धेनान्तर्भावेनाविपन्नेन मृद्व्याऽवसादनिकया अवसादयति। मध्यापराधं मध्यव्यतिक्रमं मध्यया [ऽवसादनिकया] अधिमात्रापराधमधिमात्रब्यतिक्रममधिमात्रयाऽवसादनिकयाऽवसादयति। यथा चावसादनिका तथा दण्डकर्म वेदितव्यम्। मृदुमध्यापराधं मृदुमध्यव्यतिक्रमं बोधिसत्त्वस्तावत्कालिकयोगेन पुनरादानाय प्रवासयति तेषामेव चान्येषाञ्च समनुशासनार्थमनुकम्पाचित्ततया अधिमात्रापराधं [अधिमात्रव्यतिक्रमं] पुनरसंवासायासंभोगाय यावज्जीवेनाप्यपुनःप्रतिग्रहणाय प्रवासयति तेषामेव चानुकम्पया। मा ते बहुतरमस्मिन् शासनेऽपुण्यपरिग्रहं करिष्यन्तीति। परेषाञ्च हितकामतया समनुशासनार्थम्। पुनर्बोधिसत्त्वः ऋद्धिबलेन सत्त्वानुत्त्रासायितुकामः आवर्जयितुकामो वा दुश्चरितचारिणां सत्त्वानां दुश्चरितविपाकफलमपायान्नरकान्महानरकान् शीतलनरकान् प्रत्येकनरकानुपनीयोपनीय दर्शयति।



पश्यन्तु भवन्तो दुश्चरितस्य [कृतोपचितस्य] मनुष्यभूतैरिदमीदृशं रौद्रं परमकटुकमनिष्टं फलविपाकं प्रत्यनुभूयमानमिति। ते च तं दृष्ट्वा उत्त्रस्यन्ति संवेगमापद्यन्ते दुश्चरितात्प्रतिविरमन्ति। तदेकत्यांश्च सत्त्वान् बोधिसत्त्वस्य महत्यां परिषदि सन्निसन्नस्य प्रश्नसंपादेनानादेयं वचनं कर्तुकामान् बोधिसत्त्वो वज्रपाणिं वाऽन्यतमं वा उदारवर्णमहाकायं [महाबलं] यक्षमभिनिर्मिमीय भीषयत्युत्त्रासयति। तन्निदानं संप्रत्ययजातस्य बहुमानजातस्य सम्यगेव प्रश्नप्रतिव्याकरणार्थम्। तस्य च महाजनकायस्य तेन प्रश्नव्याकरणेन विनयनार्थम्। विचित्रेण वा पुनः ऋद्व्यभिसंस्कारेण तद्यथा एको भूत्वा बहुधा भवन् बहुधा भूत्वा एको भवन् तिरः कुडयं तिरः शैलं तिरः प्राकारमसज्जमानेन कायेन गच्छन्विस्तरेण यावद्ब्रह्मलोकं कायेन वशे वर्तयन् यमकान्यपि प्रातिहार्याणि विदर्शयस्तेजोधातुमपि समापद्यमानः श्रावकासाधारणं वा पुनरृद्धिमुपदर्शयन्नावर्जयन् तोषयित्वा संप्रहर्ष्य अश्रद्धं श्रद्धासंपदि निवेशयति। दुःशीलं शीलसंपदि अल्पश्रुतं श्रुतसंपदि मत्सरिणं त्यागसंपदि दुष्प्रज्ञं प्रज्ञासंपदि निवेशयति। एवं हि बोधिसत्त्वः सर्वाकारेण सत्त्वार्थक्रियाशीलेन समन्वागतो भवति।



त एते भवन्ति त्रयो बोधिसत्त्वस्य शीलस्कन्धाः अप्रमेयाः पुण्यस्कन्धाः। संवरशीलसंगृहीतः कुशल धर्मसंग्राहक [शील] संगृहीतः सत्त्वार्थक्रियाशीलसंग्रहीतश्च शीलस्कन्धः।



तत्र बोधिसत्त्वेनास्मिन् त्रिविधेऽपि शीलस्कन्धे बोधिसत्त्वशिक्षायां शिक्षितुकामेन गृहिणा वा प्रव्रजितेन वाऽनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानेन सहधार्मिकस्य बोधिसत्त्वस्य कृतप्रणिधानस्य विज्ञस्य प्रतिबलस्य वाग्विज्ञप्त्यर्थग्रहणावबोधाय इत्येवंरूपस्य बोधिसत्त्वस्य पूर्वं पादयोर्निपत्याध्येषणां कृत्वा यथा तवाहं कुलपुत्रान्तिकाद्बोधिसत्त्वशीलसंवरसमादानमाकांक्षाम्यादातुं तदर्हस्यनुपरोधेन मुहूर्तमस्माकमनुकम्पया दातुं श्रोतुञ्च। इत्येवं सम्यगध्येष्यैकांसमुत्तरासङ्गं कृत्वा बुद्धानां भगवतामतीतानागतप्रत्युत्पन्नानां दशमु दिक्षु महाभूमिप्रविष्टानाञ्च महाज्ञानप्रभावप्राप्तानां बोधिसत्त्वानां सामीचीं कृत्वा गुणांश्च तेषांमामुखीकृत्य घनरसं प्रसादं चेतसः सञ्जनय्य परीत्तं वा यस्य [वा] याचति शक्तिर्हेतुबलञ्च। स विज्ञो बोधिसत्त्वो नीचैर्जानु- मण्डलनिपतितेन वा उत्कुटु [क] स्थितेन वा तथागतप्रतिमां पुरतः स्थापयित्वा संपूरस्कृत्यैवं स्याद्वचनीयः। अनुप्रयच्छ मे कुलपुत्रायुष्मन् भदन्तेति वा बोधिसत्त्वशीलसंवरसमादानम्। इत्युक्त्वा एकाग्रां स्मृतिमुपस्थाप्य चित्तप्रशादमेवानुपबृंहयता न चिरस्येदानीं मेऽक्षयस्याप्रमेयस्य निरुत्तरस्य महापुण्यनिधानस्य प्राप्तिर्भविष्यतीति एतमेवार्थमनुचिन्तयता तूष्णीं भवितव्यम्। तेन पुनर्विज्ञेन बोधिसत्त्वेन स तथा प्रतिपन्नो बोधिसत्त्वः अविक्षिप्तेन चेतसा स्थितेन वा निषण्णेन वा आसने इदं स्याद्वचनीयः। श्रुणु एवंनामन् कुलपुत्र धर्मभ्रातरिति वा बोधिसत्त्वोऽसि बोधौ च कृतप्रणिधानः। तेन ओमिति [प्रति] ज्ञातव्यम्। स पुनरुत्तरि इदं स्याद्वचनीयः। प्रतीच्छसि त्वमेवंनामन् कुलपुत्र ममान्तिकात् सर्वाणि बोधिसत्त्वशिक्षापदानि सर्वञ्च बोधिसत्त्वशीलं संवरशीलं कुशलधर्मसंग्राहकशीलं सत्त्वार्थक्रियाशीलञ्च। यानि शिक्षापदानि यच्छीलमतीतानां सर्वबोधिसत्त्वानामभूत्। यानि शिक्षापदानि यच्छीलमनागतानां सर्वबोधिसत्त्वानां भविष्यति। यानि शिक्षापदानि यच्छीलमेतर्हि दशसु दिक्षु प्रत्युत्पन्नानां सर्वबोधिसत्त्वानां भवति। येषु शिक्षापदेषु यच्छीलेऽतीताः सर्वबोधिसत्त्वाः शिक्षितवन्तः। अनागताः सर्वबोधिसत्त्वाः शिक्षिष्यन्ते। प्रत्युत्पन्नाः सर्वबोधिसत्त्वाः शिक्षन्ते। तेन प्रतिगृह्णामीति प्रतिज्ञातव्यम्। एवं द्विरपि त्रिरपि तेन च विज्ञेन बोधिसत्त्वेन वक्तव्यम्। तेन च ममादायकेन बोधिसत्त्वेन यावत् त्रिरपि प्रतिज्ञातव्यं पृष्टेन। एवं हि तेन विज्ञेन बोधिसत्त्वेन तस्य प्रतिग्राहकस्य बोधिसत्त्वस्य यावत् त्रिरपि बोधिसत्त्वशीलसंवरसमादान दत्त्वा प्रतिज्ञाञ्च प्रतिगृह्याव्युत्थित एव तस्मिन् प्रतिग्राहके बोधिसत्त्वे तस्या एव तथागतप्रतिमायाः पुरतो दशसु दिक्षु सर्वबुद्धबोधिसत्त्वानां तिष्ठतां ध्रियतां यापयतां पादयोर्निपत्य सामीचीं कृत्वा एवमारोचयितव्यम्।



प्रतिगृहीतमनेन एवनाम्ना बोधिसत्त्वेन मम एवंनाम्नो बोधिसत्त्वस्यान्तिकाद्यावत् त्रिरपि बोधिसत्त्वशीलसंवरसमादानम्। सोऽहमेवनामात्मानं साक्षिभूतमस्यैतन्नाम्नो बोधिसत्त्वस्य परमार्याणां विपरोक्षाणामपि सर्वत्र सर्वसत्त्वाविपरोक्षबुद्धीनां दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुष्वारोचयाम्यस्मिन् बोधिसत्त्वशीलसंवरसमादनम्। एव द्विरप्येवं त्रिरपि वक्तव्यम्। एवञ्च पुनः शीलसंवरसमादानकर्मपरिसमाप्त्यनन्तरं धर्मता खल्वेषा यद्वा दशसु दिक्ष्वनन्तापर्न्यतेषु लोकधातुषु तथागतानां महाभूमिप्रविष्टानाञ्च बोधिसत्त्वानाञ्च तिष्ठतां ध्रियतां तद्रूपं निमित्तं प्रदुर्भावति। येन तेषामेवं भवति। बोधिसत्त्वेन बोधिसत्त्वशीलसंवरसमादानं समाप्तमिति। तेषाञ्चानन्तरं समन्वाहरस्तस्य बोधिसत्त्वस्यान्तिके भवति। समन्वाहरताञ्च ज्ञानदर्शनं प्रवर्तते। ते तेन ज्ञानदर्शनेन यथाभूतमेवं प्रतिसंवेदयन्ति। यथा एवंनान्मा बोधिसत्त्वेन अमुष्मिन् लोकधातावेवंनाम्नो बोधिसत्त्वस्यान्तिकात् सम्यग्बोधिसत्त्वशील संबरसमादानं गृहीतमिति। ते चास्य सर्वे पुत्रस्यैव भ्रातुरिवकल्याणैर्मनोभिः प्रत्यनुकम्पन्ते। एवं कल्याणमनःप्रत्यनुकम्पितस्य [तस्य] बोधिसत्त्वस्य भूयस्या मात्रया वृद्धिः प्रतिकांक्षितव्या कुशलानां धर्माणां न हानिः। प्रतिगृहीतञ्च तच्छीलसंवरसमादानारोचनं तैर्वेदितव्यम्। परिसमाप्तौ च तस्मिन् बोधिसत्त्वशीलसंवरसमादानकर्मण्युभाभ्यां ताभ्यां बोधिसत्त्वाभ्यां दशसु दिक्षु तेषामनन्तापर्यन्तलोकधातुगतानां बुद्धबोधिसत्त्वानां सामीचीं कृत्वा पादयोर्निपत्योत्थातव्यम्। इदं तस्य बोधिसत्त्वस्य शीलसंवरसमादानं सर्वशील-संवरसमादानप्रतिविशिष्टं भवति निरुत्तरमप्रमेयपुण्यस्कन्धसमन्वागतं परमकल्याणचित्ताशयसमुत्थापितं सर्वसत्त्वेषु सर्वाकारदुश्चरितप्रतिपक्षभूतम्। यस्य शीलसंवरसमादानस्य सर्वप्रातिमोक्षसंवरसमादानानि शततमीमपि कलां नोपयन्ति सहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपमामप्युपनिषदमपि नोपयन्ति यदुत पुण्यपरिग्रहमुपादाय। तेन पुनर्बोधिसत्त्वेनैवं बोधिसत्त्वशीलसंवरसमादानव्यवस्थितेन स्वयं चाभ्युह्याभ्युह्येदं बोधिसत्त्वस्य प्रतिरूपं कर्तुम् इदमप्रतिरूपं कर्तुमिति तथैव तत ऊर्ध्वं कर्मणा संपादयितव्यं शिक्षा करणीया। बोधिसत्त्वसूत्रपिटकाद्वा यत्नतः श्रुत्वाऽस्माबोधिसत्त्वसूत्रपिटकमातृकानिबन्धात् श्रुत्वा तथैव शिक्षा करणीया। न च पुनः सर्वेषां बोधिसत्त्वानामन्तिकाद्विज्ञानामप्येतच्छीलसंवरसमादानमादातव्यम्। बोधिसत्त्वेन नाश्राद्धस्यान्तिकात् प्रग्रहीतव्यम्। यस्तत्प्रथमत एतदेवंविधं शीलसंवरसमादानं नाधिमुच्येत नावतरेन्नावकल्पयेन्नलुब्धस्य न लोभाभिभूतस्य महेच्छस्यासन्तुष्टस्य न शीलविपन्नस्य शिक्षास्वनादरकारिणः शैथिलिकस्य न क्रोधनस्योपनाहिनः अक्षान्तिबहुलस्य परतो व्यतिक्रमासहिष्णोः नालसस्य कुसीदस्य यद्भूयसा रात्रिन्दिवं निद्रासुखं पार्श्वसुखं शयनसुखञ्च स्वीकुर्वतः सङ्गणिकया चातिनामयतः।



न विक्षिप्तचित्तस्यान्ततो गोदोहनमात्रमपि कुशलचित्तैकाग्रताभावनाऽसमर्थस्य। न मन्दस्य न मोमुहजातीयस्यात्यर्थं संलीनचित्तस्य बोधिसत्त्वसूत्रपिटकं बोधिसत्त्वपिटकमातृकामपवदमानस्य। न च पुनरेतत् संवरसमादानविधानं बोधिसत्त्वेनोद्गृह्य पर्यवाप्यापि बोधिसत्त्वपिटक प्रतिहतानामश्राद्धानां सत्त्वानां सहसैवारोचयितव्य प्रवेदयितव्यम्। तत्कस्य हेतोः। तथाहि श्रुत्वाऽ[न]धिमुच्यमाना महताज्ञानावरणेनावृता अपवदेरन्। यश्चैनमपवदते स यावदप्रमाणेन पुण्यस्कन्धेन समन्वागतः संवरस्थायी बोधिसत्त्वो भवति तावदप्रमाणेनैव सोऽपुण्यस्कन्धेनानुषक्तो भवति यावत्तां पापिकां वाचं पापिकां दृष्टिं पापकान् सकल्पान् सर्वेण सर्व नोत्सृजति।



शीलसंवरसमादानञ्च कर्तुकामस्य बोधिसत्त्वस्य पुरतोऽस्यां बोधिसत्त्वसूत्रपिटकमातृकायां यानि बोधिसत्त्वस्य शिक्षापदान्यापत्तिस्थानानि चाख्यातानि तान्यनुश्रावयितव्यानि। च चेदाशयतो विचारयित्वा प्रज्ञया प्रतिसंख्यायोत्सहते। न परसमादापनिकया नापि परस्पर्धया [स] धीरो बोधिसत्त्वो वेदितव्यः। तेन च प्रतिगृहीतव्यं तस्य च दातव्यमेतेन विधिना एतच्छीलसंवरसमादानम्।



एवञ्च शीलसंवरव्यवस्थितस्य बोधिसत्त्वस्य चत्वारः पाराजयिकस्थानीयधर्मा भवन्ति। कतमे चत्वारः। लाभसत्काराध्यवसितस्यात्मोत्‍कर्षणा परपंसना बोधिसत्त्वस्य पाराजायिकस्थानीयो धर्मः। सत्सु संविद्यमानेषु भोगेषु लोभप्रकृतित्वात् दुःखितेषु कृपणेष्वनाथेष्वप्रतिशरणेष्वसम्यगयाचकेषु प्रत्युपस्थितेषु नैर्वृण्यादामिषाविसर्गः धर्ममात्सर्याच्चार्थिनां सम्यक्प्रत्युपस्थितानां धर्माणामसंविभागक्रिया बोधिसत्त्वस्य पाराजयिकस्थानीयो धर्मः। यदपि बोधिसत्त्वस्तद्रूपं क्रोधपर्यवस्थानमनुवृंहयति येन ततो न वाक्पारुष्यनिश्चारणमात्रकेण निवर्तते। क्रोधाभिभूतः पाणिना वा लोष्टेन वा दण्डेन वा शस्त्रेण सत्त्वांस्ताडयति विहिंसयति विहेठयति। क्रोधाशयमेव च तीव्रमन्तराकृत्वा परेषामन्तिकाद्व्यतिक्रमसज्ञप्ति न प्रतिगृहणाति न क्षमते नाशयं विमुञ्चति। अयमपि बोधिसत्त्वस्य पाराजयिकस्थानीयो धर्मः। बोधिसत्त्वपिटकापवादः सद्धर्मप्रतिरूपकाणाञ्च रोचना दीपना व्यवस्थापना। स्वयं वा सद्धर्मप्रतिरूपकाधिमुक्तस्य परेषां चाऽनुवृत्त्या बोधिसत्त्वस्य पाराजयिकस्थानीयो धर्मः। इतीमे चत्वारः पाराजयिकस्थानीया धर्माः। येषां बोधिसत्त्वोऽन्यतमान्यतमं धर्ममध्यापद्य प्रागेव सर्वानभव्यो भवति दृष्टे धर्मे विपुलस्य बोधिसत्त्वसंभारस्योपचयाय परिग्रहाय। अभव्यो भवति च दृष्टे धर्मे आशयविशुद्धेः। [स] बोधिसत्त्वप्रतिरूपकश्च भवति। नो तु भूतो बोधिसत्त्वः।



मृदुमध्यपर्यवस्थान [त] श्च बोधिसत्त्वः एभिश्चतुर्भिः पाराजयिकस्थानीयधर्मसमुदाचाराद्बोधिसत्त्वशीलसंवरसमादानं [न] विजहाति। अधिमात्रपर्यवस्थानतस्तु विजहाति। यतश्च बोधिसत्त्वः एषां चतुर्णां पाराजयिकस्थानीयानां धर्माणामभीक्ष्ण-समुदाचारात् परीत्तमपि ह्रीब्यपत्राप्यं नोत्पादयति। तेन च प्रीयते। तेन च रमते। तत्रैव गुणदर्शी भवति। इयमधिमात्रता पर्यवस्थानस्य वेदितव्या। न तु बोधिसत्त्वः सकृदेव पाराजयिकस्थानीयधर्मसमुदाचारात् बोधिसत्त्वशीलसंवरसमादानं विजहाति। तद्यथा पाराजयिर्कैधर्मैर्भिक्षुःप्रातिमोक्षसंवरम्। परित्यक्तसमादानोऽपि च बोधिसत्त्वो दृष्टे धर्मे भव्यः पुनरादानाय बोधिसत्त्वशीलसंवरसमादानस्य भवति नाभव्य एव तद्यथा पाराजयिकाध्यापन्नः प्रातिमोक्षसंवरस्थो भिक्षुः। समासतश्च द्वाभ्यामेव कारणाभ्यां बोधिसत्त्वशीलसंवरसमादानस्य त्यागो भवति। अनुत्तरायां सम्यक्संबोधौ प्रणिधानपरित्यागतश्च पाराजयिकस्थानीयधर्माधिमात्रपर्यवस्थानसमुचारतश्च। न च परिवृत्तजन्मापि बोधिसत्त्वः बोधिसत्त्वशीलसंवरसमादानं विजहाति। अध उर्ध्वं तिर्यक्सर्वत्रोपपद्यमानो येन बोधिसत्त्वेन प्रणिधानं न त्यक्तं भवति। नापि च पाराजयिकस्थानीयानां धर्माणामधिमात्रं पर्यवस्थानं समुदाचरितं भवति। मुषितस्मृतिस्तु परिवृत्तजन्मा बोधिसत्त्वः कल्याणमित्रसम्पर्कमागम्य स्मृत्युद्बोधनार्थं पुनः पुनरादानं करोति। न त्वभिनवसमादानम्।



एवं बोधिसत्त्वशीलसंवरस्थितस्य बोधिसत्त्वस्यापत्तिरपि वेदितव्या। अनापत्तिरपि क्लिष्टाप्यक्लिष्टापि मृद्वी मध्याऽधिमात्रा अपि।



एवं बोधिसत्त्वशीलसंवरस्थितो बोधिसत्त्वः प्रतिदिवसं तथागतस्य वा तथागतमुद्दिश्य चैत्ये धर्मस्य वा धर्ममुद्दिश्य पुस्तकगतेऽपि बोधिसत्त्वसूत्रपिटके [बोधिसत्त्वसूत्रपिटक] मातृकायां वा संघस्य वा योऽसौ दशसु दिक्षु महाभूमिप्रविष्टानां बोधिसत्त्वानां संघः किञ्चिदेवाल्पं वा प्रभूतं वा पूजाधिकारिकमकृत्वाऽन्तत एकप्रणाममपि कायेन अन्ततो गुणानारभ्य बुद्धधर्मसंघानामेकचतुष्पदाया अपि गाथायाः प्रव्याहारं वाचा अन्तत एकप्रसादमपि बुद्धधर्मसंघगुणानुस्मरणपूर्वकञ्चेतसा रात्रिंदिवमतिनामयति सापत्तिको भवति सातिसारः। स चेदगौरवादालस्यकौसीद्यादापद्यते क्लिष्टामापत्तिमापन्नो भवति। स चेत् स्मृतिसंप्रमोषादापद्यते अक्लिष्टामापत्तिमापन्नो भवति। अनापत्तिः क्षिप्तचेतसः। अनापत्तिः शुद्धाशयभूमिप्रविष्टस्य। तथाहि शुद्धाशयो बोधिसत्त्वः तद्यथा अवेत्यप्रसादलाभी भिक्षर्नित्यकालमेव धर्मतया शास्तारं परिचरति परमया च पूजया पूजयति धर्मसंघञ्च।



बोधिसत्त्वो महेच्छतामसन्तुष्टिं लाभसत्कारगर्धमुत्पन्नमधिवासयति सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य वीर्यमारभत स्तत्प्रतिपक्षपरिग्रहेण तत्प्रतिबन्धावस्थितस्य प्रकृत्या तीव्रक्लेशतयाभिभूय पुनः पुनः समुदाचाराणात्।



बोधिसत्त्वो वृद्धतरकं गुणवन्तं सत्कारार्हं सहधार्मिकं दृष्ट्वा मानाभिनिग्रहीतः आघातचित्तः प्रतिघचित्तो वा उत्थायासनं नानुप्रयच्छति। परैश्चालप्यमानः प्रतिसम्मोद्यमानः परिपृष्टश्च न युक्तरूपेण वाक् प्रत्युदाहारेण प्रत्युपतिष्ठते मानाभिनिगृहीत एव आघातचित्तः प्रतिघचित्तो वा सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। नो चेन्मानाभिनिगृहीतो नाघातचित्तः प्रतिघचित्तो वा अपि त्वालस्यकौसीद्यादव्याकृतचित्तो वा स्मृतिसंप्रमोषाद् [वा] सापत्तिक एव भवति सातिसारो नो तु क्लिष्टामापत्तिमापद्यते। अनापत्तिर्वाढग्लानः स्यात् क्षिप्तचित्तो वा। अनापत्तिः [सुप्तः] स्यादयञ्च प्रतिविबुद्धसंज्ञी उपश्लिष्येद् आलपेत् संलपेत् प्रतिसम्मोदयेत् परिपृच्छेत्। अनापत्तिः परेषां धर्मदेशनायां प्रयुक्तस्य सांकथ्यविनिश्चये वा। अनापत्तिस्तदन्येषां प्रतिसंमोदयतः। अनापत्तिः परेषां धर्मं देशयतामवहितश्रोत्रस्य शृण्वतः सांकथ्यंविनिश्चयं वा। अनापत्तिर्धर्मसंकथाविरसतां धार्मकथिकचित्तञ्चानुरक्षतः। अनापत्तिस्तेनोपायेन तेषां सत्त्वानां दमयतो विनयतः अकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थानेप्रतिष्ठापयतः। [अनापत्तिः] सांधिकक्रियाकारमनुरक्षतः अनापत्तिः परेषां प्रभूततराणां चित्तमनुरक्षतः।



बोधिसत्त्वः परैरुपनिमन्त्र्यमाणो गृहे वा विहारान्तरे वा गृहान्तरे वा भोजनपानवस्त्रादिभिः परिष्कारैः मानाभिनिगृहीतः आघातचित्तः प्रतिघचित्तो वा न गच्छति। न निमन्त्रणां स्वीकरोति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्यान्न गच्छति अक्लिष्टामापत्तिमापद्यते। अनापत्तिर्ग्लानः स्यादप्रतिबलः क्षिप्तचित्तो व। अनापत्तिर्विप्रकृष्टो देशः स्यात् मार्गश्च सप्रतिभयः। अनापत्तिस्तेनोपायेनास्य दमयितुकामः स्यात् विनेतुकामोऽकुशलात्स्थानाद् व्युत्थाप्य कुशले स्थाने प्रतिष्ठापयितुकामः। अनापत्तिरन्यस्य पूर्वतरं प्रतिज्ञानं भवेत्। अनापत्तिर्निरन्तरकुशलपक्ष-[प्रयुक्तस्य कुशलपक्ष-] च्छिद्रीकारानुरक्षार्थमगच्छतः अनापत्तिरपूर्वस्यार्थोपसंहितस्य धर्मार्थश्रवणस्य परिहाणिहेतोः। यथा धर्मार्थश्रवणस्य एवं सांकथ्यविनिश्चयस्यापि वेदितव्यम्। अनापत्तिर्विहेठनाभिप्रायेण निमन्त्रितः स्यात्। अनापत्तिः परेषां प्रभूततरकाणामाघतचित्तमनुरक्षतः। अनापत्तिः सांधिकं क्रियाकारमनुरक्षतः।



बोधिसत्त्वः परेषामन्तिकाजजातरूपजतमणिमुक्तावैदूर्यादिकानि च धनजातानि विचित्राणि प्रभूतानि प्रवराणि लभमानोऽनुदध्यमानः आघातचित्तः प्रतिघचित्तो न प्रतिगृह्णाति प्रतिक्षिपति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते सत्त्वोपेक्षया। आलस्यकौसीद्यान्न प्रतिगृह्णाति। सापत्तिको भवति सातिसारो नो तु क्लिष्टामापत्तिमापद्यते। अनापत्तिः क्षिप्तचित्तस्य। अनापत्तिस्तस्मिन् प्रतिग्रहे रतिं चेतसः पश्यतः। [अनापत्तिर्विप्रतिसारमस्य पश्चात् संभावयवः। ] अनापत्तिर्दानविभ्रमस्य संभावयतः। अनापत्तिर्विनिर्मुक्ताग्रहस्य दानपतेर्दारिद्रयं विघातं तन्निदानं संभावयतः। अनापत्तिः सांधिकं स्तौपिकं संभावयतः। अनापत्तिः पराहृतमनेन संभावयतः यतो निदानमस्योत्पद्येत वधो वा बन्धो वा दण्डो वा ज्या-निर्गर्हणा वा।



बोधिसत्त्वः परेषां धर्मार्थिनामाघातचित्तः प्रतिघचित्तः ईर्ष्याविप्रकृतो वा धर्मं नानुप्रयच्छति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्यान्न ददाति सापत्तिको भवति सातिसारो न क्लिष्टामापत्तिमापद्यते। अनापत्तिस्तीर्थिकः स्यात् रन्ध्रप्रेक्षी। अनापत्तिर्बाढग्लानः स्यात् क्षिप्तचित्तो वा। अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः अकुशलात् स्थानाद् व्युत्थाप्य कुशले स्थाने प्रतिष्ठापयितुकामः। अनापत्तिर्धर्मे न प्रवृत्तः स्यात्। अनापत्तिर्यद्यगौरवोऽप्रतीशो दुरीर्यापथः प्रतिगृह्णीयात्। अनापत्तिर्मृद्विन्द्रियस्योदारया धर्मदेशनया धर्मपर्याप्त्या उत्त्रासं मिथ्यादर्शनं मिथ्याभिनिवेशं क्षतिञ्चोपहतिञ्च संभावयेत्। अनापत्तिस्तद्धस्तगतस्य परेभ्यः अभाजनभूतेभ्यो विसारं धर्मस्य संभावयेत्।



बोधिसत्त्वो रौद्रेषु दुःशीलेषु च सत्त्वेष्वाघातचित्तः प्रतिघचित्तः उपेक्षते विचेष्टते वा रौद्रतां दुःशीलतामेव च प्रत्ययं कृत्वा। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्यादुपेक्षते स्मृतिसंप्रमोषाच्च विचेष्टते। सापत्तिको भवति सातिसारो नो तु क्लिष्टामापत्तिमापद्यते। तत्कस्य हेतोः। न हि बोधिसत्त्वस्य शीलवतः शान्तेः कायवाङ्मनस्कर्मप्रचारे तथानुकम्पाचित्तञ्च कर्तुकामता च प्रत्युपस्थिता भवति यथा रौद्रेषु दुःशीलेषु सत्त्वेषु दुःखहेतौ वर्तमानेषु। अनापत्तिः क्षिप्तचित्तस्य। अनापत्तिस्तेनोपायेनास्य दमयितुकामः स्याद्विस्तरेण पूर्ववत्। अनापत्तिः परेषां प्रभूतानाञ्चित्तानुरक्षिणः। अनापत्तिः संघक्रियाकारानुरक्षिणः।



बोधिसत्त्वो यद्भगवता प्रातिमोक्षे विनये प्रतिक्षेपण-सावद्यं व्यवस्थापितं परचित्तानुरक्षामुपादायाप्रसन्नानां सत्त्वानां प्रसादाय प्रसन्नानाञ्च भूयोभावाय। तत्र तुल्यां श्रावकैः शिक्षां करोति निर्निराकरणम्। तत्कस्य हेतोः। श्रावकास्तावदात्मार्थपरमाः। ते तावन्न परनिरनुरक्षा अप्रसन्नानां प्रसादाय प्रसन्नानाञ्च भूयोभावाय शिक्षासु शिक्षन्ते। प्रागेव बोधिसत्त्वाः परार्थपरमाः।



यत्पुनः प्रतिक्षेपणसावद्यमल्पार्थतामल्पकृत्यतामल्पोत्सुकविहारतामारभ्य श्रावकाणां भगवता व्यवस्थापितां तत्र बोधिसत्त्वो न तुल्यां शिक्षां श्रावकैः करोति। तत्कस्य हेतोः। शोभते श्रावकः स्वार्थपरमः परार्थनिरपेक्षः परार्थमारभ्याल्पार्थः अल्पकृत्यश्चाल्पोत्सुकविहारी च। न तु बोधिसत्त्वः परार्थपरमः शोभते परार्थमारभ्याल्पार्थोऽल्पकृत्यश्चाल्पोत्सुकविहारी च तथाहि बोधिसत्त्वेन परेषामर्थे चीवरशतानि सहस्त्राण्यज्ञातिकानां ब्राह्मणगृहपतीनामन्तिकात्पर्येषितव्यानि प्रवारितेन। तेषां च सत्त्वानां बलाबलं संलक्ष्य यावदर्थ प्रतिगृहीतव्यानि। यथा चीवरकाण्येवं पात्राणि। यथा पर्येषितव्यान्येवं स्वयं याचितेन सूत्रेणाज्ञातिभिस्तन्तुवायैर्वार्ययितव्यानि। परेषाञ्चार्थाय कौशेयसंस्तरणशतानि निषदनसंस्तरणशतान्यूपस्थापयितव्यानि। जातरूपरजतशतसहस्रकोढ्यग्राण्यपि स्वीकर्तव्यानि। एवमादिकेऽल्पार्थतामल्पकृत्यतामल्पोत्सुकविहारतामारभ्य श्रावकाणां प्रतिक्षेपणसावद्येन समानशिक्षो भवति। बोधिसत्त्वो बोधिसत्त्वशीलसंवरस्थः सत्त्वार्थमारभ्य आघातचित्तः प्रतिघचित्तः अल्पार्थो भवति अल्पकृत्यः अल्पोत्सुकविहारी। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्यादल्पार्थो भवत्यल्पकृत्यः अल्पोत्सुकविहारी। सापत्तिको भवति सातिसारोऽक्लिष्टामापत्तिमापद्यते।



अस्ति किञ्चित्प्रकृतिसावद्यमपि [यद्] बोधिसत्त्वस्तद्रूपेणोपायकौशल्येन समुदाचरति येनानापत्तिकश्च भवति बहु च पुण्यं प्रसूयते। यथापि तद्बोधिसत्त्वश्चौरं तस्करं प्रभूतानां प्राणिशतानां महात्मनां श्रावकप्रत्येकबुद्धबोधिसत्त्वानां वधायोद्यतमामिषकिञ्चित्‍कहेतोः प्रभूतानन्तर्यकर्मक्रियाप्रयुक्तं पश्यति। दृष्ट्वा च पुनरेवं चेतसा चित्तमभिसंस्करोति। यद्यप्यहमेनं प्राणिनं जीविताद्व्यपरोप्य नरकेषूपपद्येयं कामं भवतु मे नरकोपपत्तिः। एष च सत्त्व आनन्तर्यकर्म कृत्वा मा भून्नरकपरायण इति। एवमाशयो बोधिसत्त्वस्तं प्राणिनं कुशलचित्तोऽव्याकृतचित्तो वा विदित्वा ऋतीयमानः अनुकम्पाचित्तमेवायत्यामुपादाय जीविताद्व्यपरोपयति। अनापत्तिको भवति बहु च पुण्यं प्रसूयते।



यथापि तद् बोधिसत्त्वो ये सत्त्वा राजानो वा भवन्ति राजमहामात्रा वा अधिमात्ररौद्राः सत्त्वेषु निर्दया एकान्तपरपीडाप्रवृत्ताः। तां सत्यां शक्तौ तस्माद्राज्यैश्वर्याधिपत्याच्च्यावयति यत्र स्थितास्ते तन्निदानं बह्वपुण्यं प्रसवन्ति अनुकम्पाचित्तो हितसुखाशयः।



ये च परद्रव्यापहारिणश्चौरास्तस्कराः सांधिकं स्तौपिकञ्च प्रभूतं द्रव्यं हृत्वा स्वीकृत्योपभोक्तुकामास्तेषामन्तिकात्तद् द्रव्यं बोधिसत्त्व आच्छिनत्ति। मा हैव तेषां स द्रव्यपरिभोगो दीर्घरात्रमनर्थायाहिताय भविष्यति इति। एवमेव प्रत्ययं कृत्वा आच्छिद्य साधिकं संधे निर्यातयति स्तैपिकं स्तूपे। ये च वैयावृत्यकरा वा आरामिका वा सांधिकं स्तौपिकञ्च प्रभूतं द्रव्यं विप्रतिपादयन्त्यनयेन। स्वयं [च] पौद्गलिकं परिभुञ्जते। तान् बोधिसत्त्वः प्रतिसंख्याय मा हैव तत्कर्म। स च मिथ्यापरिभोगस्तेषां भविष्यति दीर्घरात्रमनर्तायाहितायैति। तस्मादाधिपत्याच्च्यावयति। तदनेन पर्यायेण बोधिसत्त्वः अदत्तमाददानोऽप्यनापत्तिको भवति। बहु च पुण्यं प्रसूयते।



यथापि तद्गृही बोधिसत्त्वः अब्रह्मचर्येषणार्तं तत्प्रतिबद्धचित्तमपरपरिगृहीतं मातृग्रामं मैथुनेन धर्मेण निषेवते। मा हैवाघातचित्ततां प्रतिलभ्य बह्वपुण्यं प्रसोष्यति। यथेप्सितकुशलमूलसन्नियोगे च वश्या भविष्यत्यकुशल-[मूल] परित्यागे चेत्यनुकम्पाचित्तमेवोपस्थाप्य अब्रह्मचर्यं मैथुनं[धर्मं] प्रतिषेवमानोऽप्यनापत्तिको भवति। बहु च पुण्यं प्रसूयते। प्रव्रजितस्य पुनर्बोधिसत्त्वस्य श्रावकशासनभेदमनुरक्षमाणस्य सर्वथा न कल्पतेऽब्रह्मचर्यनिषेवणम्।



यथापि तद् बोधिसत्त्वो बहूनां सत्त्वानां जीवित-विप्रमोक्षार्थं बन्धनविप्रमोक्षार्थं हस्तपादनासाकर्णच्छेद-चक्षुर्विकलीभाव-परित्राणार्थं यां बोधिसत्त्व स्वजीवितहेतोरपि सम्प्रजानन् मृषावाचं न भाषेत। तां तेषां सत्त्वानामर्थाय प्रतिसंख्याय भाषते। इति समासतो येन येन बोधिसत्त्वः सत्त्वानामर्थमेव पश्यति। नानर्थं पश्यति। स्वयं च निरामिषचित्तो भवति। केवल-सत्त्वहितकामतानिदानं च विनिधाय संज्ञां सम्प्रजानन् अन्यथा-वाचं भाषते। भाषमाणः अनापत्तिको भवति। बहु च पुण्यं प्रसूयते।



यथापि तद् बोधिसत्त्वो ये सत्त्वा अकल्याणमित्र परिगृहीता भवन्ति तेषां तेभ्यः अकल्याणमित्रेभ्यो यथाशक्ति यथाबलं ब्यग्रकरणीं वाचं भाषते। व्यग्रारामश्च भवति तेन प्रीयमाणः। अनुकम्पाचित्तमेवोपादाय मा भूदेषां सत्त्वानां पापमित्रसंसर्गो दीर्घरात्रमनर्थायाहितायेति। अनेन पर्यायेण मित्रभेदमपि कुर्वन् बोधिसत्त्वोऽनापत्तिको भवति। बहु च पुण्यं प्रसूयते।



यथापि तद् बोधिसत्त्वः उत्पथचारिणोऽन्यायचारिणः सत्त्वान् परुषया वाचा तीक्ष्णयावसादयति यावदेव तेनोपायेनाकुशलात् स्थानाद् व्युत्थाप्य कुशले स्थाने प्रतिष्ठापनार्थम्। एवं पारूषिको बोधिसत्त्वोऽनापत्तिको भवति। बहु च पुण्यं प्रसूयते।



यथापि तद् बोधिसत्त्वो नृत्तगीतवादिताधिमुक्तानां सत्त्वानां राजचौरान्नपान-वेश्या-वीथी-कथाद्यधिमुक्तानां च सत्त्वानां नृत्तगीतवादितेन विचित्राभिश्च सम्भिन्नप्रलाप-प्रतिसंयुक्ताभिः संकथाभिरनुकम्पाशयेन तोषयित्वावर्ज्य वश्यतां विधेयतां चोपनीयाकुशलात् स्थानाद् व्युत्थाप्य कृशले स्थाने प्रतिष्ठापयति। एवं सम्भिन्नप्रलापी अपि बोधिसत्त्वोऽनापत्तिको भवति। बहु च पुण्यं प्रसूयते।



बोधिसत्त्वः उत्पन्नां कुहनां लपनां नैमित्तिकतां नैष्पेषिकतां लाभेन लाभं निश्चिकीर्षुतां मिथ्याजीवकरां धर्मानधिवासयति। न तै रितीयते। न विनोदयति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। अनापत्तिस्तत्‍प्रतिविनोदनाय च्छन्दजातस्य यत्नमारभमाणस्य क्लेशप्रचुरतया चित्तमभिभूय समुदाचरणात्।



बोधिसत्त्वः औद्धत्याभिनिगृहीतेन चेतसाऽव्युपशान्तः अव्ययुपशमारामः उच्चैः संञ्चग्धति संक्रीडते संकिलिकिलायते औद्धत्यं द्रवं प्राविष्करोति परेषां हासयितुकामो रमयितुकामः। एवमेव च प्रत्ययं कृत्वा सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते स्मृतिसंप्रमोषादक्लिष्टामापत्तिमापद्यते। अनापत्तिस्तद्विनोदनाय च्छन्दजातस्य पूर्ववत्। अनापत्तिः परेषामुत्पन्नमाघातं तेनोपायेन प्रतिविनोदयितुकामः स्यात्। अनापत्तिः परेषामुत्पन्नं शोकमपहापयितुकामः स्यात्। अनापत्तिः परेषां तत्प्रकृतिकानांतदारामाणां संग्रहाय वा प्रणयानुसंरक्षणाय वा तदनुवर्तनार्थम्। अनापत्तिः परेषां बोधिसत्त्वे मन्युसम्भावनाजातानामाघातवैमुख्यसंभावनाजातानां सौमुख्यान्तर्भावशुद्ध्युपदर्शनार्थम्।



[यः] पुनर्बोधिसत्त्व एवंदृष्टिः स्यादेवंवादी न बोधिसत्त्वेन निर्वाणारामेण विहर्तव्यम्। अपि तु निर्वाणविमुखेन विहर्तव्यम्। न च क्लेशोपक्लेशेभ्यो भेतव्यम् न चैकान्तेन तेभ्यश्चित्तं विवेचयितव्यम्। तथा हि बोधिसत्त्वेन त्रीणि कल्पासंख्येयानि संसारे संसरता बोधिः समुदानेतव्येति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। तत्कस्य हेतोः। यथा खलु श्रावकेण निर्वाणाभिरतिरासेवितव्या क्लेशोपक्लेशेभ्यश्च चित्तमुद्वेजयितव्यं ततः शतसहस्रकोटिगुणेन बोधिसत्त्वेन निर्वाणाभिरतिरासेवितव्या क्लेशोपक्लेशेभ्यश्च चेतस उद्वेगो भावयितव्यः। तथा हि श्रावकोऽस्यात्मनोऽर्थाय प्रयुक्तो बोधिसत्त्वः सर्वसत्त्वानामर्थाय प्रयुक्तः। तेन तथा चित्तासंक्लेशाभ्यासः समुदानेतव्यो यथायमनर्हन्नपि तत्प्रतिविशिष्टेनासंक्लेशेन समन्वागतः सास्त्रवे वस्तुनि अनुविचरेत्।



बोधिसत्त्वोऽनादेयवचनकरमपशब्दमात्मनः अयशोऽकीर्ति न रक्षति न परिहरति भूतवस्तुकाम्। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। अभूतवस्तुकां न परिहरति। सापत्तिको भवति सातिसारः अक्लिष्टामापत्तिमापद्यते। अनापत्तिस्तीर्थिकः परः स्यात्। इति यो वा पुनरन्योऽप्यभिनिविष्टः। अनापत्तिः प्रव्रज्या-भिक्षाचर्या-कुशलचर्या-निदानोऽपशब्दो निश्चरेत्। अनापत्तिः क्रोधाभिभूतो विपर्यस्तचित्तो निश्चारयेत्।



बोधिसत्त्वो येन कटुकप्रयोगेण तीक्ष्णप्रयोगेण सत्त्वानामर्थं पश्यति तं प्रयोगं दौर्मनस्यारक्षया न समुदाचरति। सापत्तिको भवति [सातिसारः] अक्लिष्टामापत्तिमापद्यते। अनापत्तिर्यत् परीत्तमर्थं दृष्टधार्मिकं पश्येत् प्रभूतश्च तन्निदानं दौर्मनस्यम्।



बोधिसत्त्वः परैराक्रुष्टः प्रत्याक्रोशति। रोषितः प्रतिरोषयति। ताडितः प्रतिताडयति। भण्डितः प्रतिभण्डयति। सापत्तिको भवति सातिसारं क्लिष्टामापत्तिभापद्यते।



बोधिसत्त्वः परेषां व्यतिक्रमं कृत्वा व्यतिक्रमेण वा सम्भावितः आघातचित्तो मानाभिनिगृहीतः संज्ञप्तिमनुरूपां नानुप्रयच्छत्युपेक्षते। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्यात् प्रमादाद्वा न संज्ञप्तिमनुप्रयच्छति। सापत्तिको भवति सातिसारः अक्लिष्टामापत्तिमापद्यते। अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः अकुशलात् स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापयितुकामः। अनापत्तिस्तीर्थिकः स्यात्। अनापत्तिरकल्पिकेन सावद्यसमुदाचारेण संज्ञप्तिप्रतिग्रहणमाकांक्षेत्। अनापत्तिः स चेत् प्रकृत्या कलहकारकः स्यादाधिकरणिकः। संज्ञप्यमानश्व भूयस्या मात्रया कुप्येत् अध्यारोहेत्। अनापत्तिः परं क्षमणशीलमना-घातशीलं च संभावयेत् परतो व्यतिक्रममारभ्य संज्ञप्तिलाभेनात्यर्थं रितीयमानम्।



बोधिसत्त्वः परेषां कस्मिंश्चिदधिकरणे निसृतानां धर्मेण समेन संज्ञप्तिमनुप्रयच्छतामाघातचित्तः परविहेठनाभिप्रायः संज्ञप्तिं न प्रतिगृह्णाति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। नो चेदाघातचितः अपि त्वक्षमणशीलतया न प्रतिगृह्णाति। क्लिष्टामापत्ति मापद्यते। अनापत्तिस्तेनोपायेन परं दमयितुकामः स्यात् पूर्ववत् सर्वं वेदितव्यम्। अनापत्तिरधर्मेणासमेन संज्ञप्तिमनुप्रयच्छेत्।



बोधिसत्त्वः परेषां क्रोधाशयं वहति धारयत्युत्‍पन्नमधिवासयति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य पूर्ववत्।



बोधिसत्त्व उपस्थानपरिचर्यापरिगर्धमधिपतिं कृत्वा सामिषेण चित्तेन गणं परिकर्षति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। अनापत्तिर्निरामिषचित्तस्योपस्थानपरिचर्यां स्वीकुर्वतः।



बोधिसत्त्व उत्पन्नमालस्यकौसीद्यं निद्रासुखं शयनसुखं पार्श्वसुखञ्चाकाले अमात्रया स्वीकरोति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। अनापत्ति [र्वाढ] ग्लानः स्यादप्रतिबलः। अनापत्तिरध्वपरिश्रान्तस्य। अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य पूर्ववद्वेदितव्यम्।



बोधिसत्त्वः संरक्तचित्तः संगणिकया कालमतिनामयति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। मुषितया स्सृत्याऽतिनामयति। अक्लिष्टामापत्तिमापद्यते। अनापत्तिः पर उदाहरेत्। स च परानुवृत्त्या मुहूर्तमुपस्थितस्मृतिः शृणुयात्। अनापत्तिः कौतुकजातस्य परिप्रश्नमात्रे पृष्टस्य च प्रत्युदाहारमात्रे।



बोधिसत्त्वश्चित्तस्थितिमारभ्यं चितं समाधातुकाम आघातचित्तो मानभिनिगृहीतो नोपसंक्रम्याववादं याचते। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्याक्लिष्टमापत्तिमापद्यते। अनापत्तिग्लानः स्यादप्रतिबलः। अनापत्तिः विपरीतमववादं संभाषयेत्। अनापत्तिः स्वयं बहश्रुतः स्यात्प्रतिबलश्चित्तं समाधातुम्। कृतं चानेनाववादकरणीयं स्यात्।



बोधिसत्त्व उत्पन्नं कामच्छन्दनिवरणमधिवसयति न विनोदयति। सापत्तिको भवति सातिसारः क्लिष्टमापत्तिमापद्यते। अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य व्यायच्छत स्तीव्रक्लेशतया चित्तमभिभूय समुदाचरणात्। यथा कामच्छन्द एवं व्यापादः स्त्यानमिद्धमौद्धत्यं कौकृत्यं विचिकित्सा च वेदितव्या।



बोधिसत्त्वो ध्यानमास्वादयति। ध्यानास्वादे च गुणदर्शी भवति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमाद्ते। अनापत्तिस्तत्प्रहाणाय च्छन्दजातस्य पूर्ववत्।



यः पुनर्बोधिसत्त्वः एवंदृष्टि स्यादेवंवादी न बोधिसत्त्वेन श्रावकयानप्रतिसंयुक्तो धर्मः श्रोतव्यो नोद्ग्रहीतव्यो न तत्र शिक्षा करणीया। किं बोधिसत्त्वस्य श्रावकप्रतिसंयुक्तेन धर्मेण श्रुतेनोद्गृहीतेन। किं तत्र शिक्षया प्रयोजनमिति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। तथा हि बोधिसत्त्वेन तीर्थिकशास्त्रेष्वपि तावद्योगः करणीयः प्रागेव बुद्धवचने। अनापत्तिः ऐकान्तिकस्य तत्परस्य विच्छन्दनार्थम्।



बोधिसत्त्वो बोधिसत्त्वपिटके सति बोधिसत्त्वपिटके अकृतयोग्यः सर्वेण सर्वं बोधिसत्त्वपिटकमध्युपेक्ष्य श्रावकपिटके योग्यां करोति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। बोधिसत्त्वो बुद्धवचने सति बुद्धवचने अकृतयोग्यस्तीर्थिकशास्त्रेषु बहिःशास्त्रेषु योग्यां करोति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। अनापत्तिरधिमात्रमेधसः आशूद्ग्रहण-समर्थस्य चिरेणाप्यविस्मरण-समर्थस्य अर्थचिन्तनाप्रतिवेधसमर्थस्य बुद्धवचने युक्त्युपपरीक्षासहगतयाऽविचलया बुद्ध्या समन्वागतस्य तद्‍द्विगुणेन प्रत्यहं बुद्धवचने योग्यां कुर्वतः।



एवमपि च बोधिसत्त्वो विधिमनतिक्रम्य तीर्थिकशास्त्रेषु बहिःशास्त्रेषु कौशलं कुर्वन्नभिरतरूपस्तत्र करौति तेन च रमते न तु कटुभैषज्यमिव निषेवमाणःकरोति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते।



बोधिसत्त्वो बोधिसत्त्वपिटके गम्भीराणि स्थानानि श्रुत्वा परमगंभीराणि तत्त्वार्थं वारभ्य बुद्धबोधिसत्त्वप्रभावं वाऽनधिमुच्यमानोऽपवदते। नैते अर्थोपसंहिता न धर्मोपसंहिता न तथागतभाषिता न हितसुखाय सत्त्वानामिति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। स्वेन वाऽयोनिशोमनस्कारेण परानुवृत्या वाऽपवदमानः।



भवति खलु बोधिसत्त्वस्य गम्भीराणि परमगंभीराणि स्थानानि श्रुत्वा चेतसोऽनधिमोक्षः। तत्र श्राद्धेनाशठेन बोधिसत्त्वेनेदं प्रतिसंशिक्षितव्यम्। न मे प्रतिरूपं स्यादन्धस्याचक्षुष्मतस्तथागतचक्षुषैवानुव्यवहरतस्तथागतसन्धाय भाषितं प्रतिक्षेप्तुम्। इति [एवं] स बोधिसत्त्व आत्मानञ्चाज्ञं व्यवस्थापयति तथागतमेव च तेषु बुद्धधर्मेष्वपरोक्षतायां समनुपश्यति। एवं सम्यक् प्रतिपन्नो भवति। अनापत्तिरनधिमुच्यमानस्याप्रतिक्षिपतः।



बोधिसत्त्वः सामिषचित्तः प्रतिघचित्तः परेषामन्तिके आत्मानमुत्कर्षयति परान् पंसयति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। अनापत्तिस्तीर्थिकानभिभवितुकामस्य शासनस्थितिकामस्य। अनापत्तिस्तेनोपायेन तमेव पुद्गलं दमयितुकामस्य विस्तरेण पूर्ववत्। अनापत्तिरप्रसन्नानां प्रसादाय प्रसन्नानाञ्च भूयोभावाय।



बोधिसत्त्वो धर्मश्रवण-धर्मसांकथ्यविनिश्चयं वा मानाभिनिगृहीतः आघातचित्तः प्रतिघचित्तो नोपसंक्रामति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्यान्नोपसंक्रामति। अक्लिष्टामापत्तिमापद्यते। अनापत्तिरप्रतिसंवेदयतः। अनापत्तिर्ग्लानः स्यादप्रतिबलः अनापत्तिर्विपरीतां देशनां संभावयेत्। अनापत्तिर्धार्मकथिकचितत्तानुरक्षिणः अनापत्तिः पुनः पुनः [अनु] श्रुतामवधृतां विज्ञातार्थां कथां संजानतः। अनापत्तिर्बहुश्रुतः स्याच्छ्रुताधारः श्रुतसन्निचयः। अनापत्तिर्निरन्तरमालम्ब नचित्तस्थितेः बोधिसत्त्वसमाध्यभिनिर्हाराभियुक्तस्य। अनापत्तिरधिमात्रधन्धप्रज्ञस्य धन्धं धर्ममुद्गृह्णतः धन्धं धारयतः धन्धमालम्बने चित्तं समादधतः।



बोधिसत्त्वो धर्मभाणकं पुद्गलं संचिन्त्यावमानयत्यसत्करोत्यवहसत्यवस्पण्‍ङ्यति व्यञ्जनप्रतिसरणश्च भवति नार्थप्रतिसरणः। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते।



संवरस्थो बोधिसत्त्वः सत्त्वकुत्येष्वाघातचित्तः प्रतिघचित्तः सहायीभावं न गच्छति यच्च तत्कुत्यसमर्थे वा अध्वगमनागमने वा सम्यक्कर्मान्त प्रयोगे वा भोगरक्षणे वा भिन्नप्रतिसन्धाने वा उत्सवे वा पुण्यक्रियायां वा। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्यान्न सहायीभावं गच्छति। अक्लिष्टामापत्तिमापद्यते। अनापत्तिर्ग्लानः स्यादप्रतिबलः। अनापत्तिः स्वयं कर्तुमसमर्थः स्यात् सप्रतिसरणश्च याचकः। अनापत्तिरनर्थोपसंहितमधर्मोपसंहितं कृत्यं स्यात्। अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विस्तरेण पूर्ववत्। अनापत्तिरन्यस्य पूर्वतरमभ्युपगतं स्यात्। अनापत्तिरन्यमध्येषतः प्रतिबलम्। अनापत्तिः कुशलपक्षे नैरन्तर्येण सम्यक् प्रयुक्तः स्यात्। अनापत्तिः प्रकृत्या धन्धः स्थाद्धन्धमुद्दिशेत्पूर्ववत्। अनापत्तिर्बहुतरकाणामन्येषाञ्चित्तमनुरक्षितुकामस्य। अनापत्तिः सांधिकं क्रियाकारमनुरक्षितुकामस्य।



बोधिसत्त्वो ग्लानं व्याधितं सत्त्वमासाद्य नोपस्थानपरिचर्यां करोति आघातचित्तः प्रतिघचित्तः। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्यान्न करोति। अक्लिष्टामापत्तिमापद्यते। अनापत्तिः स्वयमेव ग्लानः स्यादप्रतिबलः। अनापत्तिः परं प्रतिबलमध्येषतोऽनुकूलम्। अनापत्तिर्ग्लानः सनाथः स्यात्सप्रतिसरणः। अनापत्तिर्याप्येन दीर्घरोगेण स्पृष्टः स्यात्। अनापत्तिरूदारनिरन्तरकुशलपक्षाभियुक्तस्य कुशलपक्षच्छिद्रानुरक्षणार्थम्। अनापत्तिरधिमात्रधन्धप्रज्ञस्य धन्धं धर्ममुद्दिशतो धन्धं धारयतो धन्धमालम्बने चित्तं समादधतः। अनापत्तिरन्यस्य पूर्वतरमभ्युपगतं स्याद्। यथा ग्लानस्योपस्थानम्। एवं दुःखितस्य दुःखापनयाय साहाय्यं वेदितव्यम्।



बोधिसत्त्वो दृष्टधार्मिके सांपरायिके चार्थे अनयप्रयुक्तान् [सत्त्वान्] दृष्ट्वा आघातचित्तः प्रतिघचित्तो न्यायं नयं न व्यपदिशति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्यान्न व्यपदिशति। अक्लिष्टामापत्तिमापद्यते। अनापत्तिः स्वयमज्ञः स्यादप्रतिबलः। अनापत्तिः परं प्रतिबलमध्येषेत। अनापत्तिः स एव स्वयं प्रतिबलः स्यात्। अनापत्तिरन्येन कल्याणमित्रेण परिगृहीतः स्यात्। अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विस्तरेण पूर्ववत्। अनापत्तिर्यस्य न्यायोपदेशः करणीयः स आघातचित्तःस्याद्‍दुर्वचो विपरीतग्राही विगतप्रेमगौरवः खटुङ्कजातीयः।



बोधिसत्त्व उपकारिणां सत्त्वानामकृतज्ञो भवत्यकृतवेदी आघातचित्तो न प्रत्युपकारेणानुरूपेण प्रत्युपतिष्ठते। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्यान्न प्रत्युपतिष्ठते। अक्लिष्टामापत्तिमापद्यते। अनापत्तिर्यत्नवतः अशक्तस्याप्रतिबलस्य। अनापत्तिस्तेनोपायेन दमयितुकामः स्यात् पूर्ववत्। अनापत्तिः स एव न संप्रतीच्छेत्प्रत्युपकारम्।



बोधिसत्त्वो ज्ञातिभोगव्यसनस्थानां सत्त्वानामाघातचित्तः उत्पन्नंशोकं न विनोदयति। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्यान्न प्रतिविनोदयति। अक्लिष्टामापत्तिमापद्यते। पूर्ववदनापत्तिर्वेदितव्या तद्यथा कृत्येष्वसहायीभावमारभ्य।



बोधिसत्त्वो भोजनपानादिन्युपकरणजातानि भोजनपानादिकार्थिभ्यः सम्यग्याचितो न प्रयच्छत्याघातचित्तः प्रतिघचित्तः। सापत्तिको भवति सातिसारः क्लिष्टामात्तिमापद्यते। आलस्यकौसीद्यात्प्रमादान्नानुप्रयच्छति। अक्लिष्टामापत्तिमापद्यते। अनापत्तिरसत्स्वसंविद्यमानेषु भोगेषु। अनापत्तिरकल्पिकमपथ्यं वस्तु याचितः। अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः पूर्ववत्। अनापत्ती राजापथ्यमनुरक्षतः अनापत्तिः सांधिकं क्रियाकारमनुरक्षतः।



बोधिसत्त्वः परिषदमुपस्थाप्य न कालेन कालं सभ्यगववदति सम्यक्समनुशास्ति। न च तेषामर्थविघातिनां श्राद्धानां ब्राह्मणगृहपतीनामन्तिकाद्धर्मेण चीवरपिण्डपातशयनासन [ग्लान] प्रत्ययमैषज्यपरिष्कारान् पर्येषते आघातचित्तः। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। [आलस्यकौसीद्यात् प्रमादाद्वा नाववदति न समनुशास्ति न पर्येषते अक्लिष्टामापत्तिमापद्यते।] अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः पूर्ववत्। अनापत्तिः सांधिकं क्रियाकारमनुरक्षतः। अनापत्तिर्ग्लानः स्यात् अप्रयोगक्षमः। अनापत्तिरन्यं प्रतिबलमध्येषते। अनापत्तिः परिषज्जातमहापुण्या स्यात्। स्वयं प्रतिबलो वा चीवरादीनां पर्येषणाय। कृतं चैषा स्यात् अववादानुशासन्याम् अववादानुशासनीकरणीयम्। अनापत्तिस्तीर्थिकपूर्वी धर्मस्तेयेन प्रविष्टः स्यात्। स च स्यादभव्यरुपो विनयाय।



बोधिसत्त्वः आघातचित्तः परेषां चित्तं नानुवर्तते। सापत्तिको भवति सातिसारः क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्यात् प्रमादान्नानुवर्तंते अक्लिष्टामापत्तिमापद्यते। अनापत्तिः परेषां यदभिप्रेतं तदपथ्यं स्यात्। अनापत्तिर्ग्लानः स्यादप्रयोगक्षमः। अनापत्तिः सांधिकं क्रियाकारमनुरक्षतः। अनापत्तिस्तस्याभिप्रेतं पथ्यञ्च स्यात् परेषां प्रभूततरकाणामनभिप्रेतमपथ्यञ्च स्यात्। अनापत्तिस्तीर्थिको निर्ग्राह्यः स्यात्। अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः पूर्ववत्।



बोधिसत्त्वः आघातचित्तः परेषां भूतान् गुणान् नोद्भावयति भूतं वर्णं न भाषते सुभाषिते साधुकारं न ददाति। सापत्तिको भवति सातिसारः। क्लिष्टामापत्तिमापद्यते। आलस्यात् कौसीद्यात् प्रमादाद्वा न भाषते अक्लिष्टामापत्तिमापद्यते। अनापत्तिः प्रकृत्याऽल्पेच्छतां संभावयतस्तदनुरक्षयैव। अनापत्तिर्ग्लानः स्यादप्रतिबलः। अनापत्तिस्तेनोपायेन दमयितुकामः स्याद्विनेतुकामः पूर्ववत्। अनापत्तिः सांघिकं क्रियाकारमनुरक्षतः। अनापत्तिस्ततो निदानं संक्लेशं मदमुन्नतिमनर्थाय संभावयतः तस्य च परिहारार्थम्। अनापत्तिर्गुणंप्रतिरूपका गुणाः स्युर्न भूताः। सुभाषितप्रतिरूपकञ्च सुभाषितं स्यान्न भूतम्। अनापत्तिस्तीर्थिकः स्यान्निर्ग्राह्यः। अनापत्तिः कथापर्यवसानकालमागमयतः।



बोधिसत्त्वोऽवसादनार्हान् सत्त्वान् दण्डकर्मार्हान् [प्रवासनार्हान] क्लिष्टचित्तो नावसादयति। अवसादयति वा न च दण्डकर्मणा समनुशास्ति। समनुशास्ति वा न प्रवासयति। सापत्तिको भवति सातिसारः। क्लिष्टामापत्तिमापद्यते। आलस्यकौसीद्यात् प्रमादाद्वा नावसादायति यावन्न प्रवासयति अक्लिष्टामात्तिमापद्यते। अनापत्तिरसाध्यरूपमकथ्यं दुर्वचसमाघातबहुलमध्युपेक्षतः। अनापत्तिः कालापेक्षिणः। अनापत्तिस्ततो निदानं कलहभण्डनविग्रहविवादप्रेक्षिणः। अनापत्तिः संवरणविभेदप्रेक्षिणः। अनापत्तिस्ते सत्त्वा अशठा भवेयुस्त्रीव्रेण ह्रीव्यपत्राप्येन समन्वागता लघु लघ्वेव प्रत्यापद्येरन्।



बोधिसत्त्वो विचित्रर्द्धिविकुर्वितप्रभावसमन्वागतः उत्त्रासनार्हाणां सत्त्वानामुत्त्रासनाय आवर्जनार्हाणाञ्च सत्त्वानामावर्जनाय श्रद्धादेयपरिहाराय [ऋद्ध्या] नोत्त्रासयति नावर्जयति। सापत्तिको भवति सातिसारः अक्लिष्टामापत्तिमापद्यते। अनापत्तिर्यत्र सत्त्वा यद्भूयसा प्रतिनिविष्टा भवेयुस्तीर्थिका आर्यापवादिकया मिथ्यादृष्ट् समन्वागताः। सर्वत्र चानापत्तिरधिकचित्तक्षेपतो दुःखवेदनाभिन्न स्यासमात्तसंवरस्य वेदितव्या।



इतीमान्युत्पन्नवस्तुकानि बोधिसत्त्वानां शिक्षापदानि तेषु तेषु सूत्रान्तेषु व्यग्राणि भगवता आख्यातानि संवरशीलं कुशलसंग्राहकं शीलं सत्त्वार्थक्रियाशीलञ्चारभ्य। तान्यस्यां बोधिसत्त्वपिटकमातृकायां समग्राण्याख्यातानि येषु बोधिसत्त्वेनारदजातेन परमगौरवमुपस्थाप्य शिक्षा करणीया। परतः संवरसमादनं कृत्वा सुविशुद्धेन शिक्षितुकामाशयेन बोध्याशयेन सत्त्वार्थाशयेन आदित एव चाव्यतिक्रमायादरजातेन भवितव्यम्। व्यतिक्रान्तेन च यथाधर्मप्रतिकरणतया प्रत्यापत्तिः करणीया। सर्वा चेयमापत्तिर्बोधिसत्त्वस्य दुष्कृत्यतः संगृहीता वेदितव्या। यस्य कस्यचिच्छ्रावकयानीयस्य वा महायानीयस्य वाऽन्तिके देशयितव्या यस्तां वाग्विज्ञप्तिं प्रतिबलः स्यादवबोद्धं प्रतिग्रहीतुम्। स चेद्बोधिसत्त्वः पाराजयिकस्थानीयं धर्ममध्यापन्नो भवत्यधिमात्रेण पर्यवस्थानेन तेन त्यक्तः संवरः। द्विरपि पुनरादातव्यः। स चेन्मध्येन पर्यवस्थानेनापन्नो भवति तेन त्रयाणां पुद्गलानामन्तिके ततो वा उत्तरि दुष्कृता देशयितव्या। पूर्व वस्तु परिकीर्तयित्वा परतो निषद्येदं स्याद्वचनीयम्। समन्वाहरत्वायुप्मन्नहमेवंनामा बोधिसत्त्व-विनयातिसारिणीं यथा परिकीर्तिते वस्तुनि दृष्कृतामापत्तिमापन्नः। शिष्टं यथा भिक्षोर्दुष्कृतान् देशयतस्तथैव वक्तव्यम्। पाराजयिकस्थानीयस्य च धर्मस्य मृदुना पर्यवस्थानेन तदन्यासाञ्चापत्तीनामेकस्यैव पुरतो देशना वेदितव्या। असति चानुकूले पुद्गले यस्य पुरतो देश्येताशयतो बोधिसत्त्वेन पुनरनध्याचाराय चित्तमुत्पादयितव्यम्। आयत्याञ्च संवरः करणीयः। एवमसौ व्युत्थितो वक्तव्यस्तस्याः आपत्तेः।



एतदपि बोधिसत्त्वसंवरसमादानम्। यदि तैर्गुणैर्युंक्तः पुङ्गलो न सन्निहितःस्यात्ततो बोधिसत्त्वेन तथागतप्रतिमायाः पुरतः स्वयमेव बोधिसत्त्वशीलसंवरसमादानं करणीयम्। एवञ्च पुनः करणीयम्। एकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य पुरतो वा उत्कुटुकस्थितेन इदं स्याद्वचनीयम्। अहमेवंनामा दशसु दिक्षु सर्वास्तथागतान् महाभूमिप्रविष्टांश्च बोधिसत्त्वान् विज्ञापयामि। तेषाञ्च पुरतः सर्वाणि बोधिसत्त्वशिक्षापदानि सर्वं बोधिसत्त्वशीलं समाददे संवरशीलं कुशलधर्मंसंग्राहकं सत्त्वार्थक्रियाशीलञ्च यत्रातीताः सर्वबोधिसत्त्वाः शिक्षितवन्तः अनागताः सर्वबोधिसत्त्वाः शिक्षिष्यन्ते प्रत्युत्पन्ना दशसु दिक्षु सर्वबोधिसत्त्वा एतर्हि शिक्षन्ते। द्विरपि त्रिरप्येवं वक्तव्यम्। उक्त्‍वा उत्थातव्यम्। शिष्टं तु सर्वं पूर्ववद्वेदितव्यम्।



नास्ति च बोधिसत्त्वस्यापत्तिमार्गे निरवशेषा आपत्तिः। यदपि चोक्तं भगवता यद्भूयसा बोधिसत्त्वस्य द्वेषसमुत्थिता आपत्तिर्ज्ञातव्या न रागसमुत्थितेति तत्रायमभिप्रायो द्रष्टव्यः। बोधिसत्त्वः सत्त्वानुनयं सत्त्वप्रेमाधिपतिं कृत्वा यत्किञ्चिच्चेष्टते सर्वं तद्बोधिसत्त्वकृत्यम्। नाकृत्यं न च कृत्यं कुर्वतः आपत्तिर्युज्यते। सत्त्वेषु तु द्विष्टो बोधिसत्त्वो नात्मनो न परेषां हितमाचरति। न चैतद्बोधिसत्त्वकृत्यम्। एवमकृत्यं कुर्वतः आपत्तिर्युज्यते।



मृदुमध्याधिमात्रता च बोधिसत्त्वस्यापत्तीनां वेदितव्या। तद्यथा वस्तुसंग्रहण्याम्।



एवञ्च पुनः स्वविनये शिक्षाप्रयुक्तो बोधिसत्त्वस्तिसृभिः संपत्तिभिः समन्वागतः सुखं स्पर्शं विहरति प्रयोगसम्पत्त्या आशयसम्पत्त्या पूर्वहेतुसम्पत्त्या च।



तत्र प्रयोगसम्पत् कतमा। यथापि तद्बोधिसत्त्वः शीलेष्वखण्डचारी भवति परिशुद्धकायवाङ्मनःसमुदाचारो नाभीक्ष्णापत्तिको विवृतपापश्च भवति। इयमुच्यते प्रयोगसम्पत्।



आशयसम्पत् कतमा। धर्माभिप्रायः प्रव्रजितो भवति न जीविकाभिप्रायः। अर्थी भवति महाबोध्या नानर्थी। अर्थी श्रामण्येन निर्वाणेन नानर्थी। स एवमर्थी न कुसीदो विहरति [न] हीनवीर्यो [नावीर्यो] न व्यवकीर्ण पापकैरकुशलैर्धर्मैः सांक्लेशिकैः पौनर्भविकैः सज्वरैर्दुःखविपाकैरायत्यां जातिजरामरणीयैः। इतीयमुच्यते आशयसम्पत्।



पूर्वहेतुसंपत् कतमा। यथापि तद्बोधिसत्त्वः पूर्वमन्यासु जातिषु कृतपुण्यो भवति कृतकुशलमूलो येनैतर्हि स्वयञ्च न विहन्यते चोवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः। अन्येषामपि प्रतिबलो भवति संविभागक्रियायैः। इतीयं बोधिसत्त्वस्य पूर्वहेतुसम्पद्वेदितव्या।



आभिस्तिसृभिः संपत्तिभिः समन्वागतो विनये शिक्षाप्रयुक्तो बोधिसत्त्वः सुखं स्पर्शं विहरति। एतद्विपर्ययात्तिसृभिर्विपत्तिभिः समन्वागतो दुःखं संस्पर्शं विहरतीति वेदितव्यम्।



इदं तावद्बोधिसत्त्वस्य समासव्यासतः सर्वशीलमित्युच्यते गृहिपक्षगतं प्रव्रजितपक्षगतञ्च। अस्यैव च सर्वशीलस्य प्रविभागस्तदन्यान्यपि दुष्करशीलादीनि वेदितव्यानि।



तत्र कतमद्बोधिसत्त्वस्य दुष्करशीलम्। तत् त्रिविधं द्रष्टव्यम्।



महाभोगस्य बोधिसत्त्वस्य महत्यैश्वर्याधिपत्ये वर्तमानस्य प्रहाय भोगान् प्रहाय महदैश्वर्याधिपत्यं शीलसंवरसमादानं बोधिसत्त्वस्य दुष्करशीलमित्युच्यते।



कृच्छ्रापन्नोऽपि च बोधिसत्त्वः समात्तशीलः आप्राणैर्विपद्यमानस्तच्छीलसंवरसमादानं न छिद्रीकरोति। कुतः पुनर्विपादयिष्यति। इदं बोधिसत्त्वस्य द्वितीय दुष्करशीलमित्युच्यते।



तथा तथा बोधिसत्त्वः सर्वाचारविहारमनसिकारेषूपस्थितस्मृतिरप्रमत्तो भवति। यथा यावज्जीवेन [अपि] प्रतनुकामप्यापतिं नापद्यते न शीले च स्खलति कुतः पुनर्गुर्वीम्। इदं बोधिसत्त्वस्य तृतीयं दुष्करशीलमित्युच्यते।



तत्र कतमद्बोधिसत्त्वस्य सर्वतोमुख शीलम्। तच्चतुर्विधं द्रष्टव्यम्। समात्तं प्रकृतिशीलमभ्यस्तमुपाययुक्तञ्च।



तत्र समात्तं शीलं येन त्रिविधमपि बोधिसत्त्वशीलसंवरसमादानं कृतं भवति संवरशीलस्य कुशलसंग्राहक [शीलस्य] सत्त्वार्थक्रियाशीलस्य च।



तत्र प्रकृतिशीलं यद्गोत्रस्थस्यैव बोधिसत्त्वस्य प्रकृतिभद्रतयैव सन्तानस्य परिशुद्धं कायवाक्कर्म प्रवर्तते।



तत्राभ्यस्तं शीलं येन बोधिसत्त्वेन पूर्वमन्यासु जातिषु त्रिविधमपि यथानिर्दिष्टं शीलमभ्यस्तं भवति। स तेन पूर्वहेतुबलाधानेन [न] सर्वेण सर्वं पापसमचारेण रमते। पापादुद्विजते। कुशलसमाचारे रमते। कुशलसमाचारमेवाभिलषति।



तत्रेदमुपाययुक्तं शीलं यच्चत्वारि संग्रहवस्तूनि निश्रित्य बोधिसत्त्वस्य सत्त्वेषु कुशलं कायवक्कर्म प्रवर्तते।



तत्र कतमद्बोधिसत्त्वस्य सत्पुरुषशीलम्। तत्पञ्चविधं वेदितव्यम्। इह बोधिसत्त्वः स्वयञ्च शीलवान् भवति। परांश्च शीले समादापयति। शीलस्य। च वर्णं भाषते। सहधार्मिकञ्च दृष्ट्वा सुमना भवति। आपत्तिं चापन्नो यथाधर्म प्रतिकरोति।



तत्र कतमद्बोधिसत्त्वस्य सर्वाकारं शीलम्। तत् षड्‍विधं सप्तविधं चैकध्यमभिसंक्षिप्य त्रयोदशविधं वेदितव्यम्। महाबोधौ परिणमितम्। विस्तीर्णशिक्षापदपरिगृहीतत्त्वाद् विशदम्। कामसुखल्लिकात्मक्लमथान्तद्वयविवर्जितत्त्वादनवद्यप्रमोदस्थानीयम्। यावज्जीवेनापि शिक्षाप्रत्याख्यानात् सातत्यम्। सर्वलाभसत्कारपरप्रवादिक्लेशोपक्लेशैरनभिभवनीयत्वादहार्यत्वाद् दृढम्। शीलालङ्कारसंयुक्तं च। शीलालङ्कारो वेदितव्यस्तद्यथा श्रावकभूमौ प्राणातिपातादिविरत्या। निवृत्तिशीलम्। कुशलसंग्रहात् सत्त्वार्थकरणाच्च प्रवृत्तिशीलम्। प्रवृत्तिनिवृत्तिशीलानुरक्षणादारक्षकं शीलम्। महापुरुषलक्षणवैपाक्यं शीलम्। अधिचित्तवैपाक्यम्। इष्ट गतिवैपाक्यम्। सत्त्वार्थक्रिया वैपाक्यं चेति।



तत्र कतमद्बोधिसत्त्वस्य विघातार्थिकशीलम्। तदष्टविधं वेदितव्यम्। इह बोधिसत्त्वः स्वयमेवैवमनुचिन्तयति। यथाहमर्थी [जीवितेन] न मे कश्चिज्जीवताद् व्यपरोपयेत्। अदत्तमादद्यात् कामेषु मिथ्याचरेत् मृषावाचं भाषेत पैशुन्यं पारुष्यं सभिन्नप्रलापं कुर्यात् पाणिलोष्टताडन संस्पर्शैश्चानिष्टैर्विहिंसासंस्पर्शैः समुदाचरेदिति। तस्य मे एवमर्थिनः स चेत् परे विपर्ययेण समुदाचरेयुः तेन मे स्याद्विधातस्तन्मे स्यादमनापम्। परोऽप्यर्थिनो यथाऽस्माकं परे न जीवितद्व्यपरोपयेयुर्विस्तरेण यावन्न विहिंसासस्पर्शै समुदाचरेयुरिति। तेषामप्येवमर्थिनां स चेदहं विपर्ययेण समुदाचरेयं तेन ते स्युर्विघातिनस्तत्तेषां स्यादमनापम्। इति यन्मम परेषाञ्चामनापं सोऽहं किं तेन परान् समुदाचरिष्यामि। इति प्रतिसंख्याय बोधिसत्त्वो जीवितहेतोरपि परानष्टविधेनामनापेन न समुदाचरति। इदं बोधिसत्त्वस्याष्टाकारं विघातार्थिकशीलमित्युच्यते।



तत्र कतमद्बोधिसत्त्वस्येहामुत्र सुखं शीलम्। तन्नवविधं द्रष्टव्यम्। इह बोधिसत्त्वः सत्त्वानां प्रतिशेद्धव्यानि स्थानानि प्रतिषेधयति। अभ्यनुज्ञेयानि स्थानान्यभ्यनुजानाति। संग्रहीतव्यान् सत्त्वान् संगृह्णाति। निगृहीतव्यान् सत्त्वान् निगृह्णाति। तत्र बोधिसत्त्व य यत्कायवाक्कर्मपरिशुद्धं प्रवर्तते। इदं तावच्चतुर्विधं शीलम्। पुनरन्यद्दानसहगतं शीलं क्षान्तिसहगतं [वीर्यसहगतं] ध्यानसहगतं प्रज्ञासहगतञ्च पञ्चविधम्। तदेतदैकध्यमभिसंक्षिप्य नवाकारं शीलं भवति। तस्य च बोधिसत्त्वस्य परेषाञ्च दृष्टधर्मसंपरायसुखाय संवर्तते। तस्मादिहामुत्र सुखमित्युच्यते।



तत्र विशुद्धं शीलं बोधिसत्त्वस्य कतमत्। तद्दशविधं वेदितव्यम्। आदित एव सुगृहीत भवति श्रामण्यसबोधिकामतया न जीविकानिमित्तम्। नातिलीनं भवति व्यतिक्रमे मन्दकौकृत्यापगतत्वात्। नातिसृतं भवत्यस्थानकौकृत्यापगतत्वात्। कौसीद्यापगतं भवति निद्रासुखपार्श्वसुखशयनसुखास्वीकरणतया रात्रिंदिवं कुशलपक्षाभियोगाच्च। अप्रमादपरिगृहीतं भवति। पूर्ववत् पञ्चाङ्गाप्रमादप्रतिनिषेवणतया। सम्यक्प्रणिहितं भवति लाभसत्कारगर्धविगमात् देवत्वाय प्रणिधाय ब्रह्मचर्यावासानाभ्युपगमाच्च। आचारसपत्त्या परिगृहीतमीर्यापथेतिकरणीयकुशलपक्षप्रयोगेषु सुसम्पन्नप्रतिरूपकायवाक् समुदाचारतया। आजीवसम्पत्त्या परिगृहीतं कुहनादिसर्वमिथ्याजीवकरकदोषविवर्जिततया। अन्तद्वयविवर्जित कामसुखल्लिकात्मकक्लमथानुयोगविवर्जितत्वात्। नैर्याणिक सर्वतीर्थिकदृष्टिविवर्जिततया। समादानापरिभ्रष्टं शीलं बोधिसत्त्वानामछिद्रीकरणाविपादनतया। इत्येतद्दशाकार शीलं बोधिसत्त्वानां विशुद्धमित्युच्यते।



इत्येष बोधिसत्त्वस्य महान् शीलस्कन्धो महाबोधिफलोदयो यमाश्रित्य बोधिसत्त्वः शीलपारमितां परिपूरयित्वा अनुत्तरां सम्यक्संबोधिमभिसम्बुध्यते। यावच्च नाभिसबुध्यते तावदयमस्मिन्नप्रमेये बोधिसत्त्वशीलस्कन्धे शिक्षमाणः पञ्चानुशंसान् प्रतिलभते। बुद्धैः समन्वाह्रियते। महाप्रामोद्यस्थितः कालं करोति। कायस्य च भेदात्तत्रोपपद्यते यत्रास्य समानाधिकशीला बोधिसत्त्वाः सभागाः सहधार्मिकाः कल्याणमित्रभूता भवन्ति। अपरिमाणेन पुण्यस्कन्धेन शीलपारमितापरिपूरकेण समन्वागतो भवति। दृष्टे धर्मे सम्परायेऽपि प्रकृतिशीलतां शीलतन्मयतां प्रतिलभते।



सर्वञ्चैतच्छीलं यथानिर्दिष्टं स्वभावशीलादिकं नवाकारं त्रिविधेन शीलेन संगृहीतं वेदितव्यम्। संवरशीलेन कुशलधर्ममंग्राहकेण सत्त्वार्थक्रियाशीलेन च। तत्पुनस्त्रिविधं शीलं समासतो बोधिसत्त्वस्य त्रीणि कार्याणि करोति। संवरशीलं चित्तस्थितये संवर्तते। कुशलधर्मसंग्राहकमात्मनो बुद्धधर्मंपरिपाकाय संवर्तते। सत्त्वार्थक्रियाशीलं सत्त्वपरिपाकाय संवर्तते। एतावच्च बोधिसत्त्वस्य सर्वं करणीयं भवति। यदुत दृष्टधर्मसुखविहाराय चित्तस्थितिः। अक्लान्तकायचित्तस्य च बुद्धधर्मपरिपाकः सत्त्वपरिपाकश्च। एतावद्बोधिसत्त्वशीलम्। एतावान् बोधिसत्त्वशीलानुशंसः। एतावत् बोधिसत्त्वशीलकार्यं नात उत्तरि नातो भूयः। यत्रातीता बोधिसत्त्वा महाबोधिकामाः शिक्षितवन्तः। अनागता अपि शिक्षिष्यन्ते। वर्तमाना अपि दशसु दिक्ष्वनन्तापर्यन्तेसु। लोकधातुषु शिक्षन्ते



इति बोधिसत्त्वभूमावाधारे योगस्थाने दशमं शीलपटलम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project