Digital Sanskrit Buddhist Canon

1-9 दानपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1-9 dānapaṭalam

दानपटलम्



उद्दानं।



स्वभावश्चैव सर्वञ्च दुष्करं सर्वतोमुखम्।

स्यात् सात्‍पौरुष्ययुक्तञ्च सर्वाकारं तथैव च॥



विघातार्थिकयुक्तञ्च इहामुत्र सुखं तथा।

विशुद्धञ्च नवाकारं दानमेतत्समासतः॥



इह बोधिसत्त्वः क्रमेण षट्पारमितां परिपूर्यानुत्तरां सम्यक्संबोधिमभिसंबुध्यते। दानपारमितां शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताञ्च।



तत्र कतमा बोधिसत्त्वस्य दानपारमिता। नवाकारं दानं बोधिसत्त्वस्य दानपारमितेत्युच्यते। स्वभावदानं सर्वदानं दुष्करदानं सर्वतोमुखं दानं सत्पुरुषदानं सर्वाकारदानं विघातार्थिकदानमिहामुत्रसुखं दानं विशुद्धदानं च।



कश्च दानस्य स्वभावः। या चेतना सर्वपरिष्कार-स्वदेहनिरपेक्षस्य बोधिसत्त्वस्य केवलाध्यात्मिकवस्तुपरित्यागाय कायवाक्कर्मानवद्यश्च सर्वदेयवस्तुपरित्यागः। संवरस्थायिनः आगमदृष्टेः फलदर्शिनो यो येनार्थी तस्य च तद्वस्तुप्रतिपादना बोधिसत्त्वस्य दानस्वभावो वेदितव्यः।



तत्र सर्वदानं कतमत्। सर्वमुच्यते समासतो द्विविधं देयवस्तु। आध्यात्मिकं बाह्यञ्च। तत्र आ मज्ज्ञः स्वदेहपरित्यागो बोधिसत्त्वस्य केवलाध्यात्मिकवस्तुपरित्याग इत्युच्यते। यत्पुनर्बोधिसत्त्वो वान्ताशिनां सत्त्वानामर्थे भुक्त्वा भुक्त्वाऽन्नपानं वमति। तत्संसृष्टमाध्यात्मिकबाह्यवस्तुदानं बोधिसत्त्वस्येत्युच्यते। एतद्यथोक्तं स्थापयित्वा परिशिष्टदेयवस्तुपरित्यागो बाह्यदेयवस्तुपरित्यागः एवोच्यते। तत्र बोधिसत्त्वः परेषां देहार्थिनां समासतो द्वाभ्यामाकाराभ्यां स्वदेहमनुप्रयच्छति। यथाकामकरणीयं वा परवश्यं परविधेयमात्मानं परेषामनुप्रयच्छति। तद्यथापि नाम कश्चित् परेषां भक्ताच्छादनहेतोर्दासभावमुपगच्छेत्। एवमेव निरामिषचित्तो बोधिसत्त्वः परमबोधिकामः परहितसुखकामो दानपारमित्तां परिपूरयितुकामो यथाकरणीयं परेषां वश्यं परविधेयमात्मानं परेषामनुप्रयच्छति। करचरणनयनशिरोऽङ्गप्रत्यङ्गार्थिनां मांसरुधिरस्नाय्वर्थिनां यावन्मज्जायिनां यावन्मज्जानमनुप्रयच्छति। द्वाभ्यामेव कारणाभ्यां बोधिसत्त्वो बाह्यं वस्तु सत्त्वेभ्यः परित्यजति। यथासुखपरिभोगाय वा याचितकमनुप्रयच्छति। तद्वशित्वाय वा सर्वेण सर्व निर्मुक्तेन चित्तेनानुप्रयच्छति। न च पुनर्बोधिसत्त्वः सर्वमाध्यात्मिकबाह्यं वस्त्वविशेषेणैव सर्वथा च सत्त्वानां ददाति। किञ्च बोधिसत्त्वो द्विविधादस्मादाध्यात्मिकबाह्याद्वस्तुनः सत्त्वानां ददाति। कथं न ददाति। यदस्मादाध्यात्मिकबाह्याद्वस्तुनः सत्त्वानां दानं सुखायैव स्यान्न तु हिताय नैव वासुखाय नापि हिताय तद्बोधिसत्त्वः परेषां न ददाति। यत्पुनर्हिताय स्यान्नावश्यं सुखाया-सुखाय वा पुनर्हिताय च तद्वोधिसत्त्वः परेषां दानं ददाति। इत्ययं तावद्दानस्य चादानस्य च समासनिर्देशः।



अतः परं विस्तरविभागो वेदितव्यः। इह बोधिसत्त्वः परोत्पीडनाय [परवधाय] परवञ्चनाय चायोगविहितेन चोपनिमन्त्रितमात्मानं परवश्यं परविधेयं न ददाति। अप्येव नाम बोधिसत्त्वः शतकृत्वः सहस्रकृत्वः स्वजीवितपरित्यागमपि परेषामन्तिकादभ्युपगच्छेत्। नत्वेव राज्ञया पराराधनार्थं परोत्पीडनां परवधं परवञ्चनां वा कुर्यात्। यदि च बोधिसत्त्वः शुद्धाशयो भवति दानमारभ्य सोऽपि सत्त्वकार्ये प्रभूते करणीये प्रत्युपस्थिते स्वदेहाङ्गप्रत्यङ्गयाचनके च प्रत्युपस्थिते न स्वदेहाङ्गप्रत्यङ्गान्यनुप्रयच्छति। तत्कस्य हेतोः। न ह्यस्य बोधिसत्त्वस्य दानमारभ्य शुद्धाशयस्य पुनः केनचित्पर्यायेणेदं दातव्यमस्मै दातन्यमिति भवति चेतसः संकोचः। तस्मादसौ बोधिसत्त्वो यदाशयशुद्ध्यर्थं प्रत्युपस्थितं सत्त्वकार्यमध्युपेक्ष्य दद्यात् सोऽस्याशयः शुद्ध इति न प्रत्युपस्थितं सत्त्वकार्यमध्युपेक्ष्य ददाति। न च मारकायिकेषु देवेषु याचनकेषु विहेठाभिप्रायेषु प्रत्युपस्थितेषु स्वदेहमङ्गविभागशो ददाति। मा हैव तेषामधिमात्रा क्षतिश्चोपहतिश्च भविष्यतीति यथा मारकायिकेषु देवेषु। एव तदादिष्टेषु सत्त्वेषु वेदितव्यम्। नापि चोन्मत्तक्षिप्तचित्तेषु बोधिसत्त्वः स्वदेहमङ्गविभागशोऽनुप्रयच्छति। न हि ते स्वचित्तेऽवस्थिताः। नार्थिनो मृगयन्ते। नान्यत्र विप्रलापः। स तेषामस्वतन्त्रत्वाच्चेतसः तस्मान्न ददाति। एतानाकारान् स्थापयित्वा एतद्विपर्ययात् स्वदेहं तावद्बोधिसत्त्वः परविधेयतया वाऽङ्गप्रत्यङ्गविभागशो वार्थिभ्यः परित्यजति। एवन्तावद्बोधिसत्त्वस्याध्यात्मिकस्य वस्तुनो दानञ्चादानञ्च वेदितव्यम्।



बाह्यात्पुनर्वस्तुनो बोधिसत्त्वो यानि विषाग्निशस्त्रमद्यानि सत्त्वानामुपघाताय तानि नानुप्रयच्छत्यर्थिभ्यः आत्मोपघाताय वा याचितान्यर्थिनां परोपघाताय [वा]। यानि पुनर्विषाग्निशस्रमद्यान्यनुग्रहाय सत्त्वानां तानि बोधिसत्त्वो ददात्यर्थिभ्य आत्मनो वाऽनुग्रहाय याचितान्यर्थिनां परानुग्रहाय वा। पुनर्न च बोधिसत्त्वः परकीयं द्रविणमविश्वास्यं परेभ्योऽनुप्रयच्छति। न च बोधिसत्त्वः साञ्चरित्रेण परदारमुपसंहृत्य परेषामनुप्रयच्छति। न च सप्राणकं पानभोजनमनुप्रयच्छति। यदपि [रति]क्रीडोपसंहितमनर्थोपसंहितं सत्त्वानां बोधिसत्त्वस्य देयं वस्तु तदपि बोधिसत्त्वोऽर्थिभ्यो न ददाति। तत्कस्य हेतोः। यद्यपि तद्वस्तु तेषां चित्तप्रसादमात्रकमुत्पादयेद् बोधिसत्त्वस्यान्तिके। अपितु विपुलतरमस्य तद्दानमनर्थं कुर्याद्यद्धेतोरसौ मदं प्रमादं दुश्चरितमध्यापद्यमानः कायस्य भेदादपायेषूपपद्यते। स चेत्पुनस्तद्रतिक्रीडादिकं व तु नापायगमनाय भवेन्नापि चाकुशलमूलोपचयाय कामं तद्बोधिसत्त्वस्तादृशं रतिक्रीडादिकं वस्त चित्तप्रसादहेतोरनुप्रच्छेदर्थिभ्यस्तेनापि वस्तुना संग्रहाय परिपाकाय। कीदृशं पुना रतिक्रीडावस्तु बोधिसत्त्वो न ददात्यर्थिभ्यः।



किदृशं ददाति। तद्यथा मृगवधशिक्षां बोधिसत्त्वो न ददाति। क्षुद्रयज्ञेषु च महारम्भेषु येषु बहवः प्राणिनः संघातमापद्य जीविताद्व्यपरोप्यन्ते। तद्रूपान् यज्ञान्न स्वयं यजति न परैर्याजयति। नापि च देवकुलेषु पशुवधमनुप्रयच्छति। न च प्रभूतप्राण्याश्रितान् [देशान्] जलजैर्वा [स्थलजैर्वा प्राणिभिरध्युषितांस्तेषां प्राणिनामुपरोधाय याचितोऽनुप्रयच्छति। न जालानि न यन्त्राणि न जालयन्त्रशिक्षां प्राणिनामुपरोधाय याचितोऽनुप्रयच्छति। नाप्याक्रोशाय वधाय बन्धाय दण्डनाय कारणाय शत्रूणां शत्रुमनुप्रयच्छति। समासतो बोधिसत्त्वो यत्किञ्चित् परसत्त्वोत्पीडया परसत्त्वबाधाय सत्त्वानां रतिक्रीडावस्तु तत्सर्वंबोधिसत्त्वो न ददात्यर्थिभ्यः। यानि पुनरिमानि विचित्राणि हस्त्यश्वरथयानवाहनानि वस्त्रालङ्काराणि प्रणीतानि च पानभोजनानि नृत्तगीतवादितशिक्षा नृत्तगीतवादितभाजनानि च गन्धमाल्यविलेपनं विचित्रश्च भाण्डोपस्कर उद्यानानि च गृहाणि स्त्रियश्च परिचर्यायै विविधेषु च शिल्पकर्मस्थानेषु शिक्षा इत्येवंरूपं रतिक्रीडावस्तु बोधिसत्त्वश्चित्तप्रसादहेतोरर्थिभ्योऽनुप्रयच्छति। न च बोधिसत्त्वः अमात्रयाऽपथ्यं वा ग्लानायार्थिनेऽपि पानभोजनमनुप्रयच्छति। न तृप्तेषु लोलुपजातीयेषु सत्त्वेषु प्रणीतं पानभोजनमनुप्रयच्छति। नापि च शोकार्तानां सत्त्वानामात्मोद्बन्धनाय वा ताड्नाय वा विषभक्षणाय वा प्रपातपतनाय वा कामकारं ददाति। न च बोधिसत्त्वो मातापितरं सर्वेण सर्वंमर्थिभ्योऽनुप्रयच्छति। तथाहि बोधिसत्त्वस्य मातापितरं परमगुरु-स्थानीयमापायकं पोषकं संवर्धकं तद्बोधिसत्त्वेन दीर्घरात्रं शिरसोद्वहता न खेदमापत्तव्यम्।



तयोश्चाधमनबन्धक स्थापनविक्रये आत्मा वश्यो विधेयो दातव्यः। तत्कथं बोधिसत्त्वः परेभ्योऽनुप्रदातुमुत्सहेत कुतः पुनः प्रदद्यात्। नापि बोधिसत्त्वो राजा मूर्धाभिषिक्तः प्रभुः स्वे पृथिवीमण्डले सत्त्वानां सपरिग्रहाणां परकीयं पुत्रदारं परेषामन्तिकादाच्छिद्य परेषामनुप्रयच्छति। नान्यत्र कृत्स्नं ग्रामं वा ग्रामप्रदेशं वा जनपदप्रदेशं वा भोगमनुप्रयच्छेत्। यथा ममाभूत्तथा ते भवत्विति। न च बोधिसत्त्वः स्वं पुत्रदारं दासीदासकर्मकरपौरुषेयपरिग्रहं सम्यगसंज्ञप्तमकामकं विमनस्कं परेषामर्थिनामनुप्रयच्छति। सम्यक् संज्ञप्तमपि च सुमनस्कं छन्दजातं नामित्रेषु न यक्षराक्षसेषु न रौद्रकर्मसु प्रतिपादयति। नापि च दासभावाय प्रतिपादयति पुत्रदारं सुकुमारं कुलपुत्रं जनम्। न च बोधिसत्त्वोऽधिमात्रपरपीडाप्रवृत्तेषु रौद्रकर्मसु याचनकेषु राज्यप्रदानं ददाति। राज्यादपि च तांस्तथाविधान् पुद्गलांश्च्यावयति स चेत् प्रतिबलो भवति च्यावयितुम्। न च बोधिसत्त्वो मातापित्रोरन्तिकाद्भोगानाच्छिद्य याचनकेभ्यः प्रयच्छति। यथा मातापित्रोरेवं पुत्रदारदासीदासकर्मकरपौरुषेयेभ्यः। नापि च मातापितरं बाधित्वा विस्तरेण यावत्कर्मकरपौरुषेयं बाधित्वा परेभ्यो याचनकेभ्यो देयवस्तु परित्यजति। धर्मण चासाहसेन बोधिसत्त्वो भोगान् संहृत्य दानं ददाति नाधर्मेण साहसेन। न परमुत्पीड्योपहत्य न च बुद्धानां भगवतां शासने बोधिसत्त्वो व्यवस्थितः शिक्षां व्यतिक्रम्य कथञ्चित् दानं ददाति। दानञ्च ददद् बोधिसत्त्वः सर्वसत्त्वेषु समचित्तो ददाति दक्षिणीयबुद्धिमुपस्थाप्य मित्रामित्रोदासीनेषु गुणवत्सु दोषसत्सु हीनेषु तुल्येषु विशिष्टेषु सुखितेषु दुःखितेषु च। न च बोधिसत्त्वो यथोक्ताद्यथाप्रतिज्ञाताद्याचनकाय न्यूनं दान ददाति। नान्यत्र सम वा अधिकं वा। न च बोधिसत्त्वः प्रणीतं वस्तु प्रतिज्ञाय लूहं प्रत्यवरं ददाति। नान्यत्रलूहं प्रत्यवरं प्रतिज्ञाय प्रणीतं ददाति संविद्यमाने प्रणीते। न च बोधिसत्त्वो विमनस्को न क्रुद्धः क्षुभितमानसो दानं ददाति। नापि च दानं दत्त्वा निन्दयति पुनः पुनः परिकीर्तनतया एवं चैवञ्च त्वं मया दानेनानुगृहीतः सवर्धितोऽभ्युद्‍धृतो वेति। न च बोधिसत्त्वो निहीनपुरुषस्यापि दानं दददपविद्धमसत्कृत्यानुप्रयच्छति प्रागेव गुणवतः।



न च बोधिसत्त्वो विविधविप्रतिपत्तिस्थितानामुद्धतानामसंवृतात्मनां याचनकानामाक्रोशकानां रोषकाणां परिभाषकाणां विप्रतिपत्त्या खिन्नमानसो दानं ददाति। नान्यत्र तेषामेवान्तिके बोधिसत्त्वो भूयस्या मात्रया क्लेशावेशप्रकृतितामवगम्यानुकम्पाचित्तमुपस्थाप्य दानं ददाति। न चासद्‍दृष्ट्या परामृष्टं [दानं] ददाति। तद्यथा महारौद्रयज्ञेषु न हिंसादानेन धर्मं प्रत्येति। नापि कौतकमङ्गलप्रतिसंयुक्तं दानं ददाति। नापि सुविशुद्धेनापि सर्वाकारेण दानमात्रकेण लौकिकलोकोत्तरां वैराग्यविशुद्धिं प्रत्येति नान्यत्र। संभारमात्रकतया विशुद्धेर्दानं धारयति। न च फलदर्शी ददाति। सर्वञ्च दानमनुत्तरायां सम्यक् सम्बोधौ परिणामयति। सर्वप्रकारस्य दानस्य सर्वं प्रकारं यथाभूतं फलं विपाकेऽभिसंप्रत्ययजातो बोधिसत्त्वोऽपरप्रत्ययोऽनन्यनेयो दानं ददाति तद्यथाऽन्नदो बलवान् भवति। वस्त्रदो वर्णवान् यानदः सुखितः चक्षुष्मान् प्रदीपद इत्येवमादि विस्तरेण वेदितव्यम्। न च बोधिसत्त्वो दारिद्र्यभयभीतो दानं ददाति। नान्यत्र कारुण्याभिप्राय एव। न च बोधिसत्त्वो याचनकानामप्रतिरूपं दानं ददाति। तद्यथा यतीनामुच्छिष्टं वा पानभोजनमुच्चारप्रस्रावखेटशिंघाणकवान्तविरिक्तपूयरुधिंरसंसृष्टं वा अभिदूषितं वा। अनाख्यातमप्रतिसंवेदितमोदनकुल्माषमुत्सर्जनधर्मी। तथा अपलाण्डुभक्षाणां पलाण्डुसंमिश्रं पलाण्डुसंसृष्टम्। एवममांसभक्षाणाम्। अमद्यपानां मद्यमिश्रं मद्यसंसृष्टं वा। तथाऽप्रतिरूपे कर्मणि विनियोज्य बोधिसत्त्वो न परेषां दानं ददाति। इत्येवंभागीयमप्रतिरूपं दानं न ददाति। न च पुनर्बोधिसत्त्वो याचनकं पुनः पुनर्याचनतया गतप्रत्यागतिकतया सेवावृत्तसंविधानेन परिक्लिश्य दानं ददाति। नान्यत्र याचितमात्र एव। न च बोधिसत्त्वः कीर्तिशब्दश्लोकमिश्रितं दानं ददाति। न [च] परतः प्रतिकारसन्निश्रितं न शक्रत्वमारत्वचक्रवर्तित्वैश्वर्यसन्निश्रितं [ददाति]। न च परेषां कुहनार्थं दानं ददाति। कच्चिन्मां परे राजानो वा राजमहामात्या वा नैगमजनपदा ब्राह्मणगृहपतयो धनिनः श्रेष्ठिनः सार्थवाहा दातारं दानपतिं विदित्वा सत्कुर्युर्गुरूकुर्युर्मानयेयुः पूजयेयुरिति। न च कार्पण्यदानं ददाति। अल्पादपि विशदं ददाति प्रागेव प्रभूतात्। न च परेषां विप्रलम्भाय दानं ददाति।



अनेन दानेन विलोभ्य विश्रम्भयित्वा पश्चादेनं विप्रवादयिष्यामीति। न च विभेदाय परतः परेषां दानं ददाति। तद्यथा दानेन ग्रामं वा ग्रामप्रदेशं वा जनपदं वा जनपदप्रदेशं वा विभेद्य स्वामिनामन्तिकादाच्छेत्स्याम्याक्रमिष्यामीति। दक्षश्च बोधिसत्त्वो भवत्यनलसश्च उत्थानसम्पन्नः स्वयं च सन्नद्धः परिकरे पूर्वङ्गमो देयवस्तु परित्यागे स्वयञ्च ददाति परैश्च दापयति न स्वयं कौसीद्यं प्राविष्कृत्य परानाज्ञापयति दानाय। महान्तमपि गणसन्निपातमर्थिनां शीलवद्‍दुःशीलानां सन्निषण्णं संनिपतितं विदित्वा वृद्धान्तमुपादाय यावन्नवकान्तं तत्सर्वं देयवस्तु गतप्रत्यागतिकतया पुनः पुनरनुक्रमेण प्रतिपादयति न च बोधिसत्त्वः प्रभूतेषु विपुलेषु विस्तीर्णेषु भोगेषु संविद्यमानेषु मितं दानं ददाति। न च परविहेठनाय परेषां दानं ददाति। आक्रोशनाय वा रोषणताडनतर्जनकुत्सनकबन्धनच्छेदनरोधनप्रवासनाय वा दानं ददाति। पूर्वमेव च दानाद् बोधिसत्त्वः सुमना भवति ददच्चित्तं प्रसादयति। दत्त्वा चाविप्रतिसारी भवति। न च शाठ्याद्दानं ददाति मणिमुक्ताशङ्खशिलावैदूर्यप्रवाडादिप्रतिरूपकाणि तदाशावतां सत्त्वानाम्। न च बोधिसत्त्वेन किञ्चिदल्पं [वा प्रभूतं वा] देयवस्तु यन्न प्रागेव चेतसा सर्वसत्त्वानां निर्मुक्तं भवति। पश्चाद्याचकः स्वकमिव धनं याचितकानुप्रदत्तं बोधिसत्त्वाद्याचते। कालेन च बोधिसत्त्वो दानं ददाति नाकालेन। कल्पिकमात्मनः परस्य च नाकल्पिकम्। आचारेण नानाचारेण। अविक्षिप्तेन च चेतसा न विक्षिप्तेन। न च बोधिसत्त्वो याचनकमवहसति नावस्पण्डयति। म मङ्कुभावमस्योपसंहरति। न भृकुटीकृतो भवति। उत्तानमुखवर्णः स्मितपूर्वंङ्गमः पूर्वाभिभाषी भवति। न च विलम्बितं त्वरितं त्वरितं दानं ददाति। अयाचितोऽपि बोधिसत्त्वः स्वयं प्रवारयित्वा परान् यो येनार्थी भवति तस्य तद्ददाति। स्वयं गृहीतं चैषामभ्यनुजानाति। न च बोधिसत्त्वो दौष्प्रज्ञदानं ददाति। ददत् प्राज्ञदानमेव ददाति।



प्राज्ञदानं बोधिसत्त्वस्य कतमत्। इह बोधिसत्त्वः सत्सु संविद्यमानेषु देयधर्मेषु पूर्वमेव याचनकाभ्यागमनादेवं चित्तमभिसंस्करोति। स चेन्मे द्वौ याचनकावागच्छेतां सुखितश्चाकृपणोऽवराकः सनाथः सप्रतिसरणः दुःखितश्च कृपणो वराकः अनाथः अप्रतिसरणः। तेन मया सचेन्मे भोगानां द्वयोरपि सन्तर्पणायेच्छापरिपूरये तदा संभवोऽस्ति उभौ सन्तर्पयितव्यौ। द्वयोरपीच्छा परिपूरिः करणीया। स चेन्न तावद्भोगसंभवः स्यादहं द्वयोः सन्तर्पयेयं यदिच्छापरिपूरिञ्च कुर्यां सुखितमपहाय दुःखिताय दानं देयम्। अकृपणमवराकं सनाथं सप्रतिसरणमपहाय कृपणाय वराकाय अनाथायाप्रतिसरणाय दानं देयमिति। स एवं चित्तमभिसंस्कृत्य यथाभिसंस्कारमेव कर्मणा संपादयति। स चेत्पुनः सुखितस्य याचनकस्येच्छां न शक्नोति परिपूरयितुं स तमेव पूर्वकं स्वचित्ताभिसंस्कारकल्पमुपादाय तं याचकमेवं संज्ञप्य प्रेषयति। अस्य मया दुःखितस्य पूर्वनिसृष्टं पूर्वप्रतिज्ञातमेतद्देयवस्तु अतो मयाऽस्यैव प्रतिपादितम्। न च मे त्वय्यदातुकाममना अस्ति। अतो न भद्रमुखेनास्माकमन्तिके प्रणयविमुखता करणीयेति। पुनरपरं बोधिसत्त्वः सत्‍सु संविद्यमानेषु देयधर्मेषु यानि तानि मत्सरिकुलानि भवन्ति परममत्सरिकुलान्यागृहीतपरिष्काराणि कुटकुञ्चकानि येषु न जातु श्रमणब्राह्मणेषु देयधर्मे प्रजायते तानि बोधिसत्त्वः कुलान्युपसंक्रम्य प्रतिसंमोद्य प्रणयञ्च संविधायैवमाह। अङ्ग तावत्ते भवन्तः अकोशक्षयेण महता उपकारेण प्रत्यवस्थिता भवन्तु। मम गृहे विपुला भोगा विपुला देवधर्मांः संविद्यन्ते। सोऽहं दानपारमितापरिपूरये याचनकेनार्थी।



स चेद्यूयं याचनकमारागयथ मा निराकृत्य विसर्जयिष्यथ मदीयं धनं देयधर्ममादाय तेभ्यो वा विसृजत यथासुखमेव। अथवा तं याचनकमस्माकमुपसंहरथ दीयमानञ्च मया दानमनुमोदथ। ते च तस्य प्रतिश्रुत्याकोशक्षयेण प्रियेणायं कुलपुत्रोऽस्माकमाराधितचित्तो भवतीति तथा कुर्वन्ति। एवं हि तेन बोधिसत्त्वेन येषामायत्यां मात्सर्यमलविनयाय बीजमवरोपितं भवति। क्रमेण च तेनाभ्यासेन तेन प्रज्ञापूर्वकेणोपायकौशल्येन स्वकमपि परीत्तं परेभ्यो धनमनुप्रयच्छन्ति। मृदुकमलोभं निश्रित्य मध्यं प्रतिलभन्ते। मध्यं निश्रित्याधिमात्रं प्रतिलभन्ते। पुनरपरं बोधिसत्त्वो येऽस्य भवन्त्याचार्योपाध्यायाः सार्धविहार्यन्तेवासिनः सब्रह्मचारिणश्च लोभप्रकृतयो लुब्धजातीया ये च न लुब्धजातीया अपि तु देयधर्मवैकल्यादिच्छाविघातवन्तस्तत्र बोधिसत्त्वो बुद्धावरोपितं वा धर्मा [वरोपितं वा] संघावरोपितं वा दानमयं पुण्यक्रियावस्तु कर्तुकामस्तेषामेवोत्सृजति। तान् देय धर्मांस्तैः कारयति न स्वयं करोति। एवं तेन बोधिसत्त्वेन स्वयञ्च बहुतरं पुण्यं प्रसूतं भवति। तदेकत्यानाञ्च सब्रह्मचारिणां क्लेशविनयः कृतो भवति। तदेकत्यानां धर्मेच्छापरिपूरिः कृता भवति। सत्त्वसंग्रहः सत्त्वपरिपाकश्च कृतो भवति। पुनरपरं बोधिसत्त्वः सत्सु संविद्यमानेषु देयधर्मेषु याचनकमाकूटननिमित्तमात्रकेणैव ज्ञात्वा यथाकामं देयधर्मैः प्रतिपादयति। योऽपि चैनमुपसंक्रान्तो भवति कूटवाणिज्यनैवं व्यंसयिष्यामीति। तस्यापि भावमाज्ञाय तद्‍दुश्चरितमन्येषामपि तावच्छादयति प्रागेव तस्यैव। इच्छाञ्चास्य परिपूरयति येनासावमङ्कुरुदग्रो विशारदः सौमनस्यजातो विप्रक्रामति। येनापि च बोधिसत्त्वः कूट-कपटेन वञ्चितो भवति न चानेन सा वञ्चना पूर्वं प्रतिविद्धा भवति पश्चाच्च प्रतिविध्यति। प्रतिविध्य न च तेन वस्तुना पुनस्तं व्यंसकं पुद्गलञ्चोदयति स्मारयति। सर्वञ्च तच्छलकृत मदत्तादानमस्मै भावेनाभ्यनुमोदते। इत्येवंभागीयं तावद्‍बोधिसत्त्वस्य सत्सु संविद्यमानेषु प्राज्ञदानं वेदितव्यम्। पुनरपरं बोधिसत्त्वः असत्सु असंविद्यमानेषु देयधर्मेषु कृतावी बोधिसत्त्वस्तेषु तेषु शिल्पकर्मस्थानेषु स तद्रूपं शिल्पकर्मस्थानमामुखीकरोति। येनाल्पकृच्छ्रेण महान्तं धनस्कन्धमभिनिर्जित्याध्यावसति। परेषाञ्चित्रकथो मधुरकथः कल्याणप्रतिभानो बोधिसत्त्वास्तथा धर्मदेशनां प्रवर्तयति यथा दरिद्राणामपि सत्त्वानां दातुकामता सन्तिष्ठते प्रागेवाढ्यानाम्। मत्सरिणामपि प्रागेव त्यागशीलानाम्।



यानि वा पुनस्तानि श्राद्धकुलानि येष्वहरहः प्रवृता एव देयधर्मा विस्तीर्णभोगतया तेषु कुलेषु आगतागतान् याचनकानुपसंहरति। स्वयमेव वा गत्वा दानेषु दीयमानेषु पुण्येषु क्रियमाणेषु दक्षोऽनलस उत्थानसम्पन्नश्चित्तमभिप्रसाद्य कायेन वाचा यथाशक्त्या यथाबलं व्यापारं गच्छति। सुप्रतिपादितञ्च तद्दानं याचनकेषु करोति। एवं हि तद्दानम्। यदुपस्थापक-वैगुण्याद् दुष्प्रतिपादितं स्यात् पक्षपतितं वा अनादरतो वा स्मृतिसंप्रमोषतो वा तन्न भवति। एवं हि बोधिसत्त्वः असत्स्वसंविद्यमानेषु भोगेषु प्राज्ञदानस्य दाता भवति यावदाशयशुद्धि नाधिगच्छति। शुद्धाशयस्तु बोधिसत्त्वो यथैवापासमतिक्रमं प्रतिलभते तथैवाक्षयभोगतां जन्मनि प्रतिलभते। पुनरपरं बोधिसत्त्वो न तीर्थिकाय रन्ध्रप्रेक्षिणे धर्मं मुखोद्देशतो वा पुस्तकगतं वा ददाति। नापि लोभप्रकृतये पुस्तकं विक्रेतुकामाय सन्निधिं वा कर्तुकामाय। न तु तेन ज्ञानेनानर्थिने [ज्ञानेनार्थिने वा]। पुनः स चेत्कृतार्थः पुस्तकेन भवति स्वयं ददात्यस्मै यथासुखमेव। स चेदकृतार्थो भवति यस्यार्थे तेन तत्पुस्तकमन्वावर्तितम्। एवमसौ बोधिसत्त्वः आदर्शमन्यं दृष्ट्वा लेखयित्वा वान्यद्ददाति। स चेन्नैवादर्शं पश्यति नापि लेखयितुं शक्नोति तेनादित एवं स्वचित्तं प्रत्यवेक्षितव्यम्। मा हैव मे धर्ममात्सर्यमलपर्यवस्थितं चित्तम्। मा हैवाहमाशयत एव न दातुकामोऽभिलिखितं धर्मम्। स चेत्स एवं प्रत्यवेक्षमाणो जानीयादस्ति मे धर्ममात्सर्यमलसमुदाचारोऽपि तेन बोधिसत्त्वेनैवं चित्तमभिसंस्कृत्य दातव्यम्। एवं धर्मदानं स्यात्। यद्यहमनेन धर्मदानेन मूक एवं स्यां दृष्टे धर्मे तथापि मयाऽनधिवास्य क्लेशं दातव्यमेव स्याद्धर्मदानम्। प्रागेव ज्ञानसंभारविकलः। स चेत्पुनः प्रत्यवेक्षमाणो जानीयान्नास्ति मे [धर्म] मात्सर्यमलसमुदाचारोऽपि तेन बोधिसत्त्वेनैवं प्रतिसंशिक्षितव्यम्। अहम् [ आत्मनः] क्लेशनिर्घातनार्थं वा एतद्धर्मदानं दद्यां ज्ञानसंभारपरिपूरणार्थं वा सत्त्व प्रियतायैव वा। सोऽहं क्लेशं तावन्न पश्यामि। ज्ञानसंभारमपि दृष्टधर्मसाम्परायिकं प्रभूततरमननुप्रदानात् पश्यामि। न पदानात्। साम्परायिकमेव प्रतनुकं धर्मलाभप्रचुरतायै। अननुप्रयच्छंश्चाहं सर्वसत्त्वानां हितसुखाय ज्ञानं समुदानय तस्य च सत्त्वस्य तदन्येषाञ्च सर्वसत्त्वानां प्रियकारी भवामि। अनुप्रच्छन्नस्यैवैकस्य सत्त्वस्य प्रियकारी इति विदित्वा यथाभूतं स चेद्‍बोधिसत्त्वो न ददात्यनवद्यो भवत्यविप्रतिसारी। असमतिक्रान्तश्च भवति बोधिसत्त्ववृत्तम्।



कथञ्च पुनर्न ददाति। न खलु पुनर्बोधिसत्त्वः उत्सहते याचनकं निष्ठुरया वाचा प्रतिक्षेप्तुम्। न ते दास्यामीत्यपि उपायकौशल्यनैनं संज्ञप्यानुप्रेषयति। तत्रेदमुपायकौशल्यम्। प्रागेव बोधिसत्त्वेन सर्वपरिष्काराः सर्वदेयधर्मा दशसु दिक्षु विशद्धेनाशयेन बुद्धबोधिसत्त्वानां विसृष्टा भवन्ति विकल्पितास्तद्यथापि नाम भिक्षुराचार्याय वा उपाध्यायाय वा चीवरं विकल्पयेत्। स एवं विकल्पहेतोः सर्वविचित्रोदारपरिष्कारदेयधर्मसन्निधिप्राप्तोऽप्यार्यवंशविहारी बोधिसत्त्व इत्युच्यते। अप्रमेयपुण्यप्रसोता च भवति। तञ्च पुण्यमस्य नित्यकालं तद्बहुलमनस्कारस्य सर्वकालानुगतमभिवर्धते। स तान् देयधर्मान् बुद्धबोधिसत्त्वनिक्षिप्तानिव धारयति। यदि याचनकं पश्यति युक्तरूपश्चास्मिन् यथेप्सितं देयधर्मप्रतिपादनं पश्यति। स नास्ति तत् किञ्चिद् बुद्धबोधिसत्त्वानां यत्सत्त्वेषु अपरित्यक्तमिति विदित्वा याचनकस्येच्छां परिपूरयति। नो चेद्युक्तरूपं समनुपश्यति स तमेव कल्पमुपादाय परकीयमेतद् भद्रमुख न चैतद्युष्माकमनुज्ञातं दातुमिति श्लक्ष्नेन वचसा संज्ञप्यैनं प्रेषयति। अन्यद्वा तद् द्विगुणं त्रिगुणं दानमानसत्कारं कृत्वानुप्रेषयति। येनासौ जानीते नायं बोधिसत्त्वो लोभात्मकतयाऽस्माकं न दातुकामः। अपि तु नूनमस्वतन्त्र एवं तस्मिन् पुस्तकधर्मदाने येन न ददातीति। इदमपि बोधिसत्त्वस्य धर्मदानमारभ्य प्राज्ञदानं वेदितव्यम्। पुनरपरं बोधिसत्त्वः सर्वदानानि धर्मामिषाभय [दाना] नि प्रर्यायतोऽपि लक्षणतोऽपि निर्वचनतोऽपि हेतुफलप्रभेदतोऽपि यथाभूतं प्रजानन्ननुप्रयच्छति। इदमपि बोधिसत्त्वस्य प्राज्ञदानं वेदितव्यम्। पुनरपरं बोधिसत्त्वः अपकारिषु सत्त्वेषु मैत्र्याशयो दानं ददाति। दुःखितेषु करुणाशयः। गुणवत्सुमुदिताशयः। उपकारिषु मित्रेषु सुहृत्सूपेक्षाशयः। इदमपि बोधिसत्त्वस्य प्राज्ञदानं वेदितव्यम्।



पुनरपरं बोधिसत्त्वो दानविबन्धनमपि दानविबन्धप्रतिपक्षमपि यथाभूतं प्रजानाति। तत्र चत्वारो दानविबन्धाः। पूर्वकोऽनभ्यासः। देयधर्मपरीत्ततावैकल्यम्। अग्रे मनोरमे च वस्तुनि गृद्धिः आयत्याञ्च भोगसम्पत्ति फलदर्शनाभिनन्दनता। यतश्च बोधिसत्त्वस्य देयधर्मेषु संविद्यमानेषु याचनके च सम्यगुपस्थिते दाने चित्तं न क्रामति। सोऽनभ्यासकृतो मेऽयं दोष इति लघु लध्वेव प्रज्ञया प्रतिसिध्यति। एवञ्च पुनः प्रतिविध्यति। नूनं मया पूर्वं दानं न दत्तं येन मे एतर्हि सम्यक् संविद्यमानेषु भोगेषु सम्यक् प्रत्युपस्थिते च याचनके दाने चित्तं न क्रामति। स चेदेतर्हिन प्रतिसंख्याय दास्यामि पुनरपि मे आयत्यां दानविद्वेषो भविष्यति। स एव प्रतिबिध्य दानप्रतिबन्धप्रतिपक्ष निशृत्य प्रतिसंख्याय ददाति। नाभ्यासकृतदोषानुसारी भवति न तद्वशगः। पुनरपरं बोधिसत्त्वस्य स चेद्यद् याचनके सम्यक् प्रत्युपस्थिते परीत्तभोगतया दाने चित्तं न क्रामति स त विघातकृत दानविप्रतिबन्धहेतुं लघु-लघ्वेव प्रज्ञया प्रतिविध्य तद्विघातकृतं दुःखमधिवासयन् प्रतिसंख्याय कारुण्याद्दानं ददाति। तस्यैवं भवति। पूर्वकर्मदोषेण वा परविनेयतया वा मया बहूनि प्रगाढानि क्षुत् पिपासादिकानि दुःखान्यनुभूतानि भवे विना परानुग्रहम्। यदि च मे मरणाय कालक्रियायै सवर्तेत एतद्दानकृत परानुग्रहहेतुक दृष्टे धर्मे दुःख तथापि मे दानमेव श्रेयो न तु याचनकनिराकरणम्। प्रागेव यः कश्चिद्येन केनचिच्छाकपत्रेण जीवति इत्येवं बोधिसत्त्वस्तद्विघातकृतं दुखमधिवास्य दान ददाति। पनरपर बोधिसत्त्वस्य सम्यग् याचके प्रत्युपस्थिते स चेदधिमात्रमनापत्वादग्र्यत्वाद्देयवस्तुनो दाने चित्त न क्रामति त बोधिसत्त्वो गर्धकृत् दोष लघु-लघ्वेव प्रतिज्ञया प्रतिविध्य दुःखे मे एष सुखसंज्ञाविपर्यासः आयत्यां दुःखजनक इति विपर्यासपरिज्ञानात्तञ्च प्रहाय प्रति संख्याय तद्वस्तु ददाति। पुनरपरं बोधिसत्त्वस्य स चेद्दानं दत्त्वा दानफले महाभोगतायामनुशंसदर्शनमुत्पद्यते नानुत्तरायां सम्यक्संबोधौ तं बोधिसत्त्वो मिथ्याफलदृष्टिकृतं दोषं लघु-लध्वेव प्रज्ञया प्रतिविध्य सर्वसंस्काराणामसारतां यथाभूतं प्रत्यवेक्षते। सर्वसंस्काराः क्षणभङ्गुराः फलोपभोगपरिक्षयभङ्गुरा विप्रयोगभङ्गुराश्च। स एवं प्रत्यवेक्षमाणः फलदर्शनं प्रहाय यत्किञ्चिद्दानं ददाति सर्वं तन्महाबोधि-परिणामितमेव ददाति।



तदिदं बोधिसत्त्वस्य चतुर्विधस्य दानविबन्धस्य चतुर्विधं दानप्रतिवन्धप्रतिपक्षज्ञानं वेदितव्यम्। प्रतिवेधो दुःखादिवासना विपर्यासपरिज्ञानं संस्कारासारत्वदर्शनञ्च। तत्र त्रिविधेन बोधिसत्त्वः प्रतिपक्षज्ञानेन पूर्वकेण नियतं सम्यक् च दानं ददाति। एकेन पश्चिमेन प्रतिपक्षज्ञानेन सम्यक् पुण्यफलपरिग्रहं करोति। इदमपि बोधिसत्त्वस्य प्राज्ञदानं वेदितव्यम्।



पुनरपरं बोधिसत्त्वः अध्यात्म्यं रहोगतः शुद्धेनाशयेन घनरसेन प्रसादेन संकल्पैर्विचित्रानुदारानप्रमेयान् देयधर्मानधिमुच्य सत्त्वेषु दानाय प्रतिपादितायाभिलषति येन बोधिसत्त्वः अल्पकृच्छ्रेणाप्रमेयं पुण्यं प्रसूयते। इदमपि बोधिसत्त्वस्य प्राज्ञदानं वेदितव्यम्। तदिदं बोधिसत्त्वस्य प्राज्ञस्य [महा] प्राज्ञदानम्। एवं समासतः संविद्यमानेष्वसंविमादेषु चामिषदानसंगृहीतेषु देयधर्मेषु तथा धर्मदानमुपादाय प्रतिसंविदमुपादायाध्याशयदानमुपादाय दानविप्रतिबन्धप्रतिपक्षज्ञानमुपादायाशयाधिमुक्तिदानञ्चोपादाय बोधिसत्त्वस्यैवावेणिकं वेदितव्यम्। एवं हि बोधिसत्त्वस्याध्यात्मिक-बाह्यसर्ववस्तुदानप्रभेदो विस्तरेण वेदितव्यः।



अत ऊर्ध्वमस्मादेव सर्वदानप्रभेदात्तदन्यः सर्वो दुष्करादिदानप्रभेदो वेदितव्यः।



तत्र कतमद्बोधिसत्त्वस्य दुष्करदानम्। यद्बोधिसत्त्वः परीत्तं देयवस्तु संविद्यमानमात्मानं बाधित्वा दुःखमधिवास्य परेषामनुप्रयच्छति। इदं बोधिसत्त्वस्य प्रथमं दुष्करदानम्। यद्बोधिसत्त्वः इष्टञ्च वस्तु प्रकृतिस्नेहाद्वा दीर्घकाल संस्तवाद्वाऽधिमात्रोपकाराद्वाऽग्र्यञ्च प्रवरं देयवस्तुगर्धं प्रतिविनोद्य परेभ्योऽनुप्रयच्छति। इदं बोधिसत्त्वस्य द्वितीयं दुष्करदानं यद्बोधिसत्त्वः कृच्छतार्जितान् देयधर्मान् परेभ्योऽनुप्रयच्छति। इदं तृतीयं बोधिसत्त्वस्य दुष्करदानम्।



तत्र कतमद्बोधिसत्त्वस्य सर्वतोमुखं दानम्। यद्बोधिसत्त्वः स्वकं वा परं वा समादाप्य देयवस्तु स्वभृत्येषु वा मातापितृपुत्रदारदासीदासकर्मकरपौरुषेयमित्रामात्यज्ञातिसालोहितेष्वनुप्रयच्छति। परेषु वाऽर्थिषु। एतत्सर्वतोमुखं दानमित्युच्यते।



समासतो बोधिसत्त्वस्य चतुराकारं सत्पुरुषस्य सत्पुरुषदानम्।



तव कतमद् बोधिसत्त्वस्य सत्‍पुरुषस्य सत्पुरुषदानम्। यद्बोधिसत्त्वः श्रद्धया दानं ददाति सत्कृत्य स्वहस्तेन कालेन पराननुपहत्य इदं बोधिसत्त्वस्य सत्पुरुषस्य सत्पुरुषदानमित्युच्यते।



तत्र कतमद्बोधिसत्त्वस्य सर्वाकारं दानम्। अनिश्चितदानता। विशददानता। प्रमुदितदानता। अभीक्ष्णदानता। पात्रदानता। अपात्रदानता सर्वदानता। सर्वत्रदानता। सर्वकालदानता। अनवद्यदानता सर्ववस्तुदानता। देशवस्तुदानता। धनधान्यवस्तुदानता। इतीद त्रयोदशाकारं दानं बोधिसत्त्वस्य सर्वाकारमित्युच्यते।



तत्र कतमद्‍बोधिसत्त्वस्य विघातार्थिक दानम्। इह बोधिसत्त्वो भोजनेन पानेन विघातिष्वर्थिकेषु भोजनपानं ददाति। यानार्थिकेषु यानं वस्त्रार्थिकेषु वस्त्रमलङ्कारार्थिकेषु अलंकारं विचित्रभाण्डोपस्कारार्थिकेषु विचित्रभाण्डोपस्कारं ददाति। गन्धमाल्यविलेपनार्थिकेषु गन्धमाल्यविलेपनम्। प्रतिश्रयार्थिकेषु प्रतिश्रयम्। आलोकविघातार्थिकेष्वालोकं ददाति। इदमष्टाकार बोधिसत्त्वस्य विघातार्थिकदानं वेदितव्यम्।



तत्र कतमद्बोधिसत्त्वस्येहामुत्रसुखं दानम्। आमिषदानं धर्मदानमभयदानञ्च समासतः इहामुत्रसुखं बोधिसत्त्वानां दानं वेदितव्यम्। तत्पुनरामिषदानं प्रणीतं शुचिकल्पिकम्। विनीय मात्सर्यमलं सन्निधिमलञ्च ददाति। तत्र मात्सर्यमलविनयश्चित्ताग्रहपरित्यागात् सन्निधिमलविनयो भोगाग्रहपरित्यागाद्वेदितव्यः। अभयदानं सिंहव्याध्रग्राहराजचौरोदकादिभयपरित्राणतया वेदितव्यम्। धर्मदानमविपरीतधर्मदेशना न्यायोपदेशः शिक्षापदसमादापना च। तदेतत्सर्वमभिसमस्य नवाकारं बोधिसत्त्वस्य दानं सत्त्वानाभिहामुत्रसुखं भवति। तत्रामिषाभयदानं सप्रभेदभिहसुखम् धर्मदानं पुनः सप्रभेदममुत्रसुखम्।



तत्र कतमद्बोधिसत्त्वस्य विशुद्धं दानम्। तद्दशाकरं वेदितव्यम्। असक्तमपरामृष्टमसंभृतमनुन्नतमनिश्रितमलीनमदीनमविमुखं प्रतीकारानपेक्षं विपाकानपेक्षञ्च।



तत्रासक्तं दानं कतमत्। इह बोधिसत्त्वो याचनके सम्यक् प्रत्युपस्थिते त्वरितमविलम्बितं ददाति। न याचनकस्य तथा लाभमारम्य त्वरा भवति यथा बोधिसत्त्वस्य दानमारभ्य।



अपरामृष्टं दानं कतमत्। न हि बोधिसत्त्वो दृष्ट्या एवं दानं परामृशति। नास्ति वाऽस्य दानस्य फलम्। हिंसादानेन वा पुनर्धर्मो भवतीति। सुसम्पन्नेन वा पुनर्दानमात्रकेण लौकिकलोकोत्तरा विशुद्धिर्भवतीति।



असंभृतं दानं कतमत्। न खलु बोधिसत्त्वः संभृत्य दीर्घकालिकं देयधर्मसन्निचर्य कृत्वा पश्चात् सकृद्दानं ददाति। तत्कस्य हेतोः। न हि बोधिसत्त्वः संविद्यमानेषु देयधर्मेषु सम्यक् प्रत्युपस्थितस्य याचनकस्य निराकरणमुत्सहते नापि प्रतिरूपं पश्यति येन तन्निराकरोति। कुतः पुनः सन्निचयं करिष्यति। न च संभृतदानेन बोधिसत्त्वः पुण्यस्यायद्वारमधिकं पश्यति। समं देयवस्तु तुल्येषु व्यस्तसमस्तेषु याचनकेषु क्रमेण वा सकृद्वा दीयमानं केन कारणेन पुण्यविशेषतां परिगृह्णीयादिति सम्पश्यन्नपि च बोधिसत्त्वः सावद्यमेव संभृतदानं पश्यति। निरवद्यं पश्यति यथोत्पन्नं भोगदानम्। तत्कस्य हेतोः। तथाहि संभृतदाताऽर्थितो याचनकैर्याचनकशतानि पूर्वं निराकृत्य तेषामाघातमक्षमप्रत्ययं जनयित्वा पश्चादनर्थितोऽपि तदेकत्यानां संभृतदानं ददाति। तस्माद्बोधिसत्त्वः सम्भृतदानं न ददाति।



अनुन्नतदानं कतमत्। याचनकाय नीचचित्तो बोधिसत्त्वो दानं ददाति। न च परस्पर्धया ददाति। न च दानं दत्त्वा तेन दानेन मन्यते अहमस्मि दाता दानपतिरन्ये च न तथेति।



अनिश्चितदानं कतमत्। न हि बोधिसत्त्वः कीर्तिशब्दघोषश्लोकं निश्रित्य दानं ददाति। विकल्पाक्षरसंभूतां घोषमात्रप्रतिबद्धां वृषमत्रोपमां कीर्तिं मन्यमानः।



अलीनं दानं कतमत्। इह बोधिसत्त्वः पूर्वमेव दानात् सुमना भवति। ददच्चित्तं प्रसादयति। दत्त्वा चाविप्रतिसारी भवति। विपुलानि च परमोदाराणि बोधिसत्त्वानां दानानि श्रुत्वा नात्मानं परिभवन् संकोचमापद्यते।



अदीनं दानं कतमत्। विचिन्त्य विचिन्त्य बोधिसत्त्वो यत्नेन देयधर्मेभ्यो यान्यग्राणि प्रवराणि भोजनपानयानवस्त्रादीनि तान्यनुप्रयच्छति।



अविमुखं दानं कतमत्। समचित्तो बोधिसत्त्वः अपक्षपतितो मित्रामित्रोदासीनेषु समकारुण्यो दानं ददाति।



प्रतीकारानपेक्षं दानं कतमत्। कारुण्यचित्तोऽनुकम्पाचित्तो बोधिसत्त्वो दानं ददन्न परतः प्रत्युपकारं प्रत्याशंसते। सुखकामां तृष्णादाहेन दह्यमानामप्रतिबलां प्रकृतिदुःखितां जनतां संपश्यन्।



विपाकानपेक्षं दानं कतमत्। न बोधिसत्त्वो दानं दत्त्वा दानस्यायत्यां भोगसम्पदं वा आत्मभावसम्पदं वा फलविपाकं प्रत्याशंसते। सर्वसंस्कारेषु फल्गुदर्शी परमबोधावनुशंसदर्शी।



एभिर्दशभिराकारैर्बोधिसत्त्वानां विशुद्धं सुविशुद्धं दानं भवति।



एवं हि बोधिसत्त्व एतन्नवाकारं दानं निश्रित्य दानपारमितां परिपूरयित्वाऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यते।



इति बोधिसत्त्वभूमावाधारे योगस्थाने नवमं दानपटलम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project