Digital Sanskrit Buddhist Canon

1-8 बलगोत्रपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1-8 balagotrapaṭalam

बलगोत्रपटलम्



निर्दिष्टं तावद्यत्र बोधिसत्त्वेन शिक्षितव्यम्। यथा पुनः शिक्षितव्यं तद्वक्ष्यामि।



उद्दानम्।



अधिमुक्तेर्बहुलता धर्मपर्येष्टिदेशना।

प्रतिपत्तिस्तथा सम्यगववादानुशासनम्।

उपायसहितं कायवाङ्मनःकर्म पश्चिमम्।



इहादित एव बोधिसत्त्वेन बोधिसत्त्वशिक्षासु शिक्षितुकामेनाधिमुक्तिबहुलेन भवितव्यं धर्मेपर्येषकेण धर्मदेशकेन धर्मानुधर्मप्रतिपन्नेन सम्यगववादानुशासकेन सम्यगववादानुशासन्याञ्च स्थितेन उपायपरिगृहीतकायवाङ्मनःकर्मणा च भवितव्यम्।



कथञ्च बोधिसत्त्वोऽधिमुक्तिबहुलो भवति। इह बोधिसत्त्वोऽष्टविधेऽधिमुक्त्यधिष्ठाने श्रद्धाप्रसादपूर्वंकेण निश्चयेन रुच्या समन्वागतो भवति। त्रिषु रत्नेषु बुद्धधर्मंसंघगुणेषु बुद्धबोधिसत्त्वप्रभावे च यथानिर्दिष्टे तत्त्वार्थे च यथानिर्दिष्टे हेतौ च फले च विचित्रे यथायोगपतिते अविपरीते प्राप्तव्ये चार्थे समर्थोऽहं प्राप्तुमिति। यथा प्राप्तव्ये अर्थे एवं प्राप्त्युपाये अस्त्ययं प्राप्त्युपायः प्राप्तव्यस्यार्थस्येति। तत्र प्राप्तव्योऽयथा बोधिरनुत्तरा। प्राप्त्युपायः पुनः सर्वे बोधिसत्त्वशिक्षामार्गाः। तथा सुभाषिते सुलपिते सुप्रव्याहृतेऽधिमुक्तिस्तद्यथा सूत्रं गेयं व्याकरणादिषु धर्मेषु।



तत्रास्मिन्नष्टविधेऽधिमुक्त्याधिष्ठाने बोधिसत्त्वस्य द्वाभ्यां कारणाभ्यामधिमुक्तिबहुलता वेदितव्या। अधिमुक्त्यभ्यासबहुलीकारतश्च तीव्रक्षान्तिसन्निवेशतश्च।



तत्र धर्मं बोधिसत्त्वः पर्येषमाणः किं पर्येषते। कथं पर्येषते। किमर्थं पर्येषते। समासतो बोधिसत्त्वो बोधिसत्त्वपिटकञ्च पर्येषते श्रावकपिटकञ्च। वाह्यकानि च शास्त्राणि लौकिकानि च शिल्पकर्मपस्थानानि पर्येषते।



तत्र द्वादशाङ्गाद्वचोगताद्यद्वैपुल्यं तद्वोधिसत्त्वपिटकम्। अवशिष्टं श्रावकपिटकं वेदितव्यम्। बाह्यकानि पुनः शास्त्राणि समासतस्त्रीणि। हेतुशास्त्रं शब्दशास्त्रं चिकित्सक शास्त्रञ्च। तत्र लौकिकानि शिल्पकर्मस्थानान्यनेकविधानि बहुनानाप्रकाराणि। सुवर्णकारायस्कारमणिकारकर्मज्ञानप्रभृतीनि। तान्येतानि सर्वविद्यास्थानपरिगृहीतानि पञ्चविद्यास्थानानि भवन्ति। अध्यात्मविद्या हेतुविद्या शब्दविद्या व्याधिचिकित्साविद्या शिल्पकर्मस्थानविद्या च। इतीमानि पञ्च विद्यास्थानानि यानि बोधिसत्त्वः पर्येषते। एवमनेन सर्वविद्यास्थानानि पर्येषितानि भवन्ति।



तत्र बुद्धवचनमध्यात्मशास्त्रमित्युच्यते। तत्पुनः कत्याकारं प्रवर्तते। एवं यावल्लौकिकानि शिल्पकर्मस्थानानि कत्याकाराणि प्रवर्तन्ते। बुद्धवचनं समासतो द्व्याकारं प्रवर्तते। सम्यग्‍हेतुफलपरिदीपनाकारं कृताविप्रहाणा कृतानभ्यागमपरिदीपनाकारञ्च। हेतुशास्त्रमपि द्व्याकारम्। परोपारंभकथानुशंसपरिदीपनाकारं परतश्चेतिवादविप्रमोक्षानुशंसपरिदीपनाकारञ्च। शब्दशास्त्रमपि द्व्या कारम्। धातुरूपसाधनव्यवस्थानपरिदीपनाकारं वाक्संस्कारानुशंसपरिदीपनाकारञ्च। चिकित्साशास्त्रञ्चतुराकारं प्रवर्तते। आवाधकोशलपरिदीपनाकरम्। आवाधसमुत्थानकौशलपरिदीपनाकारम्। उत्पन्नस्यावाधस्य प्रहाणकौशलपरिदीपनाकारम्। प्रहाणस्य चावाधस्यायत्यामनुत्पादकौशलपरिदीपनाकारम्। लौकिकानि शिल्पकर्मस्थानज्ञानानि स्वकस्वकशिल्पकर्मस्थानानुष्ठानकार्यपरिनिष्पत्तिपरिदीपनाकाराणि।



कथञ्च बुद्धवचनमविपरीतं हेतुफलं परिदीपयति। दशेमे हेतवः अविपरीतं हेतुव्यवस्थानं सर्वहेतुसंग्रहे वेदितव्याः संक्लेशाय वा व्यवदानाय वा लौकिनामपि च तेषां सस्यादीनामव्याकृतानां प्रवृत्तये। दश हेतवः कतमे। अनुव्यवहारहेतुः। अपेक्षाहेतुः। आक्षेपहेतुः। परिग्रहहेतुः। अभिनिर्वृत्तिहेतुः। आवाहकहेतुः प्रतिनियमहेतुः। सहकारिहेतुः विरोधहेतुः। अविरोधहेतुश्च।



तत्र सर्वधर्माणां यन्नाम नामपूर्विका च संज्ञा संज्ञापूर्वकश्चाभिलापः। अयमुच्यते तेषां धर्माणामनुव्यवहारहेतुः। तत्र यदपेक्षं यद्धेतुकं यस्मिन् वस्तुन्यर्थित्वमुपादानञ्च भवत्ययमस्योच्यतेऽपेक्षाहेतुः। तद्यथा हस्तापेक्षं हस्तहेतुकमादानकर्म। पादापेक्षं पादहेतुकमभिक्रमप्रतिक्रमकर्म। पर्वापेक्षं पर्वहेतुकं समिञ्जितप्रसारितकर्म। जिघत्सापिपासापेक्षं जिघत्सापिपासाहेतुकं भोजनपानादानं पर्येषणता च। इत्येवंभागीयोऽप्रमाण-नयानुगतः अपेक्षाहेतुर्वेदितव्यः। तत्र बीजमावसानिकस्य स्वफलस्याक्षेपहेतुः। बीजनिर्मुक्तः तदन्यः प्रत्ययः परिग्रहहेतुः। तदेव बीजं स्वफलस्य निर्वृत्तिहेतुः। तत्पुनर्बीजनिर्वृत्तं फलमुत्तरस्य बीजाक्षिप्तस्य फलस्यावाहकहेतुः नानाविजातीय-विभिन्नकारणत्वं प्रतिनियमहेतुः। यश्चापेक्षाहेतुः यश्चाक्षेपहेतुः यश्च परिग्रहहेतुर्यश्च निर्वृत्तिहेतुर्यश्चावाहकहेतुर्यश्च प्रतिनियमहेतुरित्येतान् सर्वान् हेतून् एकध्यमभिसंक्षिप्य सहकारिहेतुरित्युच्यते। उत्पत्तावान्तरायिको हेतुविरोधहेतुः। अन्तरायवैकल्यमविरोधहेतुः।



तत्र विरोधः समासतः षड्‍विधः। वाग्विरोधः। तद्यथा शास्राणि पूर्वापरविरुद्धानि भवन्ति तदेकत्यानां श्रमणब्राह्मणानाम् युक्तिविरोधः। साध्यस्य ज्ञेयस्यार्थस्य साधनायोपपत्तिसाधनयुक्तिरयुज्यमाना भवति। उत्पतिविरोधः। तद्यथा उत्पत्ति प्रत्ययवैकल्पादुत्पत्त्यान्तरायिकधर्मसान्निध्याच्चोपत्तिर्न भवति। सहवस्थान विरोधः। तद्यथा आलोकतमसो रागद्वेषयोः सुखदुःखयोः। विप्रत्यनीकविरोधः। तद्यथा अहिनकुलयोर्मार्जारमूषिकयोरन्योन्यप्रत्यर्थिकयोश्च प्रत्यमित्रयोः। विपक्षप्रातिपक्षिकश्च विरोधः। तद्यथाऽशुभभावना-कामरागयोः मैत्रीभावना-व्यापादयोः करुणाभावनाविहिंसयोः बोध्यङ्गार्याष्टाङ्गमार्गभावनायाः सर्वक्लेशानाञ्च त्रैधातुकावचराणाम् अस्मिंस्त्वर्थे उत्पत्तिविरोध एवाभिप्रेतः।



पुनः सर्वेषामेषां हेतूनां द्वाभ्यां हेतुभ्यां संग्रहः। जनकेन च हेतुना उपायहेतुना च। यदाक्षेपकं निर्वर्तकञ्च बीजं तज्जनको हेतुः। अवशिष्टा हेतव उपायहेतुर्वेदितव्यः।



चत्वारः प्रत्ययाः हेतुप्रत्ययः समनन्तरप्रत्ययः आलम्बनप्रत्ययः अधिपतिप्रत्ययश्च। तत्र यो जनको हेतुः सः हेतुप्रत्ययः। यः पुनरुपायहेतुः सोऽधिपतिप्रत्ययो वेदितव्यः। समनन्तरप्रत्ययश्चालम्बनप्रत्ययश्च चित्तचैतसिकानामेव धर्माणाम्। तथा हि चित्तचैतसिका धर्माः प्रागुत्पन्नावकाशदानपरिगृहीता आलम्बनपरिगृहीताश्च प्रादुर्भवन्ति प्रवर्तन्ते च। तस्मात्समनन्तरप्रत्यय आलम्बनप्रत्ययश्च परिग्रहहेतुना संगृहीतौ वेदितव्यौ।



तत्र कथमेभिर्दशभिर्हेतुभिः सर्वलौकिका भावाःप्रवर्तन्ते। कथञ्च संक्लेशो भवति। कथञ्च व्यवदानम्। यानीमानि विविधानि सस्यानि धान्यसंख्यातानि लोके यैरयं लोको जीविकां कल्पयति तेषां तावद्यदिदं नाम संज्ञा व्याग्व्याहारो विविधस्तद् यथा यवशालिगोधूमतिलमुद्गमाषकुलत्थादिकः। अयमेषामनुव्यवहारहेतुः यवा आनीयन्तां दीयन्तां पिष्यन्तां स्थाप्यन्तामित्येवमादिकस्य व्यवहारस्य यथा यवा एवमवशिष्ठेष्वपि वेदितव्यम् जिघत्सापिपासादौर्बल्यं कायस्थित्यपेक्षं कवडीकाराहारास्वादापेक्षञ्च। तेष्वर्थित्वं पर्येषणा उपनादानमुपभोगश्च भवति। अयमेषामपेक्षाहेतुः। यतो यतः स्वबीजाद् यस्य[यस्य] सस्यस्य प्रादुर्भावो भवति तद्बीजं तस्याक्षेपहेतुः। पृथिवीवृष्ट्यादिकः प्रत्ययोऽड्कुरप्रादुर्भावाय परिग्रहहेतुः तद्बीजं तस्याङ्कुरस्याभिनिर्वृत्तिहेतुः। स खल्वङ्कुरकाण्ड पत्रपरंपरासन्तानस्तस्याः सस्यनिष्पत्तेः सस्यपरिपाकग्यावाहकहेतुः। यवबीजाच्च यवाङ्कुरस्य यवसस्यस्य च प्रादुर्भावो भवति नान्यस्य। एवं परिशिष्टेभ्यो वेदितव्यम्। अयमेषां प्रतिनियमहेतुः। सर्वे चैते अपेक्षाहेतुमुपादाय प्रतिनियमहेत्वन्ताहेत वः सस्यस्याभिनिष्पत्तये सहकारिहेतुः। न हि तद्धान्यमन्यतमहेतुवैकल्यान्निष्पद्यते। तस्मात्सर्वा सा सामग्री सहकारिहेतुरित्युच्यते। अशनि-सस्यरोगनिपातादयोऽन्तराया विरोधहेतुः। तद्वैकल्यं नानन्तरायः अविरोधहेतुः। एवमेते दश हेतवस्तदन्येष्वपि लौकिकेषु भावेषु यथायोगं वेदितव्याः। तद्यथा धान्यपरिग्रहे।



तत्र सर्वस्य प्रतीत्यसमुत्पादस्य यदिदं नामसंज्ञा-वाग्व्याहारः तद्यथा अविद्या संस्कारा विज्ञानं नामरूपंविस्तरेण यावज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः। इत्ययन्तावत् संक्लेशस्यानुव्यवहारहेतुः। अविद्याप्रत्ययाः संस्कारा यावज्जातिप्रत्ययं जरामरणमित्येवमादिकस्य अनुव्यवहारस्य विषयास्वादापेक्षा चैषु भवाङ्गेषु प्रवृतिः। अयमस्य संक्लेशस्यापेक्षाहेतुः। अविद्यादीनां धर्माणां दृष्टे धर्मे यानि बीजानि जातस्य भूतस्येह तान्यन्यजान्मिकस्य जातिजरामरणस्याक्षेपहेतुः। असत्पुरुषसंसेवाऽसद्धर्मश्रवणमयोनिशोमनस्कारः पूर्वाभ्यासावेधश्चाविद्यादीनामुत्पत्तये परिग्रहहेतुः। स्वकस्वकं बीजमविद्यादीनां निर्वृंत्तिहेतुः। ते पुनरविद्यादयो भवपर्यवसाना उत्तरोत्तरावाहनपारंपर्येण तस्यान्यजान्मिकस्य जातिजरामरणस्यावाहकहेतुः। अन्ये सह स्ववीर्यैरविद्यादयो भवपर्यवसाना नरकोपपत्तये संवर्तन्ते। अन्ये तिर्यक्प्रेतमनुष्यदेवोपपत्तये। इत्येयं संक्लेशस्य प्रतिनियमहेतुः। अपेक्षाहेतुमादिं कृत्वा सर्व एते हेतवः प्रतिनियमहेतुपर्यवसानाः सहकारिहेतुरित्युच्यते। तस्य पुनः संक्लेशस्य विरोधहेतुः गोत्रसंपद् बुद्धानामुत्पादः सद्धर्मस्य देशना सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशो मनस्कारो धर्मानुधर्मप्रतिपत्तिः सर्वे च बोधिपक्ष्या धर्माः। अविरोधहेतुरेषामेव यथोद्दिष्टानां धर्माणां वैकल्यं विरहितत्वम्। एवमेभिर्दशभिर्हेतुभिः सर्वः संक्लेशः सर्वसत्त्वानां वेदितव्यः। तत्र यः सर्वेषु व्यवदानपक्ष्येषु धर्मेंषु निरोधे च निर्वाणे नामसंज्ञावाग्व्याहारः। अयं व्यवदानस्यानुव्यवहारहेतुः। इतीमानि स्मृत्युपस्थानानि सम्यक् प्रहाणानि यावदार्याष्टाङ्गो मार्गंः। अविद्यानिरोधाच्च संस्कारनिरोधो विस्तरेण यावज्जातिनिरोधाज्जरामरणनिरोध इत्यस्यैवंभागीयस्यानुव्यवहारस्य। तत्र या संस्कारादीनवापेक्षा व्यवदानपर्येषणा व्यवदानपरिग्रहो व्यवदानपरिनिष्पत्तिः अयमस्यापेक्षाहेतुः। या गोत्रस्थस्य पुद्गलस्य गोत्रसंपत् सोपधिशेष [निरूपधिशेष] निर्वाणाधिगमाय पूर्वङ्गमाय। [अयं] व्यवदानस्याक्षेपहेतुः। सत्‍पुरुषसंसेवा सद्धर्मश्रवणं योनिशोमनस्कारः पूर्वकृतश्चेन्द्रियपरिपाकः परिग्रहहेतुः। तानि गोत्रसंगृहीतान्यनास्रवबोधिपक्ष्यधर्मबीजानि तेषां बोधिपक्ष्याणां धर्माणामभिनिर्वृत्तिहेतुः ते पुनः स्वबीजान्निर्वृत्ता बोधिपक्ष्या धर्माः सोपधिशेष-निरुपधिशेष निर्वाणधात्वोः क्रमेणावाहकहेतुः। तत्र यच्छ्रावकगोत्रं श्रावकयानेन परिनिर्वाणाय संवर्तते प्रत्येकबुद्धगोत्रं प्रत्येकबुद्धयानेन परिनिर्वाणाय संवर्तते महायानगोत्रं महायानेन परिनिर्वाणाय संवर्तते अयं व्यवदानस्य प्रतिनियमहेतुः। यश्चापेक्षाहेतुर्व्यवदानपक्ष्यो यश्च यावत् प्रतिनियमहेतुरयमस्य सहकारिहेतुरित्युच्यते। गोत्रासम्पन्नता बुद्धानामनुत्पादः अक्षणेपपत्तिरसत्पुरुषसंसेवाऽसद्धर्मश्रवणमयोनिशोमनस्कारो मिथ्याप्रतिपत्तिः विरोधहेतुः। अस्यैव विरोधहेतोर्यद्वैकल्यविरहितत्वमयमुच्यतेऽविरोधहेतुः। तत्र यः संक्लेशपक्ष्यो विरोधहेतुः स व्यवदानहेतुर्द्रष्टव्यः। यो व्यवदानपक्ष्यो विरोधहेतुः स संक्लेशहेतुर्द्रष्टव्यः। एवं एभिर्दशभिर्हेतुभिः संक्लेशो दशभिरेव व्यवदानं भवत्यतीतेऽप्यध्वन्यभूदनागतेऽप्यध्वनि भविष्यति संक्लेशाय वा व्यवदानाय वा न एभ्य उत्तरि न एभ्यो भूयानन्यो हेतुर्विद्यते।



तत्र फलं कतमत्। समासतः पञ्च फलानि। विपाकफलं निष्यन्दफलं विसंयोगफलं पुरुषकारफलमधिपतिफलञ्च।



अकुशलानां धर्माणामपायेषु विपाको विपच्यते। कुशलसास्रवाणां सुगतौ। तद्विपाकफलम्। यत्पुनरकुशलाभ्यासादकुशलारामता संतिष्ठते अकुशलबहुलता कुशलाभ्यासात्कुशलारामता कुशलबहुलता पूर्वकर्मसादृश्येन वा पश्चात्फलानुवर्तनता तन्निष्यन्दफलम्। आर्याष्टाङ्गस्य मार्गस्य क्लेशनिरोधो विसंयोगफलम्। यः पुनलौकिकेन मार्गेण क्लेशनिरोधः स नात्यन्तमनुवर्तते पृथग्जनानाम्। तस्मात्तन्न विसंयोगफलम्। यत्पुनरेकत्यदृष्टे धर्मेऽन्यतमान्यतमेन शिल्पकर्मस्थानसन्निश्रितेन पुरुषकारेण यदि वा कृष्या यदि वा वणिज्यया यदि वा राजपौरुष्टेण लिपि-गणन-न्यसन-संख्या-मुद्रया सस्यादिकं लाभादिकञ्च फलमभिनिर्वर्तयति इदमुच्यते पुरुषकारफलम्। चक्षुविज्ञानञ्चुक्षुरिन्द्रियस्याधिपतिफलम्। एवं यावन्मनोविज्ञानं मन‍इन्द्रियस्य। तथा प्राणैरवियोगो जीवितेन्द्रियस्य। इति सर्वेषामिन्द्रियस्य। इति सर्वेषामिन्द्रियाणां द्वाविंशतीनां स्वेन स्वेनाधिपत्येन यत्फलं निर्वर्तते तदधिपतिफलं वेदितव्यम्। तच्चाधिपत्यं द्वाविंशतीनामिन्द्रियाणां वेदितव्यम्। तद्यथा वस्तु संग्रहण्याम्। एवं हि बोधिसत्त्वो बुद्धवचनं सम्यग्‍हेतुफलपरिदीपनाकारं विदित्वा स्थानास्थानज्ञानबलगोत्रमासेवनान्वयात् क्रमेण विशोधयति विवर्धयति च।



न चाकृतमन्यकृतं वा कस्यचिद्विपच्यते। न च स्वयं कृतानां कर्मणां कल्पशतैरपि प्रणाशो भवति फलदानं प्रति। एवमकृतानभ्यागमकृताविप्रणाशं बुद्धवचनं परिदीपितं बोधिसत्त्वो यथाभूतं ज्ञात्वा कर्म-स्वकता-ज्ञानबलगोत्रं क्रमेण विशोधयति विवर्धयति च।



तत्र कथं बोधिसत्त्वः श्रुतं पर्येषते। इह बोधिसत्त्वस्तीव्रं गौरवमुपस्थाप्य सुभाषिते सुलपिते धर्म पर्येषते। एवंरूपश्चास्य समासेन सुभाषितगौरवं प्रत्युपस्थितं भवति। यदसौ बोधिसत्त्व एकसुभाषितश्रवणहेतोरपि तप्तां ज्वलितामप्ययोमयीं भूमिं परेण प्रामोद्येनादरेण प्रविशेद्यद्यन्यथा सुभाषितश्रवणं न लभेत प्रागेव प्रभूतस्य सुभाषितस्यार्थे। यच्च बोधिसत्त्वस्य स्वे आत्मभावे समुच्छ्रये प्रेमगौरवं प्रागेवान्येषु सर्वकायपरिष्कारेषु भोजनपानादिषु। यच्च सुभाषितश्रवणे पूर्वकं प्रेमगौरवं पश्चिमं प्रेमगौरवमुपनिधाय शततमीमपि कलां नोपैति सहस्रतमीमपि संख्यामपि कलामपि गणनामप्युपनिषदमपि नोपैति स तथा सुभाषिते गौरवजातः सुभाषितं शृण्वन्नखिन्नश्च भवत्त्यतृप्तश्च। श्राद्धश्च भवति प्रसादबहलश्चार्द्रसन्तान ऋजुकदृष्टिः। सगुण कामतया धर्मकामतया धर्मभाणकमुपसंक्रामति नोपारम्भाभिप्रायेण सगौरवतया न मानस्तम्भेन किंकुशलगवेषणतया न आत्मोद्भावनार्थम् आत्मानञ्च परांश्च कुशलमूले संनियोजयिष्यामीति न लाभसत्कारहेतोः।



स एवमुपसंक्रमणसंपन्नः असंक्लिष्टश्च धर्म शृणोत्यविक्षिप्तश्च।



कथमसंक्लिष्टः शृणोति। स्तम्भसंक्लेशविगतोऽवमन्यनासंक्लेशविगतः लय-संक्लेशविगतश्च।



तत्र षड्‍भिराकारैः स्तम्भसंक्लेशविगतो भवति। चतुर्भिराकारैरवमन्यासंक्लेशविगतो भवति। एकेनाकारेण लयसंक्लेशविगतो भवति। कालेन शृणोति सत्कृत्य शुश्रूषमाणो नासूयन्ननुविधीयमानोऽनुपारम्भप्रेक्षी। एभिः षड्‍भिराकारैः स्तम्भसंक्लेशविगतः।



धर्मे गौरवमुपस्थाप्य धर्मभाणके पुद्गले गौरवमुपस्थाप्य धर्ममपरिभवन् धर्मभाणकं पुद्गलमपरिभवन् एभिश्चतुर्भिराकारैरवमन्यनासंक्लेशविगतः शृणोति।



आत्मानमपरिभवन् शृणोति। अनेनैकेनाकारेण लयसंक्लेशविगतः शृणोति। एवं हि बोधिसत्त्वः असंक्लिष्टो धर्म शृणोति।



तत्र कथं बोधिसत्त्वः अविक्षिप्तो धर्मं शृणोति। पञ्चभिराकारैः। आज्ञाचित्त एकाग्रचित्तः अविहितश्रोत्रः समावर्जितमानसः सर्वचेतसा समन्वाहृत्य धर्मं शृणोति। एवं हि बोधिसत्त्वः श्रुतं पर्येषते।



तत्र किमर्थं बोधिसत्त्वः श्रुतं पर्येषते। बुद्धवचनं तावद् बोधिसत्त्वः पर्येषते। सम्यग्धर्माप्रतिपत्ति संपादनार्थं परेषाञ्च विस्तरेणसंप्रकाशनार्थम्। हेतुविद्यां बोधिसत्त्वः पर्येषते तस्यैव शास्त्रस्य दुर्भाषितदुर्लपितताया यथाभूत परिज्ञानार्थं परवादनिग्रहार्थं चाप्रसन्नानामस्मिंच्छासने प्रसादाय प्रसन्नानाञ्च भूयोभावाय। शब्दविद्यां बोधिसत्त्वः पर्येषते। संस्कृतलपिताधिमुक्तानात्मनि संप्रत्ययोत्पादनार्थं सनिरुक्तपदव्यञ्जननिरूपणतया एकस्य चार्थस्य नानाप्रकारनिरुत्त्यनुव्यवहारानुप्रवेशार्थम्। चिकित्साशास्त्रं बोधिसत्त्वः पर्येषते सत्त्वानां नानाप्रकारव्याधिव्युपशमनार्थं महाजनकायस्यानुग्रहार्थम्। लौकिकानि शिल्पकर्मस्थानानि बोधिसत्त्वः पर्येषतेऽल्पकृच्छ्रेण भोगसंहरणार्थं सत्त्वानामर्थाय सत्त्वानाञ्च बहुमानोत्पादनार्थं शिल्पज्ञानसंविभागेन चानुग्रहसंग्रहार्थम्। सर्वाणि च एतानि पञ्चविद्यास्थानानि बोधिसत्त्वः पर्येषतेऽनुत्तरायाः सम्यक्संबोधेर्महाज्ञानसम्भारपरिपूणार्थम्। न हि सर्वत्रैवमशिक्षमाणः क्रमेण सर्वज्ञज्ञानमनावरणं प्रतिलभते। यत्तावद्वोधिसत्त्वः पर्येषते यथा च पर्येषते यदर्थञ्च पर्येषते तन्निर्दिष्टम्।



तत्र किं बोधिसत्त्वः परेषां देशयति। कथञ्च देशयति। किमर्थञ्च देशयति। तत्र यदेव पर्येषते तदेव देशयति। यदर्थञ्च पर्येषते तदर्थमेव परेषां देशयति। द्वाभ्यां पुनराकाराभ्यां देशयति। अनुलोमां च कथां कथयति परिशुद्धां च। तत्र कथमनुलोमां कथां कथयति। अनुरूपेणेर्यापिथेन स्थिताय देशयति नाप्रतिरूपेण। न उच्चतरके आसने निषण्णायाग्लानाय नोद्गुन्ठिकाकृताय न पुरतो गच्छते विस्तरेण यथासूत्रं वेदितव्यम्। तत्कस्य हेतोः। धर्मगुरवो हि बुद्धबोधिसत्त्वाः। धर्मे हि तत्क्रियमाणे परेषामधिमात्रं धर्मगौरवमुत्पद्यते। श्रवणे चादरजाता भवन्ति नावज्ञाजाताः। सर्वेषां च देशयति। निरन्तरं सर्वं च देशयति। धर्ममात्सर्यमकुर्वन्नाचार्यमुष्टिं धर्मेषु करोति। यथाक्रमं पदव्यंजनमुद्दिशति। यथाक्रमोद्दिष्टं च पदव्यंजनं यथाक्रममेवार्थतो विभजति। अर्थोपसंहितं च धर्ममर्थं चोद्दिशति नानर्थोपसंहितम्। संदर्शयितव्यां संदर्शयति समादापयितव्यां समादापयति समुत्तेजयितव्यां समुत्तेजयति संप्रहर्षयितव्यां संप्रहर्षयति। प्रत्यक्षानुमानाप्तागमयुक्तां च कथां करोति नाप्रमाणयुक्ताम्। सुगतिगमनानुकूलामपि अव्याकुलामपि सुप्रवेशांन गहनां चतुरार्यसत्यप्रतिसंयुक्तामपि सर्वासाञ्च परिषदां या परिषद् या कथा यथार्हति तां तथास्यै कथं करोति। एभिस्तावत्पञ्चदशभिराकारैर्बोधिसत्त्वानां सत्त्वेष्वनुलोमा सर्वपरार्थेषु कथा वेदितव्या।



पुनश्च बोधिसत्त्वः अपकारिषु [सत्त्वेषु] मैत्रचित्ततामुपस्थाप्य कथां करोति। दुश्चरितचारिषु सत्त्वेषु हितचित्ततामुपस्थाप्य कथां कथयति। सुखितदुःखितेषु सत्त्वेषु प्रमत्तेषु दीनेषु हितसुखानुकम्पाचित्ततामुपस्थाप्य कथां करोति। न चेर्ष्यापर्यवस्थानमधिपतिं कृत्वा आत्मानमुत्कर्षयति। न परान् पंसयति। निरामिषेण च चित्तेनाप्रतिकांक्षमाणो लाभसत्कारश्लोकं परेषां धर्मान् देशयति।



एभिः पञ्चभिराकारैर्बोधिसत्त्वः परिशुद्धां कथां कथयति। त एते समासतो विंशतिराकारा भवन्ति। कालेन सत्कृत्यानुपूर्वमनुसन्ध्यनुसहितं हर्षयता रोच[यता] तोषयता उत्साहयता अनवसादयता युक्ता सहिताऽव्यवकीर्णानुधार्मिकी यथा परिषत् मैत्रचित्तेन हितचित्तेनानुकम्पाचित्तेनानिश्रितेन लाभसत्कारश्लोके आत्मानमनुत्कर्षयता परांश्चापंसयता। एवं बोधिसत्त्वः परेषां धर्मं देशयति।



[तत्र] कतमा बोधिसत्त्वस्य धर्मानुधर्मप्रतिपत्तिः। समासतः पञ्चविधा वेदितव्या। तेषामेव [यथा] पर्येषितानां यथोद्गृहीतानां धर्माणां कायेन वाचा मनसा चानुवर्तना सम्यक् चिन्तना भावना च।



येषां धर्माणां भगवता कायेन वाचा मनसा क्रिया निषिद्धा येषाञ्चाभ्यनुज्ञाता कायेन वाचा मनसा क्रिया तस्य कायवाङ्मनस्कर्मणस्तथैव परिवर्जनं प्रतिनिषेवणा समुदानयता च। कायेन वाचा मनसा चानुवर्तना धर्मानुधर्मप्रतिपत्तिरित्युच्यते।



तत्र सम्यक् चिन्तना बोधिसत्त्वस्य कतमा। इह बोधिसत्त्व एकाकी रहोगतो यथाश्रुतां धर्मांश्चिन्तयितुकामस्तुलयितुकाम उपपरीक्षितुकाम आदित एवाचिन्त्यानि स्थानानि विवर्जयित्वा धर्मांश्चिन्तयितुमारभते प्रततञ्च चिन्तयति। सातस्य सत्कृत्य प्रयोगेण न श्लथम्। किञ्चिच्च बोधिसत्त्वश्चिन्ताप्रयुक्तो युक्त्या विचारयत्यनुप्रविशति। किञ्चिदधिमुच्यत एव। अर्थप्रतिसरणश्च भवति चिन्तयन्न व्यञ्जनप्रतिसरणः। कालानदेशमहापदेशांश्च यथाभूतं प्रजानाति। आदिप्रवेशेन न चिन्तां प्रविशति। प्रविष्टश्च पुनः पुनर्मनसिकारतः सारतामुपनयति। अचिंन्त्यं वर्जयन् बोधिसत्त्वः सम्मोहं चिंत्ताविक्षेपं नाधिगच्छति। प्रततं सातत्य-सत्कृत्य-प्रयुक्तश्चिन्तयन्नविज्ञातपूर्वञ्चार्थ विजानाति लभते विज्ञातञ्च। प्रतिलब्धमर्थं न विनाशयति न संप्रमोषयति। युक्त्या पुनः किञ्चित् प्रवि [चिन्वन्] प्रविशयन् विचारयन् न परप्रत्ययो भवति। तेषु युक्तिपरीक्षितेषु धर्मेषु किञ्चित्पुनरधिमुच्यमानो येऽप्यस्य धर्मेषु गम्भीरेषु बुद्धिर्नावगाहते तथागतगोचरा एते धर्मा नास्मद्‍बुद्धिगोचरा इत्येवमप्रतिक्षिपंस्तान् धर्मानात्मानमक्षतञ्चानुपहतञ्च परिहरत्यनवद्यम्। अर्थं प्रतिसरन् बोधिसत्त्वो न व्यञ्जनं बुद्धानं भगवतां सर्वसन्ध्याय-वचनान्यनुप्रविशति। कालापदेशमहापदेशकुशलो बोधिसत्त्वः तत्त्वार्थान्न विचलयितुं न विकम्पयितुं केनचित् कथंचिच्छक्यते। आदितश्चिन्तामनुप्रविशन् बोधिसत्त्वः अप्रतिलब्धपूर्वां क्षान्तिं प्रतिलभते। तामेव क्षान्ति सारतामुपनयन् बोधिसत्त्वः भावनाम नुप्रविशति। एभिरष्टाभिराकारैर्बोधिसत्त्वश्चिन्ता-संगृहीतां धर्मानुधर्मप्रतिपत्ति प्रतिपन्नो भवति।



भावना कतमा। समासतश्चतुर्विधा वेदितव्या। शमथो विपश्यना शमथविपश्यनाभ्यासः शमथविपश्यनाभिरतिश्च।



तत्र शमथः कतमः। यथापि तद्वोधिसत्त्वः अष्टाकारायाश्विन्तायाः सुसमाप्तत्वान्निरभिलाप्ये वस्तुमात्रेऽर्थमात्रे आलम्बने चित्तमुपनिबध्य सर्वप्रपञ्चापगतेन सर्वचित्तपरिप्लवापगतेन संज्ञा-मनसिकारेण सर्वालम्बनान्यधिमुच्यमानः अध्यात्मसमाधिनिर्मित्तेषु चित्तं संस्थापयति अवस्थापयति विस्तरेण यावदेकोतीकरोति समाधत्ते। अयमुच्यते शमथः।



विपश्यना कतमा तेनैव पुनः शमथपरिभावितेन मनस्कारेण यथा चिन्तितानां धर्माणां निमित्तमनसिक्रिया विचयः प्रविचयो धर्मप्रविचयः विस्तरेण यावत्पाण्डित्यं प्रज्ञाचारः। इयमुच्यते विपश्यना।



शमथविपश्यनाभ्यासः कतमः। यः शमथविपश्यनायाञ्च सातत्यप्रयोगः सत्कृत्यप्रयोगश्च।



शमथविपश्यनाभिरतिः कतमा। तेष्वेव शमथविपश्यना-निमित्तेषु यच्चित्तस्याचलनं स्वरसेनैवाभिसंस्कारवाहितास्थानं संग्रहोऽविसरणा। इयमुच्यते शमथविपश्यनाभिरतिः



तत्र बोधिसत्त्वो यथा यथा शमथविपश्यनाभ्यासं करोति तथा तथा शमथविपश्यनाभिरतिः संतिष्ठते। यथा यथा शमथविपश्यनाभिरतिः संतिष्ठते तथा तथा शमथो विपश्यना च परिशुध्यतः। यथा यथा शमथो विशुध्यति तथा तथा कायप्रस्रब्धिश्चित्तप्रस्रब्धिः पृथुवृद्धिवैपुल्यतां गच्छति। यथा यथा विपश्यना विशुध्यति तथा तथा ज्ञानदर्शनं पृथुवृद्धिवैपुल्यतां गच्छति। एतावच्च भावनायाः करणीयम्। यदुताश्रयगतञ्च दौष्ठुल्यमनपनेतव्यं सर्वत्र च ज्ञेये ज्ञानदर्शनं विशोधयितव्यं च। चैतत्सर्वं भावनाकर्मानया चतुराकारया भावनया बोधिसत्त्वस्य संपद्यते।



अववादः कतमः। समासतोऽष्टविधो वेदितव्यः। यथापि तद्वोधिसत्त्वः समाधिसन्निश्रयेण वा संवासान्वयाद्वा येषामववदितुकामो भवति यो वा पुनरन्यो बोधिसत्त्वोऽस्मै अववदति तथागतो वा स आदित एव चित्तं पर्येषते जानाति। चित्तं पर्येष्य इन्द्रिय पर्येषते जानाति। इन्द्रियं पर्येष्य आश्रयं पर्येषते जानाति। आशयं पर्येष्यानुशयं पर्येषते जानाति। अनुशयं पर्येष्य यथायोगं यथार्हमेव विचित्रेष्ववतारमुखेष्ववतारयति। यदि वाऽशुभया यदि वा मैत्र्या यदि वा इदंप्रत्ययता-प्रतीत्यसमुत्पादेन यदि वा धातुभेदेन यदि वा आनापानस्मृत्या यथायोगं यथार्हमवरतारमुखेष्ववतार्य शाश्वतान्तासद्ग्राह प्रतिपक्षेण मध्यमां प्रतिपदं देशयति। उच्छेदान्तासद्ग्राह प्रतिपक्षेण मध्यमां प्रतिपदं देशयति। अकृते च कृताभिमानं त्याजयति। अप्राप्ते अस्पर्शिते असाक्षात्‍कृते साक्षात्कृताभिमानं त्याजयति।



सोऽयमष्टविधोऽववादः पुनः समासतस्त्रिभिः स्थानैः संगृहीतो वेदितव्यः। त्रीणि स्थानानि कतमानि। अस्थितस्य चित्तस्यादितोऽवस्थितये सम्यगालम्बनोपनिबन्धः। स्थितचित्तस्य च स्वार्थप्राप्तये सम्यगुपायमार्गदेशना। अनिष्ठितस्वकार्यस्य चान्तराधिष्ठानपरित्यागः। तत्र चित्तेन्द्रियाशयानुशयज्ञानेन यथायोगमवतारमुखावतारणतया च चित्तस्थितये सम्यगालम्बनोपनिबन्धो वेदितव्यः। तत्र शाश्वतोच्छेदान्तासद्ग्राहप्रतिपक्षेण मध्यमया प्रतिपदा स्थितचित्तस्य स्वार्थप्राप्तये सम्यगुपायमार्गदेशना वेदितव्या। तत्राकृते यावदसाक्षात्कृते साक्षात्कृताभिमानत्याजनतया अनिष्ठितस्वकार्यस्यान्तराधिष्ठानपरित्यागो वेदितव्यः। एवमेभिस्त्रिभिः स्थानैरष्टविधोऽववादः संगृहीतो वेदितव्यः।



एव मेवाववादं परतो वा लभमानो बोधिसत्त्वः परेषां वानुप्रयच्छन्नष्टानां बलानां गोत्रं क्रमेण विशोधयति विवर्धयति ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलस्येन्द्रियपरापरज्ञानबलस्य नानाधिमुक्तिज्ञानबलस्य नानाधातुज्ञानबलस्य सर्वत्र गामिनी प्रतिपज् ज्ञानबलस्य पूर्वेनिवासानुस्मृतिज्ञानबलस्य च्युत्युपपत्तिज्ञानबलस्य च।



तत्रानुशासनं कतमत्। तत्पञ्चविधं वेदितव्यम्। सावद्यसमुदाचारप्रतिषेधः अनवद्यसमुदाचाराभ्यनुज्ञा प्रतिषिद्धाभ्यनुज्ञातेषु धर्मेषु स्खलितसमाचार-संचोदना पुनः पुनरनादरजातस्य स्खलतः अवसादनया स्मृतिकरणानुप्रदानमकलुषेणाविपरिणतेन स्निग्धेनाशयेन। सम्यक् प्रतिपन्नस्य च प्रतिषिद्धाभ्यनुज्ञातेषु धर्मेषु भूतगुणप्रियाख्यानतया संप्रहर्षणा। इतीदं समासतः पञ्चाकारं बोधिसत्त्वानामनुशासनं वेदितव्यम्। यदुत प्रतिषेधोऽभ्यनुज्ञा चोदनाऽवसादना संप्रहर्षणा च।



तत्रोपायसंगृहीतं बोधिसत्त्वानां कायवाङ्मनस्कर्म कतमत्। समासतो बोधिसत्त्वानां चत्वारि संग्रहवस्तून्युपाय इत्युच्यन्ते। यथोक्तं भगवता चतुःसंग्रहवस्तुसंगृहीतेनोपायेन समन्वागतो बोधिसत्त्वो बोधिसत्त्व इत्युच्यत इति। केन पुनः कारणेन चत्वारि संग्रहवस्तून्युपाय इत्युच्यन्ते। समासतश्चतुर्विध उपायः सत्त्वानां विनयाय संग्रहाय। नास्त्यत ऊत्तरि नास्त्यतो भूयः। तद्यथाऽनुग्राहको ग्राहकः अवतारकोऽनुवर्तकश्च। तत्र दानं बोधिसत्त्वस्यानुग्राहकं उपायः। तथा हि विचित्रेणामिषदानेनानुगृह्यमाणाः सत्त्वाः श्रोतव्यं कर्तव्यं वचनं मन्यते। तदनन्तरं बोधिसत्त्वः प्रियवादितया तत्र तत्र सम्मूढानां तत्सम्मोहाशेषापनयाय युक्तिं ग्राहयति सन्दर्शयति। एवमस्य प्रियवादिता ग्राहक उपायो भवति। तथा च युक्त्या ग्राहितान् सन्दर्शितान्सत्त्वान् अकुशलात्स्थानाद् व्युत्थाप्य कुशले स्थाने समादापयति विनयति निवेशयति प्रतिष्ठापयति। सास्यार्थचर्या भवत्यवतारक उपायः। एवञ्च बोधिसत्त्वः तान्सर्वानवतार्य तत्सभागवृत्तसमाचारेणानुवर्तते येनास्य न भवन्ति विनेया वक्तारः। त्वं तावदात्मना न श्रद्धासम्पन्नः शीलसम्पन्नस्त्यागसम्पन्नः प्रज्ञासम्पन्नः कस्माद्भवान् परानत्र समादापयति। तेन च चोदयति स्मारयतीति तस्मात्समानर्थता बोधिसत्त्वस्य चतुर्थोऽनुवर्तक उपायो वेदितव्यः।



इत्येभिश्चतुर्भिरुपायर्यत्परिगृहीतं समस्तैर्व्यस्तैर्वा बोधिसत्त्वस्य कायकर्म वाक्कर्म मनस्कर्म। तदुपायपरिग्रहणामित्युच्यते सत्त्वानां सम्यक्संग्रहाय विनयाय परिपाचनाय।



इति बोधिसत्त्वभूमावाधारे योगस्थाने अष्टमं बलगोत्रपटलम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project