Digital Sanskrit Buddhist Canon

1-7 बोधिपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1-7 bodhipaṭalam

बोधिपटलम्



तत्र बोधिः कतमा। समासतो द्विविधञ्च प्रहाणं द्विविधञ्च ज्ञानं बोधिरित्युच्यते।



तत्र द्विविधं प्रहाणं-क्लेशावरणप्रहाणं ज्ञेयावरणप्रहाणञ्च। द्विविधं पुनर्ज्ञानं यत् क्लेशावरणप्रहाणाच्च निर्मलं सर्वक्लेशनिरनुबन्धज्ञानम्। ज्ञेयावरणप्रहाणाच्च यत्सर्वस्मिन् ज्ञेयेऽप्रतिहतमनावरणं ज्ञानम्।



अपरः पर्यायः। शुद्धज्ञानं सर्वज्ञानमसङ्गज्ञानञ्च। सर्वक्लेशवासनासमुद्धातश्चाक्लिष्टायाश्चाविद्यायाः निःशेषप्रहाणमनुत्तरा सम्यक्संबोधिरित्युच्यते। तत्र सवासनानां सर्वक्लेशानां सर्वतश्चात्यन्तञ्च प्रहाणाद्यद् ज्ञानं तच्छुद्धमित्युच्यते। सर्वधातुषु सर्ववस्तुषु सर्वप्रकारेषु सर्वकालेषु यद्ज्ञानमव्याहतं प्रवर्तते तत्सर्वज्ञानमित्युच्यते। तत्र द्वौ वा धातू। लोकधातुः सत्त्वधातुश्च। तत्र द्विविधं वस्तु। संस्कृतमसंस्कृतञ्च। तस्यैव च संकृतासंस्कृतस्य वस्तुनोऽप्रमाणः प्रकारभेदः स्वलक्षणोत्तरजातिप्रभेदेन सामान्यलक्षणप्रभेदेन हेतुफलप्रभेदेन धातुगतिकुशलाकुशलाव्याकृतादिप्रभेदेन। तत्र कालस्त्रिविधः। अतीतोऽनागतः प्रत्युत्पन्नश्च। इत्येतत्सर्वधातुकं सर्ववस्तुकं सर्वप्रकारं सर्वकालं ज्ञानं सर्वज्ञानमित्युच्यते। तत्रासङ्गज्ञानं यदाभोगमात्रादेव सर्वत्राधिष्ठितं त्वरितमसक्तं ज्ञानं प्रवर्तते। न पुनः पुनराभोगं कुर्वतो नान्यत्रैकाभोगप्रतिबद्धमेव तज्ज्ञानं भवति।



अपरः पर्यायः। चत्वारिंशदुत्तरमावेणिकं बुद्धधर्मशतं या च तथागतस्यारणा प्रणिधिज्ञानं प्रतिसंविदश्च। इयमनुत्तरा सम्यक्संबोधिरुच्यते।



तत्रेदं चत्वारिंशदुत्तरमावेणिकं बुद्धधर्मशतम्। द्वात्रिंशन्महापुरुषलक्षणान्यशीत्यनुव्यञ्जनानि चतस्रः सर्वाकाराः परिशुद्धयः दश बलानि चत्वारि वैशारद्यानि त्रींणि स्मृत्युपस्थानानि त्रीण्यरक्ष्याणि महाकरुणाऽसम्मोषधर्मता वासनासमुद्घातः सर्वाकारवरज्ञानञ्च। एषाञ्च बुद्धधर्माणां विभागः प्रतिष्ठापटले भविष्यति।



तत्रेयं परमा बोधिः सप्तभिः परमताभिर्युक्ता येनेयं सर्वबोधीनां परमेत्युच्यते।



सप्त परमताः कतमाः आश्रयपरमता प्रतिपत्तिपरमता सम्पत्तिपरमता ज्ञानपरमता प्रभावपरमता प्रहाणपरमता विहारपरमता च। यत्तथागतो द्वात्रिंशता महापुरुषलक्षणैः सुलक्षितगात्रः। इयमस्याश्रयपरमतेत्युच्यते। यत्तथागत आत्महिताय परहिताय बहुजनहिताय [बहुजनसुखाय] लोकानुकम्पायै अर्थाय हिताय सुखाय देवमनुष्याणां प्रतिपन्नः। इयमस्य प्रतिपत्तिपरमतेत्युच्यते। यत्तथागतो निरुत्तराभिरप्रतिसमाभिश्चतसृभिः संपत्तिभिः समन्वागतः शीलसंपत्त्या दृष्टिसंपत्त्या आचारसंपत्त्या आजीवसंपत्त्या [ प्रतिपन्नः]। इयमस्य सम्पत्तिपरमतेत्युच्यते। यत्तथागतो निरुत्तराभिरप्रतिसमाभिश्चतसृभिः प्रतिसंविद्भिः समन्वागतः धर्मप्रतिसंविदाऽर्थप्रतिसंविदा निरुक्तिप्रतिसंविदप्रतिभानप्रतिसंविदा च। इयमस्य ज्ञानपरमतेत्युच्यते। यत्तथागतो निरुत्तराभिरप्रतिसमाभिः षड्‍भिरभिज्ञाभिः समन्वागतः यथा पूर्वनिर्दिष्टाभिः। इयं तथागतस्य प्रभावपरमतेत्युच्यते। यत्तथागतः सवासनसर्वक्लेशप्रहाणेन निरुत्तरेणाप्रतिसमेन ज्ञेयावरण प्रहाणेन च समन्वागतः। इयमस्य प्रहाणपरमतेत्युच्यते। यत्तथागतस्त्रिभिर्निरुत्तरैरप्रतिसमैर्विहारैस्तब्दहुल विहारी आर्येण विहारेण दिव्येन ब्राह्मेण। इयमस्य विहारपरमतेत्युच्यते। तत्र शून्यतानिमित्ताप्रणिहितविहारा निरोधसमापत्तिविहारश्चार्यो विहार इत्युच्यते। चत्वारि ध्यानान्यारूप्यसमापत्तयश्च दिव्यो विहार इत्युच्यते। चत्वार्यप्रमाणानि ब्राह्मो विहार इत्युच्यते। तस्मात्पुनस्त्रिविधाद्विहाराश्चत्वारः परमविहारा यैस्तथागतास्तद्वहुलविहारिणो भवन्ति। आर्याद्विहाराच्छून्यता विहारो निरोधसमापत्तिविहारश्च। दिव्याद्विहारादानिंज्यचतुर्थध्यानविहारः। ब्राह्माद्विहारात्करुणाविहारो येन तथागतस्त्रिस्कृतो रात्रौ त्रिस्कृत्वो दिवसे षट्कृत्वो रात्रिंदिवेन बुद्धचक्षषा लोकं व्यवलोकयति को हीयते को वर्धते कस्यानुत्पन्नानि कुशलमूलान्यवरोपयामि क्वं यावद्विस्तरेणाग्रफलेऽर्हत्त्वे प्रतिष्ठापयामीति।



तत्राश्रयपरमतया तथागता महापुरुषा इत्युच्यन्ते। प्रतिपत्तिपरमतया महाकारुणिका इत्युच्यन्ते। संपत्तिपरमतया महाशीलमहाधर्माण इत्युच्यन्ते। ज्ञानपरमतया महाप्रज्ञा इत्युच्यन्ते। प्रभावपरमतया महाभिज्ञा इत्युच्यन्ते। प्रहाणपरमतया महाविमुक्तय इत्युच्यन्ते। विहारपरमतया महाविहारतद् बहुलविहारिण इत्युच्यन्ते।



तेषाञ्च पुनस्तथागतानां दशभिराकारैर्गुणाभिधानञ्च भवति गुणानुस्मरणता च। कतमैर्दशभिः। इत्यपि स भगवांस्तथागतोऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवानिति। तत्रावितथवचनात्तथागतः। सर्वप्राप्तयार्थप्राप्तत्वात् अनुत्तरपुण्यक्षेत्रत्वात् पूजार्हत्वाच्चार्हन्। यथावत्परमार्थेन धर्मानुबोधात्सम्यक्संबुद्धः। तिसृभिर्विद्याभिर्यथासूत्रोक्तेन च चरणेन विपश्यनाशमथपक्षोभयसुसम्पन्नत्वाद्विद्याचरणसम्पन्नः। परमोत्कर्षगमनादपुनः प्रत्यागमनाच्च सुगतः। सत्त्वधातुलोकधात्वोः सर्वाकारेण क्लेशव्यवदानज्ञानाल्लोकवित्। परमचित्तदमोपायज्ञतया एकस्यैव लोके पुरुषभूतस्य च प्रादुर्भावात् अनुत्तरः पुरुषदम्यसारथिः। चक्षुर्भूतत्वाज्ज्ञानार्थधर्मतत्त्व भूतत्वाद् व्यक्तस्यार्थस्य निर्णेतृत्वात् सर्वार्थप्रतिसरणत्वादव्युत्पन्नस्यार्थस्य व्युत्पादकत्वा दुत्पन्नस्य संशयस्योच्छेदकत्वात् गम्भीराणां स्थानानां विवरणात् पर्यवदापकत्वात्तन्मूलत्वात् सर्वधर्माणां तन्नेतृकत्वात्तत्प्रतिसरणत्वात् सर्वदुःखस्य निःसरणं शास्ति व्यपदिशति सम्यग्देवमनुष्याणाम्। तस्माच्छास्ता देवमनुष्याणामित्युच्यते। अर्थोपसंहितस्य धर्मराशेरनर्थोपसंहितस्य धर्मराशेर्न्नैवार्थोपसंहितस्य नानार्थोपसंहितस्य धर्मराशेः सकलसर्वाकाराभिसंबोधाद् बुद्ध इत्युच्यते। सर्वमारबलमहासंग्रामावभङ्गाद्भगवान्।



तत्र प्रभूतैरपि कल्पैरेकस्यापि बुद्धस्य प्रादुर्भावो न भवति। एकस्मिन्नेव च कल्पे प्रभूतानां बुद्धानामुत्पादो भवति। तेषु तेषु च दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुष्वप्रमेयाणामेव बुद्धानामुत्पादो वेदितव्यः। तत्कस्य हेतोः। सन्ति दशसु दिक्ष्वप्रमेयासंख्येया बोधिसत्त्वा ये तुल्यकालकृतप्रणिधानास्तुल्यसंभारसमुदागताश्च। यस्मिन्नेव दिवसे पक्षे मासे संवत्सरे एकेन बोधिसत्त्वेन बोधौ चित्तं प्रणिहितं तस्मिन्नेव दिवसे पक्षे मासे संवत्सरे सर्वैः। यथा चैक उत्सहितो घटितो व्यायच्छितश्च तथा सर्वे। तथाहि दृश्यन्तेऽस्मिन्नेव लोकधातावनेकानि बोधिसत्त्वशतानि यानि तुल्यकालप्रणिधानानि तुल्यत्यागानि तुल्यक्षान्तिकानि तुल्यवीर्याणि तुल्यध्यानानि तुल्यप्रज्ञानानि। प्रागेव दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु। बुद्धक्षेत्राण्यपि त्रिसाहस्रमहासाहस्राण्यप्रमेयासंख्येयानि दशसु दिक्षु संविद्यन्ते। न च तुल्यसंभारसमुदागतयोर्द्वयोस्तावद्बोधिसत्त्वयोरेकस्मिन् लोकधातौ बुद्धक्षेत्रे युगपदुत्पत्त्यवकाशोऽस्ति प्रागेवाप्रमेयासंख्येयानाम्। न च पुनस्तुल्यसंभाराणां क्रमेणानुपरिपाटिकया उत्पादोयुज्यते। नापि सर्वेण सर्वमनुत्पाद एव युज्यते। तस्माद्दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु यथा परिशोधितेषु तथागतशून्येषु ते तुल्यसंभारा बोधिसत्त्वा अन्योन्येषु बुद्धक्षेत्रेषूत्पद्यन्त इति वेदितव्यम्। तदनेन पर्यायेण बहुषु लोकधातुषु बुद्धबाहुल्यमेव युज्यते। न चैकस्मिन् बुद्धक्षेत्रे द्वयोस्तथागतयोर्युगपदुत्पादो भवति। तत्कस्य हेतोः। दीर्घरात्रं खलु बोधिसत्त्वेनैवं प्रणिधानमनुबृंहितं भवति। यथाहमेकोऽपरिणायके लोके परिणायकः स्यां सत्त्वानां विनेता सर्वदुःखेभ्यो विमोचयिता परिनिर्वापयितेति। यस्यैवं दीर्घरात्रं प्रणिधानमनुबृंहयतः सम्यक् प्रतिपत्तिपरिगृहीतमृध्यत्येव तत्। पुनश्च शक्त एकस्तथागतस्त्रिसाहस्रमहासाहस्रे एकस्मिन् बुद्धक्षेत्रे सर्वबुद्धकार्य कर्तुम्। अतो द्वितीयस्य तथागतस्य व्यर्थ एवोत्पादः स्यात्। भूयश्चैकस्य तथागतस्य लोके उत्पादात्सत्त्वानाम् एवार्थकरणप्रसिद्धिः प्रचुरतरा भवति प्रदक्षिणतरा। तत्कस्य हेतोः। तेषामेवं भवत्ययमेव कृत्स्ने जगत्येकस्तथागतो न द्वितीयः। अस्मिञ्जनपदचारिकां वा विप्रकान्ते परिनिर्वृते वा नास्ति स कश्चिद् द्वितीयः। यस्यास्माभिरन्तिके ब्रह्मचर्यं चरितव्यं स्यात् धर्मो वा श्रोतव्य इति विदित्वाऽतित्वरन्ते घनतरेण छन्दव्यायामेन ब्रह्मचर्यवासाय सद्धर्मश्रवणाय च। बुद्धबहुत्वंतु ते उपलभ्य नातित्वरेरन्। एवमेषामेकस्य बुद्धस्योत्पादात्स्वार्थे करणप्रसिद्धिः प्रचुरतरा च भवति प्रदक्षिणतरा च।



तत्र सर्वबुद्धानां सर्वं समसमं भवति निर्विशिष्टं स्थापयित्वा चत्वारि स्थानानि-आयुर्नाम कुलं कायञ्च। इत्येषाञ्चतुर्णां धर्माणां ह्रासवृद्ध्या विलक्षणता बुद्धानाम्। न त्वन्येन केनचित्। न च स्त्री अनुत्तरां सम्यक्संबोधिमसंबुध्यते। तत्कस्य हेतोः। तथा हि बोधिसत्त्वः प्रथमस्यैव कल्पासंख्येयस्यात्ययात्। स्त्रीभावं विजहाति। बोधिमण्डनिषदनमुपादाय न पुनर्जातु स्त्री भवति। प्रकृत्या च बहुक्लेशो दुष्प्रज्ञश्च भवति सर्वो मातृग्रामः। न च प्रकृत्या बहुक्लेशसन्तानेन दुष्प्रज्ञसन्तानेन च शक्यमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्।



एवमियमनुत्तरा सम्यक्संबोधिः स्वभावतोऽपि यथानिर्दिष्टा यथाभूतं वेदितव्या। परमतोऽपि गुणनिर्देशानुस्मरणतोऽपि संभवतोऽपि विशेषतोऽपि यथानिर्दिष्टा यथाभूतं वेदितव्या। अपि त्वचिन्त्यैव सर्वतर्कमार्गसमतिक्रान्तत्वादप्रमेयासंख्येयगुणसमुदितत्वादनुत्तरैव च सम्यक्संबोधिः सर्वश्रावक-प्रत्येकबुद्धतथागतानाभि निर्वृत्तये भवति। तस्मादेषैव बोधिरग्र्या श्रेष्ठा वरा प्रणीतेति।



इति बोधिसत्त्वभूमावाधारे योगस्थाने सप्तमं बोधिपटलम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project