Digital Sanskrit Buddhist Canon

1-5 प्रभावपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 1-5 prabhāvapaṭalam
प्रभावपटलम्



तत्र प्रभावो बोधिसत्त्वानां कतमः। समासतः समाधिवशिताप्राप्तस्य समाधिवशितासन्निश्रयेणोच्छामात्रात् सर्वार्थसमृद्धिः कर्मण्यचित्तस्य सुपरिभावितचित्तस्यार्यः प्रभाव इत्युच्यते। धर्माणाञ्च या महाफलता महानुशंसता सा तेषां प्रभाव इत्युच्यते। पूर्वं महापुण्यसंभारोपचयाद् बुद्धानां बोधिसत्त्वानां च सहजा आश्चर्याद्भुतधर्मता। अयमपि तेषां सहजोऽपरः प्रभावो वेदितव्यः।



स खल्वेष प्रकारभेदेन बुद्धबोधिसत्त्वानां पञ्चविधो भवति। अभिज्ञाप्रभावो धर्मप्रभावः सहजश्च प्रभावः साधारणश्च श्रावक प्रत्येकबुद्वैरसाधारणश्च तैः।



तत्र षड्‍भिज्ञाः-ऋद्धिविषयो दिव्यं श्रोत्रंचेतसः पर्यायः पूर्वनिवासानुस्मृतिश्च्युत्युपपाददर्शनमास्रवक्षयज्ञानसाक्षात्क्रिया च अभिज्ञाप्रभाव इत्युच्यते। तत्र षट्पारमिताः-दानं शीलं क्षान्तिर्वीर्यं ध्यानं प्रज्ञा च धर्मा इत्युच्यन्ते। तेषां धर्माणां योऽनुभावः स धर्मप्रभाव इत्युच्यते।



तत्र ऋद्धिः कतमा। समासतो द्विविधा। पारिणामिकी नैर्माणिकी च। सा पुनर्द्विधाप्यनेकविधा प्रकारभेदतः।



तत्र पारिणामिक्या ऋद्धेः प्रकारप्रभेदः कतमः। तद्यथा कम्पनं ज्वलनं स्फरणं विदर्शनमन्यथीभावकरणं गमनागमनं संक्षेपः प्रथनं सर्वरूपकायप्रवेशनं सभागतोपसंक्रान्तिराविर्भावस्तिरोभावः वशित्वकरणं परर्द्धयभिभवनं प्रतिभानदानं स्मृतिदानं सुखदानं रश्मिप्रमोक्षश्च इत्येवंभागीया ऋद्धि पारिणामिकीत्युच्यते।



तत्र कम्पनम्। इह तथागतः समाधिवशिताप्राप्तो वा कर्मण्यचित्तो वा बोधिसत्त्वो विहारमपि कम्पयति। गृहमपि ग्रामनगरक्षेत्रमपि नरकलोकमपि तिर्यग्लोकमपि प्रेतलोकमपि मनुष्यलोकमपि देवलोकमपि चातुर्द्वीपकमपि साहस्रिकमपि लोकधातुं द्विसाहस्रिकमपि त्रिसाहस्रमहासाहस्रमपि लोकधातुं त्रिसाहस्रशतमपि सहस्रमपि शतसहस्रमपि यावदप्रमेयानसंख्येयान् त्रिसाहस्रमहासाहस्रान् लोकधातून् कम्पयति।



तत्र ज्वलनम्। ऊर्ध्व कायात् प्रज्वलति। अधःकायाच्छीतला वारिधाराः स्यन्दन्ते। अधःकायात् प्रज्वलति। उपरिमात् कायाच्छीतला वारिधाराः स्यन्दन्ते। तेजोधातुमपि समापद्यते। सर्वकायेन प्रज्वलति। सर्वकायेन प्रज्वलितस्य विविधा अर्चिषः कायान्निर्गच्छन्ति नीलपीतलोहितावदातमाञ्जिष्ठाः स्फटिकवर्णाः।



तत्र स्फरणम्। यथापि तद्गृहमप्याभया स्फरति विहारमपि पूर्ववद्यावदप्रमेयानसंख्याम् लोकधातूनाभया स्फरति पूर्ववत्तद्यथा कम्पने।



तत्र विदर्शनम्। यथा सुखोपनिषण्णाद्यागतायाः श्रमणब्राह्मणश्रावकबोधिसत्त्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगायाः परिषदः तथागतो वा बोधिसत्त्वो वा अपायानपि विदर्शयत्यधः। देवमनुष्यानपि विदर्शयत्यूर्ध्वम्। तदन्यानि च बुद्धक्षेत्राणि विदर्शयति। तेषु च बुद्धबोधिसत्त्वान् यावद्गङ्गानदीबालुकासमान्यपि बुद्धक्षेत्राण्यतिक्रम्य येन नाम्ना संशब्दितं भवति बुद्धक्षेत्रं तत्र च बुद्धक्षेत्रे यन्नामको भवति तथागतः तच्च बुद्धक्षेत्रं दर्शयति तञ्च तथागतम्। तच्च नाम व्यपदिशति तस्य बुद्धक्षेत्रस्य तथागतस्य च। ततोऽप्यर्वाग्विदर्शंयति व्यपदिशति ततोऽपि परेण यत्कामं यावत्कामम्।



तत्रान्यथीभावकरणम्। स चेत् पृथिवीमपोऽधिमुच्यते तत्तथैव भवति नान्यथा। तेजो वायुमधिमुच्यते तदपि तथैव भवति नान्यथा। स चेदपः पृथिवीमधिमुच्यते। स चेत्तेजः पृथिवीमधिमुच्यते। अपो वायुमधिमुच्यते। स चेद्वायु पृथिवीमधिमुच्यते। अपस्तेजोऽधिमुच्यते। सर्वं तत्तथैव भवति नान्यथा। यथा महाभूतेष्वन्योन्यपरिणामे नान्यथीभावक्रिया एवं रूपगन्धरसस्प्रष्टव्येषु वेदितव्यम्। स चेत्तृणपर्णगोमयमृत्तिकादीनि द्रव्याणि भोजनपानयानवस्त्रालङ्कारभाण्डोपस्करगन्धमाल्यविलोपनमधिमुच्यते। पाषाणशर्करकपालादीनि च मणिमुक्तावैदूर्यशङ्खशिलाप्रवाडमधिमुच्यते। हिमवन्तं वा पर्वतराजमादिं कृत्वा सर्वपर्वतान् सुवर्णंमधिमुच्यते। तदपि सर्वं तथैव भवति नान्यथा। तथा सुवर्णानां सत्त्वानां दुर्वर्णतामधिमुच्यते। दुर्वर्णानां सुवर्णताम्। तदुभयविवर्जितानां सुवर्णतां वा दुर्वर्णतां वा तदुभयं वा। यथा सुवर्णदुर्वर्णतामेवं व्यङ्गाव्यङ्गतां कृश स्थूलतामित्येवमादि यत्किञ्चिदन्यथा सत्स्वलक्षणतः शक्यरूपञ्चा [न्यथा]ऽधिमुच्यते। तत्सर्वं तथा भवति यथाऽधिमुच्यते।



तत्र गमनागमनम्। तिरः कुड्यं तिरः शैलं तिरः प्राकारमसज्यमानेन कायेन गच्छति विस्तरेण यावद्ब्रह्मलोकमुपसंक्रामति प्रत्यागच्छति च यावदकनिष्ठादूर्ध्वं तिर्यग्वा पुनर्यावदप्रमेयानसंख्येयांस्त्रिसाहस्रमहासाहस्रान् लोकधातून् गच्छति आगच्छति च कायेन वा औदारिकेण चातुर्महाभौतिकेन। दूरं चासन्नमधिमुच्य मनःसदृशेन वा जवेन गच्छति चागच्छति च।



तत्र संक्षेपप्रथनम्। हिमवन्तमपि पर्वतराजं परमाणुमात्रमभिसंक्षिपति। परमाणुमपि हिम वन्तं पर्वतराजं प्रतानयति।



तत्र सर्वरूपकायप्रवेशनम्। महत्या विचित्रायाः परिषदः पुरस्तात् स ग्रामनिगमतृणवन[-भूमि-] पर्वतं रूपकायमात्मकाये प्रवेशयति। सा च सर्वा परिषत्तस्मिन्नेव काये प्रविष्टमात्मानं संजानीते।



तत्र सभागतोपसंक्रान्तिः। क्षत्रियपरिषद मुपसंक्रामति। उपसंक्रान्तस्य यादृशी तेषां वर्णपुष्कलता भवति तादृशी तस्य। यादृश आरोहपरिणाहस्तादृशस्तस्य भवति। यादृशी स्वरगुप्तिस्तेषां तादृशी तस्य भवति। यञ्च तेऽर्थं मन्त्रयन्ते तमसावर्थं मन्त्रयते। यमपि तेऽर्थं न मन्त्रयन्ते तमपि सोऽर्थं न मन्त्रयते। उत्तरं चैतानानुधार्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वाऽन्तर्द्धीयते। अन्तर्हितञ्चैनं न प्रजानन्ति कोऽन्वेषोऽन्तर्हितो देवो वा मनुष्यो वेति। यथा क्षत्रियपरिषदमेवं ब्राह्मणगृहपतिश्रमणपरिषदं चातुर्महाराजकायिकान् देवान् त्रयस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन्परनिर्मितवशवर्तिनो देवानेवं ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभान् शुभकृस्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलानसंज्ञिसत्त्वान् अबृहान् अतपान् सुदृशान् सुदर्शनानकनिष्ठान्।



तत्राविर्भावतिरोभावः। महत्या परिषदः पुरस्ताच्छतकृत्वः सहस्रकृत्वः अतो वा परेणान्तर्धीयते। पुनश्च तथैवात्मभाव मुपदर्शयत्याविष्करोति।



तत्र वशित्वकरणम्। यावान् कश्चित् सत्त्वधातुः तं सर्व गमनागमनस्थानाद्यासु क्रियासु संवर्तयति। स चेदस्यै वं भवति गच्छतु गच्छति। तिष्ठतु तिष्ठति। आगच्छत्वागच्छति। भाषतां भाषते।



तत्र परर्द्ध्यभिभवः। तथागतस्तदन्येषां सर्वर्द्धिमतामृध्यभिसंस्कारमभिभूय यथाकामं सर्वं संपादयति। निष्ठागतो बोधिसत्त्व एकजातिप्रतिबद्धश्च चरमभविको वा तथागतं स्थापयित्वा तुल्यजातीयञ्च बोधिसत्त्वं तदन्येषां सवषामृद्ध्यभिसंस्कारमभिभवति। तदन्ये बोधिसत्त्वा उत्कृष्टतरभूमिप्रविष्टांस्तुल्यजातीयांश्च बोधिसत्त्वान् स्थापयित्वा तदन्येषां सर्वर्द्धिमतामृद्ध्यभिसंस्कारमभिभवन्ति।



तत्र प्रतिभानदानम्। प्रतिभा[न] दाने पर्यादत्ते प्रतिभानमुपसंहरति।

तत्र स्मृतिदानम्। धर्मेषु स्मृतौ प्रमुषितायां स्मृतिमुपसंहरति।



तत्र सुखदानम्। येऽस्य भाषमाणस्य धर्मं शृण्वन्ति तेषां तादृशं कायिकं चैतसिकमनुग्रहमुपसंहरति प्रतिप्रस्रब्धि सुखम्। येन ते विगतनिवरणा धर्मं श्रृण्वन्ति। तच्च तावत्कालिकयोगेन न त्वत्यन्तम् धातुवैषमिकांश्चौपक्रमिकानमनुष्याभिसृष्टांश्चोपसर्गान् व्युपशमयति।



तत्र रश्मिप्रमोक्षः बोधिसत्त्वो वा तथागतो वा ऋद्ध्यातद्रूपान् रश्मीन् कायत्प्रमुञ्चति य एकत्या दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु गत्वा नारकाणां सत्त्वानां नारकाणि दुःखानि प्रतिप्रस्रम्भयति। एकत्या देवलोकस्थानुदारान् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगान् स्वभवनस्थान् गत्वा इहागमनाय संचोदयति। तथा तदन्यलोकधातुस्थितान् बोधिसत्त्वानिहागमनाय संचोदयति दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु। समासतस्थागतः अप्रमेयैरसंख्येयैर्नानाप्रकारै रश्मिभिरप्रमाणानां सत्त्वानां विचित्रमप्रमेयमसंख्येयमर्थं करोति। ते पुनरेते सर्वे पारिणामिक्या ऋद्ध्याः प्रकारा एकैकशः प्रभिद्यमाना अप्रमेया असंख्येया वेदितव्याः। अन्यथा प्रकृत्या विद्यमानस्य वस्तुनस्तदन्यथाविकारापादनता परिणाम इत्युच्यते। तस्मादेषा पारिणामिकी ऋद्धिरित्युच्यते।



तत्र नैर्माणिकी ऋद्धिः कतमा। समासतो निर्वस्तुकं निर्माणम्। निर्माणचित्तेन यथाकाममभिसंस्कृतं स्मृद्ध्यतीयं नैर्माणिकी ऋद्धिरित्युच्यते। सा चानेकविधा। कायनिर्माणं वाड्‍निर्माणं विषयनिर्माणञ्च। तत्पुनः कायनिर्माणमात्मनो वा सदृशं विसदृशं वा परस्य वा सदृशं विसदृशं वा निर्मिमीते। तत्पुनः कायनिर्माणमात्मनस्तु परेषाञ्च सदृशासदृशम्। इन्द्रियसभागमिन्द्रियाधिष्ठानं निर्मिमीते न त्विन्द्रियम्। विषयसदृशमपि निर्माणं निर्मिमीते। तद्यथा भोजनपानादि मणिमुक्तावैदूर्यादि च यत्किञ्चिद्‍रूपगन्धरसस्प्रष्टव्यसंगृहीतं बाह्यमुपकरणं तत्सदृशं तद्विनिर्मुक्तं सर्वं यथाकामं निर्मिमीते। तत्पुनरात्मसभागमनेकविधं बहु नानाप्रकारं देवनाग-[यक्षा] सुरगरुडकिन्नरमहोरगवर्ण मनुष्यवर्ण तिर्यक्प्रेतनारकवर्णं श्रावकवर्णं प्रत्येकबुद्धवर्णं बोधिसत्त्ववर्णं तथागतवर्णम्। स यदि तादृश एव बोधिसत्त्वो भवति तादृशमेव निर्मिमीते। आत्मसभागमस्य तन्निर्माणं भवति। अन्यथा तु विसभागं भवति निर्माणमात्मनः। स चेत्परं देवभूतं तत्सादृश्येन निर्मिमीते परसदृशमस्य तन्निर्माणं भवति। सचेद्वैसादृश्येन निर्मिमीते परविसभागं भवति। यथा देवभूतमेवं यावत्तथागतभूतं वेदितव्यम्।



तत्र प्रभूतकायनिर्माणं कतमत्। इह तथागतो वा बोधिसत्त्वो वा दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु सकृदप्रमेयासंख्येयानां सत्त्वानाम् अर्थं करोति तैर्विचित्रवर्णनिर्मितैः। किञ्चिच्च निर्माणमधितिष्ठति यदुपरतेऽपि बोधिसत्त्वे तथागेते वाऽनुवर्तत एव। किञ्चिन्निर्माणं बुद्धबोधिसत्त्वानां केवलं सत्त्वानां विदर्शनाय मायोपमं भवति। किञ्चित्पुनर्भूतं भोजनपानयानवस्त्रादिमणिमुक्तावैदूर्यशंखशीलाप्रवाडादि च निर्मितं भवति। तथैव नान्यथा। येन वित्तोपकरणोनैव वित्तोपकरणकार्यं क्रियते। इदन्तावत् कायनिर्माणं विषयनिर्माणं च।



वाङ्‍निर्माणं पुनरस्ति सुस्वरतायुक्तम्। अस्ति विशदस्वरान्वितं स्वसम्बद्धं परसम्बद्धमसम्बद्धं धर्मदेशनासंगृहीतं प्रमत्तसंचोदना-संगृहीतञ्च।



तत्र सुस्वरता। बुद्धबोधिसत्त्वानां निर्मितो वाग्व्याहारो गम्भीरो भवति मेघरवः कलविङ्कमनोज्ञस्वरसदृशो हृदयंगमः ग्रेमणीयः। पौरी च सा वाङ्‍निर्मिता भवति वल्गुविस्पष्टा विज्ञेया श्रवणीया अप्रतिकूला अनिश्रिता अपर्यन्ता।



तत्र विशदस्वरता। आकांक्षमाणः तथागतो वा बोधिसत्त्वो वा विचित्रां देवनागयक्षासुर गरुडकिन्नरमहोरगश्रावकबोधिसत्त्वपरिषदं सन्निषण्णां सन्निपतितां यावद्योजनशतपरिषन्मण्डलपर्यन्तां सर्वां स्वरेण सुपरिपूर्णेन विज्ञापयति येऽपि दूरे यऽप्यन्तिके निषण्णाः। आकांक्षमाणः साहस्रिकचूडिकलोकधातुन् स्वरेण विज्ञापयति। द्विसाहस्रं वा त्रिसाहस्रं वा यावद्दशसु दिक्ष्वप्रमेयासंख्येयान् लोकधातून् स्वरेण विज्ञापयति। तस्माच्च घोषादनेकप्रकारा सत्त्वानां धर्मदेशना निश्चरति। या सत्त्वानामर्थाय संवर्तते।



तत्र स्वसम्बद्धं वाङ्‍निर्माणं यत्स्वयमेव निर्मितया वाचा धर्मं वा देशयति प्रमत्तं वा संचोदयति।



परसंबद्धं पुनर्यत् परनिर्मितया वाचा धर्मं वा देशयति प्रमत्तं वा संचोदयति।



तत्रासम्बद्धं वाङ्‍निर्माणं यदाकाशात् वाङ्‍निश्चरति निर्मिताद्वा न सत्त्वसन्तानात्।



तत्र धर्मदेशनानिर्माणं यत् तत्र तत्र सम्मूढानां युक्तिसंदर्शनार्थम्।



तत्र चोदनानिर्माणं यदसम्मूढानां प्रतिलब्धप्रसादानां प्रमत्तानां प्रमादे ह्रीसंजननाय अप्रमादे च समादापनाय।



तदेतदनेकविधं निर्माणम्। समासतः कायनिर्माणं वाङ्‍निर्माणं विषय निर्माणञ्च वेदितव्यम्। इतीयं नैर्माणिकी ऋद्धिः। एषापि चैकैकप्रकारभेदेनाप्रमेया चासंख्येया च वेदितव्या।



सा पुनरेषा द्विविधापि ऋद्धिर्बुद्धबोधिसत्त्वानां समासतो द्वे कार्ये निष्पादयति। आवर्जयित्वा वा ऋद्धिप्रातिहार्येण सत्त्वान् बुद्धशासनेऽवतारयति अनुग्रहं वा अनेकविधं बहु नानाप्रकारं दुःखितानां सत्त्वानामुपसंहरति।



तत्र पूर्वेनिवासज्ञानं बुद्धबोधिसत्त्वानां कतमत्। इह तथागतो वा बोधिसत्त्वो वा आत्मनैवात्मनस्तावत्पूर्वनिवासं समनुस्मरति अमुका नाम ते सत्त्वा यत्राहमभूवमेवन्नामेति विस्तरेण यथासूत्रं सत्त्वकायदिकं सर्वमनुस्मरति। यथा चात्मनात्मनः समनुस्मरति तथा परेषामपि अनुस्मारयति। स्वयमेव च परेषामनुस्मरति। येऽपि ते सत्त्वकायाः पूर्वान्ते यन्निवासा स्तानप्यात्मना स्मरति परेषां स्मारयति अमुका नाम ते सत्त्वा यत्राहमभूवमेवंनामेति विस्तरेण। तेषामपि सत्त्वानां तथैव सर्वं पूर्वेनिवासमनुस्मरति यथैवात्मनो दृष्टधर्मे। सूक्ष्ममपि समनुस्मरति यत्किञ्चिदल्पं वा प्रभूतं वा पूर्वचेष्टितं पूर्वमेव चेतयित्वा अप्रमुषितम्। निरन्तरमपि समनुस्मरति। क्षणं नैरन्तर्ययोगेनाविच्छिन्नं ययैवानुपूर्व्या कृतमितमप्यनुस्मरति। यस्य कल्पगणनायोगेन शक्या संख्यां कर्तुम् अप्रमेयासंख्येयमप्यनुस्मरति। यस्य कल्पगणनायोगेनाशक्या संख्यां कर्तुम् अव्याहतमस्य समासतः पूर्वेनिवासज्ञानं प्रवर्तते यत्रेष्टं यथेष्टं यावदिष्टम्। एवंरूपो बोधिसत्त्वस्य तथागतस्य च पूर्वेनिवाससंगृहीतः प्रभावः। स तेन पूर्वेनिवासानुस्मृतिज्ञानेन जातकान् पूर्वान् बोधिसत्त्वचर्यां सत्त्वानां बुद्धे भगवति प्रसादजननार्थं गौरवोत्पादनार्थं च विचित्राननेकप्रकारान् प्रकाशयति इतिवृत्तकांश्च पूर्वयोगप्रतिसंयुक्तान् सत्त्वानां कर्मफलविपाकमारभ्य। शाश्वतदृष्टिकानां च सत्त्वानां शाश्वतदृष्टिं नाशयति तद्यथा पूर्वान्तकल्पकानां शाश्वतवादिनामेकत्य-शाश्वतिकानां वा।



दिव्यं श्रोत्रज्ञानं बुद्धबोधिसत्त्वानां कतमत्। इह तथागतो वा बोधिसत्त्वो वा दिव्येन श्रोत्रेण दिव्यान् मानुष्यकान् शब्दानार्यानप्यनार्यानपि घनानप्यणुकानपि व्यक्तानप्यव्क्तानपि निर्मितानप्यनिर्मितानपि दूरान्तिकस्थान् शृणोति।



तत्र दिव्याः शब्दाः ऊर्ध्वं यावदकनिष्ठभवनोपपन्नानां सत्त्वानाम्। स चेत्परेणाभोगं न करोति अथ करोति ततोऽपि परेणान्येषूर्ध्वं लोकधातुषु शृणोति।



तत्र मानुष्यकाः शब्दाः। तिर्यक् सर्वचातुर्द्वीपकोपपन्नानां सत्त्वानाम्।



तत्रार्याः शब्दाः। ये बुद्धानां बुद्धश्रावकानां च बोधिसत्त्वानां प्रत्येकबुद्धानाञ्च। तेषां वाऽन्तिकाच्छ्रुत्वानुश्रावयतां तदन्येषां सत्त्वानाम्। तद्यथा संदर्शयतां समादापयतां वा समुत्तेजयतां संप्रहर्षयतां कुशलसमादानमारभ्याकुशलत्यागञ्च। तथाऽसंक्लिष्टचित्तानामुद्देशः स्वाध्यायो विनिश्चयः सम्यक् चोदना स्मारणाववादानुशासनी इति यद्वा पुनरन्यदपि किञ्चित् सुभाषितं सुलपितमर्थोपसंहितम्। अमी उच्यन्ते आर्याः शब्दाः।



तत्रानार्याः शब्दाः। ये सत्त्वानां मृषावादपैशुन्यपारूष्यसंभिन्नप्रलापशब्दा अधो वाऽपायोपपन्नानामूर्ध्वं वा देवोपपन्नानां तिर्यग्वा मनुष्येषूपपन्नानाम्।



तत्र घनाः शब्दाः। ये महासत्त्वसंघशब्दा वा विविधैर्वा कारणैः कार्यमाणानामार्त्तस्वरं कन्दमानानां विक्रोशतां वा मेघस्तनितशब्दा वा शंखभेरीपटहशब्दा वा।



अणुकाः शब्दाः। अन्ततो यावत् कर्णजापशब्दाः।



व्यक्ताः शब्दाः। येषामर्थो विज्ञायते।



अव्यक्ताः शब्दाः। येषामर्थो न विज्ञायते। तद्यथा द्रामिडानांमन्त्राणां वायुवनस्पतिशुकसारिकाकोकिलजीवंजीवकादीनाम्।



तत्र निर्मिताः शब्दाः। ये ऋद्धिमद्भिश्चेतोवशिप्राप्तैर्वा ऋद्‍ध्यभिसंस्कृताः।



दूराः शब्दाः। यत्र ग्रामे क्षेत्रे विहारे वा तथागतो वा बोधिसत्त्वो वा विहरति तत्र ये शब्दा निश्चरन्ति तान् स्थापयित्वा तदन्यत्र यावदप्रमेयासंख्येयेषु लोकधातुषु।



च्युत्युपपत्तिज्ञानं बुद्धबोधिसत्त्वानां कतमत्। इह तथागतो वा बोधिसत्त्वो वा दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति च्युतिकालेऽपि च्युतानपि सुवर्णदुर्वर्णान् हीनप्रणीतानपरान्ते च जातान्। वृद्धेश्चान्वयादिन्द्रियाणां परिपाकाद्विचित्रे कायचेष्टिते कुशलाकुशलाव्याकृतेषु प्रवर्तमानान्। तथावभासमपि पश्यति जानीते सूक्ष्ममपि पश्यति। यद्रूपं निर्मितं यच्च दिव्यमच्छं रूपमधो यावदवीचिमूर्ध्वं यावदकनिष्ठभवनम्। स चेदध ऊर्ध्वं वान्येषु लोकधातुषु रूपदर्शनमारभ्याभोगं करोति तिर्यग्‍यावदप्रमेयेष्वसंख्येयेषु लोकधातुषु सर्वं रूपगतं पश्यति। अन्ततस्तेषु तेषु बुद्धक्षेत्रेषु तांस्तांस्तथागतान् विचित्रेषु महत्सु पर्षन्मण्डलेषु निषण्णान् धर्म देशयतः पश्यति। तत्र दिव्येन चक्षुषा तथागतो वा बोधिसत्त्वो वा दशसु दिक्षु कायचेष्टितं शुभाशुभं दृष्ट्वा यथायोगं यथार्ह तेषु सत्त्वेषु प्रतिपद्यते। दिव्येन च श्रोत्रेण वाक्चेष्टितं शुभाशुभं श्रुत्वा तेषु सत्त्वेषु यथायोगं यथार्हं प्रतिपद्यते। एवं दिव्येन चक्षुषा दिव्येन श्रोत्रेण बोधिसत्त्वस्तथागतो वा समासेन कर्म करोति।



तत्र चेतःपर्यायज्ञानं बुद्धबोधिसत्त्वानां कतमत्। इह बोधिसत्त्वो वा तथागतो वा परेषां दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु सत्त्वानां क्लेशपर्यवस्थितमपि चित्तं जानाति। विगतक्लेशपर्यवस्थानमपि क्लेशसानुबन्धं सानुशयमपि क्लेशनिरनुबन्धं निरनुशयमपि मिथ्याप्रणिहितमपि चित्तं जानाति। तद्यथा तीर्थिकचित्तं सामिषाभिप्रायस्य क्लिष्टमपि चित्तं सम्यक् प्रणिहितमपि चित्तं जानाति। एतद्विपर्ययेण हीनमपि चित्तं जानाति। तद्यथा कामधातूपपन्नानां सर्वसत्त्वानामन्ततो मृगपक्षिणामपि। मध्यमचित्तं जानाति तद्यथा सर्वेषां रूपधातूपपन्नानां सत्त्वानाम्। प्रणीतमपि चित्तं जानाति तद्यथा सर्वेषामारूप्योपपन्नां सत्त्वानाम्। सुखप्रसंयुक्तमपि दुःखप्रसंयुक्तमप्यदुःखासुखवेदनासंप्रयुक्तमपि चित्तं जानाति। एकेन परचित्तज्ञानेनैकस्य सत्त्वस्य यस्य यद्यथा यादृशं यावच्चितं प्रत्युपस्थितं भवति तत्सकृद्यथाभूतं प्रजानाति। एकेनैव परचित्तज्ञानेन प्रभूतानामपि सत्त्वानां येषां यद्यथा यादृशं यावच्चित्तं प्रत्युपस्थितं भवति तदपि सकृद्यथाभूतं प्रजानाति। सा पुनरियमभिज्ञा बुद्धस्य बोधिसत्त्वानामिन्द्रियपरापरज्ञानाय सत्त्वानां नानाधिमुक्तिज्ञानाय नानाधातुचरितज्ञानाय यथायोगञ्च प्रतिपत्सु चित्रासु निर्वाणपुरःसरीषु सम्यक्सन्नियोगाय। इदमस्याः कर्म वेदितव्यम्।



तत्रास्रवक्षयज्ञानं बुद्धबोधिसत्त्वानां कतमत्। इह तथागतो वा बोधिसत्त्वो वा क्लेशानां क्षयप्राप्तिं यथाभूतं प्रजानाति। प्राप्तो मया परैर्वा आस्रवक्षयो न वेति। आस्रवक्षयप्राप्त्युपायमप्यात्मनः परेषाञ्च यथाभूतं प्रजानाति। यथा उपायमेवमनुपायमपि यथाभूतं प्रजानाति। आस्रवक्षयप्राप्तावभिमानं परेषां यथाभूतं प्रजानाति। निरभिमानमपि यथाभूतं प्रजानाति। बोधिसत्त्वः पुनः सर्वं चैतत् प्रजानात्यास्रवक्षयञ्च स्वयं न साक्षात्करोति। अतः सास्रवञ्च स्वयं न साक्षात्करोति। अतः सास्रवाञ्च वस्तु बोधिसत्त्वः सहस्रवैर्न विजहाति। तत्र च विचरति सास्रवे वस्तुनि। न च संक्लिश्यत इति सोऽस्य सर्वप्रभावाणां महत्तमः प्रभावो वेदितव्यः। तेन खल्वास्रवक्षयज्ञानेन बुद्धबोधिसत्त्वाः स्वयं न क्लिश्यन्ते। परेषाञ्च व्यपदिशन्त्य भिमानञ्च नाशयन्ति। इदमस्य कर्म वेदितव्यम्।



तत्र धर्मप्रभावः कतमः। दानप्रभावः शीलक्षान्तिवीर्यध्यानप्रज्ञाप्रभावश्च। स पुनरेष दानादीनां धर्माणां प्रभावः समासतश्चतुर्भिराकारैर्वेदितव्यः। विपक्षप्रहाणतः संभारपरिपाकतः स्वपरानुग्रहतः आयत्यां फलदानतश्च।



दानं ददद् बोधिसत्त्वो दानविपक्षं मात्सर्यं प्रजहाति। आत्मनो बोधिसंभारभूतञ्च भवति तदस्य दानम्। दानेन च संग्रहवस्तुना सत्त्वान् परिपाचयति। पूर्वं दानात् सुमना ददच्चित्तं प्रसादयति। दत्त्वा चाविप्रतिसारी। त्रिषु कालेषु प्रमुदितचित्ततया आत्मानमनुगृहणाति। परेषां च जिघत्सापिपासाशोतोष्णव्याधीच्छाविघातभयदुःखापनयनात् परमनुगृह्णाति। परत्र च यत्र यत्र प्रत्याजायते आढ्यो भवति महाभोगो महापक्षो महापरिवार इत्येष चतुराकारो दानस्य प्रभावो नात उत्तरि नातो भूयः।



कायवाक्संवरशीलं समाददानो बोधिसत्त्वः शीलविपक्षं दौःशील्यं प्रजहाति। बोधेश्च संभारभूतं भवति तदस्य शीलसमादानम्। समानार्थतया च संग्रहवस्तुना सत्त्वान् परिपाचयति। दौःशील्यप्रत्ययं भयमवद्यं वैरं प्रजहदात्मानमनुगृहणाति सुखं स्वपन् सुखं प्रतिबुध्यमानः। तथा शीलवतोऽविप्रतिसारः प्रामोद्यं यावच्चित्तसमाधिः। इत्येवमात्मानमनुगृह्णाति। सर्वसत्त्वानाञ्च सर्वप्रकारैरविहेठनतया अभयमनुप्रयच्छति। एवं परमप्यनुगृह्णाति। तन्निदानञ्च कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते। इत्ययं चतुराकारः प्रभावः शीलस्य। नात उत्तरि नातो भूयः।



क्षमो बोधिसत्त्वः क्षान्तिविपक्षमक्षान्ति प्रजहाति। बोधेश्च संभारभूता सास्य क्षान्ति र्भवति। समानार्थतयैव च सत्त्वान् परिपाचयति। आत्मानञ्च परञ्च महतो भयात्परित्रायमाणस्तया क्ष्यान्त्या आत्मानञ्च परंश्चानुगृह्णाति। ततो निदानञ्च बोधिसत्त्व आयत्यामवैरबहुलो भवत्यभेदबहुलश्चादुःखदौर्मनस्यबहुलः। दृष्टे च धर्मेऽविप्रतिसारी कालं करोति। कायस्य च भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यते। इत्ययञ्चतुराकारः क्षान्तेः प्रभावो नात उत्तरि नातो भूयः।



आरब्धवीर्यो बोधिसत्त्वो विहरन् वीर्यविपक्षं कौसीद्यं प्रजहाति। बोधेश्च संभारभूतं भवति सन्निश्रयश्च तद्वीर्यम्। समानार्थतयैव च सत्त्वान् परिपाचयति। आरब्धवीर्यश्च सुखं स्पर्शं विहरन्नव्यवकीर्णः पापकैरकुशलैर्धर्मः पूर्वेणापरं विशेषाधिगमं पश्यन् प्रीतिप्रामोद्येनात्मानमनुगृह्णाति। कुशलपक्षाभियुक्तश्च परं न कायेन वाचा वा विहेठयति। परेषां चारब्धवीर्यतायां छन्दं जनयति। एवं परमप्यनुगृह्णाति। हेतुबलिकश्च भवति आयत्यां पुरुषकाराभिरतश्च। इत्ययं चतुराकारो वीर्यप्रभावः। नात उत्तरि नातो भूयः।



ध्यानं समापद्यमानो बोधिसत्त्वो ध्यानविपक्षं क्लेशं काम वितर्कप्रीतिसुखरूपसंज्ञादींश्चोपक्लेशान् प्रजहाति। बोधेश्च संभारभूतं सन्निश्रयभूतं भवति तदस्य ध्यानम्। समानार्थतयैव च सत्त्वान् परिपाचयति। दृष्टधर्मसुखविहारतयात्मानमनुगृह्णाति। शान्तप्रशान्तवीतरागचित्ततया सत्त्वेष्वव्याबाध्यो भवन्नविकोप्यः परमप्यनुगृह्णाति। ज्ञानविशुद्धिरभिज्ञानिर्हारविशुद्धिर्देवोपपत्तिश्चायत्यां ध्यानफलम्। इत्येष चतुराकारो ध्यानप्रभावो नात उत्तरि नातो भूयः।



प्रज्ञावान् बोधिसत्त्वः प्रज्ञाविपक्षमविद्यां प्रजहाति। बोधेश्च संभारभूता भवत्यस्य सा प्रज्ञा। दानेनापि प्रियवादितयाप्यर्थचर्ययापि समानार्थतयापि च सत्त्वान् परिपाचयति। ज्ञेयवस्तु-यथार्थ-प्रत्यवगमोपसंहितेनोदारेण प्रीतिप्रामोद्येनात्मानमनुगृह्णाति। सर्वत्र न्यायोपदेशेन दृष्टे धर्मे संपराये च हितसुखाभ्यां सत्त्वानप्यनुगृह्णाति। सर्वकुशलमूलपरिग्रहञ्च तया सम्यक्करोति। आयत्याञ्च द्विविधमप्यावरणविसंयोगं साक्षात्करोति क्लेशावरणविसंयोगं ज्ञेयावरणविसंयोगञ्च। इत्ययं चतुराकारः प्रज्ञायाः प्रभावः। नात उत्तरि नातो भूयः। अयमुच्यते धर्मप्रभावः।



सहजः प्रभावो बुद्धबोधिसत्त्वानां कतमः। प्रकृतिजातिस्मरता। सत्त्वानामर्थे अप्रतिसंख्याय दीर्घकालिकविचित्र-तीव्रनिरन्तरदुःखसहिष्णुता। सत्त्वानामेवार्थे सत्त्वार्थसंपादकेन दुःखेन मोदना। तुषितेषु चोपपन्नस्य यावदायुस्तुषितेष्ववस्थानम्। त्रिभिश्च स्थानैस्तुषितोपपन्नानां तदन्येषां देव पुत्राणामभिभवः दिव्येनायुषा दिव्येन वर्णेन दिव्येन यशसा। उपपद्यमानस्य च मातुः कुक्षावुदारेणावभासेन लोकधातुस्फरणं संप्रजानतश्च मातुः कुक्षिप्रवेशः स्थानं निर्गमो जन्म च। जातमात्रस्य च पृथिव्यां सप्तपदगमनमपरिगृहीतस्याकेनचित्। वाचश्च भाषणा जातस्य चोदारदेवनागयक्षासुरगरुडकिन्नरमहोरगैर्दिव्यैमाल्यैर्वाद्यैर्धूपैश्चेलविक्षेपैश्छत्रध्वजपताकादिभिर्वरप्रवराभिः पूजाकर्म। निरुत्तरैश्च द्वात्रिंशता महापुरुषलक्षणैः सुलक्षितगात्रता। चरमे च भवे पश्चिमे जन्मनि सर्वप्रत्यर्थिकैर्मारानीकैरपि सर्वोपक्रमैश्चाबाध्यता। बोधिमण्डे च निषण्णस्य मैत्र्या सर्वमारबलपराजयः। सर्वपर्वसु चैकैकस्मिन्नारायण बलसन्निविष्टता। दह्रस्यैव कुमारकस्य स्वयमेव कौशलकृताविनः। सर्वलौकिकशिल्पस्थानानां त्वरितत्वरितमनुप्रवेशः। स्वयञ्चानाचार्य कमेकाकिन एव च त्रिसाहस्रमहासाहस्रे महाबोधेरभिसंबोधः। ब्रह्मणा च सहांपतिना स्वयमुपसंक्रम्य लोके सद्धर्मदेशनायै अध्येषणा। महामेघरवाप्रतिसंवेदना। अव्युत्थानतया च समापत्तेः शान्तता। बोधिसत्त्वे च मृगपक्षिणामप्यन्ततः क्षुद्रमृगाणामपि परमा विश्वास्यता। सर्वकालमुपसंक्रमणं तस्य चान्तिके यथा कामविहारिता। तिरश्चामन्तिकात्तथागतस्य पूजा तद्यथा मर्कटो मध्वनेडकं तथागतायानुप्रदत्तवान्। प्रतिगृहीते च तस्मिन् भगवता स मर्कटो हृष्टमानसः प्रत्यवसृष्टः स नृत्यमानः। भगवन्तमेवोद्दिश्य तथागतः स्नास्यति तं स्नापयिष्यामीति मेघप्रतीक्षणा। वृक्षमूले च बोधिसत्त्वस्य तथागतस्य वा सन्तिष्ठतस्तस्य सर्ववृक्षाणां प्राचीननिम्नासु छायासु तस्य वृक्षस्य छायया कायाविजहनता। षड्‍भिर्वर्षैरभिसंबुद्धबोधेस्तथागतस्यावतारगवेषिणोऽपि मारस्यालब्धावतारता। सारूप्य सहगतायाश्च स्मृतेः सततसमितं प्रत्युपस्थानता। स्मृतस्य च प्रतिसंविदितानां वेदनानां संज्ञानां वितर्काणामुत्पादः स्थानं निरोधश्च।



तथा दर्शनानुग्रहकरः सहजः प्रभावो बुद्धानामार्यचारविहारसंगृहीतश्च।



तत्र दर्शनानुग्रहकरः। तद्यथा उन्मत्ताः क्षिप्तचित्ताः तथागतं दृष्ट्वा स्वचित्तं प्रतिलभन्ते। विलोमगर्भाः स्त्रियः अनुलोमगर्भा भवन्ति। अन्धाश्चक्षूंषि प्रतिलभन्ते बधिराः श्रोत्राणि। रक्तानां रागपर्यवस्थानां विगच्छति द्विष्टानां द्वेषपर्यवस्थानं मूढानां मोहपर्यवस्थानम्। इत्ययमेवंभागीयो दर्शनानुग्रहकरः सहजः प्रभावो वेदितव्यः।



तत्रार्यचारविहारसंगृहीतः सहजः प्रभावः। तद्यथा दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयति। स चास्य तृणपर्णसंस्तर एकपार्श्वाधिशयितो भवति। अविकोपितस्तथागतार्हत्सम्यक्संबुद्धः शयानः। न चास्य वायुः कायाच्चीवरमपकर्षति। सिंहगतिमपि गच्छति। ऋषभगतिमपि गच्छति। दक्षिणं पादं तत्प्रथमत उद्धरति। ततो वामेन पादेनानुगच्छति। गच्छतश्चास्य उच्चा भूमिप्रदेशा नीचा भवन्ति। नीचा श्चोच्चाः। समाः पाणितलजाताः। अपगतपाषाणशर्करकपालाः। विवेकनिम्नेन च चित्तेन ग्रामं प्रविशति। प्रविशतश्चास्य नीचानि द्वाराणि उच्चानि भवन्ति। आहारमाहरतो नैकौदनपुलाकमप्यतिभिन्नं प्रविशति। न चावशिष्टं भवति यावद् द्वितीयमालोपं प्रक्षिपति। इत्ययमेवंभागीय आर्यचारविहारसंगृहीतः प्रभावो वेदितव्यः। परिनिर्वाणसमये च महापृथिवीचाल उल्कापाता दिशो दाहा अन्तरिक्षे देवदुन्दुभीनामभिनदनम्। सोऽपि सहज एव तथागतानां प्रभावो नाभिज्ञासंस्कृतः। अयं बुद्धबोधिसत्त्वानां सहजः प्रभाव इत्युच्यते।



तत्र कतमो बुद्धबोधिसत्त्वानां श्रावकप्रत्येकबुद्धैरसाधारणः प्रभावः।

कतमश्च साधारणः। असाधारणता समासतस्त्रिभिराकारैर्वेदितव्या। सूक्ष्मतः प्रकारतो धातुतश्च। इह तथागतो बोधिसत्त्वो वाऽप्रमेयासंख्येयानां सत्त्वानामप्रमेयासंख्येन प्रभावोपायेन यथाऽर्थक्रिया भवति तद्यथाभूतं प्रजानाति। एवं सूक्ष्मतः। सर्वप्रकारेण चाभिज्ञाप्रभावेण धर्मप्रभावेण सहजेन प्रभावेण समन्वागतो भवति। एवं प्रकारतः। सर्वलोकधातवः सर्वसत्त्वधातवश्चास्य प्रभावविषयञ्च भवति। एवं धातुतः। श्रावकस्य तु सह सत्त्वधातुना द्विसाहस्रो लोकधातुरभिज्ञाविषयः। प्रत्येकबुद्धस्य सर्व एव त्रिसाहस्रोऽभिज्ञाविषयः। तत्कस्य हेतोः। तथा हि ते एकस्यैवात्मनो दमाय प्रतिपन्नाः। नो तु सर्वसत्त्वानाम्। तस्मात्तेषामेक एव धातुः परमप्रभावविषयो भवति। एतानाकारान् स्थापयित्वा बुद्धबोधिसत्त्वानां तदन्यः प्रभावः श्रावकप्रत्येकबुद्धैः साधारणो वेदितव्यः। तदेवं सति श्रावकप्रत्येकबुद्धा एव तावद्‍बुद्धबोधिसत्त्वैः सह न तुल्याभिज्ञा भवन्ति। कुतः पुनः सर्वे देवमनुष्यास्तीर्थ्याः पृथग्जनाश्च।



यश्चापि प्रातिहार्यप्रभावो बुद्धबोधिसत्त्वानामृद्ध्यादेशनानुशास्ति-संगृहीतः सोऽप्यभिज्ञाप्रभाव एव यथायोगं प्रविष्टो वेदितव्यः ऋद्धिविषयचेतसः पर्यायास्रवक्षयज्ञानाभिज्ञाप्रभावेषु।



बोधिसत्त्वभूमावाधारे योगस्थाने पञ्चमं प्रभावपटलम्॥५॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project