Digital Sanskrit Buddhist Canon

1-4 तत्त्वार्थ-पटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1-4 tattvārtha-paṭalam

तत्त्वार्थ-पटलम्



तत्त्वार्थः कतमः। समासतो द्विविधः। यथावद्‍भाविकताञ्च धर्माणामारभ्य या धर्माणां भूतता यावद्भाविकताञ्चारभ्य या धर्माणां सर्वता। इति भूतता सर्वता च धर्माणां समस्तस्तत्त्वार्थो वेदितव्यः। स पुनरेव तत्त्वार्थः प्रकारभेदतश्चतुर्विधः। लोकप्रसिद्धो युक्तिप्रसिद्धः क्लेशावरणविशुद्धिज्ञानगोचरो ज्ञेयावरणविशुद्धिज्ञानगोचरश्च।



तत्र लौकिकानां सर्वेषां यस्मिन् वस्तुनि संकेतसंवृतिसंस्तवनागमप्रविष्टया बुद्ध्या दर्शनतुल्यता भवति तद्यथा पृथिव्यां पृथिव्यैवेयं नाग्निरिति। यथा पृथिव्यामेवमग्नावप्सु वायौ रूपेषु शब्देषु गन्धेषु रसेषु स्प्रष्टव्येषु भोजने पाने याने वस्त्रे अलङ्कारोपविचारे भाण्डोपस्करे गन्धमाल्यविलेपने नृत्यगीतवादित्रे आलोके स्त्रीपुरुषपरिचर्यायां क्षेत्रापणगृहवस्तुनि सुखदुःखे दुःखमिदं न सुखं सुखमिदं न दुःखमिति। समासत इदमिदं नेदम्। एवमिदं नान्यथेति निश्चिताधिमुक्तिगोचरो यद्वस्तु सर्वेषामेव लौकिकानां परंपरागतया संज्ञया स्वविकल्प-प्रसिद्वं न चिन्तयित्वा तुलयित्वोपपरीक्ष्योद्‍गृहीतम्। इदमुच्यते लोकप्रसिद्धतत्त्वम्।



युक्तिप्रसिद्धतत्त्वं कतमत्। सतां युक्तार्थपण्डितानां विचक्षणानां तार्किकाणां मीमांसकानां तर्कपर्यापन्नायां भूमौ स्थितानां स्वयं प्रातिभानिक्यां पार्थग्‍जनिक्यां मीमांसानुचरितायां प्रत्यक्षमनुमानमाप्तागमं प्रमाणं निश्रित्य सुविदित-सुविनिश्चितज्ञानगोचर-ज्ञेयं वस्तूपपत्तिसाधनयुक्त्या प्रसाधितं व्यवस्थापितम्। इदमुच्यते युक्तिप्रसिद्धं तत्त्वम्।



क्लेशावरणविशुद्धिज्ञानगोचरस्तत्त्वं कतमत्। सर्वश्रावकप्रत्येकबुद्धानामनास्रवेणानास्रवावाहकेन चानास्रवपृष्टलब्धेन च लौकिकेन ज्ञानेन यो गोचरविषयः। इदमुच्यते क्लेशावरणविशुद्विज्ञानगोचरस्तत्त्वम्। तेनालम्बनेन क्लेशावरणाज्ज्ञानं विशुध्यति। अनावरणत्वे चायत्यां सन्तिष्ठते। तस्मात्क्लेशावरणविशुद्धिज्ञानगोचरस्तत्त्वमित्युच्यते।



तत्पुनस्तत्वं कतमत्। चत्वार्यार्यैसत्यानि दुःखं समुदयो निरोधो मार्गश्च। इत्येतानि चत्वार्यार्यसत्यानि प्रविचिन्वतोऽभिसमागच्छतोऽभिसमागतेषु च तज्ज्ञानमुत्पद्यते। स पुनः सत्याभिसमयः श्रावकप्रत्येकबुद्धानां स्कन्धमात्रमुपलभमानानां स्कन्धेभ्यश्चान्यमर्थान्तरमात्मानमनुपलभमानानां प्रतीत्यसमुत्पन्नसंस्कारोदयव्ययप्रतिसंयुक्तया प्रज्ञया स्कन्धविनिर्मुक्तपुद्‍गलाभावदर्शनाभ्यासादुत्पद्यते।



ज्ञेयावरणविशुद्धिज्ञानगोचरस्तत्त्वं कतमत्। ज्ञेये ज्ञानस्य प्रतिघात आवरणमित्युच्यते। तेन ज्ञेयावरणेन विमुक्तस्य ज्ञानस्य यो गोचरविषयस्तज्ज्ञेयावरणविशुद्धिज्ञानगोचरस्तत्त्वं वेदितव्यम्।



तत्पुनः कतमत्। बोधिसत्त्वानां बुद्धानाञ्च भगवतां धर्मनैरात्म्यप्रवेशाय प्रविष्टेन सुविशुद्धेन च सर्वधर्माणां निरभिलाप्यस्वभावतामारभ्य प्रज्ञप्तिवाद स्वभावनिर्विकल्पज्ञेयसमेन ज्ञानेन यो गोचरविषयः सासौ परमा तथता निरुत्तरा ज्ञेयपर्यन्तगता यस्याः सर्व सम्यग्‍धर्मप्रविचया निवर्तन्ते नाभिवर्तन्ते।



तत्पुनस्तत्त्वलक्षणं व्यवस्थानतः अद्वयप्रभावितं वेदितव्यम्। द्वयमुच्यते भावश्चाभावश्च।



तत्र भावो यः प्रज्ञप्तिवादस्वभावो व्यवस्थापितः। तथैव च दीर्घकालमभिनिविष्टो लोकेन। सर्वविकल्पप्रपञ्चमूलं लोकस्य। तद्यथा रूपमिति वा वेदना संज्ञा संस्कारा विज्ञानमिति वा। चक्षुरिति वा स्रोत्रं घ्राणं जिह्वा कायो मन इति वा। पृथिवीति वा आपस्तेजो वायुरिति वा। रूपमिति वा शब्दो गन्धो रसः स्प्रष्टव्यमिति वा। कुशलमिति वा अकुशलमिति वा अव्याकृतमिति वा। उत्पाद इति वा व्यय इति वा प्रतीत्यसमुत्पन्न इति वा। अतीतमिति वा अनातगमिति वा प्रत्युत्पन्नमिति वा। संस्कृतमिति वा [असंस्कृतमिति वा।] अयं लोकः परो लोकः। उभौ सूर्याचन्द्रमसौ। यदपि दृष्टश्रुतमतविज्ञातं प्राप्तं पर्येषितं मनसाऽनुवितर्कितमनुविचारितमिति वा। अन्ततो यावन्निर्वाणमिति वा। इत्येवंभागीयः प्रज्ञप्तिवादनिरूढः स्वभावो धर्माणां लोकस्य भाव इत्युच्यते।



तत्राभावो या अस्यैव रूपमिति प्रज्ञप्तिवादस्य यावदन्ततो निर्वाणमिति प्रज्ञप्तिवादस्य निर्वस्तुकता निर्निमित्तता प्रज्ञप्तिवादाश्रयस्य सर्वेण सर्वं नास्तिकता असंविद्यमानता यामाश्रित्य प्रज्ञप्तिवादः प्रवर्तते। अयमुच्यतेऽभावः।



यत्पुनः पूर्वकेण च भावेनानेन चाभावेन उभाभ्यां भावाभावाभ्यां विनिर्मुक्तं धर्मलक्षणसंगृहीतं वस्तु। तदद्वयंम् यदद्वयम् तन्मध्यमा-प्रतिपदन्तद्वयवर्जितम्। निरुत्तरेत्युच्यते। तस्मिंश्च तत्त्वे बुद्धानां भगवतां सुविशुद्धं ज्ञानं वेदितव्यम्। बोधिसत्त्वानां पुनः शिक्षामार्गप्रभावितं तत्र ज्ञानं वेदितव्यम्।



सा च प्रज्ञा महानुपायो बोधिसत्त्वस्यानुत्तरायाः सम्यक्संबोधेः प्राप्तये। तक्तस्य हेतो। तथा हि बोधिसत्त्वस्तेन शून्यताधिमोक्षेण तासु तासु जातिषु प्रयुज्यमानः सत्त्वेषु बुद्धधर्मपरिपाकाय संसारे संसरन् तञ्च संसारं यथाभूतं परिजानाति। न च पुनस्तस्मात्संसारादनित्यादिभिराकारैर्मानसमुद्वेजयति। स चेत्संसारं यथाभूतं न परिजानीयान्नशक्नुयाद्रागद्वेषमोहादिकात् सर्वसंक्लेशाच्चित्तमध्युपेक्षितुम्। अनध्युपेक्षमाणश्चसंक्लिष्टचित्तः संसारे संसरेत् संक्लिष्टचित्तः संसरन्नैव बुद्धधर्मान् परिपाचयेन्नापि सत्त्वान्। स चेत् पुनरनित्यादिभिराकारैः संसारान्मानसमुद्वेजयेदेवं सति बोधिसत्त्वो लघु लध्वेव परिनिर्वायात्। लघु लध्वेव च परिनिर्वायन् बोधिसत्त्व एवमपि नैव बुद्धधर्मान्नैव सत्त्वान् परिपाचयेत्। कुतः पुनरनुत्तरां सम्यक्सम्बोधिमभिसंभोत्स्यते। तेनैव च शून्यताधिमोक्षेण बोधिसत्त्वः प्रयुज्यमानः न निर्वाणादुत्त्रस्यति नापि निर्वाणं प्रार्थयते। स चेद्वोधिसत्त्वो निर्वाणादुत्त्रस्येत् परत्र निर्वाणसंभारोऽस्य न परिपूर्येत यथापि च तदुत्त्रस्तमानसत्वान्निर्वाणेऽननुशंसदर्शिनस्तद्‍गतगुणदर्शनप्रसादाधिमुक्तिविवर्जितस्य बोधिसत्त्वस्य। स चेत्पुनर्बोधिसत्त्वो निर्वाणो प्रार्थनाबहुलविहारी भवेदाश्वेव परिनिर्वायात्। आशु परिनिर्वायम् नैव बुद्धधर्मान्न सत्त्वान् परिपाचयेत्। तत्र या च संसारं यथाभूतमपरिजानतः संक्लिष्टचित्तस्य संसारसंसृतिः। या च संसारादुद्विग्नमानसस्याशुनिर्वृतिः। या च निर्वाणादुत्त्रस्तमानसस्य तत्संभारापरिपूरिः। या च निर्वाणप्रार्थनाबहुलविहारिण आश परिनिर्वृतिः अयमनुपायो बोधिसत्त्वस्य वेदितव्योऽनुत्तरायाः सम्यक्संबोधेः। या पुनः संसारं यथाभूतं परिजानतोऽसंक्लिष्टचित्तस्य संसारसंसृतिः। या च संसारादनित्यादिभिराकारैरनुद्विग्नमानसस्यानाशुनिर्वृतिः। या च निर्वाणादनुत्त्रस्तमानसस्य तत्संभारपरिपूरिर्या च निर्वाणे गुणानुशंसदर्शिनो न चात्यर्थमुत्कण्ठाप्राप्तस्याशु निर्वृतिः। अयं बोधिसत्त्वस्य महानुपायोऽनुत्तरायाः सम्यक्सम्बोधेरनु प्राप्तये। स चायमुपायस्तस्मिन् परमशून्यताधिमोक्षे सन्निश्रितः।



तस्मात्सा परमन्शूयताधिमोक्षभावना बोधिसत्त्वस्य शिक्षामार्गसंगृहीतो महानुपाय इत्युच्यते यदुत तथागतज्ञानाधिगमाय। स खलु बोधिसत्त्वस्तेन दूरानुप्रविष्टे न धर्मनैरात्म्यज्ञानेन निरभिलाप्यस्वभावतां सर्वधर्माणां यथाभूतं विदित्वा न किञ्चिद्विकल्पयति नान्यत्र वस्तुमात्रं गृह्णाति तथतामात्रम्। न चास्यैवं भवति वस्तुमात्रं वा एतत्तथतामात्रं चैति। अर्थे तु स बोधिसत्त्वश्चरति। अर्थे परमे चरन् सर्वधर्मांस्तया तथतया समसमान् यथाभूतं प्रज्ञया पश्यति। सर्वत्र च समदर्शी समचित्तः सन् परमामुपेक्षां प्रतिलभते। यामाश्रित्य सर्वविद्यास्थानकौशलेषु प्रयुज्यमानो बोधिसत्त्वः सर्वपरिश्रमैः सर्वदुःखोपनिपातैः न निवर्तते। क्षिप्रञ्चाक्लान्तकायः अक्लान्तचित्तः तत्कौशलं समुदायनयति। महास्मृतिबलाधानप्राप्तश्च भवति। न च तेन कौशलेनोन्नतिं गच्छति। न च परेषामाचार्यमुष्टिं करोति। सर्वकौशलेषु चासंलीनचित्तो भवति। उत्साहवानव्याहतगतिश्च भवति। दृढसन्नाहप्रयोगः यथा यथा संसारे संसरन् दुःखविशेषं लभते तथा तथोत्साहं बर्धयत्यनुत्तरायां सम्यक्संबोधौ। यथा यथा समुच्छ्रयविशेषमधिगच्छति तथा तथानि-र्मानतरो भवति सत्त्वानामन्तिके। यथा यथा ज्ञानविशेषमधिगच्छति तथा तथा भूयस्या मात्रया परोपारम्भविवादप्रकीर्णलपिताक्लेशोपक्लेशेभ्यश्च वृत्तस्ख लितसमुदाचारेभ्यः परिज्ञाय परिज्ञाय चित्तमध्युपेक्षते। यथा यथा गुणैर्वि[व] र्धतेतथा तथा प्रतिच्छन्नकल्याणो भवति। न परतो ज्ञातुं समन्वेषते न लाभ सत्कारम्। इमा एवंभागीया बहवोऽनुशंसा भवन्ति बोधिसत्त्वस्य बोधिपक्ष्या बोध्यनुकूलास्तज्ज्ञानसन्निश्रितस्य। तस्माद् ये केचिद्बोधिमनुप्राप्तवन्तो ये च केचित्प्राप्स्यन्ति ये च प्राप्नुवन्ति सर्वे त एतदेव ज्ञानं निश्रित्य नान्यन्न्यूनं प्रतिविशिष्टं वा। एवं निष्प्रपञ्चनयारूढो बोधिसत्त्व एवं चं बह्वनुशंस आत्मनश्च बुद्धधर्मपरिपाकाय परेषाञ्च यानत्रयधर्मपरिपाकाय सम्यक् प्रतिपन्नो भवति। एवञ्च पुनः सम्यक् प्रतिपन्नो भवति। भोगेष्वात्मभावे च निस्तृष्णो भवति। निस्तृष्णतायाञ्च शिक्षते सत्त्वेषु भोगात्मभावपरित्यागाय सत्त्वानामेवार्थाय। संवृतश्च भवति सुसंवृतः। कायेन वाचा सम्बरेण च शिक्षते प्रकृत्या पापारुचितायै प्रकृतिभद्रकल्याणतायै च। क्षमो भवति परतः सर्वोपतापकिप्रतिपत्तीनाम्। क्षमित्वं च शिक्षते मन्दक्रोधतायै च अ-परोपतापनतायै च। सर्वविद्यास्थानेषु चाभियुक्तो भवति कुशलश्च सत्त्वानां विचिकित्साप्रहाणायानुग्रहोपसंहाराय च आत्मनश्च सर्वज्ञत्वहेतुपरिग्रहाय। अध्यात्मस्थितचित्तश्च भवति सुसमाहितचित्तः। चित्तस्थितये च शिक्षते चतुर्ब्राह्मविहारपरिशोधनतायै पञ्चाभिज्ञाविक्रीडनतायै च सत्त्वकृत्यानुष्ठानतायै सर्वकौशल्याभियोगजक्लेश-विनोदनतायै च। विचक्षणश्च भवति परमतत्त्वज्ञः। परमतत्त्वज्ञतायै च शिक्षते महायाने चायत्यामात्मनः परिनिर्वाणाय। स खलु बोधिसत्त्व एवं सम्यक्प्रयुक्तो गुणवत्सु सत्त्वेषु पूजालाभसत्कारेण प्रत्युपस्थितो भवति। दोषवत्सु सत्त्वेषु परमेण कारुण्यचित्तेनानुकम्पाचित्तेन प्रत्युपस्थितो भवति। यथाशक्त्या च यथाबलं दोषप्रहाणायैषां प्रयुज्यते। अपकारिषु सत्त्वेषु मैत्रचित्ततया प्रत्युपस्थितो भवति। यथाशक्त्या च यथाबलम् अशठो भूत्वा अमायावी तेषां हितसुखमुपसंहरति। तेषामपकारिणां स्वेनाशयप्रयोगदोषेण वैरचित्ततायाः प्रहाणार्थमुपकारिषु सत्त्वेषु कृतज्ञतया तुल्याधिकेन प्रत्युपकारेण प्रत्युपस्थितो भवति। आशाञ्च धार्मिकी परिपूरयत्यस्य यथाशक्त्या यथाबलम्। अप्रतिबलोऽपि च याचितः सन् तेषु तेषु कृत्यकरणीयेष्वादरं व्यायाममुपदर्शयति न सकृदेव निराकरोति। कथमयं संज्ञाप्येताऽशक्तोऽहं नाकर्त्तुकाम इति। इत्ययमेवंभागीयो बोधिसत्त्वस्य निष्प्रपञ्चनयारूढस्य परमतत्त्वज्ञान-सन्निश्रितस्य सम्यक्प्रयोगो वेदितव्यः।



तत्र कया युक्त्या निरभिलाप्यस्वभावता सर्वधर्माणां प्रत्यवगन्तव्या। येयं स्वलक्षणप्रज्ञप्तिर्धर्माणां यदुत रूपमिति वा वेदनेति वा पूर्ववदन्ततो यावन्निर्वाणमिति वा प्रज्ञप्तिमात्रमेव तद्वेदितव्यम्। न स्वभावो नापि च तद्विनिर्मुक्तस्तदन्यो वाग्गोचरो वागविषयः। एवं सति न स्वभावो धर्माणां तथा विद्यते यथाभिलप्यते। न च पुनः सर्वेंण सर्वं न विद्यते। स पुनरेवमविद्यमानो न च सर्वेण सर्वमविद्यमानः। कथं विद्यते। असद्भू तसमारोपासंग्राहविवर्जितश्च भूतापवादासंग्राहविवर्जितश्च विद्यते। स पुनः पारमार्थिकः स्वभावः सर्वधर्माणां निर्विकल्पस्यैव ज्ञानस्य गोचरो वेदितव्यः। स चेत्पुनर्यथैवाभिलापो येषु धर्मेषु यस्मिन्वस्तुनि प्रवर्तते तदात्मकास्ते धर्मा वा तद्वस्तु स्यात्। एवं सति बहुविधा बहवः स्वभावा एकस्य धर्मस्यैकस्य वस्तुनो भवेयुः। तत् कस्य हेतोः। तथा ह्येकस्मिन्धर्मे एकस्मिन्वस्तुनि बहुविधा बहवो बहुभिरभिलापैः प्रज्ञप्तय उपचाराः क्रियन्ते। न च बहुविधानाञ्च बहूनां प्रज्ञप्तिवादानां नियमः कश्चिदुपलभ्यते। यदन्यतमेन प्रज्ञप्तिवादेनैकेन तस्य धर्मस्य तस्य वस्तुनः तादात्म्यं तन्मयता तत्स्वभावता स्यान्नान्यैरवशिष्टैः प्रज्ञप्तिवादैः। तस्मात्सकलविकलैः सर्वप्रज्ञप्तिवादैः सर्वधर्माणां सर्ववस्तूनां नास्ति तादात्म्यं नास्ति तन्मयता नास्ति तत्स्वभावता। अपि च स चेद्रूपादयो धर्मा यथापूर्वनिर्दिष्टाः प्रज्ञप्तिवादस्वभावा भवेयुः। एवं सति पूर्व तावद्वस्तु पश्चात्तत्र छन्दतः प्रज्ञप्तिवादोपचारः। प्राक्प्रज्ञप्तिवादोपचारादकृते प्रज्ञप्तिवादोपचारे स धर्मस्तद्वस्तु निःस्वभाव एव स्यात्। सति निःस्वभावत्वे निर्वस्तुकः प्रज्ञप्तिवादो न युज्यते। प्रज्ञप्तिवादोपचारे चासति प्रज्ञप्तिवादस्वभावता धर्मस्य वस्तुनो न युज्येत। स चेत्पुनः पूर्वमेव प्रज्ञप्तिवादोपचारादकृते प्रज्ञप्तिवादोपचारे स धर्मस्तद्वस्तु तदात्मकं स्यात्। एवं सति विना तेन रूपमिति प्रज्ञप्तिवादोपचारेण रूपसंज्ञके धर्मे रूपसंज्ञके वस्तुनि रूपबुद्धिः प्रवर्तेत। न च प्रवर्तते। तदनेन कारणोनानया युक्त्या निरभिलाप्यः स्वभावः सर्वधर्माणां प्रत्यवगन्तव्यः। यथारूपमेवं वेदनादयो यथानिर्दिष्टा धर्मा अन्ततो यावन्निर्वाणपर्यन्ता वेदितव्याः।



द्वाविमावस्माद्धर्मविनयात्प्रनष्टौ वेदितव्यौ। यश्च रूपादीनां धर्माणां रूपादिकस्य वस्तुनः प्रज्ञप्तिवादस्वभावं स्वलक्षणमसद्भूतसमारोपतोऽभिनिविशते। यश्चापि प्रज्ञप्तिवादनिमित्ताधिष्ठानं प्रज्ञप्तिवादनिमित्तसन्निश्रयं निरभिलाप्यात्मकतया परमार्थसद्भूतं वस्त्वपदमानो नाशयति सर्वेण सर्वं नास्तीति। असद्भूतसमारोपे तावद्ये दोषास्ते पूर्वमेव निरूपिता उत्ताना विशदिताः प्रकाशिताः। यैर्दोषै रूपादिके वस्तुनयसद्भूतसमारोपात्प्रनष्टो भवत्यस्माद्धर्मविनयादिति वेदितव्यः। यथा पुना रूपादिकेषु धर्मेषुवस्तुमात्रमप्यपवदमानः सर्ववैनाशिकः प्रनष्टो भवत्यस्माद्धर्मविनयात् तथा वक्ष्यामि रूपादीनां धर्मानां वस्तुमात्रमपवदतो नैव तत्त्वं नापि प्रज्ञप्तिस्तदुभयमेतन्न युज्यते। तद्यथा सत्सु रूपादिषु स्कन्धेषु पुद्गलप्रज्ञप्तिर्युज्यते। नासत्सु। निर्वस्तुकापुद्गलप्रज्ञप्तिः। एवं सति रूपादीनां धर्माणां वस्तुमात्रे [स] रूपादिधर्मप्रज्ञप्तिवादोपचारो युज्यते। नासति। निर्वस्तुकः प्रज्ञप्तिवादोपचारः। तत्र प्रज्ञप्तेर्वस्तु नास्तीति निरधिष्ठाना प्रज्ञप्तिरपि नास्ति। अतो य एकत्या दुर्विज्ञेयान् सूत्रान्तान्महायानप्रतिसंयुक्तान् गम्भीरान् शून्यताप्रतिसंयुक्तानाभिप्रायिकार्थनिरूपितान् श्रुत्वा यथाभूतं भाषितस्यार्थमविज्ञायायोनिशो विकल्प्या-योगविहितेन तर्कमात्रकेणैवं दृष्टयो भवन्त्येवंवादिनः। प्रज्ञप्तिमात्रमेव सर्वमेतच्च तत्त्वम्। यश्चैवं पश्यति स सम्यक् पश्यतीति। तेषां प्रज्ञप्त्यधिष्ठानस्य वस्तुमात्रस्याभावात्सैव प्रज्ञप्तिः सर्वेण सर्वं न भवति। कुतः पुनः प्रज्ञप्तिमात्रं तत्त्वं भविष्यतीति। तदनेन पर्यायेण तैस्तत्त्वमपि प्रज्ञप्तिरपि तदुभयमप्यपवादितं भवति। प्रज्ञप्तितत्त्वापवादाच्च प्रधानो नास्तिको वेदितव्यः। स एवं नाष्टिकः सन्नकथ्यो भवत्यसंवास्यो भवति विज्ञानां सब्रह्मचारिणाम्। स आत्मानमपि विपादयति। लोकोऽपि योऽस्य दृष्ट्यनुमत आपाद्यते। इदञ्च सन्धायोक्तं भगवता- वरमिहैकत्यस्य पुद्गलदृष्टिर्न त्वेवैकत्यस्य दुर्गृहीता शून्यतेति। तक्तस्य हेतोः। पुद्गलदृष्टिको जन्तुर्ज्ञेये केवलं मुह्येन्नतु सर्व ज्ञेयमपवदेत। न ततो निदानमपायेषूपपद्येत। नापि धर्मार्थिकं दुःखविमोक्षार्थिकञ्च परं विसंवादयेन्न विप्रलम्भयेत्। धर्मे सत्ये च प्रतिष्ठापयेत्। [न च शैथिलिको भवेच्छिक्षापदेषु। दुर्गृहीतया पुनः शून्यतया ज्ञेये वस्तुनि मुह्येत्। अप्यपवदेत् ज्ञेयं सर्वम्। तन्निदानं चापायेषूपपद्यते। धार्मिकं च दुःखविमोक्षार्थिकं परं विपादयेत्। शैथिलिकश्च स्याच्छिक्षापदेषु। एवंभूतं वस्तु अपवदमानः प्रणष्टो भवत्यस्माद् धर्मविनयात्।



कथं पुनर्दुर्गृहीता भवति शून्यता। यः कश्चि] च्छ्रमणो वा ब्राह्मणो वा तच्च नेच्छति येन शून्यम्। तदपि नेच्छति यत् शून्यम्। इयमेवंरूपा दुर्गृहीता शून्यतेत्युच्यते। तक्तस्य हेतोः। येन हि शून्यं तदसद्भावात्। यच्च शून्यं तत्सद्भावाच्छून्यता युज्येत। सर्वाभावाच्च कुत्र किं केन शून्यं भविष्यति। न च तेन तस्यैव शून्यता युज्यते। तस्मादेवं दुर्गृहीता शून्यता भवति।



कथञ्च पुनः सुगृहीता शून्यता भवति। यतश्च यद् यत्र न भवति तत् तेन शून्यमिति समनुपश्यति। यत्पुनरत्रावशिष्टं भवति तत्सदिहास्तीति यथाभूतं प्रजानाति। इयमुच्यते शून्यतावक्रान्तिर्यथाभूता अविपरीता। तद्यथा रूपादिसंज्ञके यथा निर्दिष्टे वस्तुनि रूपमित्येवमादिप्रज्ञप्तिवादात्मको धर्मो नास्ति। अतस्तद्रूपादिसंज्ञकं वस्तु तेन रूपमित्येवमादिप्रज्ञप्तिवादात्मना शून्यम्। किं पुनस्तत्र रूपादिसंज्ञके वस्तुनयवशिष्टम्। यदुत तदेव रूपमित्येवमादिप्रज्ञप्तिवादाश्रयः। तच्चोभयं यथाभूतं प्रजानाति यदुत वस्तमात्रञ्च विद्यमानं वस्तमात्रे च प्रज्ञप्तिमात्रं च चासद्भूतं समारोपयति। न भूतमपवदते नाधिकं करोति न न्यूनीकरोति नोत्क्षिपति न प्रतिक्षिपति। यथाभूतञ्च तथतां निरभिलाप्यस्वभावतां यथाभूतं प्रजानाति। इयमुच्यते सुगृहीता शून्यता सम्यक् प्रज्ञया सुप्रतिविद्धेति। इयं तावदुपपत्तिसाधनयुक्तिरानुलोमिकी यया निरभिलाप्यस्वभावता सर्वधर्माणां प्रत्यवगन्तव्या।



आप्तागमतोऽपि निरभिलाप्यस्वभावाः सर्वधर्मा वेदितव्याः। यथोक्तं भगवता एवमेवार्थं गाथाभिगीतेन परिदीपयता भवसंक्रान्तिसूत्रे।



येन येन हि नाम्ना वै यो यो धर्मोऽभिलप्यते।

न स संविद्यते तत्र धर्माणां सा हि धर्मता॥इति।



कथञ्च पुनरियं गाथा एतमेवार्थं परिदीपयति। रूपादिसंज्ञकस्य धर्मस्य यद्रूपमित्येवमादि नाम। येन रूपमित्येवमादिना नाम्ना ते रूपादिसंज्ञका धर्मा अभिलप्यन्तेऽनुव्यवह्रियन्ते रूपमिति वा वेदनेति वा विस्तरेण यावन्निर्वाणमिति वा। तत्र न च रूपादिसंज्ञका धर्माः स्वयं रूपाद्यात्मकाः। न च तेषु तदन्यो रूपाद्यात्मको धर्मो विद्यते। या पुनस्तेषां रूपादिसंज्ञकानां धर्माणां निरभिलाप्येनार्थेन विद्यमानता सैषा परमार्थतः स्वभावधर्मता वेदितव्या। उक्तञ्च भगवता अर्थवर्गीयेषु।



याः काञ्चन संवृतयो हि लोके

सर्वा हि ता मुनिर्नो उपैति।

अनुपगो ह्यसौ केन उपाददीत

दृष्टश्रुते कान्तिमसंप्रकुर्वन्।



कथमियं गाथा एतमेवार्थं परिदीपयति। रूपादिसंज्ञके वस्तुनि या रूपमित्येवमाद्याः प्रज्ञप्तयः। ताः संवृतय इत्युच्यन्ते। ताभिः प्रज्ञप्तिभिस्तस्य वस्तुनस्तादात्म्यमित्येवं नोपैति ताः संवृतीः। तत्कस्य हेतोः। समारोपापवादिका दृष्टिरस्य नास्ति। अतोऽसौ तस्या विपर्यासप्रत्युपस्थानाया दृष्टेरभावादनुपग इत्युच्यते। स एवमनपगः सन् केनोपाददीत। तया दृष्ट्या विना तद्वस्तुसमारोपतो वापवादतो वा अनुपाददानः सम्यग्दर्शी भवति ज्ञेये तदस्य दृष्टम्। यस्तस्यैव ज्ञेयस्याभिलापानुश्रवस्तदस्य श्रुतम्। तस्मिन् दृष्टश्रुते तृष्णां नोत्पादयति न विवर्धयति। नान्यत्र तेनावलम्बनेन प्रजहात्युपेक्षकश्च विहरति। एवं कान्तिं करोति। पनश्चोक्तं भगवता संथकात्यायनमारभ्य-इह संथ भिक्षुर्न पृथिवीं निश्रित्य ध्यायति। नापः। न तेजः। न वायुम्। नाकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतनं नेमं लोकं न परं लोकं नोभौ सूर्याचन्द्रमसौ न दृष्टश्रुतमतविज्ञातं प्राप्तं पर्येषितं मनसानुवितर्कितमनुविचारितम्। तत्सर्वं न निश्रित्य ध्यायति। कथं ध्यायी। पृथिवीं न निश्रित्य ध्यायति विस्तरेण यावत् सर्वं न निश्रित्य ध्यायति। इह संथ भिक्षोर्या पृथिव्यां पृथिवीसंज्ञा सा विभूता भवति। अप्सु अप्संज्ञा विस्तरेण यावत् सर्वत्र या संज्ञा सा विभूता भवति। एवंध्यायी भिक्षुर्न पृथिवीं निश्रित्य ध्यायति विस्तरेण यावन्न सर्वं सर्वमिति निश्रित्य ध्यायति। एवं ध्यायिनं भिक्षुं सेन्द्रा देवाः सेशानाः सप्रजापतय आरान्नमष्यन्ति।



नमस्ते पुरुषाजन्य नमस्ते पुरुषोत्तम।

यस्य ते नाभिजानीमः किं त्वं निश्रित्य ध्यायसि॥इति।



कथञ्च पुनरेतत्सूत्रपदमेतमेवार्थं परिदीपयति पृथिव्यादिसंज्ञके वस्तुनि या पृथिवीत्येवमादिका नामसंकेतप्रज्ञप्तिः सा पृथिव्यादिसंज्ञेत्युच्यते। सा पुनः संज्ञा पृथिव्यादिसंज्ञके वस्तुनि समारोपिका चापवादिका च। तन्मयस्वभाववस्तुग्राहिका समारोपिका। वस्तुमात्रपरमार्थनाशग्राहिका चापवादिका संज्ञेत्युच्यते। सा च संज्ञास्य विभूता भवति। विभव उच्यते प्रहाणं त्यागः। तस्मादागमतोऽपि तथागतात् परमाप्तागमाद्वेदितव्यं निरभिलाप्यस्वभावाः सर्वधर्मा इति। एवं निरभिलाप्यस्वभावेषु सर्वधर्मेषु कस्मादभिलापः प्रयुज्यते तथा हि विनाभिलापेन सा निरभिलाप्यधर्मता परेषां वक्त मपि न शक्यते श्रोतुमपि। वचने श्रवणे चासति सा निरभिलाप्यस्वभावता ज्ञातुमपि न शक्यते। तस्मादभिलापः प्रयुज्यते श्रवणज्ञानाय।



तस्या एव तथताया एवमपरिज्ञातत्वाद्वालानां तन्निदानोऽष्टविधो विकल्पः प्रवर्तते त्रिवस्तुजनकः। सर्वसत्त्वभाजनलोकानां निर्वर्तकः। तद्यथा स्वभाव विकल्पो विशेषविकल्पः पिण्डग्राहविकल्पः अहमिति विकल्पः ममेति विकल्पः प्रियविकल्पः अप्रियविकल्पः तदुभयविपरीतश्च विकल्पः। स पुनरयमष्टविधो विकल्पः कतमेषां त्रयाणां वस्तूनां जनको भवति। यश्च स्वभावविकल्पो यश्च विशेषविकल्पो यश्च पिण्डग्राहविकल्प इतीमे त्रयो विकल्पा विकल्पप्रपञ्चाधिष्ठानं विकल्पप्रपञ्चालम्बनं वस्तु जनयन्ति रूपादिसंज्ञकम्। यद्वस्त्वधिष्ठाय स नामसंज्ञाभिलापपरिगृहीतो नामसंज्ञाभिलापपरिभावितो विकल्पः प्रपञ्चयन् तस्मिन्नेव वस्तुनि विचरत्यनेकविधो बहुनानाप्रकारः। तत्र यञ्चाहमिति विकल्पो यश्च ममेति विकल्पः इतीमौ द्वौ विकल्पौ सत्कायदृष्टिश्च तदन्यसर्वदृष्टि[-मूलं मान-] मूलमस्मिमानञ्च तदन्यसर्वमानमूलं जनयतः। तत्र प्रियविकल्पोऽप्रियविकल्पस्तदुभयविपरीतश्च विकल्पो यथायोगं रागद्वेषमोहान् जनयन्ति। एवमयमष्टविधो विकल्पः अस्य त्रिविधस्य वस्तुनः प्रादुर्भावाय संवर्तते यदुत विकल्पाधिष्ठानस्य प्रपञ्चवस्तुनः दृष्ट्यस्मिमानस्य रागद्वेषमोहानाञ्च। तत्र विकल्पप्रपञ्चवस्त्वाश्रया सत्कायदृष्टिरस्मिमानश्च। सत्कायदृष्ट्यस्मिमानाश्रिता रागद्वेषमोहाः। एभिश्च त्रिभिर्वस्तुभिः सर्वलोकानां प्रवृत्तिपक्षो निरवशेषः परिदीपितो भवति।



तत्र स्वभावविकल्पः कतमः। रूपादिसंज्ञके वस्तुनि रूपमित्येवमादिर्यो विकल्पः। अयमुच्यते स्वभावविकल्पः।



विशेषविकल्पः कतमः। तस्मिन्नेव रूपादिसंज्ञके वस्तुनि अयं रूपी अयमरूपी अयं सनिदर्शनोऽयमनिदर्शन एवं सप्रतिघोऽप्रतिघः। सास्रवोऽनास्रवः संस्कृतोऽसंस्कृतः कुशलोऽकुशलो व्याकृतोऽव्याकृतः अतीतोऽनागतः प्रत्युत्पन्न इत्येवंभागीयेनाप्रमाणेन प्रभेदनयेन या स्वभावविकल्पाधिष्ठाना तद्विशिष्टार्थविकल्पना। अयमुच्यते विशेषविकल्पः।



पिण्डग्राहविकल्पः कतमः। यस्तस्मिन्नेव रूपादिसंज्ञके वस्तुनि आत्मसत्त्व जीवजन्तुसंज्ञासंकेतोपसंहितः पिण्डितेषु बहुषु धर्मेषु पिण्डग्राहहेतुकः प्रवर्तते गृहसेनावनादिषु भोजनपानयानवस्त्रादिषु च तत्संज्ञासंकेतोपसंहितः। अयमुच्यते पिण्डग्राहविकल्पः।



अहमिति ममेति च विकल्पः कतमः। यद्वस्तु सास्रवं सोपादानीयं दीर्घकालमात्मतो वा आत्मीयतो वा संस्तुतमभिनिविष्टं परिचितं तस्मादसंग्राह-संस्तवात् स्वं दृष्टिस्थानीयं वस्तु प्रतीत्योत्पद्यते वितथो विकल्पः। अयमुच्यते अहमिति ममेति च विकल्पः।



प्रियविकल्पः कतमः। यः शुभ-मनाप-वस्त्वालम्बनो विकल्पः।

अप्रियविकल्पः कतमः। योऽशुभामनाप-वस्त्वालम्बनो विकल्पः।



प्रियाप्रियोभयविपरीतो विकल्पः कतमः। यः शुभाशुभ-मनापामनापतदुभयविवर्जितवस्त्वालम्बनो विकल्पः। तच्चैतद् द्वयं भवति समासतः विकल्पश्च विकल्पाधिष्ठानं विकल्पालम्बनञ्च वस्तु। तच्चैतदुभयमनादिकालिकं चान्योन्यहेतुकञ्च वेदितव्यम्। पूर्वको विकल्पः प्रत्युत्पन्नस्य विकल्पालम्बनस्य वस्तुनः प्रादुर्भावाय प्रत्युत्पन्नं पुनर्विकल्पालम्बनं वस्तु प्रादुर्भूतं प्रत्युत्पन्नस्य तदालम्बनस्य [विकल्पस्य] प्रादुर्भावाय हेतुः। तत्रैतर्हि विकल्पस्यापरिज्ञानमायत्यां तदालम्बनस्य वस्तुनः प्रादुर्भावाय। तत्संभावाच्च पुनर्नियतं तदधिष्ठानस्यापि तदाश्रितस्य विकल्पस्य प्रादुर्भावो भवति।



कथञ्च पुनरस्य विकल्पस्य परिज्ञानं भवति। चतसृभिः पर्येषणाभिः चतुर्विधेन च यथाभूतपरिज्ञानेन।



चतस्रः पर्येषणाः कतमाः। नामपर्येषणा। वस्तुपर्येषणा। स्वभावप्रज्ञप्तिपर्येषणा च। विशेषप्रज्ञप्तिपर्येषणा च।



तत्र नामपर्येषणा यद्वोधिसत्त्वो नाम्नि नाममात्रं पश्यति। एवं वस्तुनि वस्तुमात्रदर्शनं [वस्तु] पर्येषणा। स्वभावप्रज्ञप्तौ स्वभावप्रज्ञप्तिमात्रदर्शनं स्वभावप्रज्ञप्तिपर्येषणा। विशेषप्रज्ञप्तौ विशेषप्रज्ञप्तिमात्रदर्शनं विशेषप्रज्ञप्तिपर्येषणा। स नामवस्तुनो भिन्नञ्च लक्षणं पश्यत्यनुश्लिष्टञ्च। नामवस्त्वनुश्लेषसन्निश्रितां च स्वभावप्रज्ञप्ति विशेषप्रज्ञप्तिञ्च[प्रति-] विध्यति।



चत्वारि यथाभूतपरिज्ञानानि कतमानि। नामैषणागतं यथाभूतपरिज्ञानं वस्त्वेषणागतं स्वभावप्रज्ञप्त्येषणागतं विशेषप्रज्ञप्त्येषणागतञ्च यथाभूतपरिज्ञानम्।



नामैषणागतं यथाभूतपरिज्ञानं कतमत्। स खलु बोधिसत्त्वो नाम्नि नाममात्रतां पर्येष्य तन्नामैवं यथाभूतं परिजानाति इतीदं नाम इत्यर्थं वस्तुनि व्यवस्थाप्यते यावदेव संज्ञार्थ दृष्ट्यर्थमुपचारार्थम्। यदि रूपादिसंज्ञके वस्तुनि रूपमिति नाम न व्यवस्थाप्येत न कञ्चित्तद्वस्तु रूपमित्मेवं संजानीयात्। असंजानन् समारोपतो नाभिनिवेशेत। अनभिनिवेशं नाभिलपेत्। इति यदेवं यथाभूतं प्रजानाति। इदमुच्यते नामैषणागतं यथाभूतपरिज्ञानम्।



वस्त्वेषणागतं यथाभूतपरिज्ञानं कतमत्। यतश्च बोधिसत्त्वो [वस्तुनि] वस्तुमात्रतां पर्येष्य सर्वाभिलापविश्लिष्टं निरभिलाप्यं तद्रूपादिसंज्ञकं वस्तु पश्यति। इदं द्वितीयं यथाभूतपरिज्ञानं वस्त्वेषणागतम्।



स्वभावप्रज्ञप्त्येषणागतं यथाभूतपरिज्ञानं कतमत् यतश्च बोधिसत्त्वः रूपादिसंज्ञके वस्तुनि स्वभावप्रज्ञप्तौ प्रज्ञप्तिमात्रतां पर्येष्य तथा स्वभावप्रज्ञप्त्या अतत्स्वभावस्य वस्तुनः तत्स्वभावाभासतां यथाभूतं प्रतिविध्यति प्रजानाति। तस्य निर्माणप्रतिबिम्बप्रतिश्रुत्‍का-प्रतिभासोदकचन्द्रस्वप्नमायोपमं तत्‍स्वभावं पश्यतः तदाभासमतन्मयम् इद्ं तृतीयं यथाभूतं परिज्ञानं सुगम्भीरार्थगोचरम्।



विशेषप्रज्ञप्त्येषणागतं यथाभूतपरिज्ञानं कतमत्। यतश्च बोधिसत्त्वो विशेषप्रज्ञप्तौ प्रज्ञप्तिमात्रतां पर्येष्य तस्मिन् रूपादिसंज्ञके वस्तुनि विशेषप्रज्ञप्तिमद्वयार्थेन पश्यति। न तद्वस्तु भावो नाभावः। अभिलाप्येनात्मनाऽपरिनिष्पन्नत्वान्न भावः। न पुनरभावो निरभिलाप्येनात्मना व्यवस्थितत्वात्। एवं न रूपी परमार्थसत्यतया। नारूपी संवृतिसत्येन तत्र रूपोपचारतया। यथा भावश्चाभावश्च रूपी चारूपी च। तथा सनिदर्शनानिदर्शनादयो विशेषप्रज्ञप्तिपर्यायाः सर्वेऽनेन नयेनैवं वेदितव्याः। इति यदेतां विशेषप्रज्ञप्तिमेवमद्वयार्थेन यथाभूतं प्रजानाति। इदमुच्यते विशेषप्रज्ञप्त्येषणागतं यथाभूतपरिज्ञानम्।



तत्र योऽसावष्टविधो मिथ्याविकल्पो बालानां त्रिवस्तुजनको लोकनिर्वर्तकः सोऽस्य चतुर्विधस्य यथाभूतपरिज्ञानस्य वैकल्यादसमवधानात्प्रवर्तते। तस्माच्च पुनर्मिथ्याविकल्पात्संक्लेशः। संक्लेशात्संसारसंसृतिः संसारसंसृतेः संसारानुगतं जातिजराव्याधिमरणादिकं दुःखं प्रवर्तते। यदा च बोधिसत्त्वेन चतुर्विधं यथाभूतपरिज्ञानं निश्रित्य सोऽष्टविधो विकल्पः परिज्ञातो भवति दृष्टे धर्मे तस्य सम्यक् परिज्ञानादायत्यां तदधिष्ठानस्य तदालम्बनस्य प्रपञ्चपतितस्य वस्तुनः प्रादुर्भावो न भवति। तस्यानुदयादप्रादुर्भावात्तदालम्बनस्यापि विकल्पस्यायत्यां प्रादुर्भावो न भवति। एवं तस्य सवस्तुकस्य विकल्पस्य निरोधो यः स सर्वप्रपञ्चनिरोधो वेदितव्यः। एवञ्च प्रपञ्चनिरोधो बोधिसत्त्वस्य महायानपरिनिर्वाणमिति वेदितव्यम्। दृष्टे च धर्मे तस्य श्रेष्ठतत्त्वार्थ गोचरज्ञानस्य विशुद्धत्वात् सर्वत्र वशिताप्राप्ति लभते स बोधिसत्त्वः। यदुत निर्माणेऽपि विचित्रे नैर्माणिक्या ऋद्ध्या। परिणामे च विचित्रे पारिणामिक्या ऋद्ध्या। सर्वज्ञेयस्य च ज्ञाने यावदभिप्रेतं चावस्थाने। कामकारतश्च विनोपक्रमं च्युतौ।



स एवं वशिताप्राप्तः सर्वसत्त्वश्रेष्ठो भवति निरुत्तरः। एवञ्च सर्वत्र वशिनस्तस्य बोधिसत्त्वस्य उत्तमाः पञ्चानुशंसा वेदितव्याः। परमां चित्तशान्तिमनुप्राप्तो भवति विहारप्रशान्ततया न क्लेशप्रशान्ततया। सर्वविद्यास्थानेषु चास्याव्याहतं परिशुद्धं पर्यवदातं ज्ञानदर्शनं प्रवर्तते। अखिन्नश्च भवति सत्त्वानामर्थे संसारसंसृत्या। तथागतानाञ्च सर्वसन्धायवचनान्यनुप्रविशति। न च महायानाधिमुक्तेः संहार्यो भवत्यपरप्रत्ययतया।



अस्य खलु पञ्चविधस्यानुशंसस्य पञ्चविधमेव कर्म वेदितव्यम्। परमो दृष्टधर्मसुखविहारो बोधिसत्त्वस्य बोधाय प्रयोगनिर्यातस्य कायिकचैतसिकस्य व्यायामक्लमस्य नाशाय चित्तशान्तेरनुशंसस्यैतत्कर्म वेदितव्यम्। सर्वबुद्धधर्माणां परिपाको बोधिसत्त्वस्य सर्वविद्यास्थानेष्वव्याहतज्ञानताया अनुशंसस्यै तत्कर्म वेदितव्यम्। सत्त्वपरिपाको बोधिसत्त्वस्य संसाराखेदिताया अनुशंसस्यैतत्कर्म वेदितव्यम्। विनेयानामुत् पन्नोत्पन्नानां संशयानां प्रतिविनोदनं धर्मनेत्र्याश्च दीर्घकालं परिकर्षणं सन्धारणं सद्धर्मप्रतिरूपकाणां शासनान्तर्धायकानां परिज्ञानप्रकाशनापकर्षणतया सर्वसन्धायवचनप्रवेशानुशंसस्यैतत्कर्म वेदितव्यम्। सर्वपरप्रवादिनिग्रहो दृढवीर्यता च प्राणिधानाच्चाच्युतिः असंहार्यताऽपरप्रत्ययत्वानुशंसस्यैतत्कर्म वेदितव्यम्।



एवं हि बोधिसत्त्वस्य यावत् किञ्चिद्बोधिसत्त्वकरणीयं तत्सर्वमेभिः पञ्चभिरनुशंसकर्मभिः परिगृहीतं भवति। तत्पुनः करणीयं कतमत्। असंक्लिष्टञ्च आत्मसुखं बुद्धधर्मपरिपाकः सत्त्वपरिपाकः सद्धर्मस्य धारणम् अचलप्रणिधानस्योत्तप्तवीर्यस्य परवादविनिग्रहश्च।



तत्र चतुर्णा तत्त्वार्थानां प्रथमौ द्वौ हीनौ। तृतीयो मध्यमः। चतुर्थ उत्तमो वेदितव्यः।



बोधिसत्त्वभूमावाधारे योगस्थाने चतुर्थं तत्त्वार्थपटलम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project