Digital Sanskrit Buddhist Canon

1-3 स्वपरार्थपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1-3 svaparārthapaṭalam

स्वपरार्थपटलम्



एवमुत्पादितचित्तानां बोधिसत्त्वानां बोधिसत्त्वचर्या कतमा। समासतो बोधिसत्त्वा यत्र शिक्षन्ते यथा च शिक्षन्ते यच्च शिक्षन्ते तत् सर्वमैकध्यमभिसंक्षिप्य बोधिसत्त्वचर्येत्युच्यते।



कुत्र पुनर्बोधिसत्त्वाः शिक्षन्ते। सप्तसु स्थानेषु शिक्षन्ते। सप्त स्थानानि कतमानि। स्वार्थः परार्थः तत्त्वार्थः प्रभावः सत्त्वपरिपाकः आत्मनो बुद्धधर्मपरिपाकः अनुत्तरा च सम्यक्संबोधिः सप्तमं स्थानम्।



उद्धानम्।

स्व-परार्थश्च तत्त्वार्थः प्रभावः परिपाचने।

सत्त्व स्वबुद्धधर्माणां परा बोधिश्च सप्तमी॥



स्वपरार्थः कतमः समासतो दशविधः स्वपरार्थो वेदितव्यः। केवलं परसम्बद्धः हितान्वयः सुखान्वयः हेतुसंगृहीतः फलसंगृहीतः एहिकः आमुत्रिकः आत्यन्तिकः अनात्यन्तिकश्च।



तत्र केवलः स्वार्थः परार्थश्च बोधिसत्त्वेन परिज्ञाय प्रहातव्यः बोधिसत्त्वविधेः समतिक्रान्तत्वादननुरूपत्वाच्च। परिशिष्टे च शिक्षितव्यः। तत्रायं केवलः स्वार्थो बोधिसत्त्वस्य योऽनेन परिज्ञाय प्रहातव्यो भवति। आत्मनः सुखकामस्य भोगानां पर्येषणा उपभोगश्च। धर्ममत्सरिणो वा पुनः सतो धर्माणां बुद्धबोधिसत्त्वभाषितानां पर्येंषणा धारणा च। स्वर्गकामस्य स्वर्गार्थ शीलं वीर्यारम्भं ध्यानं प्रज्ञां समादाय वर्तना। लोकामिषफलाभिलाषिणो वा पुनः लोकामिषनिमित्तं तथागतचैत्यपूजा। लाभकामस्य वा लाभनिमित्तं लाभनिर्वर्तकं ममार्थं परेषामुत्प्लावकं विचित्राभूतगुणाख्यानम्। आत्मनः परिचर्यास्वीकरणकामस्य परिचर्यास्वीकरणार्थमधर्मेण गणसंग्रहो न धर्मेण। परतो दासभूतान् सत्त्वान् दासभावाद्धि प्रमोक्षयति यावदेवात्मनो दासभावाय। बन्धनबद्धान् सत्त्वान् बन्धनाद्विमोक्ष्य स्वयमेव बध्नाति यावदेवात्मनः कृत्यनिष्पत्तये। दण्डादिभयभीतांश्च सत्त्वान् परतो दण्डादिभयाद्विप्रमोक्षयति यावदेव स्वयमेव भयग्रहणार्थम्। दृष्टधर्मसुखविहारश्च बोधिसत्त्वस्य सत्त्वार्थनिध्यानविरहितः केवलः स्वार्थो वेदितव्यः। इत्येवंभागीयो बोधिसत्त्वस्य केवलः स्वार्थो वेदिव्तयो यो बोधिसत्त्वेन परिज्ञाय प्रहातव्यः।



दानं पुनः बोधिसत्त्वस्य क्षान्तिश्च कारुण्यपूर्वकं वा बोधिपरिणतं वा स्वर्गनिमित्तं वा नित्यकालं परसम्बद्ध एव स्वार्थो वेदितव्यः।



इत्येतान् यथानिर्दिष्टानाकारान् स्थापयित्वा तदन्य एतद्विपर्ययात्स्वार्थो बोधिसत्त्वानां सर्व एव परार्थसम्बद्धो वेदितव्यः।



तत्रायं बोधिसत्त्वस्य केवलः परार्थो बोधिसत्त्वेन परिज्ञाय प्रहातव्यः। विपन्न दृष्टेर्दानम् अनागमदृष्टेरफलदर्शिनः भ्रष्टशीलस्य प्रतिपत्तिविरहितस्य परेषां धर्मदेशना। अधोभूमिसमतिक्रान्तस्याधोभूमिकशुक्लधर्मोपसंहारो ध्यानव्यावर्तनकुशलस्य च बोधिसत्त्वस्य। तथाहि स ध्यानैर्विहृत्य ध्यानं व्यावर्त्त्य प्रणिधाय यत्र कामं तत्र कामधातावुपपद्यते। वशिताप्राप्तस्य च बोधिसत्त्वस्य दशसु निक्षु विचित्रैर्निर्माणैः विचित्राणां सत्त्वानामर्थक्रिया। च स्वकृतार्थस्य मुनेस्तथागतस्य बलवैशारद्यादि-सर्वावेणिकबुद्धधर्मसंनिश्रयेणाप्रमाणेषु सत्त्वेष्वप्रमाणार्थक्रिया। सोऽपि परार्थः केवलो वेदितव्यः। तत्र पूर्वको द्विविधः परार्थः केवलो यथा निर्दिष्टो बोधिसत्त्वेन परिज्ञाय प्रहातव्यः। तदन्यत्र च केवले परार्थे भूयस्या मात्रया शिक्षितव्यम्। इत्येतानाकारान् स्थापयित्वा एतद्विपर्ययाच्च बोधिसत्त्वानां सर्वः परार्थः स्वार्थः सम्बद्धः। तत्रापि बोधिसत्त्वेन शिक्षितव्यम्।



हितान्वयः स्वपरार्थो बोधिसत्त्वस्य कतमः। समासतः पञ्चाकारो वेदितव्यः। अनवद्यलक्षणः अनुग्राहकलक्षणः ऐहिकः आमुत्रिकः औपशमिकश्च। तत्र यत्किंचिद् बोधिसत्त्वः आत्मना वा परीत्तं प्रभूतं वा कुशलपरिग्रहं कुशलोपचयं करोति परं वा परीत्ते प्रभूते वा कुशलपरिग्रहे कुशलोपचये समादापयति विनयति निवेशयति प्रतिष्ठापयति। अयमनवद्यलक्षणो बोधिसत्त्वस्य हितान्वयः स्वपरार्थो वेदितव्यः। यत्किंचिद्वोधिसत्त्वः आत्मनो वा परस्य वा क्लिष्ट वर्जितं सुखमुपसंहरति उपकरणसुखं वा ध्यानसुखं वा अयं बोधिसत्त्वस्यानुग्राहकलक्षणो हितान्वयः स्वपरार्थो वेदितव्यः। अस्ति बोधिसत्त्वस्य स्वपरार्थ इह-हितो नामुत्र। अस्त्यमुत्र नेह। अस्त्यमुत्र चैह च। अस्ति नैवामुत्र नेह-हितः। स पुनरेष चतुर्विधः स्वपरार्थः चतुर्षु धर्मसमादनेष्वनुपूर्व यथायोगं दृष्टव्यः। चत्वारि धर्मसमादानानि कतमानि। अस्ति धर्मसमादानं प्रत्युत्पन्न-सुखामायत्यां दुःखविपाकम्। अस्ति प्रत्युत्पन्नदुःखमायत्यां सुखविपाकम्। अस्ति प्रत्युत्पन्नसुखमायत्यां सुखविपाकम्। अस्ति प्रत्युत्पन्नदुःखमायत्यां दुःखविपाकम्। विभङ्गा एषां यथासूत्रमेव वेदितव्याः। तत्र निर्वाणं निर्वाणंसंप्रापकश्च निर्वाणपक्ष्या लौकिकलोकोत्तरा धर्मा इत्येष समासतो बोधिसत्त्वस्य हितान्वय औपशमिकः स्वपरार्थः सर्वप्रतिविशिष्टो निरुत्तरो वेदितव्यः।



सुखान्वयो बोधिसत्त्वस्य स्वपरार्थः कतमः। समासतः पञ्चविधेन सुखेन संगृहीतो वेदितव्यः। तत्रेदं पञ्चविधं सुखम्। हेतुसुखं वेदितसुखं दुःखप्रातिपक्षिकं सुखं वेदितोपच्छेदसुखमव्यबाध्यञ्च पञ्चम् सुखम्। तत्र सुखपक्ष्यद्वय मिन्द्रियं विषयश्च। तद्धेतुकश्च यः स्पर्शः सुखवेदनीयः यच्च किञ्चिदिष्टफलं कर्म दृष्टे धर्मे अभिसंपराये वा तत्सर्वमैकध्यमभिसंक्षिप्य हेतुसुखमित्युच्यते। नास्त्यत उत्तरि नास्त्यतो भूयः। दुःखप्रशमनापेक्षः एभिरेव हेतुसुखसंगृहीतैस्त्रिभिः कारणैः संभूतः कायचित्तानुग्रहकरोऽनुभवो वेदितसुखमित्युच्यते। तत्पुनः समासतो द्विविधं सास्रवमनास्रवञ्च। तत्र यदनास्रवं तच्छैक्षमशैक्षञ्च। सास्रवं पुनः त्रैधातुकं कामरूपारूप्यप्रतिसंयुक्तम्। तत्पुनः सर्व त्रैधातुकं यथायोगं षड्‍विधमायतनभेदेन चक्षुःसंस्पर्शजं यावन्मनःसंस्पर्शजम्। तत्पुनः षड्‍विधं द्विविधम्। कायिकं चैतसिकञ्च। तत्र पञ्चविज्ञानकायसंप्रयुक्तं कायिकं मनोविज्ञानसंप्रयुक्तं चैतसिकम्। शीतोष्णक्षुत्पिपासादिकानामनेकविधानां दुःखानां बहुनानाप्रकाराणामुत्पन्नोत्पन्नानां शीतोष्णक्षुत्पिपासादिदुःखप्रतिकारेण प्रशमात् तस्मिन्नेव दुःखोपशममात्रके या सुखबुद्धिरुत्पद्यते इदमुच्यते दुःखप्रातिपक्षिकं सुखम्। संज्ञावेदितनिरोधसमापत्तिर्वेदितोपच्छेदसुखमित्युच्यते। अव्याबाध्यसुखं पुनः समासतश्चतुराकारं वेदितव्यम्। नैष्क्रम्यसुखंप्रविवेकसुखमुपशमसुखं संबोधिसुखञ्च। सम्यगेव श्रद्धया अगारादनागारिकां प्रव्रजितस्य आगारिकविचित्रव्यासङ्गदुःखनिर्मोक्षान्नैष्क्रम्यसुखमित्युच्यते। कामपापकाकुशलधर्मप्रहाणविवेकात्प्रथमे ध्याने विवेकजं प्रीतिसुखं प्रविवेकसुखमित्युच्यते। द्वितीयादिषु ध्यानेषु वितर्कविचारोपशमादु पशमसुखमित्युच्यते।सर्वक्लेशात्यन्तविसंयोगाज्ज्ञेयवस्तुयथाभूताभिसंबोधाच्च यत्सुखमिदमुच्यते संबोधिसुखम्।



तत्र हेतुसुखं सुखहेतुत्वात् सुखं न स्वभावतः। वेदितसुखं न हेतुभावादपि तु स्वभावत एव। दुःख-प्रातिपक्षिकं सुखं न च हेतुभावान्नापि स्वभावतः अपि तु दुःखोपशम-मात्रद् दुःखापकर्षणात् सुखम्। वेदितोपच्छेदसुखं न हेतुभावान्न स्वाभाव्यान्न दुःखापकर्षणादपि तु यत्किंचिद्वेदितम्। इदमत्र दुःखस्येति कृत्वा पारमार्थिकस्य दुःखस्य तावत्कालिक्वविहार-व्युपशमात् सुखम्। अव्याबाध्य-सुख-संगृहीतं पश्चिमं संबोधिसुखमायत्यां च तस्यैव पारमार्थिकस्य दुःखस्यात्यन्त-व्युपशमाद् दृष्टे च धर्मे सर्व-क्लेश-पक्ष्यस्य दौष्ठुल्यग्याश्रयगतस्यात्यन्तोपरमात् सुखम्। तदवशिष्टमव्याबाध्य-सुखं तस्यैव पश्चिमस्यानुकूलत्वात् तत्पक्ष्यत्वात् तदावाहकत्वात् अव्याबाध्यसुखं वेदितव्यम्।



तत्र बोधिसत्त्वो यदेव हितपक्ष्यं सुखं तदेव सत्त्वानामुपसंहरेत् नतु अहितपक्ष्यम्। अहितपक्ष्यं पुनः सुखं यथाभूतं सम्यक्प्रज्ञया परिज्ञाय तस्मात् सत्त्वान् विच्छन्दयेच्छक्तितश्च तस्यापकर्षापहाराय व्यायच्छेत। दुःखानुगतमपि यद्धितं स्यात् तद्वोधिसत्त्वेन सहैव दुःखेन सहैव दौर्मनस्येनाकामकानां सत्त्वानामुपसंहर्तव्यमुपायकौशल्य-संनिश्रयेण। सुखानुगतञ्चापि यदहितं स्यात्तदपि सहैव सुखेन सह सौमनस्येन कामकानां सत्त्वानामपहर्तव्यमपकर्षितव्य मुपायकौशल्य-संनिश्रयेण। तत्कस्य हेतौः। सुखायैव स आयत्यां सत्त्वानां नियतो वेदितव्यः। योऽसौ दुःखेन सह हितोपसंहारः सुखेन च सहाहितापकर्षः। अत‍एव बोधिसत्त्वः सत्त्वेषु यो हितकामः अर्थतः सुखकामोऽपि स ज्ञेयः। यो हितप्रदः सुखप्रदोऽपि स ज्ञेयः। तथा हि हितं हेतुस्थानीयं सुखं फलस्थानीयम्। तस्मात्सुखानुगत एव स सत्त्वेषु वेदितव्यः। यः कश्चिद्धितानुगतः तत्र यच्चेष्टफलं कर्म दृष्टे धर्मे अभिसंपराये च हेतुसुखसंगृहीतं यच्च दुःखप्रातिपक्षिकं यच्च वेदितो पच्छेदसुखं यच्चाव्याबाध्यसुखम् एतदेकान्तेन निर्विमर्षो बोधिसत्त्वः सत्त्वेषूपसंहरेत्। एतद्ध्यनुग्राहकं चानवद्यञ्च। वेदित सुखमिन्द्रियविषयस्पर्शसंगृहीतञ्च हेतुसुखं यत्संक्लेशाय वा क्लिष्टं वा सावद्यमहितमपथ्यं तन्नोपसंहरेत्। यत्पुनरसंक्लेशायासंक्लिष्टं वाऽनवद्यं हितं पथ्यं च तद्वोधिसत्त्वः सत्त्वेषूपसंहरेद् यथाशक्ति यथाबलम्। अपि चात्मना तथैव समाचरेच्छिक्षेत प्रत्यनुभवेदित्ययं बोधिसत्त्वानां हितसुखान्वयः स्वपरार्थो वेदितव्यः। नात उत्तरि नातो भूयः।



तत्र कतमो बोधिसत्त्वस्य हेतुफलसंगृहीतः स्वपरार्थः। समासतस्त्रिविधो हेतुस्त्रिविधमेव च फलं वेदितव्यम्। विपाकहेतुः विपाकफलं पुण्यहेतुः पुण्यफलं ज्ञानहेतुः ज्ञानफलम्।



विपाकः कतमः। समासतोऽष्टविधो विपाकः। आयुःसंपत् वर्णसंपत् कुलसंपत् ऐश्वर्यसंपत् आदेयवाक्यता महेशाख्यता मनुष्यत्वं बलमेव चाष्टमम्। दीर्घायुष्कं चिरस्थितिकता बोधिसत्त्वस्यायुःसंपत्। अभिरूपता दर्शनीयता प्रासादिकत्वं वर्णसंपत्। उच्चेषु कुलेषु प्रत्याजातिः कुलसंपत्। महाभोगता महापक्षता महापरिवारिता च ऐश्वर्यसंपत्। यत्पुनः श्रद्धेयो भवति प्रत्ययितः सत्त्वानामुत्पन्नोत्पन्नेष्वधिकरणेषु प्रामाणिकत्वेन रथेयः कांसकूटतूलाकूटादिभिनिर्मायाशाठ्येन। निक्षिप्यस्य च द्रविणस्यानभिद्रोहो भवत्यविसंवादकः। तन्निदानञ्च सत्त्वानां गृहीतवाक्यो भवति। इयमुच्यते आदेयवचनता। महद्यशः ख्यातिश्चास्य लोके प्रथिता भवति यदुत शौर्यं वा वीर्य वा धैर्यं वा वैचक्षण्यं वा नैपुण्यं वा सौशील्यं वा विचित्रशिल्पकर्मस्थानातिरेकतरतम-कौशल्यं वा आरभ्य। तन्निदानञ्च गुरुर्भवति महाजनकायस्य सत्करणीयो गुरुकरणीयो माननीयः पूजनीयः। इयमुच्यते महेशाख्यता। पुरुषभावः पुरुषेन्द्रियेण समन्वागतो मनुष्यत्वम्। अल्पाबाधता अरोगजातीयता महोत्साहता च प्रकृत्या बलसंपत्।



विपाकहेतुः कतमः अहिंसा सत्त्वेष्वहिंसाशयश्चायुःसंपदो हेतुः। आलोकशुचिवस्त्रदानं वर्णसंपदो हेतुः। निहतमानता सत्त्वेषु कुशलसंपदो हेतुः। दानमर्थिषु चोपकरणविकलेषु चैश्वर्यसंपदो हेतुः। सत्यवचनोऽपिशुनाऽपरुषाऽसंभिन्नप्रलापाभ्यासः आदेयवचनताया हेतुः। आयत्यामात्मनि विचित्रगुणाधानप्रणिधानवतो रत्नत्रयपूजा गुरुपूजा महेशाख्यताया हेतुः। मनुष्यभावे चाभिरतिः स्त्रीभावे विद्वेषश्च। तत्रादीनवदर्शिनः। परेषाञ्च मनुष्यत्वोपसंहारौ द्वाभ्यां कारणाभ्याम्। विच्छन्दनतया च स्त्रीणां स्त्रीभावाभिरतानां [च] स्त्रीभावात्। विनिर्मोक्षणतया च धर्मेण पुरुषेन्द्रियविप्रलोपायोपात्तानामुपनीतानां मनुष्याणां मनुष्यत्वस्य हेतुः। कायेन सत्त्वानां वैयावृत्य क्रिया सहायक्रिया उत्पन्नोत्पन्नेषु कृत्येषु यथाशक्ति यथाबलं धर्मेणासाहसेन भक्त-तर्पण-यवागुपानानां च वृष्याणामुत्साहकराणामन्नपानानां सत्त्वेषूपसंहारो बलसम्पदो हेतुः। इत्यष्टविधस्य विपाकस्यायमष्टविधो हेतुर्वेदितव्यः।



स पुनरयं हेतुः समासतस्त्रिभिः कारणैः पुष्टो भवति परिपूर्णस्य पुष्टस्योदारस्य विपाकस्याभिनिर्वृत्तये। त्रीणि कारणानि कतमानि। चित्तशुद्धिः प्रयोग शुद्धिः क्षेत्रशुद्धिश्च। तत्र या च शुद्धाशयता अनुत्तरायां सम्यक्संबोधौ तेषां कुशलमूलानां परिणमनाद् या च तीव्राशयता घनरसेनोदारेण प्रसादेनाध्याचरणाद् या च सहधार्मिकस्य दर्शनेनाभिप्रमोदना या च प्रतिदिवसं प्रतिक्षणं तदनुधर्ममेव बहुलमनुवितर्कणानुविचारणा। इयमुच्यते चित्तशुद्धिः। तत्र यो दीर्घकालाभ्यासो निरन्तरकारिता[च] निपुणकारिता च परेषाञ्चासमात्ते तस्मिन् कुशले समादापनाय वर्णवादिता समात्ते वा पुनः संहर्षणाय वर्णवादिता तेषामेव च तस्मिन् कुशलमूले सन्निवेशना प्रतिष्ठापना। इयमुच्यते प्रयोगशुद्धिः। तत्र समासतः प्रयोगस्य सम्यक्सम्पादनात्तस्यैव च सम्यक्प्रयोगस्य फलेऽवस्थापना त्क्षेत्रशुद्धिर्वेदितव्या।



तत्र विपाकफलं कतमत्। आयुःसंपन्नो बोधिसत्त्वो दीर्घकालं कुशलपक्षे प्रयुज्यते प्रभूतञ्च कुशलमूलोपचयं करोति स्वार्थ परार्थञ्चारभ्य। इदमायुःसंपदः फलम्। वर्णसंपन्नो बोधिसत्त्वः प्रियो भवति महाजनकायस्य। प्रियत्वाच्चाभिगमनीयो भवति। तया च मनोज्ञरूपतया सम्मुखीभावोपगमनाच्चास्य महाजनकायो वचनं श्रोतव्यं कर्तव्यं मन्यते। इदं वर्णसंपदः फलं बोधिसत्त्वस्य वेदितव्यम्। कुलसंपन्नो बोधिसत्त्वः सम्मतो भवति महाजनकायस्य पूज्यश्च प्रशस्यश्च। सम्मतत्वाच्च पूज्यत्वात्प्रशस्यत्वाद् यत्र यत्र वस्तुनि सत्त्वान् समादापयति ते तेजोग्रस्तास्तत्र तत्राशु प्रतिपद्यन्ते न विवदन्ते न विचेष्टन्तेऽक्रियायै। इदं कुलसंपदः फलं बोधिसत्त्वस्य वेदितव्यम्। ऐश्वर्यसंपन्नो बोधिसत्त्वो दानेन सत्त्वान् संगृह्णाति परिपाचयति। इदमैश्वर्यसंपदो बोधिसत्त्वस्य फलं वेदितव्यम्। आदेयवचनो बोधिसत्त्वः प्रियवादितया अर्थचर्यया समानार्थतया च सत्त्वान् गृह्णाति परिपाचयति। इदमादेयवचनताया बोधिसत्त्वस्य फलं वेदितव्यम्। महेशाख्यो बोधिसत्त्वः सत्त्वानां विचित्रैः कृत्यकरणीयैः सहायीभावं गच्छन्नुपकारी भवति। येनोपकारे णावबद्धचित्ताः सत्त्वा अस्य गौरवात् कृतज्ञतया च लघुलध्वेवाज्ञामनुवर्तन्ते सत्कृत्यादरेण। इदं महेशाख्यताया बोधिसत्त्वस्य फलं वेदितव्यम्। मनुष्यभूतो बोधिसत्त्वः पुरूषेन्द्रियेण समन्वागतो भाजनभूतो भवति सर्वगुणानां सर्वव्यवसायानां सर्वज्ञेयप्रविचयानाम्। विशारदश्च भवत्यनावृतगतिः सर्वसत्त्वसर्वकालोपसंक्रमणसंभाषणसंवाससंभोगरहो विहाराणम् इदं पुरुषत्व फलं बोधिसत्त्वस्य वेदितव्यम्। बलसंपन्नो बोधिसत्त्वः अखिन्नो भवति कुशलधर्मार्जनप्रयोगेण सत्त्वानुग्रहप्रयोगेण च। आरब्धवीर्यश्च भवति दृढवीर्यः क्षिप्राभिज्ञश्च भवति। इदं बलसंपदो बोधिसत्त्वस्य फलं वेदितव्यम्। इतीदं बोधिसत्त्वानामष्टविधस्य विपाकस्याष्टविधं फलं यद्भवति सत्त्वानां चोपकाराय बुद्धधर्माणाश्चोदयायानुकूलमनुगुणम्। अस्मिन् खलु बोधिसत्त्वो विपाकफले व्यवस्थितः स्वयञ्च शक्तो भवति प्रतिबलः सत्त्वानां विचित्रप्रभूतार्थकरणे। तेऽपि चास्य विनेया नियोज्या भवन्ति यथाकामकरणीयाय यदुत स्वार्थक्रियामारभ्य। स्वयञ्चेदयं बोधिसत्त्वः प्रतिबलः स्याद्विनेयाश्चास्य न नियोज्या भवेयुः। एवमस्य न प्रचुरा स्यान्न प्रदक्षिणा परार्थक्रिया येनायं न शक्नुयात् परार्थं कर्तुम्। स्वयञ्चेदयं बोधिसत्त्वः अशक्तः स्यादप्रतिबलो विनेयाश्चास्य नियोज्याः स्युः स्वार्थक्रियामारभ्यैवमपि बोधिसत्त्वस्य परार्थक्रिया न प्रचुरा न प्रदक्षिणा स्याद् येनायं न शक्नुयात् परार्थ कर्तुम्। तस्मादुभयसान्निध्ये उभयसंपदिं सत्यां बोधिसत्त्वस्य सत्त्वार्थक्रिया प्रचुरा भवति प्रदक्षिणा येन शक्नोति परार्थं कर्तुम्। तथाभूतश्चासौ बोधिसत्त्वः आत्मनश्च बुद्धधर्मान् सत्त्वांश्च त्रिषु यानेषु क्षिप्रमेव परिपाचयति। आत्मना चानुत्तरां सम्यक्संबोधिमधिसंबुध्यते। परिपक्वांश्च सत्त्वान् विमोचयति। तदनेन पर्यायेण बोधिसत्त्वानां यस्मादष्टविधं विपाकफलं हितसुखाय सत्त्वानां संवर्तते। तस्माद् यः सर्वसत्त्वानां बन्ध्यो निरर्थः संसारः स तेषामवन्ध्यश्च महार्थश्च भवति॥



तत्र कतमत् पुण्यम्। कतमज्ज्ञानम्। पुण्यमुच्यते समासतस्तिस्रः पारमिताः। दानपारमिता शीलपारमिता क्षान्तिपारमिता च। ज्ञानं पुनरेका पारमिता यदुत प्रज्ञापारमिता। वीर्यपारमिता ध्यानपारमिता च पुण्यपक्ष्या ज्ञानपक्ष्या च वेदितव्या। यद्वीर्य निश्रित्य दानं ददाति शीलं वा समादत्ते रक्षति मैत्र्यादीनि चाप्रमाणानि भावयति। इदमेवंभागीयं पुण्यपक्ष्यं वीर्यम्। यत्पुनर्वीर्यं निश्रित्य श्रुतचिन्ताभावनामय्यां प्रज्ञायां योगं करोति स्कन्धकौशल्यं वा करोति धातुकौशल्यमायतनकौशल्यं प्रतीत्यसमुत्पादकुशल्यं स्थानास्थानकौशल्यं दुःखं वा दुःखतः समुदयं वा समुदयतो निरोधं वा निरोधतो मार्गं वा मार्गतः प्रत्यवेक्षते। कुशलाकुशलान्धर्मान् सावद्याननवद्यान् हीनप्रणीतान् कृष्णशुक्लसप्रविभागप्रतीत्यसमुत्पन्नान् धर्मान् यथाभूतं प्रविचिनोति प्रत्यवेक्षते। इदमुच्यते ज्ञानपक्ष्यं वीर्यम्। यद्ध्यानं निश्रित्यं दानं वा ददाति शीलं वा समादत्ते रक्षति मैत्र्यादीनि चाप्रमाणानि भावयति। इदमेवंभागीयं पुण्यपक्ष्यं ध्यानम्। यत्पुनर्ध्यानं निश्रित्य श्रुतचिन्ताभावनाय्यां प्रज्ञायां योगं करोति स्कन्धकौशल्यं वा पूर्ववत् सर्वं वक्तव्यं तद्यथा वीर्ये। इदमुच्यते ज्ञानपक्ष्यं ध्यानम्। तच्चैतत् पुण्यज्ञानं समासतः षड्‍विधं भवति। अप्रमाणं त्वेतदेकैकप्रभेदतो वेदितव्यम्।



पुण्यज्ञानहेतुः कतमः। समासतस्त्रयः पुण्यज्ञानहेतवो वेदितव्याः। पुण्यज्ञानप्रतिलम्भस्थानोपचयाय यच्छन्दः अनुकूलोऽविधुरः प्रत्ययः पूर्वकश्च पुण्यज्ञानाभ्यासः। तत्रायमविधुरः प्रत्ययः या विपरीतस्य च प्रत्ययस्याप्रत्युपस्थानमसन्निहितता। अविपरीतस्य च प्रत्ययस्य प्रत्युपस्थानं सन्निहितता। तत्र या पापमित्रमागम्य विपरीता पुण्यज्ञानदेशना विपरीतेन वा मनस्कारेण विपरीतग्राहिता। इदमुच्यते विपरीतप्रत्यसान्निध्यम्। एतद्विपर्ययेण शुक्लपक्षेण अविपरीतप्रत्ययसान्निध्यं वेदितव्यम्। ये च पुण्यज्ञानप्रतिलम्भस्थित्युपचयाय प्रयुक्तस्यान्तरायाः। तेषाञ्च विवर्जनमनुत्पादः प्रत्ययोऽविधुर इत्युच्यते बोधिसत्त्वस्य पुण्यज्ञानयोः। एषां त्रयाणां हेतूनामन्यतमवैकल्यान्नापि पुण्यस्य नापि ज्ञानस्य प्रसूतिर्वेदितव्या।



पुण्यज्ञानफलं कतमत्। पुण्यमाश्रित्य बोधिसत्त्वोऽक्षतः संसारे संसरति नात्यर्थं दुःखैर्बाध्यमानः। यथेप्सितञ्च सत्त्वार्थं सत्त्वानुग्रहं शक्नोति कर्तुम्। ज्ञानमाश्रित्य बोधिसत्त्वः सम्यक् पुण्यपरिग्रहं करोति न मिथ्या विचित्राप्रमेयकौशल्यक्रियया च यावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। इतीदं समासेन पुण्यज्ञानफलं यथायोगं चतुर्विधं वेदितव्यम्। अप्रमाणन्त्वे तत्प्रकारप्रभेदतः।



तत्र यश्च विपाको यश्च विपाकहेतुर्यच्च विपाकफलं सर्वमेतत्पुण्याश्रितं पुण्यप्रभवम्। पुण्यं पुनर्ज्ञानाश्रितं ज्ञानप्रभवम् तस्मादुभयमेतत्प्रधानमनुत्तरायै सम्यक्संबोधये। पुण्यं प्रधानं ज्ञानं पुनर्निरूत्तरम् पुण्यज्ञानं तदन्यतरवैकल्यादयं बोधिसत्त्वोऽनुत्तरां सम्यक्संबोधिं नाधिगच्छेत्। इत्ययं बोधिसत्त्वस्य हेतुफलसंगृहीतः स्वपरार्थो वेदितव्यः।



तत्र कतमो बोधिसत्त्वस्य दृष्टधार्मिकः स्वपरार्थः। कतमः सांपरायिकः। युक्तेन शिल्पस्थानकर्मस्थानेन पुरुषकारेण या भोगानामर्जना। तेषामेव चोपार्जितानां भोगानां मात्रयोपभोगः। पूर्वकस्य चेष्टफलस्य कर्मणो विपक्वविपाकस्य यो दृष्टे धर्मे फलोपभोगः। ध्यानव्यावर्तनकुशलस्य च बोधिसत्त्वस्य दृष्टधर्मसुखविहारार्थं दृष्ट एव च धर्मे तत्सन्निश्रयो न परार्थप्रसाधनार्थं ध्यानसन्निश्रयः। यच्च दृष्टधर्मनिर्वाणं तथागतभूतस्य ये च लौकिकलोकोत्तरा दृष्टधर्मनिर्वाणसंप्रापकाः संस्कृता धर्माः। अयमुच्यते बोधिसत्त्वस्य दृष्टधार्मिका एव स्वार्थः। यथा बोधिसत्त्वस्यैवं परेषामपि परार्थो वेदितव्यः। ये सत्त्वा बोधिसत्त्वविनीताः। तत्र या च कामधातौ भोगसंपत्परत्र या चात्मभावसंपत् परत्र। या च परत्र ध्यानारूप्योपपत्तिः तस्याश्च परत्र भोगात्मभावसंपदो ध्यानारूप्योपपत्तेश्च या दृष्टे धर्मे सहैव दुःखेन सहैव दौर्मनस्येन प्रतिसंख्याय प्रतिसंख्याय हेत्वासेवना। अयं सांपरायिक एव बोधिसत्त्वस्य स्वपरार्थो वेदितव्यः। या पुनर्दृष्टे धर्मे सहैव सुखेन सहैव सौमनस्येन भोगात्मभावसंपदो हेत्वासेवना। या चेहाहानभागीया ध्यानारूप्यसमापत्तिः। दृष्टधर्मसांपरायिकः स्वपरार्थो वेदितव्यः।



आत्यन्तिकः स्वपरार्थः कतमः। कतमश्चानात्यन्तिकः। कामधातौ भोगात्मभावसंपत्तिः सहेतुफला लौकिकी च पृथग्जनानां शुद्धिः सहेतुफला अनात्यन्तिकः स्वपरार्थः। सर्वात्यन्तक्लेशप्रहाणमार्याष्टाङ्गश्च मार्गः तदाश्रयेण च ये लौकिकाः कुशला धर्माः प्रतिलब्धाः। अयमुच्यते आत्यन्तिकः स्वपरार्थः।



तत्र त्रिभिः कारणैरात्यन्तिकता अनात्यन्तिकता च वेदितव्या। स्वभावतः परिहाणितः फलोपभोग परिक्षयतश्च। तत्र स्वभावतो निर्वाणमात्यन्तिकम्। संस्कृतं सर्वमेवानात्यन्तिकम्। आर्याष्टाङ्गो मार्गः अपरिहाणीयत्वादफलोप भोगापरिक्षयादात्यन्तिकः। तदन्ये कुशलसास्त्रवा धर्माः परिहाणितः फलोपभोगपरिक्षयतश्चानात्यन्तिकाः।



इत्ययं बोधिसत्त्वानां दशविधः स्वपरार्थः समासविस्तरतः यत्र बोधिसत्त्वैर्यथाशक्ति यथाबलं शिक्षितव्यम् नात ऊत्तरि नातो भूयः। अतीतेऽप्यध्वन्यनागतेऽपि ये स्वपरार्थे शिक्षितवन्तः शिक्षिष्यन्ते सर्वे तेऽस्मिन्नेव दशविधे स्वपरार्थे। नात उत्तरि नातो भूयः।



बोधिसत्त्वभूमावाधारे योगस्थाने स्वपरार्थपटलं तृतीयं समाप्तम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project