Digital Sanskrit Buddhist Canon

1-2 चित्तोत्पादपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1-2 cittotpādapaṭalam

चित्तोत्पादपटलम्



इह बोधिसत्त्वस्य प्रथमश्चित्तोत्पादः सर्वबोधिसत्त्वसम्यक्प्रणिधानानामाद्यं सम्यक्प्रणिधानं तदन्यसम्यक्प्रणिधानसंग्राहकम्। तस्मात् स आदितः सम्यक्प्रणिधानस्वभावः। स खलु बोधिसत्त्वो बोधाय चित्तं प्रणिदधदेवं चित्तमभिसंस्करोति वाचञ्च भाषते। अहो बताहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं सर्वसत्त्वानाञ्चार्थकरः स्यामत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापयेयं तथागतज्ञाने च। स एवमात्मनश्च बोधिं सत्त्वार्थञ्च प्रार्थयमानश्चित्तमुत्पादयति। तस्मात्स चित्तोत्पादः प्रार्थनाकारः। तां खलु बोधिं सत्त्वार्थञ्चालम्व्य स चित्तोत्पादः प्रार्थयते नानालम्ब्य। तस्मात्स चित्तोत्पादो बोध्यालम्बनः सत्त्वार्थालम्बनश्च। स च चित्तोत्पादः सर्वबोधिपक्ष्यकुशलमूलसंग्रहाय पूर्वङ्गमत्वात्कुशलः परमकौशल्यगुणयुक्तः भद्रः परमभद्रः कल्याणः परमकल्याणः सर्वसत्त्वाधिष्ठानकायवाङ्मनोदुश्चरितवैरोधिकः। यानि च कानिचित्तदन्यानि लौकिकलोकोत्तरेष्वर्थेषु कुशलानि सम्यक्प्रणिधानानि तेषां सर्वेषामग्र्य मेतत्सम्यक्प्रणिधानं निरुत्तरं यदुत बोधिसत्त्वस्य प्रथमश्चित्तोत्पादः। एवमयं प्रथमश्चित्तोत्पादः स्वभावतोऽपि वेदितव्यः। आकारतोऽप्यालम्बनतोऽपि गुणतोऽप्युत्कर्षतोऽति पञ्चलक्षणो वेदितव्यः।



तस्य च बोधिचित्तस्य सहोत्पादादेवावतीर्णे भवति बोधिसत्त्वोऽनुत्तरे बोधिमहायाने। बोधिसत्त्वो बोधिसत्त्व इति च संख्यां गच्छति यदुत संकेतव्यवहारनयेन। तस्मात्स चित्तोत्पादः अवतारसंगृहीतः। उत्पाद्य च बोधिसत्त्वस्तच्चित्तं क्रमेणानुत्तरां सम्यक्संबोधिमधिगच्छति नानुत्पाद्य। तस्मादनुत्तरायाः सम्यक्संबोधेः स चित्तोत्पादो मूलम्। दुःखितेषु च सत्त्वेषु स कारुणिको बोधिसत्त्वः परित्राणाभिप्रायस्तच्चित्तमुत्पादयति। तस्मात्स चित्तौत्पादः करुणानिष्यन्दः। तञ्च चित्तोत्पादं निश्रित्य प्रतिष्ठाय बोधिसत्त्वो बोधिपक्ष्येषु धर्मेषु सत्त्वार्थ क्रियायाञ्च बोधिसत्त्वशिक्षायां प्रयुज्यते। तस्मात्स चित्तोत्पादो बोधिसत्त्वशिक्षायाः सन्निश्रयः। एवमसौ प्रथमश्चित्तोत्पादः संग्रहतोऽपि मूलतोऽपि निष्यन्दतोऽपि सन्निश्रयतोऽपि वेदितव्यः।



स च बोधिसत्त्वस्य प्रथमचित्तोत्पादः समासेन द्विविधः। नैर्याणिकश्चानैर्याणिकश्च। तत्र नैर्याणिको य उत्पन्नोऽत्यन्तमनुवर्तते न पुनर्व्यावर्तते। अनैर्याणिकः पुनर्य उत्पन्नो नात्यन्तमनुवर्तते पुनरेव व्यावर्तते। तस्य च चित्तोत्पादस्य व्यावृत्तिरपि द्विविधा। आत्यन्तिकी चानात्यन्तिकी च। तत्रात्यन्तिकी यत्सकृद्‍व्यावृत्तं चित्तं न पुनरुत्पद्यते बोधाय। अनात्यन्तिकी पुनः यद्व्यावृत्तं चित्तं पुनः पुनरुत्पद्यते बोधाय।



तस्य खलु चित्तस्योत्पादः चतुर्भिः प्रत्ययैश्चतुर्भिर्हेतुभिश्चतुर्भिर्बलैर्वेदितव्यः। चत्वारः प्रत्ययाः कतमे। इह कुलपुत्रो वा कुलद्रुहिता वा तथागतस्य वा बोधिसत्त्वस्य वा अचिन्त्यमत्यद्भुतं प्रातिहार्यं प्रभावं पश्यति संप्रत्ययितस्य वाऽन्तिकाच्छृणोति। तस्य दृष्ट्वा वा श्रुत्वा वा एवं भवति। महानुभावा बतेयं बोधिर्यस्यां स्थितस्य वा प्रतिपन्नस्य वाऽयमेवरूपः प्रभा[वः] इदमेवंरूपं प्रातिहार्यं दृश्यते च श्रूयते च स तदेव प्रभावदर्शनं श्रवणं वाधिपतिं कृत्वा महाबोध्यधिमुक्तो महाबोधौ चित्तमुत्पादयति। अयं प्रथमः प्रत्ययश्चित्तस्योत्पत्तये। स न हैव प्रभावं पश्यति वा शृणोति वा अपरित्वनुत्तरां बोधिमारभ्य सद्धर्मं शृणोति बोधिसत्त्वपिटकं देश्यमानं श्रुत्वा च पुनरभिप्रसीदति। अभिप्रसन्नश्च सद्धर्मश्रवणमधिपतिं कृत्वा तथागतज्ञानाधिमुक्तः तथागतज्ञानप्रतिलम्भाय चित्तमुत्पादयति। अयं द्वितीयः प्रत्ययश्चित्तस्योत्पत्तये। स न हैव धर्म शृणोत्यपि तु बोधिसत्त्वः सद्धर्मान्तर्धानिमामुखामुपगतां पश्यति। दृष्ट्वा च पुनरस्यैवं भवति अप्रमेयाणां बत सत्त्वानां दुःखापगमाय बोधिसत्त्वसद्धर्मस्थितिः संवर्तते। यन्न्वहं बोधिसत्त्व-सद्धर्मचिरस्थितये चित्तमुत्पादयेयं यदुत एषामेव सत्त्वानां दुःखापकर्षणाय। [स] सद्धर्मधारणमेवाधिपतिं कृत्वा तथागतज्ञानाधिमुक्तस्तथागतज्ञानप्रतिलम्भाय चित्तमुत्पादयति। अयं तृतीयः प्रत्ययश्चित्तस्योत्पत्तये। स न हैव सद्धर्मान्तर्धानिं प्रत्युपस्थितां पश्यति अपित्वन्तयुगेऽन्तकाले प्रत्यवरान्तयुगिकान् सत्त्वाश्रयान् पश्यति यदुत दशभिरुपक्लेशैरुपक्लिष्टान्। तद्यथा मोहबहुलानाह्रीक्यानपत्राप्यबहुलानीर्ष्यामात्सर्यबहुलान् दुःखबहुलान् दौष्ठुल्यबहुलान् क्लेशबहुलान् दुश्चरितबहुलान् प्रमादबहुलान् कौसीद्यबहुलान् आश्रद्ध्यबहुलांश्च। दृष्ट्वा च पुनरस्यैवं भवति। महान् बतायं कषायकालः प्रत्युपस्थितः। अस्मिन्नेवमुपक्लिष्टे काले न सुलभो निहीनः श्रावकप्रत्येकबोधावपि तावच्चित्तोत्पादः प्रागेवानुत्तरायां सम्यक्संबोधौ। यन्न्वहमपि तावच्चित्तमुत्पादयेयम् अप्येव [नाम ] ममानुशिक्षमाणा अन्येऽप्युत्पादयेयुरिति। सोऽन्तकाले चित्तोत्पाददुर्लभतामधिपतिं कृत्वा महाबोधावधिमुक्तो महाबोधौ चित्तमुत्पादयति। अयं चतुर्थः प्रत्ययश्चित्तस्योत्पत्तये।



चत्वारो हेतवः कतमे। गोत्रसंपद्वोधिसत्त्वस्य प्रथमो हेतुश्चित्तस्योत्पत्तये। बुद्धबोधिसत्त्वकल्याणमित्रपरिग्रहो द्वितीयो हेतुश्चित्तस्योत्पत्तये। सत्त्वेषु कारुण्यं बोधिसत्त्वस्य तृतीयो हेतुश्चित्तस्योत्पत्तये। संसारदुःखाद् दुष्करचर्यादुःखादपि दीर्घकालिकाद्विचित्रात्तीव्रान्निरन्तरादभीरुता चतुर्थो हेतुश्चित्तस्योत्पत्तये।



तत्र गोत्रसंपद्वोधिसत्त्वस्य धर्मताप्रतिलब्धैव वेदितव्या।



चतुर्भिराकारैर्बोधिसत्त्वस्य मित्रसंपद्वेदितव्या। इह बोधिसत्त्वस्य मित्रमादित एवाजडं भवत्यधन्धजातीयं पण्डितं विलक्षणं न च कुदृष्टिपतितम्। इयं प्रथमा मित्रसंपत्। न चैनं प्रमादे विनियोजयति। न प्रमादस्थानमस्योपसंहरति। इयं द्वितीया मित्रसंपत्। न चैनं दुश्चिरिते विनियोजयति न दुश्चरितस्थानमस्योपसंहरति। इयं तृतीया मित्रसंपत्। न चैनमुत्कृष्टतरेभ्यः श्रद्धाच्छन्दसमादानवीर्योपायगुणेभ्यो विच्छन्दयित्वा निहीनतरेषु श्रद्धाच्छन्दसमादानवीर्योपायगुणेषु समादापयति। तद्यथा महायानाद्विच्छन्दयित्वा श्रावकयाने वा प्रत्येकबुद्धयाने वा भावनामयाद् विच्छन्दयित्वा चिन्तामये चिन्तामयाद्विच्छन्दयित्वा श्रुतमये श्रुतमयाद्विच्छन्दयित्वा वैयावृत्त्यकर्मणि शीलमयाद् विच्छन्दयित्वा दानमये इत्येवंभागीयेभ्य उत्कृष्टतरेभ्यो गुणेभ्यो न विच्छन्दयित्वा एवंभागीयेषु निहीनतरेषु गुणेषु समादापयति। इयं चतुर्थी मित्रसंपत्।



चतुर्भिराकारै र्बोधिसत्त्वः करुणाबहुलो भवति सत्त्वेषु। सन्ति ते लोकधातवो येषु दुःखं नोपलभ्यते दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुषु। स च बोधिसत्त्वः सदुःखे लोक धातौ प्रत्याजातो भवति यत्र दुःखमुपलभ्यते नादुःखे। परञ्चान्यतमेन दुःखेन स्पृष्टमुपद्रुतमभिभूतं पश्यति। आत्मना चाऽन्यतमेन दुःखेन स्पृष्टो भवत्युपद्रुतोऽभिभूतः। पुनश्च परमात्मानं वा तदुभयं वा दीर्घकालिकेन विचित्रेण तीव्रेण निरन्तरेण दुःखेन स्पृष्टमुपद्रुतमभिभूतं पश्यति। इति तस्य बोधिसत्त्वस्य स्वगोत्रसन्निश्रयेण प्रकृतिभद्रतया एभिश्चतुर्भिरालम्बनैरधिष्ठानैः करुणामृदुमध्याधिमात्रा प्रवर्वते अन्यत्राभ्यासतः॥



चतुर्भिः कारणैर्बोधिसत्त्वः सत्त्वेषु करुणां संपुरस्कृत्य संसारदुःखाद्दीर्घकालिकाद्विचित्रात्तीव्रान्निरन्तरादपि न बिभेति नोत्त्रस्यति प्रागेव निहीनात्। प्रकृत्या सात्त्विको भवति धृतिमान् बलवान्। इदं प्रथमं कारणम्। पण्डितो भवति सम्यगुपनिध्यानशीलः प्रतिसंख्यानबलिकः। इदं द्वितीयं कारणम्। अनुत्तरायां सम्यक्संबोधावधिमात्रयाऽधिमुक्त्या समन्वागतो भवति। इदं तृतीयं कारणम्। सत्त्वेषु चाधिमात्रया करुणया समन्वागतो भवति इदं चतुर्थ कारणम्।



चत्वारिबलानि कतमानि। अध्यात्मबलं परबलं हेतुबलं प्रयोगबलञ्च। तत्र स्वशक्तिपतिता या रुचिरनुत्तरायां सम्यक्संबोधौ इदमुच्यते बोधिसत्त्वस्याध्यात्मबलं चित्तस्योत्पत्तये। परशक्तिसमुत्पादिता तु रुचिरनुत्तरायां सम्यक्संबोधौ बोधिसत्त्वस्य परबलम् इत्युच्यते चित्तस्योत्पत्तये। पूर्वको बोधिसत्त्वस्य महायानप्रतिसंयुक्तकुशलधर्माभ्यास एतर्हि बुद्धबोधिसत्त्वसन्दर्शन मात्रकेण तद्वर्णश्रवणमात्रकेण वा आशु चित्तस्योत्त्पत्तये प्रागेव सद्धर्मश्रवणेन वा प्रभावदर्शनेन वा हेतुबलम् इत्युच्यते चित्तस्योत्त्पत्तये। दृष्टधार्मिको बोधिसत्त्वस्य सत्पुरुषसंसेवा-सद्धर्मश्रवणचिन्तादिको दिर्घकालिकः कुशलधर्माभ्यासः प्रयोगबलम् इत्युच्यते चित्तस्योत्पत्तये।



तत्र बोधिसत्त्वस्य समस्तव्यस्तांश्चतुरः प्रत्ययांश्चतुरो हेतूनागम्य सचेदध्यात्मबलेन हेतुबलेन च समस्ताभ्यां द्वाभ्यां बलाभ्यां तच्चित्तमुत्पद्यते। एवन्तद् दृढंञ्च सारञ्च निश्चलं चोत्पद्यते। परबलप्रयोगबलाभ्यां तु तच्चित्तमदृढोदयं वेदितव्यम्।



चत्वारि बोधिसत्त्वस्य चित्तव्यावृत्तिकारणानि। कतमानि चत्वारि। न गोत्रसंपन्नो भवति। पापमित्रपरिगृहीतो भवति। सत्त्वेषु मन्दकरुणो भवति। संसारदुःखाच्च दीर्घकालिकाद्विचित्रात्तीव्रान्निरन्तराद् भीरुर्भवति अत्यर्थ बिभेत्युत्तस्यति संत्रासमापद्यते। चतुर्णां चित्तोत्पत्तिहेतूनां विपर्ययेण चत्वार्येतानि चित्तव्यावृत्तिकारणानि विस्तरेण पूर्ववद्वेदितव्यानि।



द्वाविमौ दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य लोकासाधारणावाश्चर्याद्भूतौ धर्मौ। कतमौ द्वौ। सर्वसत्त्वांश्च कडत्रभावेन परिगृह्णाति। न च पुनः कडत्रपरिग्रहदोषेण लिप्यते। तत्रायं कडत्रपरिग्रहदोषः। कडत्रस्यानुग्रहोपघाताभ्यां क्लिष्टानुरोधविरोधौ। तौ च बोधिसत्त्वस्य न विद्येते। द्वाविमौ दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य सत्त्वेषु कल्याणाध्याशयौ प्रवर्तेते। हिताध्याशयश्च सुखाध्याशयश्च। तत्र हिताध्याशयो या अकुशलात् स्थानाद् व्युत्थाप्य कुशले स्थाने प्रतिष्ठापनकामता सुखाध्याशयो या विघातिनामनाथानामप्रतिशरणानां सत्त्वानां क्लिष्टवर्जितानुग्राहकवस्तूषसंहरणकामता।



द्वाविमौ दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य प्रयोगौ। अध्याशयप्रयोगः प्रतिपत्तिप्रयोगश्च। तत्राध्याशयप्रयोगो या तस्यैव हितसुखाध्याशयस्य प्रतिदिवसमनुबृंहणा। प्रतिपत्तिप्रयोगः प्रतिदिवसमात्मनश्च बुद्धधर्मपरिपाकप्रयोगः सत्त्वानाञ्च यथाशक्ति यथावलमध्याशयप्रयोगमेव निश्रित्य हितसुखोपसंहारप्रयोगः।



द्वे इमे दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य महती कुशलधर्मायद्वारे। स्वार्थप्रयोगश्चानुत्तरायाः सम्यक्संबोधेः समुदागमाय। परार्थप्रयोगश्च सर्वसत्त्वानां सर्वदुःखनिर्मोक्षाय। यथा द्वे आयद्वारे एवं द्वौ महान्तौ कुशलधर्मसन्निचयौ द्वावप्रमेयौ कुशलधर्मस्कन्धौ। पेयालम्।



द्वे इमे प्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य प्रथमं चित्तोत्पादमुपादाय बोधाय कुशलपरिग्रहवैशेष्ये तदन्यं कुशलपरिग्रहमुपनिधाय। हेतुवैशेष्यं फलवैशेष्यञ्च। स खलु बोधिसत्त्वस्य कुशलपरिग्रहोऽनुत्तनुरायाः सम्यक्संबोधेर्हेतुः सा च तस्य फलम्। न तदन्यः सर्वश्रावकप्रत्येकबुद्धकुशलपरिग्रहः प्रागेव तदन्येषां सत्त्वानाम्। तस्माद्वोधिसत्त्वानां कुशलपरिग्रहस्तदन्यस्मात्सर्वकुशलपरिग्रहाद्धेतुभावतः फलतश्च प्रतिविशिष्टः।



द्वाविमौ दृढप्रथमचित्तोत्पादिकस्य बोधिसत्त्वस्य चित्तोत्पादानुशंसौ। सहचित्तोत्पादाच्च सर्वसत्त्वानां दक्षिणीयभूतो भवति गुरुभूतः पुण्यक्षेत्रं पितृकल्पः प्रजानामव्याबाध्यस्य च पुण्यस्य परिग्रहं करोति। तत्रेदमव्याबाध्यं पुण्यम्। येन समन्वागतो बोधिसत्त्वश्चक्रवर्ति-द्विगुणोनारक्षेणारक्षितो भवति। यस्मिन्नारक्षे सदा प्रत्युपस्थिते न शक्नुवन्ति सुप्तमत्तप्रमत्तस्यापि व्याडा वा यक्षा वा अमनुष्या वा नैवासिका वा विहेठां कर्तुम्। परिवृत्तजन्मा पुनरयं बोधिसत्त्वस्तेन पुण्यपरिग्रहेणाल्पाबाधो भवत्यरोगजातीयः। न च दीर्घेण खरेण वा आबाधेन स्पृश्यते। सत्त्वार्थेषु च सत्त्वकरणीयेष्वस्य व्यायच्छमानस्य कायेन वाचा धर्मञ्च देशयतः नात्यर्थं कायः क्राम्यति न स्मृतिः प्रमुष्यते न चित्तमुपहन्यते। प्रकृत्यैव तावद्गोत्रस्थो बोधिसत्त्वो मन्ददौष्ठुल्यो भवति। उत्पादित चित्तस्तु भूयस्या मात्रया मन्दतर दौष्ठुल्यो भवति यदुत कायदौष्ठुल्येन चित्तदौष्ठुल्येन च। असिद्धान्यपि च तदन्य हस्तगतानि सत्त्वानामीत्युपद्रवोपसर्गसंशमकानि मन्त्रपदानि विद्यापदानि तद्धस्तगतानि सिध्यन्ति। कः पुनर्वादः सिद्धानि। अधिकेन च क्षान्तिसौरत्येन समन्वागतो भवति। परत-उपतापसहः अपरोपतापी च। परेणापि च परमुपताप्यमानमुपलभ्यात्यर्थ बाध्यते। क्रोधेर्ष्याशाठ्यम्रक्षादयश्चास्योपक्लेशाहतवेगा मन्दायमानाः कदाचित्समुदाचरन्त्याशु च विगच्छन्ति। यत्र च ग्रामक्षेत्रे प्रतिवसति तस्मिन् भयभैरवदुर्भिक्षदोषा अमनुष्यकृताश्चोपद्रवा अनुत्पन्नाश्च नोत्पद्यन्ते उत्पन्नाश्च व्युपशाम्यन्ति। स चेत्पुनः स प्रथमचित्तोत्पादिको बोधिसत्त्वः एकदा नरकेष्वपायभूमावुपपद्यते स भूयस्या मात्रया आशुतरं च मुच्यते नरकेभ्यः। तनुतराञ्च दुःखां वेदनां वेदयते भृशतरञ्च संवेगमुत्पादयति तेषाञ्च सत्त्वानामन्तिके करुणाचित्ततामव्याबाध्य पुण्यपरिग्रहहेतोः। इत्येवंभागीयान् बहूननुशंसानव्याबाध्य पुण्यपरिग्रहात्प्रथमचित्तोत्पादिको बोधिसत्त्वः प्रत्यनुभवति।



बोधिसत्त्वभूमावाधारे योगस्थाने द्वितीयं चित्तोत्पादपटलं [समाप्तम]॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project