Digital Sanskrit Buddhist Canon

1-1 गोत्र-पटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1-1 gotra-paṭalam

योगाचारभूमी

बोधिसत्त्वभूमिः



आधारयोगस्थानम्



गोत्र-पटलम्



ॐ नमो बुद्धाय॥ दशेमे धर्माः सफलस्य बोधिसत्त्वमार्गस्य महायानस्य संग्रहाय संवर्तन्ते। कतमे दश। आधारो लिङ्गं पक्षोऽध्याशयो विहार उपपत्तिः परिग्रहो भूमिश्चर्या प्रतिष्ठा च।



उद्दानम्।

आधारो लिङ्ग-पक्षाध्याशय-विहारा उपपत्तिः।

परिग्रहो भूमिश्चर्या प्रतिष्ठा पश्चिमा भवेत्॥



तत्राधारः कतमः। इह बोधिसत्त्वस्य स्वगोत्रं प्रथमश्चित्तोत्पादः सर्वे च बोधिपक्ष्या धर्मा आधार इत्युच्यते। तत्कस्य हेतोः। इह बोधिसत्त्वो गोत्रं निश्रित्य प्रतिष्ठापयितव्यो भवति। प्रतिबलोऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। तस्मात् सभागतया गोत्रमाधार इत्युच्यते। इह बोधिसत्त्वः प्रथमचित्तोत्पादं निश्रित्य प्रतिष्ठाय दानेऽपि प्रयुज्यते शीले क्षान्तौ वीर्यें ध्याने प्रज्ञायामपि प्रयुज्यते इति। यद्वा पारमितासु पुण्यसंभारे ज्ञानसंभारे सर्वेषु च बोधिपक्ष्येषु धर्मेषु प्रयुज्यते। तस्मात्प्रथमचित्तोत्पादस्य बोधिसत्त्वस्य चर्याप्रयोगस्याधार इत्युच्यते। इह बोधिसत्त्वस्तमेव बोधिसत्त्वचर्याप्रयोगं निश्रित्य प्रतिष्ठायानुत्तरां सम्यक्संबोधिं परिपूरयति। तस्मात्स बोधिसत्त्वचर्याप्रयोगस्तस्य महाबोधिपरिपूरेराधार इत्युच्यते। अगोत्रस्थ पुद्गलो गोत्रेऽसति चित्तोत्पादेऽपि यत्नसमाश्रये सत्यभव्यश्चानुत्तरायाः सम्यक्संबोधेः परिपूरये। तदनेन पर्यायेण वेदितव्यमनुत्पादितचित्तस्यापि बोधिसत्त्वस्य अकृतेऽपि बोधिसत्त्वचर्याप्रयोगे गोत्रमाधार इति। स चेत् पुनर्गोत्रस्थश्चित्तं नोत्पादयति बोधिचर्यासु न प्रयुज्यते न क्षिप्रं बोधिमारागयति तास्वपि विपर्ययात् क्षिप्रमारागयतीति वेदितव्यम्। तत्पुनरेतद्गोत्रमाधार इत्युच्यते। उपस्तम्भो हेतुर्निश्रय उपनिषत्पूर्वङ्गमो निलय इत्यप्युच्यते। यथागोत्रमेवं प्रथमश्चित्तोत्पादः सर्वा च बोधिसत्त्वचर्या।



तत्र गोत्रं कतमत्। समासतो गोत्रं द्विविधम्। प्रकृतिस्थं समुदानीतञ्च। तत्र प्रकृतिस्थं गोत्रं यद्बोधिसत्त्वानां षडायतनविशेषः। स तादृशः परंपरागतोऽनादिकालिको धर्मताप्रतिलब्धः। तत्र समुदानीतं गोत्रं यत्पूर्वकुशलमूलाभ्यासात्प्रतिलब्धम्। तदस्मिन्नर्थे द्विविधमप्यभिप्रेतम्। तत्पुनर्गोत्रं बीजमित्यप्युच्यते। धातुः प्रकृतिरित्यपि। तत्पुनरसमुदागतफलं सूक्ष्मं विना फलेन। समुदागतफलमौदारिकं सह फलेन।



तेन खलु गोत्रेण समन्वागतानां बोधिसत्त्वानां सर्वश्रावकप्रत्येकबुद्धानतिक्रम्य प्रागेवान्यान् सत्त्वान्निरुत्तरो विशेषो वेदितव्यः। तत्कस्य हेतोः। द्वे इमे समासतो विशुद्धी। क्लेशावरणविशुद्धिर्ज्ञेयावरणविशुद्धिश्च। तत्र सर्वश्रावकप्रत्येकबुद्धानां तद्गोत्रं क्लेशावरणविशुद्ध्या विशुध्यति न तु ज्ञेयावरणविशुद्ध्या। बोधिसत्त्वगोत्रं पुनरपि क्लेशावरणविशुद्ध्या अपि ज्ञेयावरणविशुद्ध्या विशुध्यति। तस्मात्सर्वप्रतिविशिष्टं निरुत्तरमित्युच्यते।



अपि च चतुर्भिराकारैर्बोधिसत्त्वस्य श्रावकप्रत्येकबुद्धेभ्यो विशेषो वेदितव्यः। कतमैश्चतुर्भिः। इन्द्रियकृतः प्रतिपत्तिकृतः कौशल्यकृतः फलकृतश्च। तत्रायमिन्द्रियकृतो विशेषः। प्रकृत्यैव बोधिसत्त्वस्तीक्ष्णेन्द्रियो भवति। प्रत्येकबुद्धो मध्येन्द्रियः श्रावको मृद्विन्द्रियः। तत्रायं प्रतिपत्तिकृतो विशेषः। श्रावकप्रत्येकबुद्धश्चात्महिताय प्रतिपन्नो भवति। बोधिसत्त्वः अप्यात्म हिताय अपि परहिताय बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै अर्थाय हिताय सुखाय देवमनुष्याणाम्। तत्रायं कौशल्यकृतो विशेषः। श्रावकः प्रत्येकबुद्धश्च स्कन्धधात्वायतनप्रतीत्यसमुत्पाद-स्थानास्थानसत्यकौशल्यं करोति बोधिसत्त्वस्तत्र चान्येषु च सर्वविद्यास्थानेषु। तत्रायं फलकृतो विशेषः। श्रावकः श्रावकबोधिफलमधिगच्छति। प्रत्येकबुद्धः प्रत्येकबोधिमधिगच्छति। बोधिसत्त्वोऽनुत्तरं सम्यक्संबोधिफलमधिगच्छति।



षडिमानि बोधिसत्त्वस्य पारमितानां गोत्रलिङ्गानि संपद्यन्ते। यैरेवं परे संजानते बोधिसत्त्वोऽयमिति। दानपारमिताया गोत्रलिङ्गं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमिताया गोत्रलिङ्गम्। तत्रेदं बोधिसत्त्वस्य दानपारमिताया गोत्रलिङ्गम्। इह बोधिसत्त्वः प्रकृत्यैव दानरुचिर्भवति। सत्सु च संविद्यमानेषु देयधर्मेषु सततसमितं परेषां संविभागशीलो भवति प्रमुदितचित्तश्च ददाति न विमनस्कः। अल्पादपि च संविभागस्य कर्त्ता भवति। विशदञ्च दानमनुप्रयच्छति। न हीनम्। अदानेन च जिह्रेति। परेषाञ्च दानस्य वर्णं भाषते। दाने चैनानुपच्छन्दयति। दातारञ्च दृष्ट्वा आत्तमना भवति सुमनस्कः। गुरुभ्यो वृद्धतरकेभ्यो दक्षिणीयेभ्यः सत्कारार्हेभ्य उत्थायासनमनुप्रयच्छति। पृष्टोऽपृष्टो वा तेषु तेषु सत्त्वकृत्येष्वनपायमिहलोके परलोके न्यायोपदेशमनुप्रयच्छति। राजचौरामित्राण्युदकादिभयभीतानाञ्च सत्त्वानामभयमनुप्रयच्छति। यथाशक्त्या चैनान् परित्रायते तस्माद्विचित्रात् प्रततादुग्राद्भयात्। निक्षिप्तञ्चास्य हस्ते परधनं नाभिद्रुह्यति। ऋणं गृहीत्वा परेभ्यो न विसंवादयति नाभिद्रुह्यति। स्वदायादं न वञ्चयते न विप्रलम्भयति। मणिमुक्तावैदूर्यशंखशिलाप्रवालजातरूपरजताश्मगर्भमुसारगल्वलोहितिकादक्षिणावर्तप्रभृतिषूपकरणजातेषु मूढं विपर्यस्यचित्तं सम्यक्संबोधयति। यथास्यान्यतोऽपि न विप्रलम्भः स्यात्। कुतः पुनः स्वयमेनं विप्रलम्भयिष्यति। प्रकृत्या चोदारभोगाधिमुक्तो भवति। उदारेष्वस्य सर्वभोगपरिभोगेषु चित्तं क्रामति। उदारेषु च कर्मान्तेष्वधिमुक्तो भवति न परीत्तायद्वारेषु। सन्ति चेमानि लोके व्यसनानि। तद्यथा स्त्रीव्यसनम्। मद्यव्यसनम्। द्यूतव्यसनम्। नट-नर्तक-हासक-लासकादिसंदर्शनव्यसनमित्येवंरूपेभ्योव्यसनेभ्यो लघु लध्वेव वैराग्यं प्रतिलभते। ह्रीव्यपत्राप्यं प्राविष्करोति विपुलेऽपि च भोगप्रतिलम्भे नाधिमात्रलोलुपो भवति प्रागेवाल्पे। इतिमान्येवं भागीयानि बोधिसत्त्वस्य दानपारमिताया गोत्रलिङ्गानि वेदितव्यानि।



तत्रेमानि बोधिसत्त्वस्य शीलपारमिताया गोत्रलिङ्गानि। इह बोधिसत्त्वः प्रकृत्या मृदुना कायवाङ्मनस्कर्मणा समन्वागतो भवत्यकुशलेन नात्यर्थरौद्रेण नात्यर्थसत्त्वोपघातकेन। कृत्वापि च पापकं कर्म लघु लध्वेव विप्रतिसारं प्रतिलभते। तञ्च जेह्रीयमाणः समाचरति न नन्दीजातः। पाणिलोष्टदण्डशस्त्रादिभिश्च सत्त्वानामविहेठनजातीयो भवति। प्रकृतिवत्सलश्च भवति सत्त्वप्रियः। सत्कारार्हेषु च कालेन कालमभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्मणा प्रत्युपस्थितो भवति। दक्षिणश्च भवति। नागरिकः परचित्तानुवर्ती। स्मितपूर्वङ्गमश्च भवत्युत्तानमुखवर्णविगतभ्रूकुटिः पूर्वाभिभाषी। उपकारिषु च सत्त्वेषु कृतज्ञो भवति कृतवेदी। अर्थिकेषु च सत्त्वेषु ऋजुतां प्रतिपद्यते। न मायाशाठ्येनैतान् विलोभयति। धर्मेणासाहसेन च भोगान् समुदानयति नाधर्मेण। प्रकृत्यैव च पुण्यकामो भवति। परपुण्य क्रियास्वपि व्यापारं गच्छति प्रागेवात्मनः। परबाधया चात्त्यर्थ बाध्यते यदुत परेषां वधबन्धनच्छेदनताडनकुत्सनतर्जनादिकया दृष्ट्वा वा श्रुत्वा वा। धर्मसमादानगुरुकश्च भवति संपरायगुरुकः। अणुमात्रेऽप्यवद्ये भयदर्शी प्रागेव प्रभूते। परकृत्येषु च परकरणीयेषु सहायीभावं गच्छति यदुत कृषिवणिज्यागोरक्ष्यराजपौरुष्यलिपिगणनन्यसनसंख्यामुद्रायां भर्तृप्रसादने कुलप्रसादने राजकुलप्रसादने मित्रामित्रप्रसादने भोगानामर्जने रक्षणे सन्निधौ प्रयोगे विसर्गे आवाहविवाहाभक्षणसंभक्षणेष्वेवंभागीयेषु सत्त्वकृत्येषु सहायीभावं गच्छति। न कलहभण्डनविग्रहविवादेषु च परविहेठनकरणीयेषु ये आत्मनः परेषाञ्चानर्थायाहिताय दुःखाय संवर्तन्ते। अकृत्याच्चैतां निवारयति यदुत दशभ्यः पापकेभ्योऽकुशलेभ्यः। कर्मपथेभ्यः। परवश्यश्च भवति परविधेयः। समानक्षान्तिशीलतया अपहाय स्वकार्यं परैरात्मकार्ये यथाकामं नियोज्यते। आर्द्रचित्तश्च भवति पेशलचित्तो न च चिरमाघातचित्ततां प्रतिघचित्ततामुद्वहति नान्यत्र तत्क्षण एवास्य तच्चित्तं भद्रतायां परिवर्तते। सत्यगुरुकश्च भवति नाभूतवचनेन परान् विसंवादयति। न च परेषां मित्रभेदं रोचयति न करोति।



न चासम्बद्धमपार्थ निरर्थ सहसा प्रलपति। प्रियंवदश्च भवत्यपरकटुकः अपि स्वकस्य दासादिपरिजनस्य प्रागेव परेषाम् गुणप्रियश्च भवति परेषां भूतस्य वर्णस्याहर्ता। इतीमान्येवंभागीयानि बोधिसत्त्वस्य शीलपारमिताया गोत्रलिङ्गानि वेदितव्यानि।



तत्रेमानि बोधिसत्त्वस्य क्षान्तिपारमिताया गोत्रलिङ्गानि। इह बोधिसत्त्वः प्रकृत्या परेषामन्तिकादपकारं लब्ध्वा नाघातचित्ततां प्राविष्करोति नाप्यपकाराय प्रपद्यते। संज्ञप्यमानश्चाशु संज्ञप्तिं प्रतिगृह्णाति। न च खिलं धारयति न चिरकालिकं वैराशयं वहति। इतीमान्येवंभागीयानि बोधिसत्त्वस्य क्षान्तिपारमिताया गोत्रलिङ्गानि वेदितव्यानि।



तत्रेमानि बोधिसत्त्वस्य वीर्यपारमिताया गोत्रलिङ्गानि। इह बोधिसत्त्वः प्रकृत्या उत्थानवान् भवति। काल्योत्थायी सायं निपाती न निद्रासुखं शयनसुखं पार्श्वसुखमत्यर्थं स्वीकरोति। प्रत्युपस्थिते च कृत्ये अभिभूयाकर्तुकामतामालस्यं प्रतिसंख्याय प्रयुज्यते तस्य कृत्यस्याभिनिष्पत्तये। सर्वकृत्यसमारम्भेषु च दृढनिश्चयो भवति नाकृत्वा नापरिप्राप्य सर्वेण सर्वं वीर्यस्रंसयति अन्तरा वा विषादमापद्यते। उदारेषु च परमेष्वर्थेषु न चेतसा संकोचमापद्यते। नाप्यात्मानं परिभवति। शक्तोऽहं प्रतिबलमेषामधिगमायेत्युत्साहजातः। वीरश्च भवति महासभाप्रवेशे वा परैः सहाभिप्रयोग प्रत्यभियोगे वा तदन्यत्र वा दुष्करकर्मणि महाव्यवसायेष्वपि चार्थोपसंहितेषु नात्यर्थं खेदमापद्यते प्रागेव परीत्तेषु। इतीमान्येवंभागीयानि बोधिसत्त्वस्य वीर्यपारमिताया गोत्रलिङ्गानि वेदितव्यानि।



तत्रेमानि बोधिसत्त्वस्य ध्यानपारमिताया गोत्रलिङ्गानि। इह बोधिसत्त्वः प्रकृत्या धर्मार्थोपनिध्याने अविक्षेपबहुलो भवति। अरण्यवनप्रस्थानानि। च प्रान्तानि शयनासनानि मनुष्यरहःसेवितानि विगतपापकानि प्रतिसंलयनसारूप्यकाणि दृष्ट्वा श्रुत्वा सुखं तन्नैष्क्रम्यं प्राविवेक्यमिति नैष्क्रम्यप्राविवेक्ये तीव्रमौत्सुक्यमुत्पादयति। प्रकृत्या च मन्दक्लेशो भवति मन्दनिवरणो मन्ददौष्ठुल्यः। प्रविवेकगतस्य चास्य स्वार्थं परितुलयतः पापकाः असद्वितर्का नात्यर्थं चित्तं क्षोभयन्ति न पर्यादाय तिष्ठन्ति। [सः] अमित्रपक्षेऽपि त्वरितं त्वरितं मैत्रचित्ततामुपस्थापयति प्रागेव मित्रोदासीनपक्षे। विचित्रैश्च दुःखैर्दुःखितानां सत्त्वानां दुःखं श्रुत्वा वा दृष्ट्वा वा महत्कारुण्यचित्तमुत्पादयति। दुःखापनयाय च तेषां सत्त्वानां यथाशक्त्या यथाबलं व्यापारं गच्छति। प्रकृत्या च सत्त्वेषु हितकामो भवति सुखकामः। धृतिमांश्च भवत्यापत्सु ज्ञातिव्यसने वा भोगव्यसने वा वधे वा बन्धने वा प्रवासे वा इत्येवंभागीयास्वापत्सु। मेधावी च धर्माणां ग्रहणधारणोहनसमर्थः स्मृतिबलेन च समन्वागतो भवति। स चिरकृतचिरभाषितमप्यनुस्मर्त्ता भवति परेषाञ्चानुस्मारयिता। इतीमान्येवंभागीयानि बोधिसत्त्वस्य ध्यानपारमिताया गोत्रलिङ्गानि वेदितव्यानि।



तत्रेमानि बोधिसत्त्वस्य प्रज्ञापारमिताया गोत्रलिङ्गानि। इह बोधिसत्त्वः सर्वविद्यास्थानज्ञेयप्रवेशाय सहजया प्रज्ञया समन्वागतो भवति। अधन्धश्च भवत्यमन्दः अमोमुहजातीयः। तासु तासु च प्रमादस्थानविरतिषु प्रतिसंख्यानबलिको भवति। इतीमान्येवंभागीयानि बोधिसत्त्वस्य प्रज्ञापारमिताया गोत्रलिङ्गानि वेदितव्यानि।



तानीमानि बोधिसत्त्वस्य औदारिकाण्यानुमानिकानि गोत्रलिङ्गानि वेदितव्यानि। भूतार्थनिश्चये तु बुद्धा एव भगवन्तः प्रत्यक्षदर्शिनः।



यस्माच्च तद्गोत्रं बोधिसत्त्वानां प्रकृत्यैव गुणयुक्तं भद्रं कल्याणं शुक्लधर्मसमन्वागतं तस्मात्तावद् दुरभिसंभवस्य श्रेष्ठस्याचिन्त्यस्याचलस्यानुत्तरस्य तथागतस्य पदस्यावाप्तये हेतुभावेन युज्यतेऽन्यथा न युज्यते। तावच्च बोधिसत्त्व एभिः शुक्लधर्मैः प्रकृत्यैव युक्तो भवति यावन्न शुक्लधर्मवैरोधिकैश्चतुर्भिरुपक्लेशैः सकलविकलैरुपक्लिष्टो भवति। यदा चोपक्लिष्टो भवति स तदा एषु च शुक्लेषु धर्मेषु न संदृश्यते। अपायेषु चैकदा उपपद्यते। अपायोपपत्तावपि बोधिसत्त्वस्य तदन्येभ्यः अपायोपपन्नेभ्यः सत्त्वेभ्यो गोत्रकृतो महान् विशेषो वेदितव्यः। इह बोधिसत्त्वो दीर्घेण कालेन कदाचित् कर्हिचिदपायेषूपपद्यते। उपपन्नश्चाशु परिमुच्यते अपायेभ्यः। न च तथा तीव्रामापायिकीं दुःखां वेदनां वेदयते तद्यथाऽन्येऽपायोपपन्नाः सत्त्वाः। तया च तन्व्या दुःखया वेदनया स्पृष्टोऽधिमात्रं संवेगमुत्पादयति। तेषु च सत्त्वेषु तत्रोपपन्नेषु दुःखितेषु कारुण्यचित्तं प्रतिलभते यदुत तेनैव गोत्रेण च सत्त्वेषु तत्रोपपन्नेषु दुःखितेषु कारूण्यचित्तं प्रतिलभते यदुत तेनैव गोत्रेण बुद्धमहाकरुणाहेतुना चोद्यमानः। इत्येवंभागीयः अपायोपपत्तौ बोधिसत्त्वस्य तदन्येभ्यः अपायोपपन्नेभ्यः सत्त्वेभ्यो विशेषो वेदितव्यः।



तत्र कतमे ते बोधिसत्त्वस्य चत्वारः शुक्लधर्मवैरोधिका उपक्लेशाः।

पूर्वं प्रमत्तस्य क्लेशाभ्यासात्तीव्रक्लेशता आयतक्लेशता चायं प्रथम उपक्लेशः। मूढस्याकुशलस्य पापमित्रसंश्रयोऽयं द्वितीय उपक्लेशः। गुरुभर्तृराजचौरप्रत्यर्थिकद्यभिभूतस्यास्वातन्त्र्यं चित्तविभ्रमश्चायं तृतीय उपक्लेशः। उपकरणविकलस्य जीविकापेक्षा अयं चतुर्थ उपक्लेशः।



चतुर्भिः कारणैरेवं गोत्रसंपन्नोऽपि बोधिसत्त्वो न शक्नोत्यनुत्तर सम्यक्संबोधिमभिसंबोद्धुम्। कतमैश्चतुर्भिः। इह बोधिसत्त्वः आदित एव कल्याणमित्रं न लभते अविपरीतबोधिमार्गदैशिकं बुद्धं वा बोधिसत्त्वं वा। इदं प्रथमं कारणम्। पुनरपरं बोधिसत्त्वो लब्ध्वापि कल्याणमित्रं विपरीतग्राही विपरीतं शिक्षते बोधिसत्त्वशिक्षासु। इदं द्वितीयं कारणम्। पुनरपरं बोधिसत्त्वो लब्ध्वापि कल्याणमित्रमविपरीतं शिक्षमाणो बोधिसत्त्वशिक्षासु तस्मिन् प्रयोग शिथिलप्रयोगो भवति कुसीदो नोदग्रप्रततवीर्यसमन्वागतः। इदं तृतीयं कारणम्। पुनरपरं बोधिसत्त्वो लब्ध्वा कल्याणमित्रमविपरीतं शिक्षमाणो बोधिसत्त्वशिक्षासु तस्मिंश्च प्रयोगे आरब्धवीर्यः अपरिपक्वेन्द्रियो भवत्यपरिपूर्णबोधिसंभारः दीर्घकालापरिजयाद्वोधिपक्ष्य धर्माणाम्। इदञ्चतुर्थ कारणम्। गोत्रे सत्येतत्कारणवैकल्याद्वोधेरप्राप्तिः। सान्निध्यात्तु प्राप्तिर्भवति। असति तु गोत्रे सर्वेण सर्व सर्वथा बोधरप्राप्तिरेव वेदितव्या।



बोधिसत्त्वभूमौ आधारे योगस्थाने प्रथमं गोत्रपटलं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project