Digital Sanskrit Buddhist Canon

एकदशो वर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ekadaśo vargaḥ
एकदशो वर्गः

शून्यालक्षणं

१। एकस्मिन्समये भगवान्पुरा विहरति स्मवेणुवने कलन्दकनिवापे महता [भिक्षु] संघेन सार्द्धमप्रमेयेण। अथ भगवान्देशयितुं सद्धर्ममामन्त्रयति स्म महासंघम्। भगवानवोचत्। सर्वधर्मा निःस्वभावाः शून्या निःसारा अश्रद्धेयाः सर्वलोकैः। तत्कस्य हेतोः। रूपं न बन्धो न मोक्षः। वेदना संज्ञा संस्काराविज्ञानं न बन्धो न मोक्षः। रूपलक्षणं त्यजति च लक्षणम् वेदनासंज्ञासंस्कारविज्ञानन्यलक्षणानि त्यजन्ति च क्षणानि। चक्षूरूपश्रोत्रशब्दघ्राणगन्धजिह्वारसकायस्प्रष्टव्यमनोधर्मा अप्येवम्। न ते ग्राह्या नोपेक्ष्या न समला न विमला जगता नानुगता न प्रतिगता नाभाखरा न भाखरा न मोहो न प्रज्ञा न चैपोऽन्तो न सोऽन्त नापि च मध्यस्रोत इतिचोच्यते न बन्धः॥

२। बन्धाभावाच्छून्यम्। शून्यमुच्यतेऽलक्षणम्। अलक्षणमपि शून्यमित्युच्यते शून्यम्। शून्यमुच्यतेऽक्षणमक्षणमपि शून्यमित्युच्यते शून्यम्। शून्यक्षणमपि शून्यमित्युच्चते शून्यम्। शून्यतायांन कुशकं न चा कुशलं न चापि शून्यलक्षणमित्युच्यते शून्यम्। बोधिसत्त्वो यद्येवं जानाति स्कन्धधात्वायतनस्वभावं न चगृह्णातीत्युच्यते धर्मक्षान्तिः। बोधिसत्त्व एवंविधक्षान्तिहेतोः प्राप्नोत् व्याकरणक्षान्तिम्॥

३। बुद्धपुत्रास्तथाहि बोधिसत्त्वो लिखत्याकाशे तथागतस्य द्वादशङ्ग़प्रवचनानि। अतीतेष्वप्रमेयेषु कल्पेषु परिनिर्वृतेषु बुद्धधर्मेषु पुरुषो धर्मं गवेषयन्न किचिदपि पश्यति न च श्रृणोति सत्त्वा विपरिवर्तन्ते कुर्वन्तोऽप्रमेयाण्यकुशलानि। पुनरन्यतः परिशुद्धप्रज्ञजनाः करुणायन्ते सत्वेषु गवेषयन्ति बुद्धधर्मान्गत्वा पश्यन्त्याकाशे लिखितानि लेखस्पष्टतयावगच्छन्ति वाचयन्ति गृह्नन्ति धारयन्ति यथाभाषितमाचरन्ति विभज्य प्रकाशयन्त्युपकुर्वन्ति सत्त्वान्। यश्च लिखत्याकाशे यश्च जानात्याकाशाक्षराणि स नु चिन्तयितुं शक्यो यश्च वा प्रकाशयति देशयत्याचरति गृह्णाति धारयति नयाते सत्त्वान्विमोचयति वन्धम्॥

४। बुद्धपुत्रा उक्तं भगवता। अतीतेऽध्वनि गवेषयन्वोधिमार्गं मया लब्धानि बुद्धकोटित्रयस्त्रिशदष्टानवतिबुद्धशतसहस्राणि। सर्वेषां कालेऽहमासं चक्रवर्त सर्वे चारागितास्तेपूजितास्ते बुद्धाश्च बुद्धपुत्राश्च प्राप्तव्यहेतोर्न च मया प्राप्तं व्याकरणम्। पुनर्लब्धानि प्रत्येकबुद्धकोटिचतुरशीतिशतसहस्राणि प्रत्येकबुद्धनवतिशतसहस्राणि च। सवऽपि चतुर्भिः परिष्कारै र्यावज्जीवं पूजिताः। पुनः खलु लब्धानि द्वापष्टिबुद्धशतसहस्राणि एकषप्टयुत्तरद्वादशबुद्धशतानि च। सर्वेषां कालेऽहमासं चकवर्ती। आरागिताश्चते यावज्जिवं पूजिताश्च ते। परिनिर्वृतेषु तेषु कारिताः सप्तरत्नमयाः स्तूपा धृतपूजित [बुद्ध] शरीराः। अथ पुन र्लोकमागता बुद्धा आमन्त्रिता मयाध्येपिताः प्रावर्तयन्धर्मचक्रम्। पूजिताश्चैवं बुद्धानां शतानि सहस्राणि शतसहस्राणि शतसहस्राणि कोटयश्च। ते च तथागताः शून्यधर्मेषु धर्मलक्षणमवोचन्। प्राप्तव्यहेतो र्न मया प्राप्तं व्याकरणम्॥

५। एवं विपरिवर्तमानस्य मे तावज्जातो दीपंकरस्तथागतः। अपश्यं तं भगवन्तमश्रृण्वं धर्मम्। लब्धा च सर्वानुत्पादा धर्मक्षान्तिस्तदा लब्धं व्याकरणम्। दीपंकरेण तथागतेन शून्यधर्मेषु भाषितं धर्मलक्षणम्। परित्रातान्यप्रमेयसत्त्वसहस्राणि न तथापि भाषितं किञ्चिन्न च परित्रातः कश्चित्। लोकमागतेन लोकनायकमुनिना सत्स्वपि शून्यधर्मेषु भाषितं लेखितं प्रकाशितं। लोकमागतेन लोकनायकमुनिना सत्स्वपि शून्यधर्मेषु भाषितं लेखितं प्रकाशितं शिक्षितमामोदितं सर्वश्च वेदितमाचरितमपि च न प्रकाशितं नापि वेदितं न चाप्याचरितम्। एवं धर्माः स्वभावलक्षणेन शून्याः लेखनमपि शून्यम्। योऽभिजानाति सोऽपि शून्यः। योऽभाषत सोऽपि शून्यः। यश्च जनाति सोऽपि शून्यः। आदिः शून्यमनागतं शून्यं प्रत्युत्पन्नं शून्यम्। बोधिसत्त्वः संगृह्णन्दश कुशलोपायवलसहस्राणि सोत्साहो ऽकुसीदो पुण्यपरिपूरितो लभते ऽनुत्तरां सन्यक्सम्बोधिम्॥

६। नूनमसुकरमचिन्त्यं यदुच्यते धर्माभावे धर्माभावे धर्मलक्षणं प्राप्तव्याभावे प्राप्तिधर्माः। बुद्धगोचरमिदमेवंवस्त्वप्रमेययैतबुद्धप्रज्ञया केवलं ज्ञातुंशक्यम्। न च ज्ञातुं शक्यं चिन्तया। अचिरोत्पादितचित्तो बोधिसत्त्वः श्रद्धाचित्तेनानुशंसति बोधिमारोचयति च। श्रद्धाहेतोः क्रमेण बुद्धभाषितेषु विशति। का नाम श्रद्धा। श्रद्धया पश्यति चतुरार्यस्स्त्यानि निरुणद्धि क्लेशान् मिथ्याद्टष्टिसंयोजनानि। प्राप्नोत्यर्हत्वम्। पश्यति द्वादशप्रत्ययं द्वादशाङ्ग़ं प्रतीत्यसमुत्पादम्। निरुध्यन्ते चास्याविद्याजनिताः संस्कारा लभते प्रत्येकबुद्धताम्। श्रद्धया चरति चतुरो ब्रह्मचिहारान् षट् पारमिताः प्राप्नोत्यनुत्तारां सम्यक्सम्बोधिमित्युच्यते श्रद्धाक्षान्तिः॥

७। सत्त्वा अनादिमति जातिमरणलक्षणे सक्ता न पश्यन्ति धर्मस्वभावम्। प्रथमं द्रष्टव्यं यदेप स्वकायः पंचस्कन्धः प्रज्ञायते सत्त्व इति। तन्न नात्मा न सत्त्वः तत्कस्यहेतोः तत्रात्मा चेदात्मात्मवशस् तिष्ठेत्। सत्त्वास्तु जातिहराव्याधिमरणैः सदाक्रान्ता नात्मवशास् तिष्ठन्ति। ज्ञातव्यं तेन नात्मा। अनात्मत्वान्न कर्ता। अकर्तृत्वान्नोपादाता। धर्मस्वभावः परिशुद्धः। नित्यं तिष्ठति भूतकोटिः। एवमपरिपूरितप्रत्यवेक्षणोच्यते ऽन्वयक्षान्तिः। बोधिसत्त्वश्चरित्वा श्रद्धाक्षान्ति मन्वयक्षान्ति चाचिरं पुरयत्यनुत्तरां धर्मक्षान्तिम्॥

( इति बोधिचित्तोत्पादसूत्रशास्त्रे शून्यालक्षणं नामैकादशो वर्गः॥ )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project