Digital Sanskrit Buddhist Canon

दशमो वर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Daśamo vargaḥ
दशमो वर्गः

तथाताधर्ममुखं

१। कुलपुत्रेण कुलदुहित्रा वा चरता षट् पारमिता गवेषयताऽनुत्तरां सम्यक्संबोधिं प्रहातव्याः सप्त धर्माः। कतमे सप्त। प्रथमं प्रजहात्यकल्पाणमित्राणि। अकल्याणमित्राणि शिक्षयन्ति परिहर्तमनुत्तरां श्रद्धामुदात्तं संकल्पमनुत्तमं वीर्यं समुच्चेतुं च संक्लिष्टाचारान्। द्वितीयं प्रजहाति स्त्रीरूपं कामरागं पृथग्जनैर्विविक्तो भवत्यसहचरः। तृतीयं पश्यन्नात्मानमाभासं प्रजहात्यसद्ग्राहं स्नेहबहुमानानुरागांश्चिरं स्थास्यतीति। चतुर्थं प्रजहाति द्वेषप्रतिधमौद्धत्यं मानमीर्ष्वामसूयां यतो जयते कलहः प्रतिहन्यते कुशलचित्तम्। पञ्चमं प्रजहाति प्रमादं मदमानं कौसीद्यं स्वकं परित्तकुशलं च येनावजानाति परान्। षष्ठं प्रजहाति तैर्थिकागमं काव्यानि न चाबुद्धभाषितानि प्रशंसति। सप्तमं नोपगच्छति मिथ्याद्टष्टिमसम्यग्द्टष्टिम्। एवमिमे सप्तधर्माः प्रहातव्याः। उक्तं भगवता न पश्यामि तथान्यान्धर्मान्य आवृण्वन्ति बुद्धमार्गं यथेमे सप्तधर्माः। अतव बोधिसत्त्वेन प्रहातव्याः॥

२। अचिरमनुत्तरां सम्बोधिमभिसम्बोद्धुकामेनाचरितव्याः सप्तधर्माः। के सप्त। प्रथमंबोधिसत्त्वेनोपगन्तव्यानि कल्पाण मित्राणि। कल्पाणमित्राणि बुद्धा बोधिसत्त्वाश्च। श्रावका अपि बोधिसत्त्वं गम्भीरधर्मकोशे पारमितासु संप्रतिष्ठापयन्तो भवन्ति बोधिसत्त्वस्य कल्पाणमित्राणि। द्वितीयं बोधिसत्त्वेनोपचरितव्याः प्रव्रजिता आरण्यकधर्माश्च। मातृग्रामः प्रहातव्यः कामरागश्च। विविक्त्तेन भवितव्यं पृथग्जनैरसहचरेण। तृतीयं बोधिसत्त्वेन द्रष्टव्यः कायो मलभूमिवदशुचिसंश्रयः केवलं वातश्लेष्मपित्तलोहितकमरागार्हो दिने दिने मरणोन्मुखोऽनादरबुद्ध्या परिहर्तव्यः सोत्साहं भावयितव्यो मार्गः। चतुर्थं बोधिसत्त्वेन नित्यं चरितव्या शान्तिः क्षान्तिर्गुरुकरणीया मृदुताच। शिक्षयितव्याः क्षान्तौ स्थापयितव्याश्च जनाः। पंचमं बोधिसत्त्वेनाचरितव्यं वीर्यमुत्पादयितव्या ह्रीरपत्रपा च पूजयितव्य उपाध्यायः करुणायितव्या दीना दुःखितान्द्टष्ट्रा स्वकायेन परिग्रहीतव्यं तद्दुःखम्। षष्ठं बोधिसत्त्वेनभावयितव्यं विपुलं महायानबोधिसत्त्वपिटकं ग्रहीतव्या धारयितव्या वाचयितव्या धर्म्मा बुद्धानुशंसिताः। सप्तमं बोधिसत्त्वेनोपगन्तव्यं भावयितव्यं परमार्थसत्यम्। तथाहि। भूतलक्षणमेकलक्षणमलक्षणम् बोधिसत्त्वश्चेत्कामयते शीघ्रमभिसम्बोधिमभ्युपगन्तव्या एवमिमे सप्त धर्माः।

३। पुनः खलु पुरुषः प्राप्तिहेतोरुत्पादयति चेद् बोधिचित्तमप्रमेयमसंख्येयं कल्पं संगृह्णति मैत्रींकरुणां मुदितामुपेक्षां दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञाम्। ज्ञातव्यं न स पुरुषः प्रज्ञहाति जातिमरणम्। न च गच्छति बोधिम्। तत्कस्य हेतोः। [बोधि-] चित्तप्राप्तिरप्यस्ति प्राप्तिद्टष्टिः स्कन्धधात्वायतनद्टष्टिरात्मद्टष्टिः पुद्गलद्टस्टिः सत्त्वद्टष्टि जीर्वद्टष्टि मैत्रीकरुणामुदितोपोक्षादानशीलक्षान्तिवीर्यध्यानप्रज्ञादिद्टष्टिः। संक्षेपत उच्यते। बुद्धधर्मसंघद्टष्टिर्निर्वाणद्टष्टिरेवं यत्किञ्चत्प्राप्तव्यद्टष्टिः सर्वमेष आसङ्ग। चित्तासंग एवोच्यते मिथ्याद्टष्टिः। कस्मात्। पुरुषा मिथ्याद्टष्टयश्चकवत्परिवर्तन्ते त्रिघातौ सदैव परिहीयन्ते विमुक्तेः। अयमेप आसंगः। न चैवं कदापि निर्मुच्यते। न चाप्नुवन्त्ययनुत्तरां सम्यक्सम्बोधिम्॥

४। पुरुषश्चेदुत्पादयति बोधिचित्तं द्रष्टव्यं चित्तं शून्यलक्षणम्। किचित्तं कथं च शून्यलक्षणम्। चित्तं नाम मनोविज्ञानमेवं विज्ञानस्कन्धो मन आयतनं मनो धातुः। चित्तं शून्यलक्षणं न चित्तं चित्तलक्षणं न च कर्तृ। कस्मात्। या चित्तलक्षणशून्यता सा न च कर्त्री न च कारयित्री। यदि कश्चित्कर्त्तैव नास्ति न तर्हि कर्तृलक्षणम्। यदि बोधिसत्त्वो जानात्येवं धर्मान्सर्वधर्मेष्वनासक्तो भवति। अनासक्तिहेतो र्न जानातिकुशलाकुशलफ़लविपाक इति आचरितायां मैन्त्र्यां जानाति नास्त्यात्मा। अचरितायां करुणायां न सत्त्वाः। आचरितायां मुदितायां न जीवः। आचरितायामुपेक्षायां न पुद्गलः। आचरन्नपि दानं न पश्यति दानवस्तु। आचरन्नपि शीलं न पश्यति चित्तविशुद्धिम्। आचरन्नपि क्षान्तिं न पश्यति सत्त्वान्। आचरन्नपि वीर्यं न जहाति रागचितम्। आचरन्नपि ध्यानं परित्यजति नाकुशलचित्तम्। भावयतोऽपि प्रज्ञां न च काचिचित्तभावना। सर्वलंबना सर्वप्रज्ञा न चासङ्गोऽस्य प्रज्ञायाम्। न च प्रज्ञावाप्तिर्न च प्रज्ञा द्टष्टिः। य आचरत्येवमाचरति प्रज्ञां। न चतस्याचरितं भवति किंचित न चापि नाचरितं भवति किंचित्। अन्तः परिशुद्धोऽपि स विनेतुं सत्त्वनाचरति षट् पारमिताः। य अचरत्येवं भावयति चित्तं क्षणमवरोपितकुशलस्यापि तस्य पुण्यफ़लविपाकोऽप्रमेयोऽपर्यन्तः । असंख्येयैः कल्पकोटिशतसहस्रैरपि न तस्यान्तः। अवाप्नोति सोऽनायासेनानुत्तरां सम्यक्सम्बोधिम्॥

( इति बोधिचित्तोत्पादसूत्रशास्त्रेतथताधर्ममुखं नाम दशमो वर्गः॥ )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project