Digital Sanskrit Buddhist Canon

अष्टमो वर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Aṣṭamo vargaḥ

अष्टमो वर्गः

ध्यामपारमिता

१। बोधिसत्त्वः कथमावरति ध्यानम्। ध्यानमात्मपरोभयलाभाय चेदेवंविधं ध्यानं निष्पाद्यति बोधिमार्गम्। बोधिसत्त्वः कामयते विनेतुं सत्त्वानपर्हतुं दुःखान्यचरति तस्माद्ध्यानम्। योगावचरः स्वचित्तं संगृह्णन् सर्वविक्षेपैख्यवहितो गच्छन्तिष्ठन्निषीदञ्छयानो वा स्मृतिमभिमुखीमुपस्थापयति। पश्यत्यनुलोभं प्रतिलोभं कपालं शीर्ष कशेरुकां बाह्कुर्परमुरः पर्शकां श्रोणि कटं जान्वधरं गुन्फ़ौ। अनुस्मरत्यानपानमिति बोधिसत्त्वस्यादिध्यानचित्तम्॥

२। ध्यानचर्याहेतोर्न प्राप्नोत्यकुशलानि सदास्य नन्दति चित्तमित्यस्यात्मलाभः। विनयन्सत्त्वानाचारयति सम्यक्स्मृतिमिति परलाभः। चरित्वा परिशुद्धं समाधिं वीताकुशलवितर्कविचारः सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्युभयलाभः। ध्यानचर्या हेतोर्लभतेऽष्टौ विमोक्षान्यावच्छ्ररंगमवजसमाधिमिति निष्पादयति बोधिमार्गम्॥

३। ध्यानं त्रिभिर्धर्मैरुपजायते। के वयः। प्रथमः श्रुतमयी प्रज्ञा। द्वितीयश्चिन्तामयी प्रज्ञा। तृतीयो भावनामयी प्रज्ञा। त्रिभिरेभिर्धर्मैः क्रमेणोपजायन्ते सर्वसमाधयः॥

४। का नाम श्रुतमयी प्रज्ञा। यथा यथा धर्माञ्चणोति तथा तथस्य चित्त्ं प्रीतं भवति सुखितम्। पुनरेवमनुस्मरति सन्त्यानन्तर्यविमोक्षादयो बुद्धधर्माः। इमे धर्मा बहुश्रतेनावाप्यन्ते। एवमनुस्म्मृत्य सर्वदा धर्मगवेषणाकालेऽस्योत्तरोत्तस्मुत्साहः संप्रवर्धते ऽहोरात्रं धर्मश्रवणेऽस्याभिरुचिर्भवति न च क्लान्तिर्नाप्यस्यतुप्तिरिति श्रुतमयी प्रज्ञा।

५। का नाम चिन्तामयी प्रज्ञा। चिन्तयति सर्वे संस्कृतधर्मास्तथतालक्षणाः। तथा हि। अनित्या दुःखाः शून्या अनात्मानोऽशुचयः क्षणं क्षणमुत्पद्यन्ते निरुध्यन्तेऽचिरं पमोहाग्निना ज्वलिताः संवर्द्धयन्ति पश्चिमं दुःखमहास्कन्धम्। मायावन्मृषेव भाघ इत् सर्वेषु संस्कृतधर्मेषु जनयति संवेगम्। समधिकोत्साहं गच्छति बुद्धप्रज्ञाम्। चिनयति यत्तथागताप्रज्ञाऽचिन्त्याऽपरिमेया महाबलाऽपराजिता प्राप्ताऽपगतभयस्पर्शां महानगरी न च पुनरावर्तते दुःखेभ्योऽप्रमेयेभ्यः सत्त्वानपरित्रायते। एवं जानाति बुद्धस्याप्रमेयां प्रग़्यां पश्यति संस्कृतधर्माणामपरिमेयदु। कामयते गवेषयितुमनुत्तरं महायानमिति चिन्तामयी पज्ञा॥

६। का नाम भावनामयी प्रज्ञेत्युच्यते। त्यजति रागमकुशलांश्च धर्मान्। तेनोपजायन्तेऽस्य वितर्कविचारप्रीतिसुखानि विशति प्रथमं ध्यानम्। क्षपयतो वितर्कविचारन् प्रसन्नभ्यन्तरस्तैकाग्रचित्तस्यावितर्कविचारः समाधिरस्योपजायते सप्रीति शुखं विशति द्वितीयं ध्यानम्। प्रीति परित्यज्योपेक्षासंस्कारवान् स्मृतिसंप्रजन्यचित्तः काये शुखं वेदयक्षार्याभिलापेपेक्षार्हां नित्यमनुस्मरन्सुखां वेदनां विशति तृतीयं ध्यानम् प्रजहाति दुःखं प्रजहाति शुखं निरुणद्धि शोकं प्रीति विशत्यदुःखम्शुखमुपेक्षास्मृतिपरिशूद्धं चतुर्थं ध्यानम्।
अत्येतिसर्वं रूपलक्षणम्। निरुणद्धि सर्वं प्रतिघलक्षणं नानुस्मरति विषभागलक्षणं तेन जानत्याकाशमनन्तम्। ततः प्रविशत्यकाशमरूपध्यानायतनम्। अत्येति सर्वमाकाशलक्षणं तेन जानाति विज्ञानमनन्तम्। ततप्रविशति विज्ञानम्रूपध्यानायतनम्। अत्येति सर्वं विज्ञानलक्षणं तेन जानात्याकिंचन्यम्। तेन जानन् नेवसंज्ञानास्ंज्ञास्पर्शं ततः प्रविशति नैव संज्ञानासंज्ञायतनम्। सर्वधर्मान्केवलमनुस्मरञ्चरति न च रज्यति गवेषयत्यनुत्तरं महायानम्। पूरयत्यनुत्तरां सम्यक् सम्बोधिमिति भावनामयी प्रग़्या।
बोधिसत्त्वः श्रुतेन चिन्तया भावनया च संगृह्णाति चित्तम्। ततः पूरयति [षड्] अभिज्ञा [स्तिस्रो ] विद्याः समाधि ध्यानपारमिताम्॥

७। ध्यायन्बोधिसत्त्वः पुनराचरति दशधर्माञ्छ्रावकप्रत्येकबुद्धावेणिकान्। के देश। ध्यायन्नैरात्म्यमवाप्नोति तथागतध्यानानीति प्रथमः ध्यान्न च सक्तो न च रक्तो न च भवति क्लिष्टचित्तो न च गवेषयत्यात्मसुखमिति द्वितीयः। ध्यायन्नवाप्नोत्युद्धिकर्माणि परिग़्यातुं सत्त्वानां चित्तचर्यामिति तृतीयः। ध्यान्प्रजानाति जनकायचित्तानि परित्रायते च सर्वसत्त्वानिति चतुर्थः। ध्यायान्नाचरति महाकरुणां छिनत्ति सत्त्वानां क्लेशग्रन्थिमिति पंचमः। ध्यायन्ध्यानसमाधिं सम्यग्जानाति प्रमेशनिर्गममतिक्राम्यति त्रिधातुमिति षष्टः। ध्यायन्नित्यमुलभते वशितामवाप्नोति कुशलधर्मानिति सप्तमः। ध्यायञ्चितं शान्तंभवति निर्वृत्तं यानद्वयस्यातिक्राम्यति सर्वाणि ध्यानानीत्यष्टमः। ध्यायन्नित्यं विशति प्रज्ञां लोकमतिक्रम्यावप्नोति तत्पदमिति नवमः। ध्यायन्प्रतिष्ठापयति सद्धर्मं निरन्तरं संवर्द्धयति त्रिरत्नं येन भवत्यनुच्छिन्नमिति दशमः। भवति चैवंविधं ध्यां श्रावकप्रत्येकबुधावेनीकम्॥

८। ज्ञातुं पुनः सर्वसत्त्वानां क्लिष्टचित्तानि संगृह्णाति सर्वध्यानसमाधिधर्मान् चित्तस्थैर्यं विधातुं। ध्यायान्प्रतिष्ठापयति चित्तसमतामित्युच्यते ध्यानम्। एवं समता ह्यानं समं शून्यतया ऽल्क्षणतया ऽप्रणिहिततया ऽक्रियया। शून्यता खल्वलक्षणाप्रणिहिताक्रियाभिः समा तेन सत्त्वा अपि समाः। यतः सत्त्वाः। यतः सत्त्वाः समास्तेन धर्मा अपि समाः। इति विशत्येवंविधां समतामिति ध्यानम्॥

९। पुनर्बोधिसत्त्वो लोकमनुचरन्नपि न च भवति लोकसक्तः प्रजहात्यष्टौ लोकधर्मान्विनाशयति सर्वग्रन्थिं त्यजति जनावासं रोचतेऽस्य विविक्तायतनम्। एवं ध्यानमाचरतश्चित्तं संप्रतिष्ठितं भवति प्रजहाति संसारकर्माणि॥

१०। पुनर्बोधिसत्त्वस्य ध्यानमाचरत ऋद्धिर्भवति प्रज्ञोपायो मतिः कथं भवत्यृद्धि कथं प्रज्ञा। पश्यति चेद्रूपलक्षणम् शृणोति शब्दं जानाति परचित्तं स्मरत्यतीतं प्राप्नोति सर्वबुद्धलोकधातून्तदस्यार्द्धिः। रूपं जानाति चेद् धर्मस्वभावं जानाति शब्दगंन्धरसस्प्रष्टव्यचित्तसंस्काराः स्वभावालक्षणाः शान्ताःपरिनिर्वृतास्त्रिष्वध्वसु समा इति। आकाशलक्षणं जानाति बुद्धलोकधातुमपरिप्राप्तनिरोधमितिप्रज्ञा। कथमुपायः कंथ मतिः। ध्यानसमाधिमनुविशन्नुत्पादयति महामैत्रीं करुणां न जहाति प्राणिधानं वज्रमिव भवति चास्य चित्तमवलोकयन्बुद्धलोकधातु निष्पादयति बोधिमार्गमित्युपायः। चित्तं सर्वथास्यभवति शान्तम्। न चात्मान च पुद्गल इति चिन्तयति सर्वधर्मान्मूलस्वभावाविक्षेपान्। पश्यति बुद्धलोकधातुमाकाशलक्षणम् यन्निष्पन्नं तत्पश्यति शान्तं निर्वाणमिति मतिः।
इति बोसित्वश्चरन्ध्यानमृद्धि प्रज्ञामुपायं मति च विभज्य चतुर्वस्तून्याचरत्यवाप्तोत्यनुत्तरां सम्यक्सम्बोधिम्। बोधिसत्त्वो महासत्त्वो ध्यानमाचरन्नोपलभतेऽकुशलचित्तमक्षोम्यधर्मतया परिपूरयति ध्यानपारमिताम्॥

( इति बोधिचित्तोत्पादसूत्रशास्त्रे ध्यानपारमिता नामाष्टमो वर्गः।)
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project