Digital Sanskrit Buddhist Canon

सप्तमो वर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Saptamo vargaḥ
सप्तमो वर्गः

वीर्यपारमिता

१। बोधिसत्त्वः कथमाचरति वीर्यम्। वीर्यमात्मपरोभयलाभायचेदेवंविधं वीर्यं निष्पादयति बोधिमार्गम्। बोधिसत्त्वः कामयते विनेतुं सत्त्वानापर्हतुं दुःखान्याचरति तस्माद्वीर्यम्। वीर्यमाचरन्सर्वाध्वसु सर्वदोत्साहचर्यया संगृह्णाति परिशूद्धं ब्रह्मचर्यं परिहरति कौसीद्यं न च चित्तेन प्रमाद्यति। कृच्छ्रेष्वहितापक्षवस्तुषु सर्वदास्य वीर्यवत्तया चित्तं नान्ततः प्रत्यावर्तत इति बोधिसत्त्वस्यादि वीर्यचित्तम्॥

२। वीर्याचरणेन लभते लोकचरं लोकोत्तरमनुत्तरं सद्धर्ममित्यस्यात्मलाभः। शिक्षयति सत्त्वान्येनाचरंत्यभ्युत्साहेन कुशलमिति परलाभः। चरित्वा बोधेः सम्यघेतुं सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्युभयलाभः। वीर्यचर्याहेतोर्लभते परमपरिशुद्धं सत्फ़लमतिक्रम्य च भूमी र्यावच्छीघ्रं पूरयति सम्बोधिमिति निष्पादयति बोधिमार्गम्॥

३। वीर्यं द्विविधम्। गवेपयत्यनुत्तरं मार्गमिति प्रथमम्। परित्रातुं दुःखाद्विपुलाभिलापेण वीर्यं जनयतीति द्वितीयम्। पूरयन्बोधिसत्त्वो दशानुस्मृतीरुत्पादयति बोधिचित्तम्। आचरति वीर्यम्। का दशानुस्मृतयः। प्रथमा बुद्धानुस्मृतिरप्रमेयपुण्या। द्वितीया धर्मानुस्मृतिरचिन्त्यविमुक्तिः। तृतीया संघानुस्मृतिः परिशुद्धतया निष्कलंका। चतुर्थी महामैत्र्यनुस्मृतिः सत्त्वव्यवस्थापनाय। पंचमीमहाकरुणानुस्मृतिर्दुःखतः परित्राणाय। षष्ठी सम्यक्समाधिस्कन्धानुस्मृतिरनुरोचयितुं कुशलाचरणाय। सप्तमी मिथ्यासमाधिस्कन्धानुस्मृतिरुद्धर्तुं ( सत्त्वान् कुशल- ) मूलं प्रत्यानयनय। अष्टमी प्रेतानुस्मृतिः क्षुत्पिपासोष्णताक्लेशमयी। नवमी तिर्यगनुस्मृति दीर्घदुःखवेदनात्मिका। दशमी नरकानुस्मृतिर्दाहनभर्जनवेदनात्मिका। बोधिसत्त्व एवं भावयति दशानुस्मृतीस्त्रिरत्नपुण्यानि। भावयेयमहं सम्यक्समाधि मैत्री करुणां (तत्र) सत्त्वानारोचयेयमहं मृषा ध्यायतस्त्रिदुर्गतिदुःखादुद्धरेयं नित्यमहं परिरक्षयेयमित्येवं चिन्तयति। संचिन्तयन्नविक्षितं दिवानक्तं भावयति सोत्साहं न च विश्राम्यतीति सम्यक्स्मृतिता वीर्यं समुदेति॥

४। वीर्यं पुन र्बोधिसत्त्वस्य चतुर्विधम्। तथाहि। चतुःसम्यक्प्रधान [ प्रहाण ] मार्गमाचरतोऽनुत्पन्नानामकुशलानां धर्माणां पुनरनुत्पादः। उत्पन्नानां पुनरकुशलानां धर्माणां शीघ्रं सम्प्रहाणम्। अनुत्पन्नानां कुशलानां धर्माणामुपायेन समुत्पादः। उत्पन्नानां कुशलानां धर्माणां परिपूरणं संवर्द्धनं च। एवं बोधिसत्त्व आचरति चत्वारि सम्यक्प्रधानानि न च विश्राम्यतीत्युच्यते वीर्यम्।

५। वीर्यं क्षपयति सर्वक्लेशधातून्सम्प्रवर्धयति बोधेरनुत्तरायाः सम्यग्‌हेतुम्। कायचित्तमहादुःखान्यखिलान्यपि सहमानो बोधिसत्त्वोऽवस्थापयितुममिलपति सत्त्वान्न च विश्राम्यतीत्युच्यते वीर्यम्॥

६। बोधिसत्त्वः विगतकल्मपोऽचाटुकुटिलः पर्यवसितमिथ्यावीर्य आचरति सम्यग्वीर्यम्। तथाहि। आचरति श्रद्धां दानं शीलं क्षान्तिं ध्यानं प्रज्ञां मैत्री करुणां मुदितामुपेक्षाम्। साभिलाषं करोग्यकरवं करिष्यामीति विश्वस्तचित्तः सर्वदाचरति वीर्यम्। नानुतापोऽस्य कुशलधर्मेषु। प्रदीप्तशिर इव परित्रायते सत्त्वान्न च चित्तं परावर्तयतीत्युच्यते वीर्यम्॥

७। कायजीवितनिरपेक्षोऽपि बोधिसत्त्वः परित्रातुं (सत्त्वान्) दुःखेभ्यः परिपालयतुं सद्धर्मं कायमपेक्षते नोपेक्षत ईर्यापथं सर्वदा भावयितुं कुशलधर्मान्। कुशलधर्माचरणकाले न चित्तेन कुसीदो भवति। कायजीवितविधातेऽपि धर्मं न परित्यजतीति बोधिसत्त्वो बोधिमार्गं चरन्सोत्साहमाचरति वीर्यम्। कुसीदः पुरुषोऽसमर्थो नैककालं सर्वं ददाति न च शीलमुद्गृणायि न च क्षमते दुःखानि न चाचरत्यभ्युत्साहेन वीर्यम्। न च समाधौ स्मृतिसंप्रजन्यचित्तो भवति न च कुशलाकुशलं विविनक्ति। तेनोच्यते धीर्यमुपादाय षट्पारमिताः संप्रवर्धन्त इति। बोधिसत्त्वो महासत्त्वः संप्रवर्धयति चेद् वीर्यं लभतेऽचिरात् सम्यक्संवोधिम्॥

८। बोधिसत्त्वो महानिष्पत्त्युत्पादेन पुनश्चतुर्विधं वीर्यं जनयति। तन्न प्रथममुत्पादयति महानिष्पत्तिं द्वितीयं संगृह्णाति शूरंगमं तृतीयमाचरति कुशलमूलं चतुर्थं विनयति सत्त्वान्। कथं बोधिसत्त्वोमहानिष्पत्तिमुत्पादयति। जातिमरणेषु क्षमतेऽस्य चित्तं न च गणयति कल्पसंख्यामप्रमेयेष्वपर्यन्तेषु नियुतकोटिशतसहस्रगंगानदीबालुकावदसंख्येयेषु कल्पेषु बुद्धमार्गमुद्ग्रहीष्याम्यक्लान्तचित्त इत्यकुसीदस्य [ महा ] निष्पत्तिवीर्यम्। बोधिसत्त्वः संगृह्णञ्छूरंगमं जनयति वीर्यम् त्रिसाहस्रमहासाहस्रोऽयं लोकधातुः परिपूर्णोऽन्निनेति द्रष्टुं बुद्धं श्रोतुं धर्म स्थापयितुं सत्त्वान्कुशलधर्मेष्वतिक्रामत्येतमग्निं विनेतुं सत्त्वान् संप्रतिष्ठापयति चित्तं महाकरुणायामिति शूरंगमवीर्यम्। बोधिसत्त्व आचरन्कुशलंमूलं जनयति वीर्यम्। उत्पादितानि सर्वाणि कुशलमूलानि परिणामयत्यनुत्तरायां सम्यक्संबोधौ परिपूरयितुं सर्वज्ञतामिति कुशलमूलाचरणवीर्यम्। बोधिसत्त्वः विनयन्सत्त्वाञ्जनयति वीर्यम्। अप्रमेयाः सत्त्वभावा अपर्यन्ता आकाशधातुसमा अपरिसंख्येयाः। बोधिसत्त्वः प्रणिदधाति यन्निर्वापयितव्यान्ते यथा न कश्चनावशिष्यते। निर्वापयितुं सोत्साहमाचरति वीर्यमिति [सत्त्व-] विनयवीर्यम्॥

९। संक्षेपत उच्यते। बोधिसत्त्वो भावयति मार्गसहायां पुण्यसहायामनुत्तरां प्रज्ञाम्। संगृह्णन्बुद्धधर्मानुत्पादयति वीर्यम्। अपर्यन्ता बुद्धगुणाप्रमेयाः। बोधिसत्त्वस्य महासत्त्वस्य महानिष्पत्युत्पादेन जनितं वीर्यमप्येषमपर्यन्तमप्रमेयम्। बोधिसत्त्वो महासत्त्वो वीर्यमाचरन्नविरक्तचित्तोभवत्युद्धर्तुं दुःखानीति पूरयति वीर्यपारमिताम्॥

( इति बोधिचित्तोत्पादसूत्रशास्त्रे वीर्यपारमिता मान सप्तमो वर्गः॥ )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project