Digital Sanskrit Buddhist Canon

षष्ठो वर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ṣaṣṭho vargaḥ

षष्ठो वर्गः

क्षान्तिपारमिता

१। बोधिसत्त्वः कथमाचरति क्षान्तिम्। क्षान्तिरात्मपरोभयलाभाय चेदेवंविधा क्षान्तिर्निष्पादयति बोधिमार्गम्। बोधिसत्त्वः कामयते विनेतुं सत्त्वानपर्हर्तुं दुःखान्याचरति तस्मात्क्षान्तिम्। क्षान्तिमाचरतश्चितं विनीतं भवति। सत्त्वानामुपेक्षते बलवन्मदमानं ( स्वयं ) न चाचरति। पश्यन्तुद्वृत्तानुत्पादयति करुणाम्। मृदुलमुदीरयन्देशयति कुशलचर्याम्। विभज्य दर्शयति यो द्वेपो या च क्षान्तिर्यश्च तयोर्विपाक इतीदं बोधिसत्त्वस्यादिक्षान्तिचित्तम्॥

२। क्षान्त्याचरणहेतोः पापकं विदुरी भवति। कायचित्तं प्रशान्तं भवतीत्यस्यात्मलाभः। विनयति सत्त्वाननुवर्तते सर्वानिति परलाभः। चरित्वा महतीमनुत्तरां क्षान्ति सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्युभयलाभः। क्षान्तिचर्याहेतोर्लभते जनमतं यावल्लभते बुद्धस्य शोभनोत्तमानि लक्षणानुव्यञ्जनानीति निष्पादयति बोधिमार्गम्॥

३। क्षान्तिस्त्रिविधा। तद्यथा कायक्षान्तिर्वाक्क्षान्ति र्मनःक्षान्तिश्चेति। का नाम कायक्षान्तिः। यदि कश्चनाक्रोशति निन्दति ताडयति यावताहरति तत्सर्वं क्षमते। पश्यन्सत्त्वानत्राणे भये च व्यतिहरति तैरात्मानं न च श्राम्यतीति कायक्षान्तिः॥
४। का नाम वाक्क्षान्तिः। आक्रोशकं पश्यन्न प्रत्याक्रोशति निःशब्दं क्षमते। आकोशकमकारणमप्युपगतं विलोकयन्मधुरया गिरा सम्प्रतीच्छति। मृपैव दूष्यमाणो निर्निमित्तमभ्याख्यातः सर्वं क्षमत इति वाक्क्षान्तिः॥

५। का नाम मनःक्षान्ति। द्वेषिणमवलोकयन्नोद्गृह्णाति द्वेपचितं कोपितो न विकरोत्यात्मचित्तम्। निन्दापकीर्तिष्वति चित्ते भवति निवैर इति मनःक्षान्ति॥

६। ताडितं जगति द्विविधम्। उचितमनुचित्तं च। सत्यपराधे संदिहानेन केन चिज्जनेन ताडितः क्षमेतामृतमिवोद्गृह्णीयादादरमुत्पादयेत्ताडयितरि। कस्मात्। साधु शीलं शिक्षयन्मां चिकित्सति पापादपनयति। यद्यनुचितमेव मामपकरोति मामपहन्ति तदा चिन्तयेन्न कृतो मयापराधोऽतीतकर्मणामेवैतत्कारितं तेन सोढव्यमेच। पुनरेवं विभावयेद्यत्वारि भूतानीमानि पञ्चस्कंघप्रत्ययैरभिसंहतानि यानि ताडयन्ते ताडयन्ति च। पुनरेवं पश्येद्यत्स पुरुषोऽज्ञ इवोन्मत्त इवेति मया करुणायितव्यं किमुत न क्षन्तव्यम्॥

७। आक्रोशो द्विविधः। उचितोऽनुचितश्च। उचितमुक्तं चेन्मयापत्रप्तव्यम्। अनुचितमुक्तं चेन्मवा न किंचिदपि कर्तव्यम्। धवनिरिव वायुरिव चातिगच्छन्नापकरोति मामिति सोढव्यम्। द्विष्टोऽप्येवमेव सोढव्यः। कुपितो मयि मया सोढव्यः। अहं चेत्तं प्रतिकुप्येयं दुर्गतिमधिगच्छेयमनागतेऽध्वनि वेदयेयं महादुःखम्। प्रत्ययैरेभिर्मम कायश्चेद्भिद्येत विशीर्येत मया नोत्पादनीयो द्वेपः। प्रत्ययानामतीतकर्मणामेतदिति गम्भीरं प्रत्यवेक्षणीयम् करूणाचरणीया मैत्री च। करुणायितव्यं सर्वेषु। यद्येहं न प्रभवाम्येवमल्पमपि दुःखं सोढुं न च शक्नोमि दमयितुं स्वचित्तं तत्कथमहं प्रभविष्यामि विनेतुं सत्त्वान्विमोचयितुं सर्वानकुशलधर्मान्पूरयितुमनुत्तरं फ़लम्॥

८। यो हि धीमान्सुखेन क्षान्तिमाचरति लभते स आकारवैशिष्ट्यम्। बहुधनौ भवति जनास्तमवलोक्य मुदिता भवन्ति सुखिताश्च भवन्ति सुखिताश्च भवन्ति मानयन्त्यनु वर्तन्ते च। पुरुषं चेद्विकलाङ्गं पश्येद्वीभत्सदर्शनं विकलेन्द्रियमकिञ्चनं जानियात्तदिदं द्वेपप्रत्ययैः कारितम्। एभिः प्रत्ययै धींमानाचरेद्गम्भीरां क्षान्तिम्॥

९। क्षान्त्युत्पादप्रत्ययस्य सन्तीमानि दश वस्तूनि। आत्मनि नात्मलक्षणं पश्यतीति प्रथमम्। न जातिमेदं मनसि करोतीति द्वितीयम्। प्रतिनिवर्तते मदमानादिति तृतीयम्। अपकुर्वन्तं न प्रत्ययकरोतीति चतुर्थम्। अनित्यलक्षणं पश्यतीति पंचमम्। मैत्री करुणा चाचरतीति षष्ठम्। न चित्तेन प्रमाद्यतीति सनमम्। उपेक्षते क्षुत्पिपासादुःखदुःखादीनीत्यष्टमम्। द्वेपं प्रजहातीति नवमम्। प्रज्ञा भावयतीति दशमम्। पुरुषश्चेदिमानि पूरयति दश वस्तृमि ज्ञातव्यं शक्नोति स पुरुषः क्षान्तिमाचरितुम्॥

१०। बोधिसत्त्वो महासत्त्वः परिशुद्धायां यदाचरति चरमायां क्षान्तौ प्रविशते शून्यतामलक्षणमप्रणिहितमसंस्कृतम्। न च द्टष्टिज्ञानप्रणिहितसंस्कृतैः संपरिष्वक्तो भवति नापि च शून्यताऽलक्षणाप्रणिहितासंस्कृतेषु रज्यति। दृष्टिज्ञानप्रणिहितसंस्कृतं सर्वमेवशून्यमित्येवंविधा क्षान्तिरद्वयलक्षणा परिशुद्धा चरमा क्षान्तिरित्युच्यते।
यदि विशति संयोजनपरिक्षयं यदि विशति शान्तं निर्वाणमसंपृक्तजातिमरणं न चास्य रागो भवति संयोजनक्षये न च शान्ते न निर्वाणे। संयोजनजातिजरामरणं सर्वं शून्यमित्येवंविधा क्षान्तिरद्वयलक्षणा परिशुद्धा चरमा क्षान्तिरित्युच्यते।
भावो न स्वतो जायते न परतो जायते न द्वाभ्यां जायते। अपि च नास्त्युपादो न चोच्छेदो न च विनाशो न चाविनाशो न क्षय इत्येवंविधा क्षान्तिरद्वयलक्षणा परिशुद्धा चरमा क्षान्तिरित्युच्यते।
न कृताकृतं नासंगो न भेदो न निष्पत्तिर्न चर्या नोत्पादवीर्यं न करणोत्पाद इत्येवंविधा क्षान्तिरनुत्पादक्षान्तिः। बोधिसत्त्वो यदाचरत्येवंविधां क्षान्ति लभते व्याकरणक्षान्तिम्। बोधिसत्त्व आचरति क्षान्तिं भावलक्षणशून्यतां सत्त्वाभावहेतौस्ततः पूरयाते क्षान्तिपारमिताम्॥

( इति बोधिचित्तोत्पादसूत्रशास्त्रे क्षान्तिपारमिता मान षष्ठो वर्गः॥ )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project