Digital Sanskrit Buddhist Canon

तृतियो वर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Tṛtiyo vargaḥ
तृतियो वर्गः

प्रतिधानम्

१। बोधिसत्त्वः कथमुत्पादयति बोधिम्। कया कर्मचर्यया परिपूरयति बोधिम्। उत्पादितचित्तो बोधिसत्त्वः शुविदर्शनाभूमि मधिष्ठितो द्टढ्मादावुत्पादयति सम्यक्प्रणिधानं संग्रहीतुं सर्वानप्रमेयान्सत्त्वान्। गवेषयाम्यहमनुत्तरां बोधिं पारत्रातुं निरवशेपं प्रापयितुमनुपधिनिर्वाणम्। तस्माच्चित्तोत्पादादरभ्य महाकरुणायाः करुणाचित्तेनोत्पादयति दशोत्तरणि सम्यक्प्रणिधानानि॥

२। कतमानि दश। कामये यन्मया पुरा जन्मनीहचानेन कायेन यदवरोपितं कुशलमूलं तदुत्सृजाम्यपर्मन्तेभ्यः सर्वसत्त्वेभ्यः। परिणामयामि च सर्वाननुत्तरायां बोधौ। क्षणं क्षणं प्रणिधानमेतन्मे संवर्द्धेत जातौ जातौ च जायेत नित्यं चित्तानुबद्धं न कदापि विस्म्रियेत धारण्या च परिक्ष्येत।
कामये यदहं परिणाम्य महाबोधावनेन कुशलमूलेन सर्वजातिनिवासेषु नित्यं पूजयेयं सर्वबुद्धान्न कदाप्यबुद्धक्षेत्रेषु संभवेयम्।
कामये यदहमुत्पद्य बुद्धक्षेत्रे षूपगच्छेयं बुद्धानुपतिष्ठेयं बुद्धाञ्छायेव शरीरमनुगतः क्षणमपि न दूरीभवेयं बुद्धेभ्यः।
कामये यदहमुपगतो बुद्धांस्तै र्यथाकामं ममार्थाय देशितेन धर्मेण निष्पादयेयं बोधिसत्त्वपंचाभिज्ञानानि।
कामये यदहं निष्पाद्य बोधिसत्त्वपंचाभिज्ञानानि संवृतिसत्यं विज्ञप्तिप्रसृतं प्रतिबुध्य परमार्थसत्यं भृतस्वमावं परिज्ञाय प्राप्नुयां सम्यग्धर्मज्ञानम्।
कामये यदहं प्राप्य सम्यग्धर्मज्ञानमविश्रान्तचित्तेन देशयेयं सत्त्वेभ्यो निदर्शयितुमुपदेशहितान् अबबोधयितुं च तान्सर्वान्।
कामये यदहमबबोध्य सर्वान्सत्त्वान्बुद्धानुभावेन गच्छेयं दशदिक्षु निरवशेषेषु लोकधातुषु पूजतितुं बुद्धाञ्छ्रोतुं सद्दर्मान् संपरिग्रहीतुं सत्त्वान्।
कामये यदहं बुद्धक्षेत्रेषु सद्धर्ममुद्गृह्यानुप्रवर्तेयं परिशुद्धं धर्मचक्रम्। दशदि कथातुषु सर्वेसत्त्वा मम देशनां श्रुत्वा मम नामाकर्ण्य परित्यजन्तु सर्वान्क्लेशानु दयन्तु बोधिचित्तम्।
कामये यदहं सर्वसत्त्वेषु बोधिचित्तमुत्पाद्य नित्यं परिपालुयितुं परिहरेयमलाभं प्रपच्छेयमप्रमेयसुखान्युत्सृजेयं जीवितं धनानिचोद्धरेयं सत्त्वानुद्वहेयं सद्धर्मम्।
कामये यदहं सद्धर्ममुदूढय चरित्वापि सद्धर्मं चित्तेन नाचरेयम्। यथा सत्त्वा आचरितधर्माणोऽपि नाचरितधर्माणो न च नाचरितधर्माणः। विनेतुं वान्नोत्सृजेयं सम्यक्प्रणिधानम्। इतीमे समुत्पादितचित्तानां बोधिसत्त्वानां सम्यग्महाप्रणिधानानि। इमानि दशमहाप्रणिधानानि सर्वसत्त्वधातुषृद्गृह्णन्ति गंगानदीबालकासमानि प्रणिधानानि। यदि च सत्त्वानां समाप्तिः स्यान्मम धानानामपि समाप्तिर्भवेत्। नच खलु सत्त्वानां समाप्तिस्तेन मम प्रणिधानानामपि न समाप्तिः॥

३। पुनः खलु दानं बोधिहेतुः सर्वसत्त्वानुग्राहकत्वात्। शीलं बोधिहेतुः दशलप्राप्त्या मूलप्रणिहितपरिपूरकत्वात्। क्षान्तिर्बोध्हेतुर्द्वत्रीशल्लक्षणाशीत्यनुप्यञ्जनसंप्रापकत्वात्। वीर्यं बोधिहेतुः कुशलाचारवर्धकतया सोत्साहं सत्त्वपरिपाचकत्वात्। ध्यानं बोधिहेतुर्बोधिसत्त्वानां सम्यगात्मसंयमनेन सत्त्वचित्तचर्याववोधकत्वात्। प्रज्ञा बोधिहेतु र्निरवशेपं धर्मभावलक्षणाववोधकत्वात्। संक्षेपत उच्यते षडिमाः पारमिता बोधेः सम्यघेतुः। चत्वारो ब्रह्मविहाराः सप्तविशद्बोधिपाक्षिका धर्मा सहस्रशः कुशलाचाराः सहकारिणः पूरयितारः। यदि बोधिसत्त्व आचरति षट् पारमितास्तदनुसृत्य चरति चर्यां क्रमेणोपैत्यनुत्तरां सम्यक्सम्बोधिम्॥

४। बुद्धात्मजा बोधि गवेषयद्भिर्न प्रमदितव्यम्। प्रमादाचरणेन विनश्यतिकुशलमूलम्। बोधिसत्त्वो दमयति षडिन्द्रियाणि न प्रमाद्यति चेदाचरितुं शक्नोति षट् पारमिताः। बोधिसत्त्वश्चित्तमुत्पाद्य प्रतिष्ठापयति स्थैर्यं संप्रतिष्ठापयति द्टढं प्रणिधानम्। प्रणिहितं प्रतिष्ठाप्य न कदापि प्रमाद्यति न च भवति कुसीदो न च दीर्घसूत्रः। तत्कस्य हेतोः। प्रणिहितमधिष्ठितः पंचवस्तून्युद्गृह्णाति। द्टढयति चित्तमिति प्रथमम्। अतिक्राम्यति क्लेशानिति द्वितीयम्। निरुणद्धि विचिन्त्य प्रमादचित्तमिति तृतीयम्। भिनत्ति पंचनीवरणानीति चतुर्थम्। सोत्साहमाचरति षट् पारमिता इति पंचमम्। तथाचानुशंसितं भगवता तथागतै र्महाप्राज्ञै र्भहाप्राज्ञै र्भगवद्भि व्याख्यातेषु गुणेषु क्षान्तिप्रज्ञापुण्यवलानामधिगमेषु प्रणिधानबलमुत्तममिति॥

५। कथं प्रतिष्ठापयति प्रणिधानम्। यदि कश्चिदायाति बहुबिधं याचितुं तदहं ददामि यावन्नोत्पादयामि क्षणमपि मात्सर्यचित्तम्। क्षणमपिनिमेषमप्युत्पादय न्नशुभचित्तं दानप्रत्ययेन चेद्गवेषयामि शुभविपाकं तदहं प्रतारयामि दशदिक्षु भगवतोऽप्रमेयानापर्यन्तानसंख्येयान् प्रत्पुत्पन्नांस्तथागतान् अनागतेऽश्वन्यपि न पूरयेयं ध्रुवमनुत्तरां सम्यक्सम्बोधिम्। यद्यहंधारयामि शीलं यावदुत्सृजन्नप्यात्मभावं (जीवितं) प्रतिष्ठापयामि परिशूद्धं चित्तं प्रणिदधामि यन्न प्रतिनिवर्ते नानुशोचामि। यद्यमाचरामि क्षान्तिं परेणाक्रान्तः प्रत्यंगं विभज्यमानोऽपि च्छिद्यमानोऽप्युत्पादयामि नित्यं मैत्रीं प्रणिदधामि यन्नाचरेयं द्वेषम्। यद्यहमाचरामि वीर्यमुपलभ्य शीतोष्णराजदस्युजलाग्निसिंहव्याघ्रवृकनिर्जकान्तारान् द्टढिकरोमि चित्तं प्रणिदधामि यन्न प्रतिनिवर्ते। यद्यहं भावयामि ध्यानं बाह्यै र्वस्तुभिः क्लिश्यमानोऽपि व्याकुलचित्तौऽप्यनुबध्नामि स्मृतिं कर्मस्थाने। क्षणमपि न कदाचिदुत्पादयाम्यधर्म्यां विक्षेपसंज्ञाम्। यद्यहं भावयामि प्रज्ञां सर्वधर्मास्तथताभूतान्पश्यन्परिगृह्णपि। कुशलाकुशलेषु संस्कृतासंस्कृतेषु जातिमरणनिर्वाणेषु नोत्पादयामि द्वैतद्टष्टिम्। यद्यहं निमेषमपि क्षणमप्यनुशोचन्द्विषन् प्रतिनिवर्तमानः संज्ञां विक्षिपन् द्वैतद्टष्टिमुत्पादयञ्छिलक्षान्तिवीर्यध्यानप्रज्ञाभिः शुभविपाकं गवेषयामि तदहं प्रतारयामि दशदिग्लोकधातुष्वप्रमेयानपर्यन्तानसंख्येयान् प्रत्युत्पन्नांस्तथागतान्। अनागतेऽध्वन्यपि न खलुपूरयेयमनुत्तरां सम्यक्संबोधिम्।

६। बोधिसत्त्वो दशमहाप्रणिधानै र्गृह्णाति सद्धर्मचर्याम्। षण्महा प्रणिधानै र्दमयति प्रामदचित्तम्। सोत्साहं वरति वीर्यम्। आचरति षत् पारमिताः परिपूरयत्यनुत्तरां सम्यक्संबोधिम्॥

( इति बोधिचित्तोत्पादसुत्रशात्रे प्रणिधानं नाम तृतीयो वर्गः॥ )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project