Digital Sanskrit Buddhist Canon

प्रथमो वर्गः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Prathamo vargaḥ

बोधिचित्तोत्पादसूत्रशास्त्र

प्रथमो वर्गः

अध्येषणोत्पादः

नमाम्यपर्यन्ततथातान् गतान्
जिनानहं साम्प्रतिकाननागतान्।
नभःसमाक्षोभ्यधियो ऽपराजितान्
जनान् परित्रातुमथो महाकृपान्॥१॥

१। अस्ति महावैपुल्यमनुत्तरं सद्धर्ममातृकापिटकं बोधिसत्वै र्महासत्त्वैरभ्यस्तम्। तथाहि। (१) अध्येपतन्त्यभिसम्बोद्धु मनुत्तरां बोधिम्। (२) प्रेरयन्ति सत्त्वान् चित्तमुत्पादयितुं गम्भीरोदारम्। (३) प्रतिष्ठापयन्ति प्रणिधानं परिनिष्पन्नम्। (४) उत्सृजन्त्यात्मभावं धनानि च निगृह्णन्ति लोभं मात्सर्य च। (५) आचरन्ति पचस्कन्धशीलम्। विनयन्ति चापराधिनः। (६) भावयन्ति परमां क्षान्तिं द्वेषापरणनिग्रहाय (७) जनयन्ति वोर्योत्साहं सत्त्वप्रतिष्ठापनाय (८) संगृह्णन्ति ध्यानानि सत्त्वचित्तपरिज्ञानाय। (९) भावयन्ति प्रज्ञामविद्यानिरोधाय। (१०) प्रविशन्ति तथताद्वारमासङ्गप्रहाणाय। (११) प्रदर्शयान्ति गंभीरतमामलक्षणां शून्यताचर्याम्। (१२) अनुशंसन्ति पुण्यं बुद्धबीजानुच्छेदाय। इत्येवमादीनप्रमेयानुपायान् बोधिधर्मसहायभूतानि विशुद्धिमुखानि सर्वेभ्योऽनुत्तरकुशलकामेभ्यो विभज्य दर्शयामि सम्बोधयितुमनुत्तरां सम्यक्सम्बोधिम्॥

२। बुद्धपुत्रा बुद्धमाषितमुद्गृह्णाद्भिः सत्त्वानामर्थाय धर्म देश्यद्भि र्बुद्धपुत्रैः प्रथमं तावदनुशंसयितव्या बुद्धगुणा याञ्च्छ्रुत्वा सत्त्वाश्चित्तमुत्पादयेयुर्गवेषयितुं बुद्धप्रज्ञाम्। चित्तोत्पादहेतोर्बुद्धबीजमनुच्छिन्नं भवति। यदि भिक्षुभिक्षुण्युयासकोपासिका अनुस्मरन्ति बुद्धमनुस्मरन्ति धर्मं पुनरनुस्मरन्ति यत् तथागता बोधिसत्त्वमार्गसम्प्रस्थानकाले धर्म गवेषयितुमसंख्येयकल्पं प्रयत्नदुःखमुद्वहन्तीत्येवमनुस्मृत्या बोधिसत्त्वा नामर्थाय देशयन्ति धर्म यावदेकामपि गाथां येन धर्ममिमं श्रुत्वा बोधिसत्त्वा हितां देशनामभिनन्दत्त्यवरोपयन्ति कुशलमूलान्याचरन्ति बुद्धधर्म प्राप्रुवन्त्यनुत्तरां सम्यक्सम्बोधिम्॥

३। सत्त्वानामप्रमेयाणामनादिजातिमरणदुःखोच्छेदाय बोधिसत्त्वा महसत्त्वा अभिलषन्त्यप्रमेयाणि कायचित्तानि। आचरन्ति वीर्यम्। गम्भीरमुत्पादयन्तिमहाप्रणिधानं। अनुतिष्ठन्ति महोपायम्। उत्पादयन्ति महामैत्री महाकरूणाम्। गवेषयन्ति महाप्रज्ञामद्टष्टोष्णीषलक्षणाम्॥

४। गवेषयन्त एवंविधान्महतो बुद्धधर्मान् ज्ञातव्यं यद् धर्मा अप्रमेया अपर्यन्ताः। धर्माणामप्रमेयत्वात्तत्पुण्यफ़लविपाकोऽप्यप्रमेयः। भगवानवोचत्। बोधिसत्त्वाश्चेदादिवोधिचित्तमुत्पादयन्ति तेषां तस्य दुर्बलस्यापि क्षणस्य पुण्यफ़लविपाकः कल्पकोटिशतसहस्रैरपि वक्तुं न पार्यते कथं पुरेकदिनमेकमासमेकवर्ष यावच्छतवर्षं सम्प्रस्थितस्य चित्तस्य पुण्यफ़लविपाको वक्तुं पार्येत। तत्कस्य हेतोः। सर्वान्सत्त्वान्स्थापयितुमनुत्पादधर्मक्षान्तावभिसंबोधयिमनुत्तरां सम्यक्सम्बोधिः बोधिसत्त्वचर्याया अनन्तत्वात्॥

५। बुद्धत्मजा बोधिसत्त्वा आदिबोधिचित्तमुत्पादयन्ति। तथाहि। महासमुद्रो यदादौ समुदेति ज्ञातव्यः सोऽधममध्यमोत्तममूल्यानां यावद्मुल्यानां चिन्तामणिरत्नमुक्ताफ़लानामाकरो भवति। एषां रत्नानां महासमुद्रादुत्पत्तेः। बोधिसत्त्वस्य चित्तोत्पादा अप्येवम्। यदादिचित्तमुत्पद्यते ज्ञातव्यं तद्देवमनुष्याणां श्रावकप्रत्येकबुद्धबोधिसत्त्वानां सर्वकुशलधर्माणां ध्यानस्य प्रज्ञायाश्चोत्पत्तेराकरः॥

६। पुनस्तथाहि। त्रिसाहस्रमहासाहस्रो लोकधातुर्यदा समुदेति ज्ञातव्यं तत्र ये पंचविंशतिर्भवा स्तेषु यावन्तः सत्त्वाः सर्वान्वहति सर्वेषामाश्रयो भवत्यावासो भवति। बोधिसत्त्वस्य चित्तोत्पादा अप्येवम्। यदा तत्समुदेति सर्वेषामाश्रयो भवत्यप्रमेयाणां सत्त्वानाम्। षड्गतिषु चतुर्योनिषु ये सम्यग्मिथ्याद्टष्टयोऽभ्यस्तकुशलाभ्यस्ताकुशला रक्षितशुद्धशीलकृतचतुर्गुरुपाराजिकाः सत्कृतरत्नत्रयनिन्दितसद्धर्माः समलास्तैर्थिकाः श्रमणब्राह्मणाः क्षत्रियब्राह्मणवैश्यशूद्रास्तान् सर्वान् वहति सर्वेषामाश्रयो भवत्यावासो भवति॥

७। पुनर्बोद्धिसत्त्वो मैत्री करुणां च पुरस्कृत्य चित्तमुत्पादयाति। मैत्री बोधिसत्त्वस्यापर्यन्ताऽप्रमेया तस्मादपर्यन्तश्चित्तोत्पादः सत्त्वधातुसमः। तथाहि। आकाशेन न किञ्चिद्यदनावृतम्। बोधिसत्त्वस्य चित्तोत्पादा अप्येवमप्रमेया अपर्यन्ता अक्षयाः। आकाशस्वाक्षयत्वात्सत्त्वा अक्षयाः सत्त्वानामक्षयत्वाद् बोधिसत्त्वस्य चित्तोत्पादा अपि सत्त्वधातुसमाः॥

८। सत्त्वधातोर्नास्ति पर्यन्त इति बुद्धशासन मनुसृत्य संक्षेपत उच्यते। पूर्वदिक्पर्यन्तं सन्ति कोटिसहस्रगंगानदीवालुकासमा असंख्येया बुद्धलोकधातवः। एवं दक्षिणपश्चिमोत्तरासु दिक्षु चतुर्षु विदिक्षूर्ध्वमध एकैकस्यां सन्ति कोटिसहस्र गंगानदीवालुकासमा असंख्येया बुद्धलोकधातवः। अखिलास्ते चूर्णिता रजांसि भवेयु र्नेमानि रजांसि मांसचक्षुर्गोचराणि स्युः। कोटिशतसहस्र गंगानदीवालुकासमेष्वसंख्येयेषु त्रिसाहस्रमहासाहस्रलोकधातुषुयावन्तः सत्त्वाः सर्वेते संगता उद्गृह्णीयुरेकं रजः। द्विगुणितकोटिशतसहस्र गंगानदिवालुकासमेष्वसंख्येयेषु त्रिसाहस्रमहासाहस्रलोकधातुषु यावन्तः सत्त्वा गृह्णीयुस्ते द्वे रजसी। एवं विपरिवर्तनमाना उद्गृह्णन्तो दशदिक्ष्वेकैकस्यां कोटिसहस्र गंगानदी बालुकासमेष्व संख्येयेषु बुद्धलोकधातुषु यावत्पृथिवीभृतरजांसि पर्यन्तं नयेयुस्तथापि न पर्यन्तः सत्तवधातोः। तथाहि। कश्चित्पुरुषः केशमिकं शतधा विभज्यैकेन भागेन महासमुद्जलाज्जललवं गृह्णाति। मया सत्त्वानां विषये भाषितं तदेबमल्पं यश्चापि न मया भाषितं तद्यथा महासमुद्रजलम्। यदि नाम बुद्धोऽ प्रमेयमपर्यन्तमसंख्येयं कल्पमवदानं व्याकरोति तथापि न पर्यन्तः। बोधिसत्त्वस्य चित्तोत्पादा अवृण्वन्त्येवंभूतानपि सत्त्वान्। तत्कथं बुद्धपुत्राः। स्याद्बोधिचित्तस्य पर्यन्तः॥

९। यदि बोधिसत्त्वा एवंविधं भाषितं श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते न विनिवर्तिप्यन्ते न बिलयं गमिष्यन्ति ज्ञातव्यं ते ध्रुवमुत्पादयिष्यन्ति बोधिचित्तमिति। यदि हि सर्वेऽप्रेमया बुद्धा अप्रमेयमसंख्येयं कल्पं यावदनुशंसन्ति तद्गुणान् तथापि न पर्यन्तः। तत्कस्य हेतोः। बोधिचित्तस्यापरिमितत्वान्न पर्यन्तः। इत्येवमादीनप्रमेयांल्लाभान् व्याकुर्याद्येन सत्त्वाः स्स्सृण्वन्त्याचरन्तूत्पाद यन्ति बोधिचित्तम्॥

( इति बोधिचित्तोत्पादसूत्रशास्त्रे ऽव्येषणोत्पादोनाम प्रथमो वर्गः॥ )
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project