Digital Sanskrit Buddhist Canon

बाह्यर्थसिद्धिकारिकानाम

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2013
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
बाह्यर्थसिद्धिकारिकानाम॥

परिपूर्य च यं स्वार्थं परार्थ सर्वथाऽखलम्।
अकरोत्तं प्रणम्यार्थसिद्ध्यावर्थी निरूप्यते॥ १॥

स्वस्थनेत्रादिविज्ञानविषयार्थो न बाह्यकः।
स्वप्नद्विचन्द्रधीकल्पो धात्वादर्थावभासनात्॥ २॥

बाह्यार्थः साध्यते नेति बुद्धिमात्रत्ववादिना।
अविसंवाददृष्ट्यादावस्तिवादस्तु कथ्यते॥ ३॥

ज्ञानस्य च विसंवादात् रूपादीनामयोगतः।
आलम्बनं स्वचिन्न स्यात् उभयं तन्न शोभनम्॥ ४॥

स्वाङ्गच्छेदादयों दृष्टाः स्वप्ते [ये] भवन्नि ते।
यद्यर्थनीतिर्नास्तीति प्रबुद्धस्य तथा ननु॥ ५॥

कायस्फीतिः शिरश्छेदो वोधे स्वप्नसमा मता।
इति चेत् त्वं कुतोह्यत्न यत्नवात् नष्टलाभयोः॥ ६॥

भ्रान्त्या सर्वप्रवृतिश्चेत् नास्ति नामविपर्ययः।
अभ्रान्तमविसंवादि ज्ञानं भ्रान्तं विसंवदेत्॥ ७॥

देशात् कालादनन्यस्य ज्ञानं यन्न विसंवदेत्।
तदभ्रान्तं पुनर्ज्ञानं नान्यदभ्रान्तलक्षणम्॥ ८॥

दीर्घसूक्ष्मादिकज्ञानात् योगीति तु विशेषितः।
असर्वज्ञः प्रसज्येत् नोभयतोभागमुक्तकः॥ ९॥

विसंवदति बुद्धत्वम् यथावदस्तिबोधनाम्।
स्वप्नादिवच्च निखिलम्, विसंवादासंभवः कुतः॥ १०॥

दृढवासनया चेत् स्यात् उक्तः स्वप्नश्च नो कुतः।
ग्रामारामप्रभेदाब्या दृश्यभूतास्ततः पुनः॥ ११॥

अनिन्द्रियार्थादिबुद्धिवासनाक्षणिकत्वतः।
विपाकाप्तिर्व्यवहिता ह्यक्षार्था दृढहेतवः॥ १२॥

यस्य ज्ञानमेकरसमिन्द्रियार्थान्न जायते।
तस्य तस्य स्वभावश्च किं ध्रुवोऽथवा॥ १३॥

निद्रादिसाम्यवत्त्वाच्चेत् तद्विपाककरो न किम्।
विद्यमाने पाकहेतौ न युक्तः पाकसंक्षयः॥ १४॥

दृष्तं स्वप्ने निद्रितस्य नोर्ध्वमस्ति ततोऽवध्रुम्
सम्भवति यथा तेन परिपक्कात्मनः क्षयः॥ १५॥

यस्येन्द्रियार्यवैकल्यात् देशनाकारणं न च।
(तस्य) पुनर्विपाकाप्तिर्योग्या स्याच्च परिक्षयात्॥ १६॥

दृढसंवादवास्यत्वात् क्रियते च कुतो मतम्।
रूपादीनामयोग्यत्वादिति चेत् वाच्यमुत्तरम्॥ १७॥

परिपाकाश्रयतयाऽविसंवादः प्रबोधने।
तिमिरमाश्रयो यावत्तावन्ना संवादः कुतो न च॥ १८॥

तद्बुद्ध्या तु प्रवृत्तेश्च भ्रान्तालम्बनतोऽन्तरा।
तद्बुद्ध्यसत्त्वेऽविसंवादात् न तद्बुद्धिकृतमिष्यते॥ १९॥

आरोपपरिपाकस्य शक्तेर्वस्त्वन्तरोद्भवात्।
स्वात्मतो जायते नैव कुसुमाच्च तिलं यथा॥ २०॥

अबादिभ्यो यथा बीजं यज्जातं यत एव च।
समानं तच्च तेनैव फलोत्पत्तेश्च वासना॥ २१॥

वस्त्वन्तरोद्भवात् किञ्चित् कर्मणो वास्यते यथा।
जातीपुष्पैश्च संसृष्ट्या गन्ध उत्पद्यते तिले॥ २२॥

तत्रोपादानविज्ञानाज्जायते ज्ञानसप्तकम्।
तत्र तद्बीज आरोप्य स्थितश्चपि विपच्यते॥ २३॥

अतो भावान्तराज्जातो भावो नास्तीति वासना।
नारोप्य वर्धनायोग्या इत्याह शाक्तविज्जनः॥ २४॥

स्वन्तन्त्रादथ जायेताधिगमज्ञानमत्र च।
यथोप्त बीजं पच्येत तेन तुल्यं ममापि चेत्॥ २५॥

पक्षस्यास्य विरुद्धत्वादुपदाज्ञाननिश्रयः।
उमयोस्तुल्यमितिचेत् न युक्तोऽन्योन्यनिश्रयः॥ २६॥

यस्येन्द्रियार्थजज्ञानैरारोप्यन्ते च शक्तयः।
दिक्कालकायादीनाञ्च विशेषात् परिवृद्धिताः॥ २७॥

तस्य पक्षे न दोषोऽस्ति यस्योपादाननामकात्
ज्ञानादन्यत् कारणं न प्रतिबन्धो न तस्य च॥ २८॥

धीमात्रत्वेन संसाध्ये यत् ज्ञानत्वादिसाधनम्।
विजातीयाविरुद्धत्वात् सर्वं शेषवदुच्यते॥ २९॥

प्रेक्षा तुष्टि प्रवृत्तिश्च हिताप्तिरहितव्ययः।
प्रबुद्धव्यवहाराश्च न स्वप्ते सन्ति सर्वथा॥ ३०॥

प्रतिबाधावशान्नाम भ्राम्यति ज्ञानमक्षजम्।
विनापि तां भ्राम्यतीति सर्वं सृष्टं तहं खलु॥ ३१॥

अन्ये सर्वञ्च विज्ञानमर्थधीर्मानसो भ्रमः।
ज्ञेयं स्वचित्तजातं यत् रूपं वा नास्ति तस्य च॥ ३२॥

अर्थो नास्तीति संसाध्यमेकैकस्यापरिच्छिदेः।
नाण्वाभासमिति प्राहुः चित्तचैतसिकैरपि॥ ३३॥

सन्दिग्धता भवेदेव यथा च क्षणभङ्गुराः।
एकैका नावभासन्ते तथागतपरिच्छिदि॥ ३४॥

निर्धारिता नाणवः स्युः तुल्यापरक्षणोत्पाद्यथानित्यत्वविभ्रमः।
अविच्छिन्नसजातीयग्रहे स्यान्नीलविभ्रमः॥ ३५॥

बुद्धया सदा त्वबिच्छिन्नसाजात्यग्रहणे सति।
विकल्पकेन ज्ञानेन ह्येकत्वमवसीयते॥ ३६॥

अतः स्वलक्षणत्वेन विज्ञाने परमाणवः।
आभासन्ते नेति वादो यः सर्वो न स सिध्यति॥ ३७॥

यदाभासं ततो नास्ति द्रव्याभावाद्विचन्द्रवत्।
इति सिद्धं वादिनो यत् ना चात्र हेतुनिश्चयः॥ ३८॥

संयुक्ता येऽणवः सन्तः समानैकक्रियाकराः।
ते सञ्चिता इति प्रोक्तु रद्रव्याणाति ते कुतः॥ ३९॥

एकशब्दाभिधेयास्ते न तेषामेकतास्ति तु।
विचार्यमाणः शब्दार्थो न भातीन्द्रयचेतसि॥ ४०॥

यस्य बुद्धेरेकभागो भात्याकार इतीरणम्।
ईक्षितं तस्य नियतं चित्रास्तरणमन्तरा॥ ४१॥

क्वचिच्च कस्याचद्रूपस्येकाकारगर्हो यदि।
स उच्चनीचाश्रयतो भिन्नचित्रावभासकः॥ ४२॥

एकज्ञानाभकोऽगुर्यो विनान्योन्यमंनुद्भवात्।
तस्याकारस्य विच्छेदे एकैकं भास्यते कथम्॥ ४३॥

प्रतेकपरमाणूनां स्वातत्त्र्येणास्त्यसम्भवः।
अतोऽपि परमाणूनामेकैकाप्रतिभासनम्॥ ४४॥

अणु दिग्भागभेदाच्चनेति यत् तदसङतम्।
अणौ दिक्शब्द उच्येत केनचित् सविशेषणे॥ ४५॥

दिग्भागभेदेनातस्तैः बहुभिः परिवारिताः।
कथिता अणवश्चैव न तु सावयवात्मकाः॥ ४६॥

एकोऽणुरवरे भागे स्थितोऽन्यः परभागतः।
उभाभ्यामपि भागाभ्यां प्रसक्ता न द्विधाऽणवः॥ ४७॥

अनेकमध्यवर्तित्वादनेकत्वं विकल्प्यते।
व्यतिरेकमुखादेवमनेकत्वं प्रकल्प्यते॥ ४८॥

तत्रापेक्ष्यान्यदयच्च रूपं वै गृह्यते यथा।
नैव तद्विद्याते तत्र परावरादिभेदवत्॥ ४९॥

नैरन्तर्याद्बहूनाञ्चावयवित्वं यदीष्यते।
निरन्तराः पूर्वपरक्षणा न तादृशाः कथम्॥ ५०॥

ज्ञानस्य द्विक्षणस्थत्वान्नैरन्तर्यं ततोऽस्ति च।
यथा त्ववयविरूपं नेष्यते वै तथाणुषु॥ ५१॥

प्रत्त्यासत्त्या कथाचिक्तु गतिबाधो गतीमतः।
तथैवाच्छादन प्रोक्तमवयवान्तरतो न तु॥ ५२॥

आच्छादने सतिर्च्छाया समुत्पन्ना च विद्यते।
छाया दिनकराण्वोश्च मध्यलग्ना न युज्यते॥ ५३॥

छायाच्छादनयोः शक्ति बहूनां जायते यथा।
परमाणुष्वपि तथा नैकस्मात् सर्वथाऽपि तु॥ ५४॥

अतो भेदस्य नास्तित्वात् पिण्डो नास्तीति यद्वचः।
कादाचित्कं भवेत्तच्चेत् परिणामो न युज्यते॥ ५५॥

अन्योन्यमात्माऽसंसृष्ठा अनंशाश्च व्यवस्थिताः।
अतः सञ्चित्य भवति पृथिवीमण्डलादिकम्॥ ५६॥
परस्परानुग्रहस्य विशेषात् परिणामिताः।
पराणवश्च वज्रादेर्न विच्छिन्ना भवन्ति ते॥ ५७॥

पिशाचसर्पप्रभृतेर्मन्त्रशक्त्या ग्रहो यथा।
सङ्गच्छन्तेऽणवः केचित् द्रव्यशकत्या परस्परम्॥ ५८॥

अन्येऽल्पशक्तिबलकाः बुद्धिमानचलादिगः।
संख्यादिप्रविशेषेण कल्पयेन्नरकाद्यणून्॥ ५९॥

अतो नास्तीति नो युक्तम् उक्तं भ्रान्तिवशाद्यदि।
षष्ठधीमात्रताबो घः यथाष्टपरमाणुषु॥ ६०॥

संख्यादि भ्रान्तिरुत्पन्ना प्रतीतिस्तस्य सा तथा।
यदि सत्त्वसमत्वेन नरकादिविबो धनात्॥ ६१॥

अस्ति च भ्रान्तितोऽन्य स्य प्रधानपुरुषादिषु।
कस्मादनुक्तं भवति संख्याद्याकारलक्षणम्॥ ६२॥

तदवस्था च संप्राप्ता गुणातिशयसम्मतेः।
भ्रान्त्या विकल्पितत्वेऽपि न त्याज्या पूर्वकल्पना॥ ६३॥

अणुश्च तस्मादस्त्येव अचलादिगधीमतः।
ततोऽन्येनागृहीतः ते जानन्तीति कल्प्यते॥ ६४॥

सहोपलम्भनियम उक्तो यत्पुरुषद्वये।
ज्ञानज्ञेयस्वभावश्च नियमात् सह वेद्यते॥ ६५॥

नान्योऽस्ति ग्राहको ज्ञानात् चाक्षुषैर्विषयैर्विना।
अतश्च सहसंवित्तिर्नाभेदान्नीलतद्धियोः॥ ६६॥

ग्राहकञ्चेन्न विज्ञानं ज्ञानं वा विषयैर्विना।
तदा तत्तु तथा वक्तुं युज्यते नान्यथा पुनः॥ ६७॥

एककालविवक्षातः सम्बुद्धज्ञानचेतसा।
चित्तचैत्तैश्च हेतुर्हि सर्वथैकान्तिको न च॥ ६८॥

आगमेभ्यश्च सिद्धत्वात् चैत्तानां भ्रान्तिता न चेत्।
पिशाचनरकादीनां ज्ञानं उक्तः कुतो भ्रमः॥ ६९॥

असत्यपि सम्बन्धे विशेष इष्टकृद्यदि।
तमसिद्धमनिच्छंश्च परीहरसि विभ्रमात्॥ ७०॥

सहशब्दश्च लोकेऽस्मिन् नैवान्येन विना क्वचित्।
विरुद्धोऽयं ततो हेतुर्यद्यस्ति सहबेदनम्॥ ७१॥

एकार्थः सहशब्दश्रेदन्यतोऽसिद्धता तदा।
कथं साधारणे भाव एकेनैव च दर्शनम्॥ ७२॥

सर्वज्ञज्ञानबेद्यञ्च सर्वं चित्तं भवेद्यदि।
एकेनैवोपलम्भश्च तदोक्तः कुत्र सिध्यति॥ ७३॥

आलम्बननिषेधोऽन्यैः प्रमाभावान्न सिध्यति।
स्वभावविप्रकृष्ठस्य सन्दिग्धासिद्धता ततः॥ ७४॥

बाह्याभावतः सिद्धौ स्वैकभागे विलोकिते।
वदतश्चित्तमात्रं तत्प्रसिद्धो हेतुरेव हि॥ ७५॥

अपृथग्भाससंसिद्धौ भवेत्सिद्धस्य साध्यता।
साकारज्ञानकथिनो विवादसत्र नो भवेत्॥ ७६॥

एक एव पदार्थश्चेदालम्बनं प्रकल्प्यते।
ज्ञानरूपाद्विवेकेन कथं संवेद्यमेव तत्॥ ७७॥

अर्थालम्भे कृष्णशङ्खे तुष्टस्य वेदनाश्च तः।
यदि ज्ञानस्वरूपस्य विना वित्तिं न सम्भवेत्॥ ७८॥

यदि रूपं कल्पितञ्च किञ्चिदेव हि वेद्यते।
न वेद्यते ज्ञानरूपमित्यतस्तन्न युज्यते॥ ७९॥

तेन रूपद्वयं वेद्यं चन्द्रमायुगलं यथा।
शास्त्रकर्तुरेकमिति प्रसिद्धं तन्न युज्यते॥ ८०॥

पूर्विकैव तु सामग्री प्रज्ञानं विषयक्षणम्।
सालोकरुपवत् कुर्यात् येन स्यात् सहवेदनम्॥ ८१॥

पूर्वापरं यदा ज्ञानमिन्द्रियञ्च प्रवर्तते।
तत्सादृश्येन तन्नाम नार्थतः सहवेदनम्॥ ८२॥

वेद्यत्वादेव विज्ञानान्नान्योऽर्थो ग्राह्यभागकम्।
ज्ञानं सिध्यति यो वादस्तत्र हेतोरनिश्चयः॥ ८३॥

ज्ञानवित्तेः स्वभावत्वात् वेद्यते चेति कथ्यते।
विषयाभासिविज्ञानजनकत्वाच्च वेदनम्॥ ८४॥

संवेद्यशब्दसाम्येऽपि तदर्थः पृथगेव हि।
गवादीनां यथा गोत्त्वात्तथाकारो न सिध्यति॥ ८५॥

सर्वज्ञज्ञानसंवेद्यसन्तानान्तरभाविताः।
धर्मा येऽनैकान्तिकास्तैः सर्वज्ञोऽबोधकः कथम्॥ ८६॥

साकारज्ञानपक्षे च तन्निर्भासस्य वेद्यता।
तस्याभेदे च संसाघ्ये सिद्धसाधनता भवेत्॥ ८७॥

रूपसाम्यकरोऽर्थस्तु फलात्संवेद्यसम्मतः।
भावस्य तस्यावेद्यत्वात् अभेदो न भविष्यति॥ ८८॥

कथं तद्ग्राहकं तच्चेत् तत्परिच्छेदलक्षणम्।
विज्ञानं तेन नाशङ्का कथं तत् किं विदिति॥ ८९॥

विज्ञानरूपमन्येन व्यवस्थाप्य समोह्यते।
कथं वाच्यं तदर्थस्य संपरिच्छेदकन्तिति॥ ९०॥

अर्थपरिच्छित्तिमात्रञ्च विज्ञानमिष्यते यदा।
कथं स्वविषयं ज्ञानं वेत्तीत्युक्तिरसङ्गता॥ ९१॥

विज्ञानं तत्काराकं न निष्क्रियं परमार्थतः।
वित्तिमात्रे कारकत्वं समारोप्य हि कथ्यते॥ ९२॥

अनासङ्गेन दर्शी च विद्वान् संविशते यथा।
किञ्चिद्दर्शी तथा ज्ञानरूपादौ विशते पुनः॥ ९३॥

सर्वज्ञस्य तदन्येषां न भेदो ज्ञानमत्रतः।
सर्वाकारधिया सर्वे महात्मानो विशेषिता॥ ९४॥

साकारं वा निराकारं तुल्यकालमतुल्यजम्।
इति बौद्धेऽपि विज्ञाने किंनु चिन्ता प्रवर्तते॥ ९५॥

आकारस्तव यस्तत्र सम्भवत्येव तद्धियः।
आकारः स च रूपादौ पुनस्तत्र प्रकल्प्यते॥ ९६॥

त्यक्तावृतित्वात् युक्तिश्च ज्ञेये नेति न सङ्गतिः।
कथं स ज्ञेयमारूढस्तत्सम मतिदिश्यते॥ ९७॥

निरूपणात्मिका बुद्धिः सत्यथ वाप्यसत्याप।
अर्थास्तित्वेऽविसंवादः तिमिरादौ विनार्थकम्॥ ९८॥

प्रेक्षितञ्च यथा रूपं नीलानुभव इत्यपि।
आरोप्य कथ्यते बुद्धावाकारः कोऽपि नास्ति च॥ ९९॥

अस्ति नास्तीति कल्पोऽपि विज्ञानं कल्पनात्मकम्।
अर्थापेक्षाविशेषेण विज्ञानं भिन्नमुच्यते॥ १००॥

यथा हि भवतां ज्ञानं निराकारञ्च तत्त्वतः।
वेत्ति चाभूतमाकारं भूतमर्थं तथैव नः॥ १०१॥

आत्मा ज्ञानस्य नास्त्यस्य विरोधादद्वयात्मनः।
अभूतं वेद्यते नव प्रसज्येता भ्रान्तमेव तत्॥ १०२॥

यथापरीक्षितं भ्रान्त्या व्यवस्थेयं कृतेति चेत्।
भ्रान्ताकारोऽवसेयश्च कथं स्यात् कल्पितो नचेत्॥ १०३॥

भूततस्तेन विज्ञानं निराकारञ्च चक्षुषा।
भौतिकेन परिच्छिन्द्यात् राद्वाऽसद्वाऽपि योग्यकम्॥ १०४॥

प्रदीपः स्वपरात्मानौ सम्प्रकाशयते यथा।
विज्ञानं द्विविधालम्बस्वरूपञ्च तथा यदि॥ १०५॥

रूपशब्दाद्योऽर्थाश्च विभिन्नेन्द्रियगोचराः।
तेन ते ह्येककाः सन्त्यनुभाव्या न च अत्र तु॥ १०६॥

विभिन्नकारणमृते ज्ञानमालम्भल क्षणम्।
यत् उत्पद्यते यादृक् ज्ञानं यत् तदनन्तरम्॥ १०७॥

विषयस्तुल्याविषयमित्ये [वं] भ्रान्तितो वचः।
तत्तु नित्यं विद्यते न विषयाभासतो यतः॥ १०८॥

समस्ववेदनाऽभावात् ज्ञानाकारः समानकः।
सर्वचित्तेषु भवति मते चवं विशेषतः॥ १०९॥

न वाच्यं विषयैस्तुल्यम् [इति] अस्मिन् ग्राह्यावभासके।
नानन्तरं ज्ञानं भाति विषयेण तु साम्यतः॥ ११०॥

नीलादिमात्राभासे च ज्ञानं नीलादिभासकम्।
तदनन्तरमास्ते चेत् तदा तद्विषयं हि तत्॥ १११॥

तदा तन्नार्थसदृशम् अस्ति सत्यं न तुल्यकम्।
अनित्यदुःखादि यथा तथागतेन [देशितम्]॥ ११२॥

ग्राह्यावभासकं नैतत् आलम्बनायोगतो बहिः
ग्राह्यभागोऽथ इष्टश्चेत् न युक्त तस्य लक्षणम्॥ ११३॥

कुतो बुद्धि निर्विकल्पा स चित्तस्याभास एव च।
तत्रावभासबुद्धिर्न विषयस्यापृथक्त्वतः॥ ११४॥

जनकस्य च नास्तित्वे कथं नाम तदिष्यते।
बाह्याणवश्च सङ्घाता एकाङ्गविकलत्वतः॥ ११५॥

नालम्बनं स्युः केनैव ह्युभयाभाव इष्यते।
ग्राहकाकारकं ज्ञानं लक्षणद्वयवर्जितम्॥ ११६॥

यथा ह्यालम्बनं नास्ति ग्राह्याकारोऽपि नेप्यते।
पूर्वकं सदृशं ज्ञानं आलम्बनं यदीष्यते॥ ११७॥

तदप्ययुक्तं ज्ञाने नानन्तरं ज्ञानं भाति च।
आहत्य शाब्दं विज्ञानं रूपाकारं भवेद्यदि॥ ११८॥

तेन त्वालम्बनेनैव ज्ञानञ्च सदृशं कथम्।
केचिदाहुस्तुल्यज्ञानकृक्छक्तिः विषयस्त्विति॥ ११९॥

तस्याप्ययोगात् शक्तिस्तु न भातीन्द्रियचेतसि।
ग्राह्ये विषयतव नियमात् विषयस्थितिः॥ १२०॥

लोकतोऽर्थसंसिद्धेः अस्ति लक्षणमनुक्तकम्।
ज्ञानशक्ति लौकिकी चेत् नार्थंत्वेन तु निश्चिता॥ १२१॥

लक्षणस्याप्यसत्वे च सालम्बनं कर्थ भवेत्।
लोकनीत्यागमं प्रेत्य बाह्यालम्बनतैव हि॥ १२२॥

परीक्षिता युज्यते च न ज्ञेयं सर्वथास्ति तु।
इष्टानिष्टदिरूपञ्च भूततो बाह्यमस्ति न॥ १२३॥

चित्तमात्रमिदमिति असम्बद्दमिदं [वचः]।
दुःखादिरूपे कस्मिंश्चित् गुणादि भावनावतः॥ १२४॥

हेतुभेदात् फलमप्यनुग्रहविशेषितम्।
अर्थे विनीलनिर्भासि ज्ञानं तत्समन्तरम्॥ १२५॥

अभ्यासाद्दुःखरूपादि तथान्यदन्यतो भवेत्।
प्रीतिव्यसनमिद्धानामभासातिशयात् भिदा॥ १२६॥

अर्थाकारात्तु नैवेति मतञ्चेत् तत् पुनः कथम्।
आरोपाद् दूष्यते तेन ह्यनालम्बनवस्तुता॥ १२७॥

कथं पुनर्नोपन्ना सिद्धिरर्थक्रियादृशा।
तदभावे च तन्नास्ति अर्थान् स्वप्नोपघातवत्॥ १२८॥

विना क्रिया सम्मताऽर्य क्रियासत्त्वादतः पुनः।
बाह्याभावो यदीष्येत वयं कारित्रमात्रतः॥ १२९॥

बाह्यर्थसिद्धिं न ब्रूमों मिथ्याज्ञानस्वभावतः।
करित्रसिद्धेर्दृष्टत्वात् अर्थावाप्तेरथापि च॥ १३०॥

हिताहितक्रिया काये तद्विहीनेऽपि विभ्रमे।
क्रियामात्रस्य सत्त्वेन कामस्य चेष्टितम्॥ १३१॥

तस्योदयस्तु नियतो नाशुच्युत्पत्तिमात्रके।
कुतः कामार्थलाभः स्यात् सम्बन्धात् शुक्ररागयोः॥ १३२॥

अन्यत्र जायते स्वप्नात् संस्पर्शे कामत स्त्रियः।
यथा त्वेवाविसवादः कामिन्या दर्शने यदि॥ १३३॥

कामाश्रयाच्च सम्भूतं कस्मान्न स्वप्नघातवत्।
नखदन्तस्रवादीनि विहायापि च योषितम्॥ १३४॥

तं समाश्रित्य सम्भुते कस्मान्न स्वप्नघातवत्।
नखदन्तरत्रवादीनि रागात् शुक्रस्य सम्भवे॥ १३५॥

बुद्धेरर्थः कृत इति तत् पुनर्न च शोभते।
क्रियामात्रं यथा नोक्तं पुत्रलाभादयश्च ये॥ १३६॥

सत्यतः स्वप्ने दृश्यन्ते विसंवदन्ति दृष्टकम्।
प्रोक्तकर्तृकियाजाताः सन्तो नरकपादयः॥ १३७॥

अतो विज्ञप्तिमात्र त्वेन काप्यर्थंक्रियास्ति च।
चित्तमात्रमतोऽसिद्धम् नानाकायावभासने॥ १३८॥

सन्तानान्तरसंसिद्धौ नरकञ्च तथास्ति तु।
परसत्त्वः कुतो नास्ति तथा निभृतमण्डलात्॥ १३९॥

उद्गीर्णविषनष्टस्य देवोऽनुग्रहकारकः।
स्वसत्यवचने तिष्ठन् पूर्वतन्त्रं विना यतः॥ १४०॥

अर्थक्रिया न शक्येत ततश्चित्तकृता न सा।
परचित्तविदो ज्ञानमयथार्थं कथं भवेत्॥ १४१॥

यदान्यचित्ते सत्येव ज्ञानं निविशते हि तत्।
सत्यथ [वा] तदाकारं विज्ञानं ग्राहकं मतम्॥ १४२॥

स्वविषयान्तिकप्राप्त्या व्यापारवत् ग्रहो न च।
यदनन्तरमुप्ताद्यम् तथा ज्ञानं स्वचेतसः॥ १४३॥

लक्षणेन यथोक्तेन ग्राहकं चित्तमस्ति तत्।
अतीतचित्तं। स्मरणं यद्भूतगतमस्ति च॥ १४४॥

तस्य हेतोश्च चित्तस्यानुत्पत्तेर्न तु ग्रहः।
सम्बुद्धगोचराद्वैतरूपस्याज्ञानतः पुनः॥ १४५॥

अय थार्थं यदुक्तं तदद्वयत्वान्न शोभनम्।
ज्ञानेन ग्राहकेणव गृह्णन् ग्राह्यमशेषकम्॥ १४६॥

सर्वज्ञः प्रोच्यते न त्वेवाद्वयाकारवेदनात्।
अनिर्दैश्र्यञ्चरूपन्तु वेद्यते यत् पुनर्वचः॥ १४७॥

अन्यस्य वेद्यं यत् तत्तु निर्देष्टुं किमु शक्यते।
अन्यचित्तपरिज्ञानात् तस्मादालम्बसत्वतः॥ १४८॥

निरालम्बं सर्वचित्तं नास्ति तत् यदि कुत्रचित्।
न बहिर्विद्यते ग्राह्यं सर्वज्ञश्च कथं पुनः॥ १४९॥

स्वचित्तमात्रविज्ञानात् स्वसंवेदनमेव च।
स्वचित्तमात्रविज्ञात् सर्वज्ञश्च प्रकल्पितः॥ १५०॥

ज्ञायते चेत् पृथक् कश्चित् न स्यात् धीमात्रदर्शनम्।
अद्वयज्ञानमात्र त्वे न दोष इतिचेन्मतम्॥ १५१॥

कथं तथापि विज्ञानं विषयस्योपलम्भकम्।
ज्ञाने द्वयविमुक्तेच सर्वाकारप्रवेदनम्॥ १५२॥

इति विम्मयमेवेदं ततोऽस्ति ग्राहकात्मकः।
सर्वज्ञ उपलब्धोऽन्यः आस्ते नैवेति कश्चन।
प्रार्ज्ञे मन्यस्य प्राज्ञानां स्वदुर्मतेश्च खेदितम्॥ १५३॥

प्रत्यक्षहेतोर्नियतं प्रतापभावनोद्भवात्।
रागादिदोषसामग्रा नितान्तं परिहीयते॥ १५४॥

सर्वं वै बालचित्तञ्च द्वयाकारकमित्यतः।
किञ्चिद्भावनया क्षये न प्रतीपक्षसङ्गति॥ १५५॥

शून्यमित्येव यत् ज्ञान मुक्ताकारगतं पुनः।
आकारद्वयसंयुक्तं प्रतिपक्षश्च तत् कथम्॥ १५६॥

कामरागं भावयतो रागक्षयो न च।
द्वयरूपं भावयतः स्यादक्षीणं द्वयं तथा॥ १५७॥

बुद्धौ भावांशमारोप्य नैरात्म्यकादिभावना।
अद्वये शब्दमात्रे चानर्था तद्भावना नहि॥ १५८॥

नित्योपलब्धिसंक्लेशमतिक्रामत्यनित्यता।
सर्वोपलब्धिनास्तित्वात् बुद्धत्वाप्तिरवश्यकी॥ १५९॥

सर्वोपलब्धिरहितः सर्वथापि च निष्क्रियः।
व्यवसायञ्च चर्याञ्च विना बुद्धत्वमिष्यते॥ १६०॥

अतः सत्त्वेषु करुणा तद्धितोपायतः पुनः।
संस्कृतानित्यचिन्तातः सौगतं पदमिष्यते॥ १६१॥

कथं धीशब्दमात्रत्वे दानादिपरिपूरणम्।
देयं न विद्यते तस्मात् बुद्धत्वञ्च न सम्भवेत्॥ १६२॥

अन्योन्यप्रवशादेव विज्ञप्तिनियमेन च।
दानादानाकारिका च बुद्धिरुत्पद्यते यदि॥ १६३॥
तत्प्रत्यक्षानुमानाभ्यामाप्तागमान्न सिध्यति।
तत्पुनः कल्पनामात्रं केवलं परिकीर्तनम्॥ १६४॥

दानाकृतिकविज्ञाने ह्यभ्यस्ते शतशोऽपिच।
सत्त्वस्य कस्यचित् किन्तु न दारिद्र्यवियोजनम्॥ १६५॥

अप्रमाणे मनस्कारे भावितेऽपि हि योगिनाम्।
न दुःखसुखयोर्हानिः रनुप्राप्तिश्चभूततः॥ १६६॥

सर्वेषां सर्वदाने च कृपादानप्रपूरणे।
अर्थात्मना न भेदोऽस्ति तत्रादाननिषेधनम्॥ १६७॥

परिनिर्वाणमस्त्येव धातुश्च मृतकायिकः।
दृष्टा गृहविहाराश्च कथं स्युःपरतन्त्रकाः॥ १६८॥

यदि स्वतन्त्रा न स्युस्ते ह्यतीतानुमितिः कथम्।
नातीतञ्चेदनुमितं तत्तु स्यादतिलौकिकम्॥ १६९॥

श्रुतमुक्त्या विशुद्धस्य मूर्तिदृक् वीतरागकः।
अनुमानं भवेन्नो चेत् श्रद्धा च कथमुद्भवेत्॥ १७०॥

यदि प्रबन्धतो जीवः खण्डितः किल दृश्यते।
तत् पुनस्तदधीनञ्चेत् कथं स्यात् परिनिर्वृतिः॥ १७१॥

व्यवस्थितं लोकनीत्या वीजादिभ्योऽङ्कुरादिकम्।
उदेतीति चित्तमात्रवादे नास्ति तु युक्तता॥ १७२॥

यज्ज्ञानानन्तरं ज्ञानं नियतमुद्भवेद्यदि।
तत्तस्य हेतोस्तत् कार्यं नियमोऽपि न विद्यते॥ १७३॥

तथाऽन्याकारकं ज्ञानं विना धूममतिर्भवेत्।
बीजेन रहिते चित्ते ह्यञ्कुराभासिधी भवेत्॥ १७४॥

अग्निधीवासितं चित्तं धूमधीकारणं यदि।
अनेकशक्तौ सत्याञ्च भेदबोधः कुतो भवेत्॥ १७५॥

अनन्तराग्निधीहेतौ धूमचित्तस्य कारणे।
तदप्यचारु धूमस्य चित्तेऽनियाऽग्निधिः॥ १७६॥

प्रतिवन्धेऽप्रसिद्धे च कथमस्मादिदं भवेत्।
अमिश्रव्यवहारश्च कथं हेतौ प्रवर्तते॥ १७७॥

अतः कल्पितमाश्रित्य चित्तमात्रं त्रिधातुकम्।
इति प्रभाषितं सर्वं न रूपादेरसम्भवात्॥ १७८॥

यस्मिन् रागादयो जाताः अक्षीकृत्य च कल्पितम्।
दोषोपशान्तये तस्मादर्थे नैरात्म्यदेशना॥ १७९॥

अन्यत्रापि तथा प्रोक्तं यथा बालैर्विकल्पितः।
बाह्यभावश्च नैवास्त इति कस्मात् विशिष्यते॥ १८०॥

अनन्तरोपदेशाच्च कारकाभिनिवेशतः।
कृत्यानाञ्च परिज्ञानं तेनात्मापोह उच्यते॥ १८१॥

तथोपदेशादन्यत्र कल्पितञ्च विकल्पितम्।
व्याख्यातं धर्मतारूपं धर्मता तु स्वलक्षणम्॥ १८२॥

भावमातं कल्पितन्तु [तस्य] भेदो विकल्पितम्।
धर्मतायाः प्रभेदोऽयं भवेऽसति न युज्यते॥ १८३॥

यदि रूपं शून्यमुक्तं रूपशब्दः कथन्त्विह।
कल्पयित्वा देश्यते चेत् कतमत्फलमिष्यते॥ १८४॥

नासंवादो यत्न भावी तेन सन् भाव एव सः।
अभावादेव सवस्य नो पलब्धिस्तु स्वप्नवत्॥ १८५॥

बाह्यार्थवादिनः प्राहुरेवं चित्तैकवादिंनम्।
न्यायोऽयमुत नो वा विचारयन्तु पण्डिताः॥ १८६॥

न्यायान्यायविचारे मेऽद्भुता बुधधीर्नहि।
किन्त्वन्येरितसत्यानां बहुसंक्षिप्य देशनात्॥ १८७॥

ज्ञानभासा मोहतमोध्वंसः साक्षात्कृतो बुधैः।
अद्यचोर्ध्वञ्च महतां मार्गे मूढः प्रसीं दँतु॥ १८८॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project