Digital Sanskrit Buddhist Canon

पञ्चस्कन्धप्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Pañcaskandhaprakaraṇam

आचार्य वसुबन्धुविरचितम्
पञ्चस्कन्धप्रकरणम्

प्रथमाधिकारः - स्कन्धोद्देशनिर्देशकः

पञ्चस्कन्धाः

रुपस्कन्धः वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः विज्ञानस्कन्धश्च॥१॥

रुपस्य द्वौ भेदौ

रुपं कतमत्। यत् किञ्चिद् रुपं सर्वं तच्चत्वारि महाभूतानि चत्वारि च महाभूतान्युपादाय॥२॥



महाभूतनामानि



कतमानि चत्वारि महाभूतानि। पृथिवी धातुः अब्धातुः तेजोधातुःवायुधातुश्च॥३॥



महाभूतलक्षणानि

तत्र पृथिवीधातुः कतमः। कठिनता॥४॥

अब्धातुः कतमः। निष्यन्दता॥५॥

तेजोधातुः कतमः उष्णता॥६।

वायुधातुः कतमः। पौनः पुन्यकम्पनता॥७॥

उपादायरुपनामानि

उपादयरुपं कतमत्। चक्षुरिन्द्रियम्, श्रोत्रेन्द्रियम्, घ्रणेन्द्रियम्, जिह्वेन्द्रियम्, कायेन्द्रियम्, रुपम्, शब्दः, गन्धः, रसः, स्प्रष्टव्यैकदेशः, अबिज्ञप्तिश्च॥८॥

उपादायरुपलक्षणानि

चक्षुरिन्द्रयं कतमत्। वर्णबिषयो रुपप्रसादः॥९॥

श्रोत्रेन्द्रयं कतमत्। शब्दविषयो रुपप्रसादः॥१०॥

घ्राणेन्द्रियम् कतमत्। गन्धविषयो रुपप्रसादः॥११॥

जिह्वेन्द्रियम् कतमत्। रसविषयो रुपप्रसादः॥१२॥

कायेन्द्रियम् कतमत्। स्प्रष्टव्यविषयो रुपप्रसादः॥१३॥

रुपं कतमत्। चक्षुर्गोचरः। वर्णः संस्थानम् बिज्ञप्तिश्च॥१४॥

शब्दः कतमः। श्रोत्रगोचरः। निष्पन्नः अनिष्पन्नः उभयः। उपात्तचतुमर्हाभुतहेतुकः अनुपात्तचतुर्महाभूतहेतुकः उभयचतुर्महाभूतहेतुकश्च॥१५॥

गन्धः कतमः।घ्राणगोचरः। सुरभिः असुरभिः तदन्यश्च॥१६॥

रसः कतमः।जिह्वागोचरः। मधुरः अमलः लवणः कटुः तिक्तः कषायश्च्॥१७॥

स्प्रष्टव्यः कतमः। कायगोचरः। महाभूतान्युपादाय श्लक्ष्णत्वम् कर्कसत्बम् गुरुत्वम् लघुत्वम् शीतत्वम् जिघत्सा पिपासा च॥१८॥

अबिज्ञप्तिरुपं कतमत्।विज्ञप्तिसमाधिसंभूतं रुपम् अनिदर्शनम् अप्रतिघम्॥१९॥

रुपस्कन्धः सोनिद्देशः परिनिष्ठितः।

अथ वेदना सलक्षणप्रभेदा

वेदना कतमा। त्रिविधोऽनुभवः। सुखः दुःखः अदुःखासुखश्च॥२०॥

सुखो यस्मिन् निरुध्दे संयोगेच्छा जायते॥२१॥

दुःखो यस्मिन्नुत्पन्ने वियोगेच्छा जायते॥२२॥

अदुःखासुखो यस्मिन्नुत्पन्ने नोभयेच्छा जायने॥२३॥



वेदनस्कन्धः सोनिदेशनिर्देशः परिनिस्ठतः।

अथ संज्ञा लक्षण प्रभेदा

संज्ञा कतमा। विषयनिमित्तोद् ग्रहणम्॥२४॥

सा त्रिधा।परित्ता महद्गता अप्रमाणा च॥२५॥



संज्ञा स्कन्धः सोद्देशनिर्देशः परिनिस्ठितः।



संस्काराणां द्वौभेदौ



संस्काराः कतमे। वेदनासंज्ञाभ्यामन्ये चैताः चित्तविप्रयुक्ताश्च॥२६॥

तत्र चैतधर्माः कतमे। ये धर्मार्श्चित्तेन संप्रयुक्ताः॥२७॥

चैतपरिसंख्यानम्

ते कतमे। स्पर्शः मनस्कारः वेदना संज्ञा चेतना छन्दः अधिमोक्षः स्मृतिः समाधिः प्रज्ञा श्रध्दा ह्रीः अपत्रपा अलोभः कुशलमूलम् अद्वेषःकुशलमूलम् अमोहःकुशलमूलम् वीर्यम् प्रश्रब्धिः अप्रमादः उपेक्षा अविहिंसा राग प्रतिघः मानः अविद्या दृष्टिः विचिकित्सा क्रोध उपनाहः म्रक्षः प्रदाशः ईर्ष्या मात्सर्यर्म् माया शाठ्यम् मदः अहिंसा आह्रिक्यम् अनपत्राप्यम् स्त्यानम्, औद्धत्यम्, आश्रद्ध्यम्, कौशीद्ध्यम् प्रमादः मुषितास्मृति, बिक्षेपः, अप्रसजन्यम्, कौक्रित्यम्, मिद्धम्,वितर्कः, विचारश्च॥२८॥

एतेशां पश्च सर्वत्रगाः। पञ्चप्रतिनियतविषया।एकादशकुशलाः।षट्क्लेशाः। शिष्टा उपक्लेशाः। चत्वारोऽन्यत्रापि भवन्तीत्यनियताः॥२९॥

चैत्तलक्षणानि

स्पर्शःकतमः। त्रिकसंनिपाते इन्द्रियविकारपरिच्छेदः॥३०॥

मनस्कारः कतमः। चेतस आभोगः॥३१॥

चेतना कतमा।गुणदोषानुभयेषु चित्ताभिसंस्कारो मनस्कर्म॥३२॥

छन्दः कतमः। अभिप्रेते वस्तुन्यभिलाषः॥३३॥

अधिमोक्षः कतमः। निश्चिते वस्तुनि तथैवावधारणम्॥३४॥

स्मृतिः कतमा।संस्तुते वस्तुन्यसंप्रमोषः॥३५॥

समाधिः कतमः।उपपरीक्ष्ये वस्तुनि चित्तस्यैकाग्रता॥३६॥

प्रज्ञा कतमा।तत्रैव प्रविचयो योगायोगविहितोऽन्यथा च॥३७॥

श्रद्दा कतमा। कर्मफ़लासत्यरत्नेष्वभिसंप्रत्ययः। चेतसोऽभिलाषः चेतसः प्रसादः॥३८॥

ह्रीः। कतमा आत्मानं धर्मं वाधिपतिं कृत्वा स्वयमवयेन लज्जा॥३९॥

अपत्रपा कतमा।लोकमधिपतिं कृत्वा परतोऽवधेन लज्जा॥४०॥

अलोभः कतमः।लोभ प्रतिपक्षः। चेतसो दानक्षेत्रापरिग्रहः॥४१॥

अद्वेषः कतमः।द्वेषप्रतिपक्षः। मैत्रि॥४२॥

अमोहः कतमः। मोहप्रतिपक्षः। यथाभूतसंप्रतिपत्तिः॥४३॥

वीर्यं कतमत्।कौसीद्द्यप्रतिपक्षः।कुशले चेतसोऽभ्युत्साहः॥४४॥

प्रश्रब्धिः कतमा। दौष्ठुल्यप्रतिपक्षः।कायचित्तकर्मण्यता॥४५॥

अप्रमादः कतमः। प्रमादप्रतिपक्षः। अलोभादीन् वीर्यान्तान् निश्रित्य अकुशलानां धर्माणां प्रहाणम्।तत्प्रतिपक्षाणां कुशलानां धर्माणां भावना॥४६॥

उपेक्षा कतमा। अलोभादीन् वीर्यन्तान् निश्रित्य चित्तसमता। चित्तप्रशस्ता। चित्तानाभोगता।ययाक्लिष्टधर्मानवकाशेनाऽक्लिष्टेषु स्थितिः॥४७॥

अविहिंसा कतमा। विहिंसाप्रतिपक्षः।करुणा॥४८॥

रागः कतमः।उपादानस्कन्धेष्वभ्यर्थना। अध्यवसानम्॥४९

प्रतिघः कतमः। सत्वेष्वाघातचित्तता॥५०॥

मानः कतमः। मानः सप्तविधः। अतिमानः , मानातिमानः अस्मिमानः , अभिमानः , ऊनमानः ,मिथ्यामानश्च॥५१॥

अतिमानः कतमः। हीनात् श्रेयानहमस्मि सदृशेन वा सदृशोऽस्मीति चिन्तयतो या चित्तस्योन्नतिः॥५३॥

मानातिमानः कतमः। श्रेयसोऽहमेव श्रेयानिति चिन्तयतो या चित्तस्योन्नतिः॥५४॥

अस्मिमानः कतमः। पञ्चसूपादानस्कन्धेष्वात्मानमात्मीयं वा पश्यतो या चित्तस्योन्नति॥५५॥

अभिमानः कतमः। अप्राप्त उत्तरे विशेषाधिगमे प्राप्तो मयेति चिन्तयतो या चित्तस्योन्नतिः॥५६॥

ऊनमानः कतमः।बहृवन्तरविशिष्टादल्पान्तरहिनोऽस्मीति चिन्तयतो या चित्तस्योन्नतिः॥५७॥

मिथ्यामानः कतमः। अगुणवतो गुणवानहमस्मीति चिन्तयतो या चित्तस्योन्नतिः॥५८॥

अविद्ध्या कतमा। कर्मफ़लसत्यरत्नानामज्ञानम्। सा पुनः सहजा परिकल्पिता च॥५९॥

रागचरितस्य रागप्रतिघयोः रागचरितस्याविद्द्यायाश्चेत्यकुशलानां त्रीणी मूलानि। लोभोऽकुशलमूलं द्धेषोऽकुशलमूलं , मोहोऽकुशलमूलं च॥६०॥

दृष्टिः कतमा।पञ्चदृष्ट्यः - सत्कायदृष्टिः, अन्तर्ग्राह्यदृष्टिः, मिथ्यादृष्टिः , दृष्टिपरामर्शः, शीलव्रतपरामर्शश्च॥६१॥

सत्कायदृष्टिः कतमा। पञ्चोपादान - स्कन्धानात्मत आत्मीयतो वा पश्यतो या क्लिष्टा प्रज्ञा॥६२॥

अन्तर्ग्राह्यदृष्टिः कतमा।तानेवाधिपतिं कृत्वा शाश्वतत उच्छेदतो वा पश्यतो या क्लिष्टा प्रज्ञा॥६३॥

मिथ्यादृष्टिः कतमा। हेतुं वा फ़लं वा क्रियां वापवदतः सदावस्तु विनाशयतो या क्लिष्टा प्रज्ञा॥६४॥

दृष्टिपरामर्शः कतमः। ता एव तिख्रो दृष्टिस्तदाश्रयांश्च स्कन्धान् श्रेष्ठतः परमतश्च पश्यतो या क्लिष्टा प्रज्ञा॥६५॥

शीलब्रतपरामर्शः कतमः। शीलं व्रतं तदाश्रयांश्च स्कन्धानशुद्धितो मुक्तितो नैयाणिकतश्च पश्यतो या क्लिष्टा प्रज्ञा॥६६॥

विचिकित्सा कतमा। सत्यादिषु या द्विकोटिका मतिः॥६७॥

एतेषां क्लेशानां पश्चिमास्तिस्त्रो दृष्टयः वीचिकित्सा च परिकल्पिताः। शिष्टाः सहजाः परिकल्पिताश्च॥६८॥

क्रोधः कतमः। वर्तंमानमपकारमागम्य या चेतस आघातचेतना॥६९॥

उपनाहः कतमः। वैरानुबन्ध॥७०॥

म्रक्षः कतमः आत्मनोऽवद्धप्रच्छादना॥७१॥

प्रदाशः कतमः चण्डवचोदाशिता॥७२॥

ईर्ष्या कतमा।परसंपत्तौ चेतसो व्यारोप॥७३॥

मात्सर्य कतमत्।दानविरोधी चेतस आग्रहः॥७४॥

माया कतमा। परवश्चनाभूतार्थसदर्शनता॥७५॥

शाठ्यं कतमत्।स्वदोषप्रच्छादनोपायसंगृहितं चेतसः कौटिल्यम्॥७६॥

मदः कतमः। स्वसंपत्तौ रक्तस्योद्धर्षः । चेतसः पर्यादानम्॥७७॥

विहिंसा कतमा।सत्वेषु विहेठना॥७८॥

आह्रीक्यं कतमत्। अवद्येन स्वयमलज्जा॥७९॥

अनपत्राप् कतमत्। अवद्येन परतोऽलज्जा॥८०

सत्यानं कतमत्। चित्ताकर्मण्यता।स्तैमित्यम्॥८१॥

औद्धत्यं कतमत्। चित्तस्याव्युपसमः॥८२॥

आश्रद्ध्यं कतमत्। कर्मफलसत्यरत्नेष्वनभिसंप्रत्ययः। श्रद्धाविपक्षश्चेतसोऽप्रसादः॥८३॥

कौशिद्द्यं कतमत्ंः कुशले चेतसोऽनभ्युत्साहो वीर्यविपक्ष॥८४॥

प्रमादः कतमः। या लोभद्वेषमोहेकौशीद्द्यैश्चितस्यानारक्षा कुशलस्याभावना॥८५॥

मुषितास्मृतिः कतमा। क्लिष्टास्मृतिः। कुशलाप्रतिपतिः॥८६॥

विक्षेपः कतमः। रागद्वेषमोहांशिकः पञ्चकामगुणेषु चित्तस्य विसारः॥८७॥

अप्रसजन्यं कतमत्।क्लेशसंप्रयुक्ता प्रज्ञा। तया कायवाक्चित्तचर्या असंविदितेव प्रवर्तते॥८८॥

कौकृत्यं कतमत्। चेतसो विप्रतिसारः॥८९॥

मिद्धं कतमत्। अस्वतंत्रवृत्तिचेतसोऽभिसंक्षेपः॥९०॥

वितर्कः कतमः।पर्येषको मनोजल्पः चेतनाप्रज्ञाविशेषः या चित्तस्यौदारिकता॥९१॥

विचारः कतमः। पर्येषको मनोजल्पः तथैव या चित्तस्य सूक्ष्मता॥९२॥

॥चित्तविप्रयुक्तपरिसंख्यानम्॥

चित्तविप्रयुत्तसंस्काराः कतमे।ये रुपचितचैत्तधिकारे प्रज्ञप्ताः , त एवान्यत्राप्रज्ञप्ताः॥९३॥

ते कतमे। प्राप्ति, असंज्ञिसमापत्तिः , निरोधसमापत्तिः , आसंज्ञिकम् , जीवितेन्द्रियम्, निकायसभागता, जाति , जरा, स्थितिः, अनित्यता, नामकायः, पदकायः, व्यञ्जनकायः, पृथग्जनत्वमित्येवमादिभेदसमादानाः॥९४॥

॥चित्तविप्रयुक्तलक्षणानि॥

तत्र प्राप्तिः कतमा। प्रतिलम्भः समन्वागमश्च। बीजम् , वशिता,अभिमुखीभावश्च यथायोगम्॥९५॥

असंज्ञिसमापत्तिः कतम्ं। शुभकृत्स्नवीतरागस्योपर्यवीतरागस्य निःसरणसंज्ञापूर्वकेण मनसिकारेणावस्थावराणां चित्तचैत्तधर्माणां यो निरोधः॥९६॥

निरोधसमापत्तिः कतमा। आकिञ्चन्यायतनबीतरागस्य भवाग्रतादुच्चलितस्य शान्तविहार - संज्ञापूर्वकेण मनसिकारेणास्थावराणां चित्तचैत्तधर्माणां तदेकत्यानां च स्थावराणां यो निरोधः॥९७॥

आसंज्ञिकं कतमत्। असंज्ञिसत्वनिकायदेवेषुपपन्नस्यास्थावराणां चित्तचैत्तधर्माणां निरोधः॥९८॥

जीवितेन्द्रियम् कतमत्। निकायसभागेषु पूर्वकर्मानुविद्ध्येषु यः संस्काराणां स्थितिकालनियमः॥९९॥

निकायसभागः कतमः। या सत्वानामात्मभावसदृशता॥१००॥

जातिःकतमा। निकायसभागे संस्काराणामभूत्वा यो भाषः॥१०१॥

जरा कतमा। तथा तेषां प्रबन्धान्यथात्वम्॥१०२॥

स्थिति कतमा।तथा तेषां प्रबन्धन्वयः॥१०३॥

अनित्यता कतमा। तथा तेषां प्रबन्धविनाशः॥१०४॥

नामकायः कतमः।धर्माणां स्वभावाधिवचनम्॥१०५॥

पादकायः कतमः। धर्माणां विशेषाधिवचनम्॥१०६॥

व्यञ्जनकायः कतमः। अक्षराणि। तदुभयाभिव्यञ्जनतामुपादाय॥१०७॥

वाक्यानि तानि। नामपदाश्रेयेणार्थवचनतामुपादाय॥१०८॥

अक्षरं पुनः पर्यायाक्षरणतामुपादाय॥१०९॥

पृथग्जनत्वं कतमत्। आर्यधर्माणामप्रतिलम्भः॥११०॥



इति संस्कारस्कन्धो नाम॥

संस्कारस्कन्धः सोद्द्येशनिर्देशः परिनिष्ठितः॥१११॥

॥विज्ञानलक्षणम्॥

विज्ञानं कतमत्। आलम्बनंबिज्ञप्तिः॥११२॥

चित्तमनसी विज्ञानपर्यायौ सनिर्वचनो तच्चितं मनोऽपि चित्रीकारता मनोनिश्रयतां च उपादाय॥११३॥

॥सलक्षणचित्तनिर्देशः॥

मूलचित्तमालयविज्ञानं तद्यथेदं सर्वसंस्काराणां संचितं बीजम्॥११४॥

तत्पुनरालम्बनमप्युपरिछिन्नमेकसन्तानवर्ति। यथा निरोधसमापत्यसंज्ञिसमापत्या - संज्ञिकेभ्योव्युत्थितस्यास्माद् विषयविज्ञप्तिकं नाम प्रवृत्ति विज्ञानं जायते। आलम्बनप्रत्ययमपेक्ष्य भिन्नाकारेषु वृत्तितामुच्छिद्द्य पुनर्जाततां संसारे प्रवृत्तिनिवृतितां चोपादाय तदालम्बनं नाम विज्ञानम्॥११५॥

आलयविज्ञानं हि सर्वबीजालयतामात्मभावालयहेतुतामात्मभावे स्थितितां चोपादाय॥११६॥

आदानविज्ञानमपि तत्। आत्मभावादानतामुपादाय॥११७॥

॥सलक्षणमनोनिर्देशः॥

मूलमन आलयविज्ञानमाश्रित्य नित्यमात्ममोहात्मदृष्ट्यात्ममानात्मस्नेहैः संप्रयुक्तं विज्ञानमेकजातीयसन्तानवर्ति अर्हत्वार्यमार्गनिरोधसमापत्तिकाले व्यावर्तते॥११८॥



विज्ञानस्कन्धः सोनिद्देशनिर्देशः परिनिष्ठितः॥

॥स्कन्धनिर्वचनम्॥

किमर्थः स्कन्धः राश्यर्थः। कालगोत्राकारगतिविषयभिन्नानां रुपादीनामभिसंक्षेपतामुपादाय॥११९॥

स्कन्धोद्द्येशनिर्देशकः प्रथमाधिकारः परिनिष्ठितः॥



द्वितीयाधिकारः

आयतनोद्द्येशनिर्देशकः

द्वादशायतनानि। चक्षुरायतनम् , रुपायतनम् , श्रोत्रायतनम्, शब्दायतनम् , घ्राणायतनम् , गन्धायतनम् , जिह्वायतनम् , रसायतनम् , कायायतनम् , स्प्रष्टव्यायतनम् , मन आयतनम्,धर्मायतनं च॥१२०॥

॥आयतनानां सलक्षणप्रपञ्चः॥

चक्षुरादीनि रुपशब्दगन्धरसायतनानि यथोक्तपूर्वाणि॥१२१॥

स्प्रष्टव्यायतनं चत्वारि महाभूतानि उक्तश्च यः स्प्रष्टब्यैकदेशः॥१२२॥

मन आयतनं यो विज्ञानस्कन्धः॥१२३॥

धर्मायतनं वेदना , संज्ञा , संस्काराः , अविज्ञप्तिः, असंस्कृताश्च॥१२४॥

॥असंस्कृताः सलक्षणप्रभेदाः॥

असंस्कृता कतमे। आकाशम् , अप्रतिसंख्यानिरोधः , प्रतिसंख्यानिरोधः तथता च॥१२५॥

तत्राकाशं कतमत्। रुपावकाशः॥१२६॥

अप्रतिसंख्यानिरोधः कतमः।यो निरोधो न विसंयोगः॥१२७॥

सक्लेशाऽप्रतिपक्षेण स्कन्धानामात्यन्तिको निरोधः॥१२८॥

प्रतिसंख्यानिरोधः कतमः। यो निरोधो विसंयोगः॥१२९॥

सक्लेशप्रतिपक्षेण स्कन्धानामात्यन्तिको निरोधः॥१३०॥

तथता कतमा। या धर्माणां धर्मता। धर्मनैरात्म्यम्॥१३१॥

॥आयतननिर्वचनम्॥

किमुपादायायतनमिति। विज्ञानोत्पादद्वारतामुपादाय॥१३२॥

आयतनोद्द्येशनिर्देशको द्वितीयाधिकारः परिनिष्ठितः।

तृतीयाधिकारः



धातूद्देशनिर्देशकः

॥धातुनामानि॥

अष्टदश धातवः। चक्षुर्धातुः, रुपधातुः, चक्षुर्विज्ञानधातु , श्रोत्रधातुः, शब्दधातुः, श्रोत्रविज्ञानधातुः, घ्राण-धातुः, गन्धधातुः, घ्राणविज्ञानधातुः, जिह्वाधातुः, रसधातुः, जिह्वाविज्ञानधातुः , कायधातुः , स्प्रष्टव्यधातुः , कायबिज्ञानधातुः , मनोधातुः , धर्मधातुः , मनोविज्ञानधातुश्च॥१३३॥

॥धातुप्रपश्चः॥

चक्षुरादयो धातवो रुपादयो धातवश्च यथायतनानि॥१३४॥

षड्विज्ञानधातवश्चक्षुराद्द्याश्रया रुपाद्यालम्बनाविज्ञप्तयः॥१३५॥

मनोधातुस्तेषामेव समनन्तरनिरुध्यं षड्विज्ञानदेशनाश्रयतामुपादाय॥१३६॥

॥धातुव्यवस्थनम्॥

एबमष्टादशधातुव्यवस्थानम्। यो रुपस्कन्धस्तानि दशायतनधातवः॥१३७॥

धर्मायतनं धर्मधात्वेकदेशः॥१३८॥

यो विज्ञानस्कन्धस्तन्मन आयतनम् , सप्तम मनोधातवश्च॥१३९॥

अन्ये ये त्रयः स्कन्धा रुपधात्वेकदेशश्च , तेऽसंस्कृतै सहिता धर्मायतनं धर्मधातुश्च॥१४०॥

॥धातुनिर्वचनम्॥

किमुपादाय धातव इति। आकारकात्मलक्षणधारणतामुपादाय॥१४१॥

॥स्कन्धायतनधातुक्रमेण धर्मदेशनायाः प्रयोजनम्॥

किमर्थ स्कन्धादिक्रमेण देशना। त्रिविधात्मग्राहप्रतिपक्षेणायं क्रमः॥१४२॥

आत्मग्राहस्त्रिविधः एकात्मग्राहः , वेदकात्मग्राहः, कारकात्मग्राहश्च॥१४३॥

॥अष्टादशधातुविकल्पाः॥

अष्टादशधातुषु कति रुपिणः। ये रूपस्कन्धस्वभावाः॥१४४॥

कत्यरुपिणः। शिष्टाः॥१४५॥

कति सनिदर्शनाः। रुपधातुरेकः सनिदर्शनविषयः॥१४६॥

कत्यनिदर्शनाः। शिष्टाः॥१४७॥

कति सप्रतिधाः। दश रुपिणः। यत्र यत्प्रतिधातस्तत्र तत् सप्रतिघम्॥१४८॥

कत्यप्रतिघाः। शिष्टाः॥१४९॥

कति सास्रवाः। पञ्चदश पश्चिमानां त्रयाणामेकदेशश्च। ते क्लेशोत्पादप्रत्यक्षचर्याविषयतामुपादायं॥१५०॥

कत्ययनास्त्रवाः। पश्चिमानां त्रयाणामेकदेशः॥१५१॥

कति कामप्रतिसंयुक्ताः।सर्व॥१५२॥

कति रुपप्रतिसंयुक्ताः। चतुर्दश स्थापयित्वा गन्धरसघ्राणजिह्वाविज्ञानधातून्॥१५३॥

कत्यारुप्यसंप्रयुक्ताः। पश्चिमाश्रयः॥१५४॥

कत्यप्रतिसंयुक्ताः।त्रयाणामेकदेशः॥१५५॥

कति स्कन्धसंग्रहीताः। असंस्कृतान् स्थापयित्वा॥१५६॥

कत्युपादानस्कन्धसंगृहीताः ये सास्रवाः॥१५७॥

कति कुशलाकुशलाव्याकृताः। दश त्रिविधाः। सप्त मनोधातवः, रुपशब्दधर्मधातवश्च। शिष्टा अव्याकृताः॥१५८॥

कत्याध्यात्मिकाः। द्वादश। स्थापयित्वा रुपशब्द गन्धरसस्प्रष्टाव्यधर्मधातून्॥१५९॥

कति बाह्याः। षट्। ये स्थापिताः॥१६०॥

कति सालम्बनाः।सप्तचित्तधातवः धर्मधात्वेकदेशोऽपि यश्चैत्तः॥१६१॥

कत्यनालम्बनाः। शिष्टा दश धर्मधात्वेकदेशश्च॥१६२॥

कति सवितर्काः। मनोधातुः मनोविज्ञानधातुः धर्मधात्वेकदेशश्च॥१६३॥

कति निष्पन्नाः। पञ्चाध्यात्मिकाः। चतुर्णामेकदेशः॥१६४॥

कत्यनिष्पन्नाः शिष्टा दश, चतुर्णामेकदेशश्च॥१६५॥

कति सभागाः। आध्यात्मिकाः पञ्च रुपिणः। स्वविज्ञानसहितविषयसदृशतामुपादाय॥१६६॥

कति तत्सभागाः। त एव स्वविज्ञानविरहितस्वान्वयसदृशतामुपादाय॥१६७॥

धातूद्द्येशनिर्देशकस्तृतीयाधिकरः परिनिष्टितः।



आचार्यवसुबन्धुविरचित् पञ्चस्कन्धप्रकरणं समाप्तम्।

पञ्चस्कन्धप्रकरणं शास्त्रिणा शान्तिभिक्षुणा।

भोटानुवादमागम्य संस्कृते पुनरुद्धृतम्

यदत्र सुकृतं सर्व तदाचार्यस्य धीमतः।

यत् कुकृतं तदागो मे क्षन्तव्यं साधुसूरिभिः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project