Digital Sanskrit Buddhist Canon

चित्ततत्वसङ्ग्रहः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June 15, 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Cittatatvasaṅgrahaḥ

चित्ततत्वसङ्ग्रहः
नमस् तस्मै भगवतेऽर्हते सम्यक्सम्बुद्धाय

अग्रः श्रेष्टश् च ज्येष्ठस् त्रिभुवनजगतश्­ शास्तृभूतश् च लोके
योऽभूल् लक्ष्मीघनस् तत् पदकमलयुगम्­ मस्तकेनभिवन्द्य
लोकानां द्ल्र्घकालम् पिहितमविदितं­ चित्तधर्मस्य तत्वं
जिज्ञासूनाम् प्रवक्ष्ये सुगतमुनिमतम्­ गौरवेणनुगम्य।

ई. सर्वा चित्तकथा धर्मे - प्रोक्तैवादित्यबन्धुना
चतुर्भिर् एव वचनैः - पञ्चस्कन्धादिदर्शने।

२. प्रथमा वेदना तत्र - संज्ञा तु स्याद् द्वित्ल्यीका
तृतीयस् तु च संस्कारस् - तुर्यं विज्ञानम् एव हि।

३. एतच्चतुष्टयं यत्रै - कत्वेन गृह्यते यदा
तदा तस्य समूहस्य - वयं चित्तं वदामहे।

४. वेदना-संज्ञा-संस्काराः - प्रबुद्धस्य गतिर् भवेत्
चतुर्थं तु च विज्ञानं - सुसुप्तस्य भवेद् गतिः।

५. अवस्थाह्यन्तर्बूता तु - स्वप्नं एवेत्युदीरिता
गतिस् तस्याम् प्रबुद्धस्य - सुसुप्तिश् च न विद्यते।

६. प्रबुद्धस्य गतिस् तत्र - क्रियव्ज्ञानमेव हि
अन्यद् अक्रियविज्ञानं - सुसुप्तस्य गतिः पुनः।

७. अवस्थाम् अन्तर्भूताम् तु - द्वयमिश्रवशाद् विदुः।
अतीतस्ंऋतिसंस्कार - रूपेनाविर्भवन्तिते

८. इन्द्रियार्थसन्णिकर्षाज् - जन्यं ज्ञानं तु वेदना
उपलब्धिश् च प्रत्यक्षो - विषयानुभवोऽपि च
वेदनायास् तु पर्याया - दृश्यन्ते न्यायदर्शने।

९. वेदनाशब्दस्यार्थस्य - ऋग्वेदे चैव संस्कृते
सम्बुद्धेन प्रयुक्तार्थ - समं किञ्चिन् न दृश्यते।

१०. वीथिविज्ञानत्रैविध्ये - वेदना प्रथमाभवेत्
सैवर्जुज्ञानमार्गं स्याद् - अन्ये द्येऽनृजुके तथा।

११. वीथिविज्ञानसंज्ञा तु - चिन्तनार्थं प्रकाशते
तर्कानुमानजानन - सर्वंज्ञागतं भवेत्।

१२. वेदनानामप्रत्यक्सो - वृद्धिं गच्चति चिन्तने
दृष्टिस्मृतिप्सासर्वे तु - संज्ञसाधकहेतवः।

१३. वेदनासंज्ञायुगलम् - एकैकं हि प्रभास्वरम्
प्रभास्वरचित्तकथा - धर्मे तस्माद् धि दृश्यते।

१४. अप्रभास्वरचित्तन् तु - संस्कारसहितं भवेत्
बालदरकचित्तं हि - तस्माद् एवाप्रभास्वरम्।

१५. वेदनासंज्ञाविज्ञान - संस्कारा बुद्धदर्शने
दृष्टार्थयुक्ताः कुत्रापि - दृश्यन्ते नान्यदर्शने।

१६. वेदनासंज्ञासंस्कार - त्रयैः शब्दैर् उदीरितम्
चित्तस्य वीथिविज्ञानम् - मुनिनादित्यबन्धुना।

१७. संस्कारक्षयशब्दार्थं - निर्वाणञ् च समम् भवेत्
विसंस्कारगतं चित्तम् - इति बुद्धप्रकाशनम्।

१८. संस्कारतृष्णासम्बन्धः - कथम् ज्ञातुं हि शक्यते
बुद्ध एवावदत् तत्र - तृष्णानां क्षयम् अध्यगाम्।

१९. व्याकृताऽनिव्र्तस् तत्र - तृष्णादोषास् त्रयो मताः
आत्मस्नेहात्ममानात्म - दृष्टिनामवशात् पुनः।

२०. एतत् त्रयं हि तृष्णाया - आत्ममोहवशाद् भवेत्
तस्माद् अविद्यातृष्णात्म - मोहाः पर्यायवाचकाः।

२१. एतैर् जातास् तु संस्कारा - न विद्यन्तेऽर्हते क्वचित्
क्लिश्यते सर्वकाले तु - चित्तम् एतैः पृथग्जने।

२२. पारिशुद्धिं हि चित्तस्य - संस्कारक्षयम् एव तत्
पुण्यपापप्रहीणस्य - चित्तं निर्वुतम् उच्यते।

२३. प्रभास्वरं हि तच्चित्तम् - अन्यत् क्लिष्टम् भवेत् सदा
तस्मात् पृथग्जनाः सर्वे - उन्मत्ता इत्युदीरिताः।

२४. यद् वेदयति तत् सर्वं - संजानाति तथा पुनः
वितर्कयति तज्ज्ञातं - तद् वितर्कम् प्रपञ्चयेत्।

२५. इत्युवाच महार्हा स - काश्यपो मनसः क्रियाम्
निकाये मध्यमे पाल्यां - सूत्रे तु मधुपिण्डिके।

२६. प्रपञ्चो नाम संस्कारो - यावद् आहरते फलम्
तावद् अक्रियविज्ञान - रूपेणैवावतिष्ठति।

२७. कर्मसंस्कारसंक्लेश - प्रपञ्चाश्रवकिञ्चनाः
पुण्यपापे च कुशला - कुशलेतीञ्जितामलाः।

२८. सङ्गसंयोजने शल्या - नुशयानुश्रवाशयाः
उपादानान्गनाः क्लेशाः - सर्वे पर्यायवाचकाः।

२९. वेदनासंज्ञायुगलं - ससंस्कारत्रिकञ् च यत्
वीथिविज्ञाननामेन - क्रियकर्मवशज् जवेत्।

३०. क्रियं हि वीथिविज्ञानं - निर्वुताव्याकृतम् भवेत्
कर्मभूतं वीत्थिचित्तं - व्याकृतञ् चाप्यनिर्वुतम्।

३१. बुद्धार्हतां सुद्धचित्तं - क्रियरूपेण धावति
पृथग्जनस्य चित्तन् तु - कर्मतत्वेन धावयेत्।

३२. पुण्यपापप्रहीणं यत् - सुद्धं बुद्धस्य मानसम्
तद्धि लोकोत्तरं ज्ञातम्-नास्ति तस्य पुनर्भवः।

३३. भवाङ्गजं वीथिचित्तं - चक्षुरादिक्रमेण षट्
तदालम्बवशात् तच्च - वीथिमुक्तम् प्रविश्यति।

३४. किर्यचित्तं कर्मचित्तं - द्वयं वीथिं प्रचक्षते
वीथिमुक्तन् तु विज्ञानं - वीथिचित्तैः प्रवर्धते।

३५. विपाकाक्रियविज्ञानं - प्रतिसन्धिर् भवेद् भवे
भवाङ्गम् प्रवृत्तौ भूत्वा - जीवितान्ते भवेच्च्युतिः।

३६. मूलविज्ञानम् आलय - विज्ञानम् इति नामके
बुद्धविज्ञानशब्दार्थे - वसुबन्धुः प्रयूयुजत्।

३७. भवम् भवाङ्गम् तत्स्रोतो - विज्ञानम् एव भावयेत्
प्रतिसन्धिच्युतीभ्यां तद् - वीथिमुक्तं प्रकीर्तितम्।

३८. क्रियभूतं कर्मभूतं - वीथिचित्तं द्विधा मतम्
अक्रियं वीथिमुक्तं वै - विपाकम् एव सर्वदा।

३९. सकर्मं वीथिचित्तन् तु - बुद्धादिषु न विद्यते
तेषां हि वीथिचित्तं वै - क्रियरूपेण धावति।

४०. आर्याष्टाङ्गिकमार्गेण - कर्मक्षयकृतम् मनः
बुद्धानाम् अर्हतञ् चैव - नाह्वयते पुनर्भवम्।

४१. क्रियाकर्मविपाकैस् तु - सर्वं चित्तं विभाव्यते
वेदनासंज्ञासंस्कार - विज्ञानैश् च तथैव तत्।

४२. प्रतीत्यसमुत्पादाख्ये - धर्मे देशितवेदना
संज्ञार्थं वेदनार्थञ् च - द्वयम् एव प्रकाशते।

४३. त्रीण्येवार्थानि चित्तस्य - प्रयोगस्य वशात् पुनः
मूलद्वैतीयसामान्य - नामैस् तत्त्रिकम् उच्यते।

४४. मूलार्थो हि तु चित्तस्य - वेदनार्थम् प्रकाशते
वेदनं तस्मिन्नर्थे तु - बुद्ध एव प्रयूयुजत्।

४५. द्वैतीयार्थन् तु चित्तस्य - संज्ञार्थम् एव भावयेत्
सामान्यार्थो हि तस्य स्यात् - चित्तं वाथोनम् अङ्गिकम्।

४६. तथैव च मनश्शब्दस् - तदेवार्थत्रयं ददेत्
मूलार्थं हि भवेत् संज्ञा - द्वैतीयार्थं तु वेदना
सामान्यार्थो मनश्शब्दे - चित्तयुक्तसमो भवेत्।

४७. वेदनासंज्ञा संस्कार - विज्ञानानां यथाक्रमम्
अन्तर्गतार्थान् मनसश् - चित्तस्यैवञ् च ज्ञायताम्।

४८. विज्ञानम् एव विज्ञप्तिः - क्रियाक्रियवशा द्विधा
विज्ञप्तिमात्रता सिद्धा - चित्तस्यैवं हि निश्चयात्।

४९. क्षणजन्या च विज्ञप्तिर् - अनित्या क्षणभन्गुरा
तदात्मकेस्मिंश् चित्ते तु - माया स्याद् आत्मकल्पना।

५०. प्रतीत्यसमुत्पादे च - पञ्चस्कन्धे च दर्शने
विद्यमानम् चित्ततत्वं - सम्यग् एवं प्रकाशितम्।

श्री लन्कापुत्रभूतेन - पण्डिताचार्यभिक्षुणा
आमेरिकाधर्मदूत - प्रियनन्देन धीमता
विज्ञप्तिमात्रातसिद्धि - पञ्चाशिकेति नामिका
कृतैवं कृ तिर् एषा तु - चित्ततत्वस्य सङ्ग्रहः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project