Digital Sanskrit Buddhist Canon

पुण्यवृद्धिर्नाम नवदशः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
पुण्यवृद्धिर्नाम नवदशः परिच्छेदः।



अन्योऽपि पुण्यवृद्धये हेतुः कार्यः, योऽयं सर्वावस्थासु सत्त्वार्थः। यथा कथितं चार्यरत्नमेघे-स तथागतचैत्ये वा तथागतविग्रहे वा पुष्पं वा धूपं वा गन्धं वा ददत् सर्वसत्त्वानां दौःशील्यदौर्गन्ध्यमलापनयनाय तथागतशीलप्रतिलम्भाय च परिणामयति। स समार्जनोपलेपनं कुर्वन् सर्वसत्त्वानामप्रासादिकेर्यापथविगमाय प्रासादिकेर्यापथसंपदे च परिणामयति। स पुष्पच्छत्रमारोपयन् सर्वसत्त्वानां सर्वक्लेशपरिदाहविगमाय परिणामयति। स विहारं प्रविशन्नेवं चित्तमुत्पादयति-सर्वसत्त्वान् निर्वाणपुरं प्रवेशयेयम्। स निष्क्रमन्नेवं चित्तमुत्पादयति-सर्वसत्त्वान् संसारचारकान्निष्क्रामयेयम्। स लभनद्वारमुद्धाटयन्नेवं चित्तमुत्पादयति- सर्वसत्त्वानां लोकोत्तरेण ज्ञानेन निर्वाणसुगतिद्वारमुद्धाटयेयम्। स पिदधदेवं चित्तमुत्पादयति- सर्वसत्त्वानां सर्वापायद्वाराणि पिदध्याम्। स निषीदन्नेवं चित्तमुत्पादयति- सर्वसत्त्वान् बोधिमण्डे निषादयेयम्। स दक्षिणेन पार्श्वन शय्यां कल्पयनेवं चित्तमुत्पादयति- सर्वसत्त्वानेव परिनिर्वापयेयम्। स ततो व्युत्तिष्ठन्नेवं चित्तमुत्पादयति- सर्वसत्त्वान् व्युत्थापयेयं सर्वक्लेशपर्युत्थानेभ्यः। स शरीरगत्या गच्छन्नेवं चित्तमुत्पादयति- सर्वसत्त्वा महापुरुषगत्या गच्छन्तु। स तत्रोपविष्ट एवं चित्तमुत्पादयति- सर्वसत्त्वा निःशल्यक्रिया यदुत रागद्वेषमोहेभ्यः। स शौचं कुर्वन्नेवं चित्तमुत्पादयति- सर्वसत्त्वानां क्लेशमलान् प्रक्षालयेयम्। स हस्तौ प्रक्षालयन्नेवं चित्तमुत्पादयति- सर्वसत्त्वानां सर्वक्लेशवासनामपनयेयम्।

स पादौ प्रक्षालयन्नेवं चित्तमुत्पादयति- सर्वसत्त्वानामनेकप्रकाराणि क्लेशरजांस्यपनयेयम्। मुखं प्रक्षालयन्नेवं चित्तमुत्पादयति- सर्वसत्त्वानां सर्वधर्ममुखानि परिशोधयेयम्। स दन्तकाष्ठं भक्षयन्नेवं चित्तमुत्पादयति- सर्वसत्त्वानां नानाविधान् क्लेशमलानपनयेयम्। सर्वां कायावस्थां सर्वसत्त्वहितसुखाय परिणामयति। तथागतचैत्यं वन्दमान एवं चित्तमुत्पादयति-सर्वसत्त्वा वन्दनीया भवन्तु सदेवकस्य लोकस्येति॥



अथवा यथा आर्यप्रज्ञापारमितायाम्- पुनरपरं शारिपुत्र व्यालकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्त्रसितव्यम्, न संत्रसितव्यम्, न संत्रासमापत्तव्यम्। तत्कस्माद्धेतोः? तथा हि तेन सर्वं परित्यक्तं सर्वसत्त्वानामर्थाय। तेनैवं चित्तमुत्पादयितव्यम्- सचेन्मां व्याला भक्षयेयुः, तेभ्य एव तद्दानं दत्तं भवतु। मम च दानपारमितापरिपूरिर्भविष्यति। अभ्यासन्ना च भविष्यति[बोधिः]। तथा च करिष्यामि यथा मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तत्र बुद्धक्षेत्रे तिर्यग्योनिगताः सत्त्वाः सर्वेण सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते। चोरकान्तारमध्यगतेन शारिपुत्र बोधिसत्त्वेन महासत्त्वेन नोत्त्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम्। तत्कस्माद्धेतोः? सर्वस्वपरित्यागकुशला हि ते बोधिसत्त्वा महासत्त्वाः। उत्सृष्टकायेनापि च बोधिसत्त्वेन भवितव्यं परित्यक्तपरिष्कारोप- करणेन च। तेनैवं चित्तमुत्पादयितव्यम्- ते चेन्मे सत्त्वाः परिष्कारोपकरणानि हरन्ति, तेभ्य एवैतद्धनं दत्तं भवतु। सचेन्मां केचिज्जीविताद् व्यपरोपयेयुः, तत्र मया न द्वेषो न क्रोध उत्पादयितव्यः। तेषामपि मया न कायेन न वचसा न मनसा अपराद्धव्यम्। एवं च मे तस्मिन् समये दानपारमिता च शीलपारमिता च क्षान्तिपारमिता च परिपूरिं गमिष्यति। अनुत्तरा च मे सम्यक्संबोधिरभ्यासन्ना भविष्यति। तथा च करिष्यामि, तथा प्रतिपत्स्ये, यथा मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तत्र बुद्धक्षेत्रे एते चान्ये च दोषाः सर्वेण सर्वं सर्वथा सर्वं न भविष्यन्ति, न प्रज्ञास्यन्ते। पानीयकान्तारमध्यगतेन शारिपुत्र बोधिसत्त्वेन महासत्त्वेन नोत्त्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम्। तत्कस्माद्धेतोः? असंत्रस्तधर्माणो हि बोधिसत्त्वा महासत्त्व भवन्ति। एवं चानेन चित्तमुत्पादयितव्यम् - सर्वसत्त्वानां मया सर्वतृष्णाच्छेदाय शिक्षितव्यम्। न बोधिसत्त्वेन महासत्त्वेन संत्रासमापत्तव्यम्। सचेदहं तृष्णया कालं करिष्यामि, अपि तु खलु पुनः सत्त्वानामन्तिके महाकरुणाचित्तमुत्पादयिष्यामि- अहो बताल्पपुण्या अमी सत्त्वा यदेतेषां लोके एवंरूपाणि पानीयकान्ताराणि प्रज्ञायन्ते। तथा पुनरहं करिष्यामि, तथा प्रतिपत्स्ये, यथा मेऽनुत्तरां सम्यक्संबोधिमभिसंवुद्धस्य सतस्तत्र बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं पानीयकान्ताराणि न प्रज्ञास्यन्ते। तथा च सर्वसत्त्वान् पुण्यैः संयोजयिष्यामि, यथा ते अष्टाङ्गोपेतपानीयलाभिनो भविष्यन्ति। तथा दृढं वीर्यमारप्स्ये सर्वसत्त्वानां कृतशो यथा वीर्यपारमिता तस्मिन् समये परिपूरिं गमिष्यति। पुनरपरं शारिपुत्र बुभुक्षाकान्तारमध्यगतेन बोधिसत्त्वेन महासत्त्वेन नोत्त्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम्। एवं चानेन संनाहः संनद्धव्यः- तथा दृढं वीर्यमारप्स्ये, तथा च स्वं बुद्धक्षेत्रं परिशोधयिष्यामि, यथा मेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य सतस्तत्र बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा एवंरूपाणि बुभुक्षाकान्ताराणि न भविष्यन्ति, न प्रज्ञास्यन्ते। सुखिता एव ते सत्त्वा भविष्यन्ति सुखसमङ्गिनः सर्वसुखसमर्पिताः। तथा च करिष्यामि यथा तेषां सत्त्वानां यो य एवाभिप्रायो भविष्यति, यद्यदेवाकाङ्क्षिप्यन्ति मनसा, तत्तदेव प्रादुर्भविष्यति, तद्यथापि नाम देवानां त्रायस्त्रिंशानां मनसा सर्वं प्रादुर्भवति, मनसा सर्वमुत्पद्यते। तथा दृढं वीर्यमारप्स्ये यथा तेषां सत्त्वानां धार्मिका अभिप्रायाः परिपूरिं गमिष्यन्ति, अवैकल्पं च जीवितपरिष्कारैः सर्वसत्त्वानां भविष्यति सर्वेषां सर्वतः सर्वदेति॥

एवमयम्-

सर्वावस्थासु सत्त्वार्थः

पुण्यवृद्धिहेतुः। विस्तरतस्त्वार्यगोचरपरिशुद्धिसूत्रे द्रष्टव्यः॥

किं च-

धर्मदानं निरामिपम्।

पुण्यवृद्धिनिमित्तं भवति॥



यथोक्तमार्याध्याशयसंचोदनसूत्रे-विंशतिरिमे मैत्रेय आनुशंसा निरामिषदाने, यो लाभसत्कारमप्रतिकाङ्क्षन् धर्मदानं ददाति। कतमे विंशतिः? यदुत- स्मृतिमांश्च भवति, मतिमांश्च भवति, बुद्धिमांश्च भवति, गतिमांश्च भवति, धृतिमांश्च भवति, प्रज्ञावांश्च भवति, लोकोत्तरां च प्रज्ञामनुविध्यति, अल्परागो भवति, अल्पद्वेषोऽल्पमोहः, मारश्चास्यावतारं न लभते, बुद्धैर्भगवद्भिः समन्वाह्रियते , अमनुष्याश्चैनं रक्षन्ति, देवाश्चास्यौजः काये प्रक्षिपन्ति, अमित्राश्चास्यावतारं न लभन्ते, मित्राणि चास्य अभेद्यानि भवन्ति, आदेयवचनश्च भवति, वैशारद्यांश्च प्रतिलभते, सौमनस्यबहुलश्च भवति विद्वत्प्रशस्तश्च, अनुस्मरणीयं चास्य तद्धर्मदानं भवति। इमे मैत्रेय विंशतिरनुशंसा इति॥



आर्यप्रज्ञापारमितायां त्वाह- सचेत्वमानन्द श्रावकयानिकानां पुद्गलाना श्रावकभूमौ धर्म देशयेः, तस्यां च धर्मदेशनायां ये त्रिसाहस्त्रमहासाहस्त्रे लोकधातौ सत्त्वास्ते सर्वेऽर्हत्त्वं साक्षात्कुर्युः। तदद्यापि त्वया मे श्रावकेण श्रावककृत्यं न कृतं स्यात्। सचेत्पुनः त्वमानन्द बोधिसत्त्वस्य महासत्त्वस्यैकमपि प्रज्ञापारमिताप्रतिसंयुक्तं पदं देशयेः, प्रकाशयेः, एवमहं त्वया श्रावकेणाराधितः स्याम्। तया च पूर्विकया धर्मदेशनया ये त्रिसाहस्त्रमहासाहस्त्रे लोकधातौ सत्त्वास्ते सर्वेऽर्हत्वं प्राप्नुयुः। तेषां चार्हतां यद्दानमयं पुण्यक्रियावस्तु शीलमयं पुण्यक्रियावस्तु भावनामयं पुण्यक्रियावस्तु, तत्किं मन्यसे आनन्द अपि नु स बहु पुण्यस्कन्धः? आह- बहु भगवन्, बहु सुगत। भगवानाह- अतः स आनन्द श्रावकयानिकपुद्गलो बहुतरं पुण्यस्कन्धं प्रसवति, यो बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिताप्रतिसंयुक्तं धर्म देशयति। अतोऽप्यानन्द बहुतरं पुण्यस्कन्धं प्रसवति, यो बोधिसत्त्वो महासत्वोऽपरस्य बोधिसत्त्वस्य प्रज्ञापारमिताप्रतिसंयुक्तं धर्मं देशयति, अन्तश एकदिवसमपि। तिष्ठत्वानन्द एकदिवसः, अन्तशः प्राग्भक्तमपि। तिष्ठत्वानन्द प्राग्भक्तम्, अन्तश एकनालिकामपि। यावदन्तश एकक्षणसंनिपातमपि। पेयालं। इदमानन्द तस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मदानं सर्वश्रावकयानिकानामपि सर्वप्रत्येकबुद्धयानिकानां च पुद्गलानां कुशलमूलमभिभवति। एवं कुशलमूलसमन्वागतो बोधिसत्त्वो महासत्त्वः, एवं कुशलमूलं समन्वाहरन, अस्थानमानन्द अनवकाशो यत्स बोधिसत्त्वो महासत्त्वो विवर्तेत अनुत्तरायाः सम्यक्संबोधेः। नैतत्स्थानं विद्यत इति॥



कथं धर्मदानं दातव्यम्? यथा आर्यसद्धर्मपुण्डरीकेऽभिहितम्-

कालेन चो(वा)चिन्तयमानु पण्डितः

प्रविश्य लयनं तथ घट्टयित्वा।

विपश्य धर्मं इमि सर्वयोनिशो

उत्थाय देशेत अलीनचितः॥

सुखस्थितो भोति सदा विचक्षणो

सुखनिषण्णस्तथ धर्म भाषते।

उदारप्रज्ञप्त करित्व आसनं

चौक्षे मनोज्ञे पृथिवीप्रदेशे॥

चौक्षं च सो चीवर प्रावरित्वा

सुरक्तरङ्गं च प्रसन्नरङ्गैः।

आसेवकं(कान्) कृष्ण तथा ददित्वा

महाप्रमाणं च निवासयित्वा॥

स पादपीठस्मि निषद्य आसने

विचित्रदूष्येहि सुसंस्तृतस्मिन्।

सुधौतपादश्च उपारुहित्वा

स्निग्धेन शीर्षेण मुखेन चापि॥

धर्मासने तत्र( चात्र) निषीदियानः

एकाग्र सत्त्वेषु समं विपश्यन्(समागतेषु)।

उपसंहरेच्चित्रकथा बहूश्च

भिक्षूनथो(चो) भिक्षुणिकास्तथैव॥

किलासितांश्चापि विवर्जयीत

न चापि उत्पादयि खेदसंज्ञाम्।

अरतिं च सर्वां विजहीत पण्डितो

मैत्रीबलं पर्षदि भावयेच्च॥

भाषेच्च रात्रिंदिवमग्रधर्मान्

दृष्टान्तकोटीनियुतैः स पण्डितः।

संहर्षयेत्तां (त्पर्ष) च तथैव तोषयेत्

न चापि किंचितत्र जातु प्रार्थयेत्॥

खाद्यं च भोज्यं च तथान्नपानं

वस्त्राणि शय्यासनचीवराणि।

गिलानभैषज्य न चिन्तयेत्सः।

न विज्ञपेत्पर्षदि किंचिदन्यत्॥

अन्यत्र चिन्तेय सदा विचक्षणः

भवेय बुद्धोऽहमिमे च सत्त्वाः।

एतच्च मे सर्वसुखोपधानं

यं धर्म श्रावेमि हिताय लोके॥

अत्रैवाह- न च कस्यचिदन्तशो धर्मप्रेम्णाऽप्यधिकतरमनुग्रहं करोति॥

आर्यचन्द्रप्रदीपसूत्रेऽप्याह-



अध्येषयेयुर्युदि त्वां ते धर्मदानस्य कारणात्।

प्रथमं वाच भाषेया नाहं वैपुल्यशिक्षितः॥

एवं त्वं वाच भाषेया युष्मे( आयुष्मान्) वा विज्ञपण्डिताः।

कथं महात्मनां शक्यं पुरतो भाषितुं मया।

सहसैषां न जल्पेत तुलयित्वा तु भाजनम्।

यदि भाजनं विजानीया अनधीष्टोऽपि देशयेः॥

यदि दुःशीलान् पश्येसि परिषायां बहून् स्थितान्।

संलेखं मा प्रभाषेस्त्वं वर्णं दानस्य कीर्तयेः॥

भवेयुर्यदि चाल्पेच्छाः शुद्धाः शीले प्रतिष्ठिताः।

मैत्रं चित्तं जनित्वा त्वं कुर्याः सांलेखिकीं कथाम्॥

परीत्ता यदि पापेच्छाः शीलवन्तोऽत्र विस्तराः।

लब्धपक्षस्तदा भूत्वा वर्ण शीलस्य कीर्तयेः॥ इति॥



उक्तं च आर्यसागरमतिसूत्रे- तद्यथा समे। समवति। शमितशत्रु। अङ्कुरे। मङ्कुरे। मारजिते। कराडे। केयूरे। ओघवति। ओहोकयति। विशठनिर्मले। मलापनये। ओखरे। खरोग्रसे। ग्रसने। हेमुखी। पराङ्युखी। आमुखी। शमितानि सर्वग्रहबन्धनानि। निगृहीताः सर्वपरप्रवादिनः। विमुक्ता मारपाशाः। स्थापिता बुद्धमुद्राः। समुद्धातिताः सर्वमाराः। अचलितपदपरिशुद्धया विगच्छन्ति सर्वमारकर्माणि। इमानि सागरमते मन्त्रपदानि धर्मभाणकेन सुप्रवृत्तानि कृत्वा, धर्मासनकेन सुप्रवृत्तानि कत्वा, धर्मासननिषण्णेन सर्वां पर्षदं बोध्याकाराभिनिर्हृतया मैत्र्या स्फरित्वा आत्मनि वैद्यसंज्ञामुत्पाद्य धर्मे भैषज्यसंज्ञां धर्मश्रवणिकेष्वातुरसंज्ञां तथागते सत्पुरुषसंज्ञां धर्मनेत्र्यां चिरस्थितिकसंज्ञामुत्पाद्य इमानि मन्त्रपदान्यामुखीकृत्य धर्मसंकथा करणीया। तस्य समन्ताद्योजनशते न मारो न मारकायिका वा देवता उपसंक्रमयिष्यन्ति विचक्षुःकरणे। येऽप्येनमुपसंक्रमिष्यन्ति, तेऽप्यस्य न शक्ष्यन्त्यन्तरायं कर्तुमिति॥



अत्रैवाह- धर्मभाणकेन चौक्षेण शुचिसमुदाचारेण सुस्नातेन शुचिनिवासितेन भवितव्यमिति॥ एवं धर्मदानम्॥

बोधचित्तं च पुण्यस्य वृद्धिहेतुः समासतः॥ २६॥

यथोक्तमार्यरत्नकरण्डकसूत्रे-

तद्यथापि नाम मञ्जुश्रीर्नानागन्धवृक्षाश्च चतुर्धातुसंगृहीता विवर्धन्ते, एवमेव मञ्जुश्रीर्नानासंभारोपचितं बोधिसत्त्वस्य कुशलमूलं बोधिचित्तसंगृहीतं सर्वज्ञतापरिणामितं विवर्धते। इति॥

एषादिका अदिकर्मिकाणां सहसा बोधिसत्त्वशिक्षा स्मरणार्थमुपदर्शिता। विस्तरतस्तु बुद्धविषय एव। अत्र चास्या यथोक्तायाः शिक्षायाः-



सिद्धिः सम्यक्प्रहाणानामप्रमादावियोजनात्।

स्मृत्याथ संप्रजन्येन योनिशश्चिन्तनेन च॥ २७॥



तत्र अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादायैव छन्दं जनयति, व्यायच्छति, वीर्यमारभते, चित्तं प्रगृह्णाति, सम्यक्प्रणिदधातीत्यनेन रक्षा। उत्पन्नानां च प्रहाणाय छन्दं जनयतीत्यनेन शुद्धिः। अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय छन्दं जनयति। यावदुत्पन्नानां च स्थितये भूयोभावाय छन्दं जनयतीत्यादि अनेन वृद्धिः। एतानि च नित्यमप्रमादाधिष्ठितानि कार्याणि ,सर्वकुशलमूलानां तन्मूलत्वात्॥

यथोक्तमार्यचन्द्रप्रदीपसूत्रे-

यावन्ति धर्माः कुशलाः प्रकीर्तिताः

शील श्रुतं त्यागु तथैव क्षान्तिः।

सर्वेष मूलं ह्ययमप्रमादो

निधानलम्भः सुगतेन देशितः॥इति॥



कोऽयप्रमादो नाम? इष्टविघातानिष्टागमशङ्कापूर्वकं प्रतिकारतात्पर्यम्। तद्यथा तीव्रकोपप्रसादस्य राज्ञो भैषज्यतैलपरिपूर्णभाजनं गृहीत्वा पिच्छिलसंक्रमेण भृत्यस्य गच्छतः॥



उक्तं हि आर्यतथागतगुह्यसूत्रे- तत्र कतमोऽप्रमादः? यदिन्द्रियसंवरः। स चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति, नानुव्यञ्जनग्राही। एवं यावन्मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति, नानुव्यञ्जनग्राही। सर्वधर्मेष्वास्वादं चादीनवं च निःशरणं च यथाभूतं प्रजानाति। अयमुच्यते अप्रमादः॥ पुनरपरम्- अप्रमादो यत्स्वचित्तस्य दमनम्, परचित्तस्यारक्षा, क्लेशरतेरपरिकर्मणा, धर्मरतेरनुवर्तनम्, यावदयमुच्यतेऽप्रमादः। यस्य गुह्यकाधिपते श्रद्धा चाप्रमादश्च, तस्यानुलोमिकेन वीर्येण कार्यम्, येन तानप्रमादकारणान् श्रद्धाकारणांश्च धर्मान् समुदानयति। यस्य गुह्यकाधिपते श्रद्धा चाप्रमादश्च वीर्यं च , तेन स्मृतिसंप्रजन्ये योगः करणीयः, येन स्मृतिसंप्रजन्येन सर्वान् बोधिपक्षान् धर्मान्न विप्रणाशयति। यस्य गुह्यकाधिपते श्रद्धा चाप्रमादश्च वीर्यं च स्मृतिसंप्रजन्यं च, तेन योनिशःप्रयोगे योगः करणीयः। योनिशःप्रयुक्तो हि गुह्यकाधिपते बोधिसत्त्वो यदस्ति तदस्तीति प्रजानाति, यन्नास्ति तन्नास्तीति प्रजानाति। यावदस्ति संवृत्या चक्षुरित्यादि॥



तथा अत्रैवाह-



सदाऽप्रमादो ह्यमृतस्य मूलं

सत्त्वार्थयुक्तस्य च बोधिचित्तम्।

यद्योनिशश्चैव विवेकचित्त-

मपरिग्रहः सर्वसुखस्य मूलम्॥ इति॥

आह च-

परात्मसमताभ्यासाद्बोधिचित्तं दृढीभवेत्।

आपेक्षिकं परात्मत्वं पारावारं यथामृषा॥

तत्कूलं न स्वतः पारं किमपेक्ष्यास्त्वपारता।

आत्मत्वं न स्वतः सिद्धं किमपेक्ष्य परो भवेत्॥

तद्दुःखेन न मे बाधेत्यतो यदि न रक्षसि।

नागामिकायदुःखात्ते बाधा तत्केन रक्षसि॥

अहमेव तदापीति मिथ्येयं परिकल्पना।

अन्य एव मृतो यस्मादन्यस्तत्र प्रजायते॥

अन्यश्चेज्जायते तत्र किं पुण्येन प्रयोजनम्।

यूनः किं वृद्धकायस्य सुखाय धनसंचयैः॥

मृते गर्भगते तावदन्यो बालः प्रजायते।

मृते बाल्ये कुमारत्वं तन्नाशायागतो युवा॥

तन्नाशाच्चागतो वृद्धः एकः कायः कथं मतः।

एवं प्रतिक्षणं चान्यः कायः केशनखादिवत्॥

अथ बाल्यपरित्यागाद्बालो याति कुमारताम्।

कायस्वभावो वक्तव्यो योऽवस्थारहितः स्थितः।

कायश्चेत्प्रतिमाकारः पेशीभस्मसु नास्ति सः।

सूक्ष्मभावेन चेत्तत्र स्थौल्यं त्यत्त्वा व्यवस्थितः।

अनिर्देश्यः स्वतः प्राप्तः काय इत्युच्यते न सः॥

तत्र चिन्तैव मे नास्ति दृश्यकायस्तु नाशवान्।

अवस्थामिश्च संबन्धः संवृत्या चैव दृश्यते।

आगमाच्च तदस्तित्वं युक्तयागमनिवारितम्।

न गुणव्यतिरेकेण प्रधानं विद्यते यतः॥

न च त्रीणि प्रधानानि तथा सत्ता गुणा अपि।

प्रत्येकं त्र्यात्मकास्तेऽपि शेषं नैकविधं जगत्॥

अचेतनं च वस्त्रादि तत्सुखाद्यात्मकं कथम्।

सुखादेर्न पटोत्पत्तिंः पटादेस्तु सुखादयः।

पटादीनामहेतुत्वादभावस्तत्सुखं कुतः॥

तस्मादागमयुक्तिभ्यामनित्यं सर्वसंस्कृतम्।

तद्धेतुफलसंबन्धः प्रत्यक्षत्वान्न साध्यते॥

स्वसंताने च दृष्टोऽसौ नित्येषु च कथं यथा।

परमाणुस्तु नैकोऽस्ति दिग्भेदानुपपत्तितः।

दीपतैलं क्षयं याति क्षीयमाणं न लक्ष्यते।

एवं भावा न लक्ष्यन्ते क्षीयमाणाः प्रतिक्षणम्॥

संतानः समुदायश्च पङ्क्तिसेनादिवन्मृषा।

तत्राभ्यासादहंकारः परस्मिन् किं न जायते॥

तस्मादेवं जगत् ज्ञेयं यथायतनसंचयः।

अप्राप्तमेव तद्दुःखं प्रतिकार्य परात्मनोः॥

अयुक्तमपि चेदेतत्स्वात्मन्यस्तीतरत्र न।

यदयुक्तं निवर्त्यं तत् स्वमन्यद्वा यथाबलम्॥

कृपया बहु दुःखं चेत्कस्मादुत्पाद्यते बलात्।

जगद्दुःखं निरूप्येदं कृपादुःखं कथं बहु॥

एवं भावितसंतानाः परदुःखसमप्रियाः।

अवीचीमवगाहन्ते हंसाः पद्मवनं यथा॥

सत्त्वेषु मुच्यमानेषु ये ते प्रामोद्यसागराः।

तैरेव ननु पर्याप्तं मोक्षेणाप्यरसेन किम्॥

एवं परार्थं कृत्वापि न मदो न च विस्मयः।

न विपाकफलाकाङ्क्षा परार्थैकान्ततृष्णया॥

दशदिक्सत्त्वसंपत्तिरात्मीयास्य न संशयः।

नास्तीर्ष्यावकाशोऽपि परसौख्ये स्वसंज्ञया॥

परेषामात्मनो वापि सामान्या पापदेशना।

पुण्यानुमोदना चैवं बुद्धाध्येषणयाचनम्॥

परिणामनमप्येवं निर्विशेषं प्रवर्तते।

पुण्यं प्रवर्तते तस्मादनन्तं सत्त्वधातुवत्॥

अयं स मार्गः प्रवरः क्षेमानन्तसुखोत्सवः।

बोधिसत्त्वमहासार्थः कलिलप्रीतिवर्धनः॥

पाल्यमानश्च सततं वज्रपाण्यादियान्त्रिकैः।

मारगुल्मिकसंत्रासजननैर्बुद्धकिंकरैः॥

संबुद्धराजतनया बोधिचित्तरथस्थिताः।

वहन्ते तेन मार्गेण स्तूयमानाः सुरादिभिः॥

तस्मादात्मत्वमारोप्य सत्त्वेष्वभ्यासयोगतः।

परात्मदुःखशान्त्यर्थमात्मादीन् सर्वथोत्सृजेत्॥

तृष्णा परिग्रहो यस्य तस्य दुःखं न शाम्यति।

परिणामविनाशित्वात्स दुःखजनको यतः॥

लोके दुःखाग्नितप्ते च का रतिः स्वसुखे भवेत्।

समन्ताद्दह्यमानस्य नखादाहेऽपि किं सुखम्॥

आत्मतृष्णा च सर्वेषां दुःखानां मूलमुत्तमम्।

तस्मान्निहन्मि तामेव सत्त्वेभ्यः स्वार्थमुत्सृजन्॥

तदग्रदूती ज्ञातेच्छा जेतव्या सर्वयत्नतः।

आत्मतत्त्वस्मृतिं कृत्वा प्रतीत्योत्पादचिन्तया॥

यद्भयान्नोत्सृजाम्येतत्तदेवाददतो भयम्।

प्रतिक्षणं हि यात्येव कायश्चित्तं च मे यतः॥

यदि नित्याप्यनित्येन निर्मला मलवाहिना।

बोधिः कायेन लभ्येत ननु लब्धा मयैव सा॥

एवमात्मानमृत्सृज्य सर्वसत्त्वार्थमाचरेत्।

भैषज्यप्रतिमाकल्पो लोकधर्मेष्वचिन्तकः॥

सर्वसत्त्वार्थमन्त्रित्वे स्वप्रज्ञां विनियोजयेत्।

युक्तया संरक्ष्य तु द्रव्यं सत्त्वेषु वोपयोजयेत्॥

स्वकाये परकाये वा यद्दुःखं नेह दुःखकृत्।

सत्त्वानां भोगविन्नत्वात् क्लेशाः शोध्याः प्रयत्नतः।

लोकोपजीव्यात्सत्तीर्थाद्भुजंगकुणपा इव॥

पुण्यक्षेत्रमिदं शुद्धं संपत्सस्यमहाफलम्।

सुखदुर्भिक्षसंतप्तं जगत्संतर्पयिष्यति॥

लाभसत्कारकायादि त्यक्तं ननु जने मया।

कोपः कस्यार्थमद्यापि मृषा वा तन्मयोदितम्॥

स्वार्थघ्नेषु यदि द्वेषः कृपा कुत्र भविष्यति।

निर्दयस्यापि कः कोषः परार्थो यदि नश्यति॥

आक्रोशादिक्षमाः सत्यभिक्षुकस्तुरिकादयः।

स्वाम्यशनेन दुर्न्यस्ता नोपभोग्या भवन्ति ते॥

चिन्तयति प्रतीकारं न च स्वामिहितेच्छया।

नापि संचोदयत्येनं भोगार्थं नोपयाति च॥

अनुस्मृत्योपस्मृत्यैतानकृष्टोप्ता जिनात्मजाः।

नानाविषयधातुनां सर्वेन्द्रियमहागदान्॥

विज्ञप्य स्मारयित्वैतान् क्रुद्धानप्युपकारिणः।

स्वभावात्यक्तमाधुर्याः सुखयन्त्येव दुःखितान्॥

धातवः पञ्च भूवारितेजोनिलखसंज्ञिताः।

यावत्सत्वाः स्थितास्तावत्सर्वेषामर्थकारिणः॥

सर्वदुश्चरितेनैषां सत्त्वार्थाद्विनिवर्तनम्।

एवमेतान् करोम्येष धातून् षडपि निर्व्यथान्॥

यावदाकाशनिष्ठस्य निष्ठा लोकस्य संभवेत्।

तावत्स्थास्यामि लोकार्थं कुर्वन् ज्ञानपुरःसरः॥

आत्माचार्योऽनुशिष्याद्धि सदात्मानं सुशिष्यवत्।

अपृष्ट्वा चात्मनात्मानं बलेनारक्षितक्रियः॥

क एव मम दुःखेन दुःखी स्यान्मे भयाद्भयी।

तद्दोषानुशयज्ञो वा यथात्मगुरुरात्मनः॥

अविराग्यपलायी च करुणाविषयोऽपि वा।

नित्यसंनिहितश्चापि शिष्य आत्मसमः कुतः॥

क्लेशोन्मत्तोऽथ मोहान्धः प्रपातबहुले पथि।

स्खलन् पदे पदे शोच्यः पर आत्मा च सर्वदा॥

स्खलितान्वेषणं तस्मात्समानव्यसनाज्जनात्।

न युक्तं युज्यते त्वत्र गुणान् दृष्ट्वाद्भुतं महत्॥

नैकेन शक्यमादातुं मया दोषमहोदधिः।

कृत्यमन्यैर्ममैवात्र कोऽन्यदोषेषु मे क्षणः॥

परचोदनदक्षाणामनधीष्टोपकारिणाम्।

वाक्यं मूर्ध्ना प्रतीच्छामि सर्वशिष्यो भवाम्यहम्॥

संग्रामो हि ममैकस्य बहुभिः क्लेशशत्रभिः।

तत्रैकेन रणासक्तमन्ये निघ्नन्ति मां सुखम्।

तत्र यः पृष्ठतो भीतिं श्रावयेदन्यतोऽपि वा।

प्रद्विष्टो वा प्रसन्नो वा समे प्राणप्रदः सुहृत्॥

अलिसंघातनीलेन चीरभारणभारिणा।

विचित्रसुरभिस्फीतपुष्प[शे]खरहा [चा]रिणा॥

युगपत्सर्वदिग्बुद्धक्षेत्रसागरचारिणा।

बलिना प्रतिकार्येण सर्वमारापहारिणा॥

नरकप्रेतसंतापप्रशमोन्मुक्तवारिणा।

संसारगहनान्तस्थभव्यसत्त्वार्थसारिणा॥

जगन्नेत्रोत्सवोत्पादिबलालंकारधारिणा।

विदुषा बालवपुषा लोकविस्मयकारिणा॥

मजुश्रीसंज्ञकं यत्तत्पिण्डीभूतं जगद्धितम्।

सर्वेणैवात्मभावेन नमस्तस्मै पुनः पुनः॥

अनेकदुःखसंतप्तप्रह्लादनमहाह्रदम्।

त्रैलोक्यतृष्णापातालप्रपूरणमहाम्बुदम्॥

जगदिष्टफलस्फीतदशदिक्कल्पपादपम्।

प्रार्थितप्राप्तिसंहृष्टजगन्नेत्रोत्पलार्चितम्॥

विस्मयोद्गतरोमाञ्चैर्बोधिसत्त्वशतैः स्तुतम्।

मञ्जुश्रियं नमस्यामि प्रणामैरुतरोत्तरैः॥

निःशेषदुःखवैद्याय सुखसत्त्रप्रदायिने।

सर्वाकारोपजीव्याय मञ्जुघोषाय ते नमः॥

इति जिनतनयानां सर्वथात्यद्भुतानां

चरितमुपनिबध्योपार्जितं यच्छुभं मे।

भवतु सुखमनन्तं देहिनां तेन यावत्

सुगतपदमनन्तव्योमसीमाधिपत्यम्॥

पुण्यवृद्धिर्नाम एकोनविंशः परिच्छेदः॥



॥समाप्तश्चायं बोधिसत्त्वविनयोऽनेकसूत्रान्तोद्भृतः शिक्षासमुच्चयः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project