Digital Sanskrit Buddhist Canon

वन्दनानुशंसा सप्तदशः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Vandanānuśaṁsā saptadaśaḥ paricchedaḥ
वन्दनानुशंसा सप्तदशः परिच्छेदः।



उक्तो वन्दनादिविधिः। तेन पुण्यवृद्धिर्भवतीति कुतो गम्यते? आर्यावलोकनसूत्रात्।

एवं हि तत्रोक्तम्-



वर्जयत्यक्षणान्यष्टौ य इमे देशिता मया।

क्षणं चारागयत्येकं बुद्धोत्पादं सुशोभनम्॥

वर्णवान् रूपसंपन्नो लक्षणैः समलंकृतः।

स्थाम्ना बलेन चोपेतो नासौ कौसीद्यमृच्छति।

आढयो महाधनश्चासौ अधृष्यः पुण्यवानपि।

आराग्य लोकप्रद्योतं सत्करोति पुनः पुनः॥

श्रेष्ठीकुलेषु स्फीतेषु स आढयेषूपपद्यते।

भवेद्दानपतिः शूरो मुक्तत्यागो ह्यमत्सरी॥

राजा भवेद्धार्मिकोऽसौ चतुद्वीपेश्वरः प्रभुः।

प्रशासयेन्महीं कृत्स्नां समुद्रगिरिकुण्डलाम्॥

महर्द्धिकश्चक्रवर्ती सप्तरत्नसमन्वितः।

राज्ये प्रतिष्ठितो बुद्धान् सत्करोति पुनः पुनः॥

च्युतश्चास्माद्गतः स्वर्ग प्रसन्नो जिनशासने

शक्रो भवति देवेन्द्रः ईश्चरो मेरुमूर्धनि॥

न शक्यं भाषता वर्णं क्षपयितुं कल्पकोटिभिः।

यः स्तुपं लोकनाथस्य नरः कुर्यात्प्रदक्षिणम्॥

न जातु सोऽन्धः खञ्जो वा कल्पानामपि कोटिभिः।

उत्पाद्य बोधिचित्तं यः शास्तुः स्तूपं हि वन्दते॥

दृढवीर्यो दृढस्थामो वीरश्च दृढविक्रमः।

कौशल्यं गच्छति क्षिप्रं कृत्वा स्तूपप्रदक्षिणम्॥

यो बुद्धकोटिनियुतशतसहस्त्रान्

कल्पान कोटी च तुलिय सत्करेया।

यश्चेह कल्पे चरमक घोरकाले

वन्देय स्तूपं बहुतर तस्य पुण्यम्॥

अग्रो हि बुद्धो अतुलिय दक्षिणीयो

अग्रां चरित्वा चरियविशेषप्राप्तः।

तस्येह पूजां करिय नररिषभस्य

विपाक श्रेष्ठो भवति अतुल्यरूपः॥

इतश्च्युत्वा मनुष्येभ्यस्त्रायस्त्रिंशेषु गच्छति।

विमानं लभते तत्र विचित्रं रतनामयम्॥

कूटागारं स्वयं दत्वा अप्सरोगणसेवितः।

मालां स्तूपे संप्रदाय त्रायस्त्रिंशेषु जायते॥



अष्टाङ्गजलसंपूर्णां सुवर्णसिकताश्रिताम्।

वैडूर्यस्फटिकैश्चैव दिव्यां पुष्करिणीं लभेत्॥

भुक्त्वा च तां रतिं दिव्यां आयुः संपूर्य पण्डितः।

च्युत्वा च देवलोकात्स मनुष्यो भवति भोगवान्॥

जातिकोटिसहस्त्राणि शतानि नियुतानि च।

सत्कृतः स्याच्च सर्वत्र चैत्ये मालां प्रदाय च॥

चक्रवर्ती च राजासौ शक्रश्च भवतीश्वरः।

ब्रह्मा च ब्रह्मलोकस्मिन् चैत्ये मालां प्रदाय च॥

पट्टप्रदानं दत्वा तु लोकनाथस्य तायिनः।

सर्वेऽस्यार्थाः समृध्यन्ति ये दिव्या ये च मानुषाः।

[ त्यजेद्धीनानकुशलान् न स तत्रोपपद्यते।]

मालाविहारं कृत्वा च लोकनाथस्य धातुषु।

अभेद्यपरिवारेण राजा भूयान्महर्द्धिकः॥

प्रियः स दयितश्चासौ सत्कृतश्च प्रशंसितः।

देवानामथ नागानां ये लोकेऽस्मिंश्च पण्डिताः॥

यत्रासौ जायते वीरः पुण्यतेज सुदीपितः।

ते कुलाः सत्कृता भोन्ति राष्ट्राणि नगराणि च॥

यः सर्षपात् सूक्ष्मतरं गृहीत्वा धूपेय धूपं भगवति चैत्यकेषु।

तस्यानुशंसान् शृणुत प्रभाषतो मे

प्रसन्नचित्ता जहिय खिलां मलांश्च॥

स पुण्यवांश्चरति दिशः समन्ता-

दारोग्यप्राप्तो दृढमतिरप्रमत्तः।

विनेति शोकं विचरति चारिकायां

प्रियो मनापो भवति महाजनस्य॥

राज्यं च लब्ध्वा जिनवरु सत्करोती

महानुभावो विदु चक्रवर्ती।

सुवर्णवर्णो विचित्रलक्षणैः स

मनोज्ञगन्धान् लभि सर्वलोके।

जातमात्रो लभते श्रेष्ठवस्त्रान्

दिव्यविशिष्ट सुरुचिर कौशिकांश्च॥

भोती सुखसुकायः संवेष्टय स्तूपं नाथस्य चीवरैः।

यश्चीवरेण चैत्येषु कुर्यात् पूजामतुलां नायकानाम्।

तस्येह भोती असदृशु आत्मभावो

द्वात्रिंशतीभिः कवचित लक्षणेभिः॥

पाणीतलेषु सुरुचिर मुक्तहाराः

प्रादुर्भवन्ती विविध अनन्तकल्पाः।

सिंहलताः सुरुचिरवर्णसूत्रा

वेठित्व स्तूपं भगवत चीवरेभिः॥

दत्वा पताकां भगवत चेतिकेषू

छन्दं जनित्वा तथ सिय बुद्धलोके।

स पूजनीयो भवति महाजनस्य

चरन्तु श्रेष्ठो जिनचारिकाये॥

सुवर्णवर्णो भवति सि आत्मभावो

लाभी स भोती सुरुचिरचीवराणाम्।

कर्पासिकानां सुसहितकम्बलानां

दुकूलकानां तथ वरकौशकानाम्॥

ध्वजं ददित्वा हतरजि सत्त्वसारे

धनं प्रभूतं प्रतिलभि नचिरेण।

प्रभूतकोषो भवति अनन्तप्रज्ञो

परिचारु तस्य भवत्यदीनचित्तः।

न चित्तशूलं जनयति सो परस्य

प्रसादचित्तः सद अप्रमत्तः॥

न तस्य अग्निः क्रमति विषां न शस्त्रं

उद्वीक्षणीयो भवति महाजनस्य।

अधो उपादाय च विभवाग्रु यावत्

जाम्बूनदं तेन भवति बुद्धक्षेत्रम्॥

शक्यं क्षयेतुं आयु श्रिय एवरूपा

न बुद्धस्तूपे धरयत एकदीपम्॥

न तस्य कायो भवति अवर्णिताङ्गो

दृढांसु भोती परिघभुजो अछम्भी।

आलोकप्राप्तो विचरति सर्वलोके

ददित्व दीपं भगवत चेतिकेषु॥

यदि बुद्धक्षेत्रा नियुतशता सहस्त्रा

भवेयु पूर्णा शिखगतसर्षपेभिः।

शक्यं गणेतुं तुलयितु भाषितुं वा

न तथागतेषू धरयितु एकदीपम्॥

अलंकरित्वा सुरुचिरदर्शनीयं

यो देति छत्रं भगवत चेतिकेषु।

तस्येह भोत्यसदृश आत्मभावो

द्वात्रिंशतीभिः कवचित लक्षणेभिः॥

येभिर्जिनस्य प्रतपत आत्मभावो

रूपं विशिष्टं यथरिव काञ्चनस्य।

जाम्बूनदो वा सुरुचिरदर्शनीया

अभिकीर्ण [पुष्पेभि] कुसुमित लक्षणेभिः॥

अभिज्ञप्राप्तो भवति महायशाख्यः

चरति श्रेष्ठावरचारिकायाम्।

न भोगहानिर्भवति कदाचिदस्य

देवान भोति गुरुकृत पूजितश्च॥

न कामभोगै रमति कदाचि धीरो।

विशुद्धशीलः सकुशलब्रह्मचर्यः।

समादयित्वा वनुपवने उषित्वा

ऽभियुक्तिध्यानो भवति विशेषप्राप्तः॥

न ज्ञानहानिर्भवति कदाचिदस्य

बोधिचित्तं विजहति सो कथंचित्।

मैत्रीविहारी भवति अदीनचित्तो

दत्वेह छत्रं भगवत चेतिकेषु॥

वाद्येन पूजां नरवृषभस्य कृत्वा

न शोकशल्यवश जातु भोति।

मनोज्ञघोषो भवति मनुष्यलोके

स्वराङ्गु तस्याविकल[वि] शुद्ध भोति॥

विशुद्धचक्षुर्भवति स संप्रजन्या

विशुद्धश्रोत्रो भवति उदग्रचित्तः।

घ्राणेन्द्रियं परम उत्तप्त भोति

वादित्व वाद्यं भगवत चेतिकेषु॥

जिह्वास्य भोति सुरुचिर दर्शनीया

सुसूक्ष्म मृद्वी रुचिर मनोज्ञघोषा।

रक्ता प्रवाला यथरिव देवतानां

स्वराङ्गकोटीवर सृजतेऽप्रमेयाम्॥

न जातु भोती उरगु अजिह्वको वा

न खञ्जकुब्जो नापि च नामिताङ्गः।

विशिष्ट भोती सुरुचिर आत्मभावो

वादित्व वाद्यं भगवत चेतिकेषु॥।

न जातु कश्चिज्जनयेऽप्रसादं

देवो च नागो मनुज महोरगो वा।

आश्वासप्राप्तो विचरति सर्वलोके

वादित्व वाद्यं भगवत चेतिकेषु॥

कल्पान कोटी नियुत[शता] सहस्त्रं

विशिष्टकायो भवति अनिन्दिताङ्गः।

प्रासादिकोऽसौ कवचित लक्षणेभिः

संशोध्य स्तूपं भगवत निर्वृतस्य॥

विमान श्रेष्ठं लभति मनोज्ञगन्धं

दिव्यं विशिष्टं सुरुचिरचन्दनस्य।

न जातु तृष्णां जनयति सो कदाचित्

संशोध्य स्तूपं भगवत निर्वृतस्य॥

प्रलोपकाले जिनवरशासनस्मिन्

न जातु भोती उपगत जम्बुद्वीपे।

स्वर्गे स भोति प्रतिष्ठित तस्मि काले

गन्धानुलेपं ददिय जिनस्य स्तूपे॥

दुर्गन्धिकामानशुचिजुगुप्सनीयान्

वर्जेति नित्यं प्रतिष्ठित शीलस्कन्धे।

चरी स नित्यमिमु वर ब्रह्मचर्य

गन्धानुलेपं करिय जिनस्य स्तूपे॥

इतश्च्युतोऽसौ मरुपति स्वर्गलोके

अर्थ सहस्त्रा तुलयति नो चिरेण।

करोति चार्थ सुविपुल देवतानां

गन्धानुलेपं करिय जिनस्य स्तूपे॥

विशिष्टवाक्यो भवति मनोज्ञघोषः

प्रियो मनापो बहुजनसत्कृतश्च।

सुखं च तस्य भवति सदा प्रसन्नं

गन्धानुलेपं करिय जिनस्य स्तूपे॥

अपायभूमिं विजहात्यशेषां

आसन्नको भवति तथागतानाम्।

प्रसादलब्धः सद सुखि प्रेमणीयो

गन्धानुलेपं करिय जिनस्य स्तूपे॥

सो अक्षणं वै विजहाति सर्वं

अष्ट क्षणाश्चास्य विशिष्ट भोन्ति।

बुद्धान पूजामतुलिय सो करोति।

छोरित्व जालं भगवत चेतिकेषु॥

शूरश्च भोति दृढमतिरप्रमत्तो

न कामभोगेऽभिरतिं जनेति।

नैष्क्रम्यप्राप्तो च अदीनचित्तः

छोरित्व जालं भगवत चेतिकेषु॥

न बोधिचित्तं प्रमुष्यति तस्य जातु

अखण्डशीलोऽस्ति सुसंवृतश्च।

धर्म विरागं लभते विशुद्धं

उपनीय जालं भगवत चेतिकेषु॥

दुर्वाचतां विजहति सर्वकालं

प्रज्ञा‍अभावं च जहात्यशेषम्।

विशालप्रज्ञो विहरति चारिकायां

उपनीय जालं भगवत चेतिकेषु॥

लाभी च भोती शुचिभोजनानां

वस्त्रान् विशिष्टान् लभते सुवर्णान्।

स्पर्शाभ्युपेतान् रुचिदर्शनीया-

नुपनीय जालं जिनचेतिकेभ्यः॥

अभ्युत्क्षिपित्वा जिनचेतिकेभ्यः

निर्माल्य शुष्कं प्रमुदितवेगजातः।

व्रजेत कामान् दुःखदवैरघोरान्

आरागयेद्दशबलसार्थवाहान्॥

प्रासादिको भोति विशुद्धकायः

उद्वीक्षणीयो बहुजनपूजनीयः।

न तस्य राजापि प्रदुष्टचित्तः

यो जीर्णपुष्पानपनेय चैत्ये॥

कुमार्ग सर्वं पिथित अपायभूमिः

स शीलस्कन्धे स्थित बोधिसत्त्वः।

अवतारयित्वा जिनचेतिकेभ्यः

पुष्पं च प्रागन्यनरैः प्रदत्तम्॥

शोकांश्च दोषान् विजहात्यमत्तो

रोगानशेषान् विजहात्यनेकान्।

आश्वासप्राप्तश्च अनन्तकल्पान्

यो जीर्णपुष्पानपनेति चैत्ये॥

बुद्धश्च भोत्यसदृशदक्षिणीयो

अतुल्यप्राप्तो नरमरुपूजनीयः।

अलंकृतो भवति विशुद्धकायः

यो जीर्णपुष्पानपनेति चैत्ये॥

दद्याच्च यः सुरुचिर दिव्य पुष्पं

मान्दारवानप्यथ पाटलं वा।

निर्माल्यकं योऽपनयेत चैत्ये

विपाक श्रेष्ठोऽस्य भवेदतुल्यः॥

यः प्राञ्जलिः प्रणमति नाथस्तूपं

छन्दं जनित्वा च स बुद्धलोके।

सो भोति लोके गुरुकृतु सत्कृतश्च

प्रासादिको भवति सुदर्शनीयः॥

तस्येह राज्यं निपतति सर्वलोको

देवासुरा नागमनुष्यकाश्च।

सर्वाः सहस्त्राः कुसुमित लोकधातुः

प्रशास्ति राज्ञो वश ईश्चरांश्च॥

ये तस्य राज्ये स्थित भोन्ति सत्त्वाः

स्थापेय सर्वानुकलुष बुद्धज्ञाने।

अपायभूम्यस्त्यक्ता भवन्ति

करोति चैषां परमसुश्रेष्ठमर्थम्॥

परिचारोऽस्य भवति मनोज्ञघोषः

पुण्यैरुपेतः स्मृतिमतिपूजनीयः।

आश्वासप्राप्तो विचरती जीवलोके

सदाभिप्रायं जनयति श्रेष्ठप्रीतिम्॥

परिचार भोत्यस्य स्वराङ्गशुद्धः

ज्ञायेत सत्त्वैर्मधुर प्रशान्तवाक्यः।

न तस्य कश्चिज्जनयति चेश्वरत्वं

विलोकनीयो भवति महाजनस्य॥

दानप्रमोदं प्रियतार्थचर्यां समानार्थतां जनयति महाजनस्य।

आक्रुष्टः सन्नो जनयेत रोषं

यः प्राञ्जलिः प्रणमति बुद्धस्तूपम्॥

देवेन्द्र भोत्युपगत स्वर्गलोके

मनुष्यको भवति नरस्य राजा।

न पारिहाणिर्भवति कदाचिदस्य

यो अञ्जलीभिर्नमतीह स्तूपम्॥

नासावपाये प्रपतेत जातु

हीनांश्च वर्जेत स काम लोके।

आढयो धनी भोति प्रभूतकोषो

योऽञ्जलीभिर्नमतिह बुद्धस्तूपम्॥

सूत्रान्तचर्या न कदाचिदस्य

नास्थानकोपं कुरुते नृलोके।

सत्त्वाश्च तृप्ता मुदितास्य भोन्ति

यः संप्रमुञ्ची गुणवति एकवाचम्॥

यः पुष्पमुष्टिं गृहीत्वोदग्रचित्तः

प्रसादतोऽवकिरति लोकनाथे।

स पुण्यवान् भवति मनुष्यलोके

राक्षे च स्थित्वा जिन सत्करोति॥

शोका न दोषाः खिलमल नास्य भोन्ति

अतुल्यताप्तश्च सुसंस्थिताङ्गः।

आलोकनीयश्च महाजनस्य

व्रजेत कामान् भयकर वैरघोरान्॥ इति॥



आर्यमहाकरुणा[पुण्डरीक] सूत्रेऽप्युक्तम्- तिष्ठतु तावदानन्द यो मां संमुखं सत्कुर्यात्

तिष्ठतु मे शरीरस्य पूजा सर्षपफलमात्रेषु धातुषु। तिष्ठतु मामुद्दिश्य कृतेषु स्तूपेषु सत्कारः। ये केचिदानन्द बुद्धमालम्ब्य अन्तश एकपुष्पमप्याकाशे क्षेप्स्यन्ति, तस्य पुण्यस्कन्धस्य यो विपाकः, सचेद्यावाननादिः संसारो यस्य पूर्वा कोटिर्न प्रज्ञायते, तावतः कल्पान् संसरतां तेषां शक्रत्वं ब्रह्मत्वं चक्रवर्तित्वम्, न शक्यस्तत्पर्यन्तोऽधिगन्तुम्। तिष्ठतु बुद्धालम्बनता अन्तश आकाशेऽप्येकपुष्पनिक्षेपः, सचेदन्तशः स्वप्रान्तरगता अपि सत्त्वा बुद्धमालम्ब्य आकाशे एकपुष्पमपि क्षेप्स्यन्ति, तदप्यहं कुशलमूलं निर्वाणपर्यवसानं वदामीति॥



उक्तं च आर्यवृहत्सागरनागराजपरिपृच्छायाम्- अष्टाभिर्भुजगाधिपते धर्मैः समन्वागता बोधिसत्त्वाः सततसमितं बुद्धसमवधानं प्रतिलभन्ते। कतमैरष्टाभिः? बुद्धबिम्बदर्शनसत्त्वसमादापनतया। तथागतप्रतिमाकरणतया। तथागतस्याभीक्ष्णं वर्णभाषणतया। तथागतदर्शनसर्वसत्त्वसमादापनतया। यत्र च बुद्धक्षेत्रे तथागतश्रवं शृण्वन्ति, तत्र प्रणिधानमुत्पादयन्ति। नचावलीनसंततयो भवन्ति। उदारसंततिकाश्च बुद्धज्ञानमभिलषन्ते इति॥



किं पुनः पुण्यवृद्धयर्थिनो बुद्धसमवधानेन प्रयोजनभूतम्, यस्य गुणपर्यन्तमसर्वज्ञो नाधिगच्छेत्। यथा आर्यगण्डव्यूहे संवर्णितम्-

सुदुर्लभो बुद्धशब्दः कल्पकोटिशतैरपि।

किं पुनर्दर्शनं सर्वकाङ्क्षाच्छेदनमुत्तमम्॥

सुदृष्टो लोकप्रद्योतः सर्वधर्मगतिं गतः।

पुण्यतीर्थं त्रैलोकस्य सर्वसत्त्वविशोधनम्॥

महत्पुण्यमयं क्षेत्रमुदितं ज्ञानमण्डलम्।

भासयत्यमितं लोकं पुण्यस्कन्धविवर्धनम्॥

छेदनो दुःखजालस्य ज्ञानस्कन्धविशोधनः।

न दुर्गतिभयं तेषां यैरिहारागितो जिनः॥

विपुलं जायते चित्तं पश्यतां द्विपदोत्तमम्।

प्रज्ञाबलमसंख्येपं जायते चन्द्रभास्वरम्॥



पुनरत्रैवाह-



अर्थाय सर्वसत्त्वानामुत्पद्यन्ते तथागताः।

महाकारुणिका वीरा धर्मचक्रप्रवर्तकाः॥

प्रतिकर्तुं कथं शक्यं बुद्धानां सर्वदेहिभिः।

सत्त्वार्थेष्वभियुक्तानां कल्पकोटिशतैरपि॥

कल्पकोटिं वरं पक्कं त्र्यपाये भृशदारुणे।

न त्वेवादर्शनं शास्तुः सर्वसङ्गनिवर्तिनः।

यावन्त्यः सर्वलोकस्मिन्नपायगतयः पृथक्।

वरं तत्र चिरं वासो बुद्धानामश्रुतिर्न च॥

किं कारणमपायेषु निवासश्चिरमिष्यते।

यत्कारणं जिनेन्द्रस्य दर्शनं ज्ञानवर्धनम्॥

छिद्यन्ते सर्वदुःखाणि दृष्ट्वा लोकेश्वरं जिनम्।

संभवत्यवतारश्च ज्ञाने संबुद्धगोचरे॥

क्षपयत्यावृतीः सर्वा दृष्ट्वा बुद्धं नरोत्तमम्।

वर्धयत्यमितं पुण्यं येन बोधिरवाप्यते॥ इति॥



तदेवमस्ति पुण्यवृद्धौ बुद्धसमवधानेन प्रयोजनम्। अपि च प्रतिमामात्रदर्शनमपि तावदपरिमितफलं तथागतानाम्, किं पुनः स्वरूपेण? उक्तं हि आर्यश्रद्धाबलाधानावतारमुद्रासूत्रे-



यः कश्चिन्मञ्जुश्रीः कुलपुत्रः कुलदुहिता वा सर्वलोकधातुरजोपमानां प्रत्येकबुद्धानां दिने दिने शतरसमाहारं दद्यात् दिव्यानि च वस्त्राणि, एवं ददद्गङ्गानदीवालुकोपमान् कल्पान् दद्यात्। यश्चान्यो मञ्जुश्रीः कुलपुत्रः कुलदुहिता वा चित्रकर्मलिखितं वा पुस्तककर्मकृतं वा बुद्धं पश्येत्, अयं ततोऽसंख्येयतरं पुण्यं प्रसवति। कः पुनर्वादो योऽञ्जलिप्रग्रहं वा कुर्यात्, पुष्पं वा दद्यात्, धूपं वा गन्धं वा दीपं वा दद्यात्। अयमेव ततोऽसंख्येयतरं पुण्यं प्रसवतीति॥



आर्यबोधिसत्त्वपिटकेऽपि पुण्यवृद्धयुपाय उक्तः- यस्तथागतचैत्यं शोधयति, स चतस्त्रोऽग्राः प्रणिधानविशुद्धीरनुप्राप्नोति। कतमाश्चतस्त्रः? अग्रां रूपप्रणिधानविशुद्धिम्, अग्रां दृढसमादानप्रणिधानविशुद्धिम्, अग्रां तथागतदर्शनप्रणिधानविशुद्धिम्, अग्रां लक्षणसंपत्प्रणिधानविशुद्धिमिति॥



पुनरत्रैवाख्यातम्- तथागतचैत्येषु पुष्पावरोपणं गन्धानुलेपनं कृत्वा अष्टावविकलता अनुप्राप्नोति। कतमा अष्टौ? न रूपविकलो भवति। न भोगविकलः। न परिवारविकलः। न शीलविकलः। न समाधिविकलः। न श्रुतविकलः। न प्रज्ञाविकल। न प्रणिधानविकलः। इति॥



उक्तं च आर्यरत्न‍राशिसूत्रे- ये त्रिभवपर्यापन्नाः सत्त्वास्ते सर्वे प्रत्येकं तथागतस्तूपान् कारयेयुरेवंरूपानुच्चैस्त्वेन तद्यथा सुमेरुः पर्वतराजः। तांश्च गङ्गानदीवालिकासमान् कल्पान् प्रत्येकं सर्वसत्त्कारैः सत्कुर्युः। यश्च बोधिसत्त्वोऽविरहितसर्वज्ञताचित्तैनैकपुष्पमप्यारोपयेत्, अयं तस्मात्पूर्वकात्पुण्यस्कन्धाद्बहुतरं पुण्यं प्रसवेत्॥



अत्रैवोक्तम्- ये खलु पुनस्त्रिसाहस्त्रमहासाहस्त्रे लोकधातौ सत्त्वास्ते सर्वे महायानसंप्रस्थिता भवेयुः। सर्वे च चक्रवर्तिराज्यसमन्वागता भवेयुः। एकैकश्च राजा चक्रवर्ती महासमुद्रप्रमाण दीपस्थालीं कृत्वा सुमेरुमात्रां वर्तीमादीप्य प्रत्येकमेवंरूपां दीपपूजां तथागतचैत्येषु प्रवर्तयेत्। यश्च अभिनिष्क्रान्तगृहावासो बोधिसत्त्वस्तैलप्रक्षिप्तां वर्ती कृत्वा आदीप्य तथागतचैत्ये धारयेत्, अस्यास्तैलप्रक्षिप्ताया वर्तेरेतत्पूर्वकं प्रदीपदानं शततमीमपि कलां नोपैति। यावदुपनिषदमपि न क्षमत इति। पेयालं। ये च खलु पुनस्ते राजानश्चक्रवर्तिनो बुद्धप्रमुखं भिक्षुसंघं सर्वसुखोपधानैः सत्कुर्युः, यश्चाभिनिष्क्रान्तगृहावासो बोधिसत्त्वः पिण्डपात्रं चरित्वा पात्रपर्यापन्नं परेषां संविभज्य परिभुञ्जीत, इदं ततो बहुतरं च महार्घतरं च। यच्च ते राजानश्चक्रवर्तिनः सुमेरुमात्रं चीवरराशिं बुद्धप्रमुखाय भिक्षुसंघाय दद्युः, यच्चाभिनिष्क्रान्तगृहावासो बोधिसत्त्वस्त्रिचीवरं बहिर्धा महायानसंप्रस्थिताय बुद्धप्रमुखाय भिक्षुसंघाय वा तथागतचैत्ये वा दद्यात्, इदं भिक्षोश्चीवरदानमेतत्पूर्वकचीवरराशिमभिभवति। यच्च ते राजानः प्रत्येकं सर्वं जम्बूद्वीपं पुष्पसंस्तृतं कृत्वा तथागतचैत्ये निर्यातयेत्, यच्चाभिनिष्क्रान्तगृहावासो बोधिसत्त्वः अन्तश एकपुष्पमपि तथागतचैत्ये आरोपयेत्, अस्य दानस्यैतत् पूर्वकं दानं शतमीमपि कलां नोपैति, यावदुपनिषदमपि नोपैतीति॥



आर्यानुपूर्वसमुद्गतपरिवर्तेऽपि देशितम्- चतुर इमान् भद्रानुशंसान् पश्यन् बोधिसत्त्वस्तथागतपूजायामुत्सुको भवति। कतमांश्चतुरः? अग्रश्च मे दक्षिणीयः पूजितो भविष्यति, मां च दृष्ट्वा अन्येऽपि तथा शिक्षिष्यन्ति, तथागतं च पूजयित्वा बोधिचित्तं दृढं भविष्यति, द्वात्रिंशतां च महापुरुषलक्षणानां संमुखदर्शनेन कुशलमूलमुपचित्तं भविष्यति। इमाश्चत्वारः [इति]॥



इदं च निरुत्तरं तथागतपूजोपस्थानम्। यथोदाहृतमार्यसागरमतिपरिपृच्छासूत्रे-त्रीणीमानि सागरमते तथागतस्य निरुत्तराणि पूजोपस्थानानि। कतमानि त्रीणि? यच्च बोधिचित्तमुत्पादयति। यच्च सद्धर्म परिगृह्णाति। यच्च सत्त्वेषु महाकरुणाचित्तमुत्पादयतीति॥



निर्दिष्टमप्यार्यरत्नमेघे- दशभिः कुलपुत्र धर्मेः समन्वागता बोधिसत्त्वा अननुलिप्ता गर्भमलेन जायन्ते। कतमैर्दशभिः? यदुत तथागतप्रतिमाकरणतया जीर्णचैत्यसंस्करणतया। तथागतचैत्येषु गन्धविलेपनानुप्रदानेन। तथागतप्रतिभासु गन्धोदकस्नानानुप्रदानेन। तथागतचैत्येषु संमार्जनोपलेपनानुप्रदानेन। मातापितॄणां कायपरिचर्याचरणेन। आचार्योपाध्यायानां कायपरिचर्याचरणेन। सब्रह्मचारिणां कायपरिचर्याचरणेन। तच्च निरामिषेण चित्तेन न सामिवेण। तच्च कुशलमेवं परिणामयन्ति- अनेन कुशलमूलेन सर्वसत्त्वा निरुपलिप्ता गर्भमलेन जायन्तामिति। तच्च तीव्रेणाशयेन चिन्तयन्ति। एभिः कुलपुत्र दशभिर्धर्मैरिति॥



अनुमोदनानुशंसास्त्वार्यप्रज्ञापारमितायामुक्ताः- यः प्रथमयानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां ताश्चित्तोत्पादाननुमोदते, चरतामपि बोधिसत्वचर्या तांश्चित्तोत्पादाननुमोदते, अविनिवर्तनीयामपि अविनिवर्तनीयधर्मतामनुमोदते बोधिसत्त्वानां महासत्त्वानाम्, कियन्तं स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यस्कन्धं प्रसवति? एवमुक्ते भगवान् शक्रं देवानामिन्द्रमेतदवोचत्-स्यात्खलु पुनः कौशिक त्रिसाहस्त्रमहासाहस्त्रस्य लोकधातोः पलाग्रेण तुल्यमानस्य प्रमाणमुद्रग्रहीतुम्, न त्वेव कौशिक बोधिसत्त्वस्य महासत्त्वस्य तेषामनुमोदनासहगतानां चित्तोत्पादानां पुण्यप्रमाणं ग्रहीतुम्। एवमुक्ते शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्- माराधिष्ठितास्ते भगवन् सत्त्वा वेदितव्याः, ये बोधिसत्त्वानां महासत्त्वानां प्रथमचित्तोत्पादमुपादाय यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धानामेवमप्रमेयमनुमोदनासहगतं पुण्यमिति न शृण्वन्ति न जानन्ति, तामनुमोदनां न समन्वाहरन्ति, मारपक्षिकास्ते भगवन् सत्त्वा भविष्यन्ति। भगवानाह - यैः कौशिक कुलपुत्रैः कुलदुहितृभिश्चेमे चित्तोत्पादा अनुमोदिता बोधिसत्त्वयानिकैर्वा प्रत्येकबुद्धयानिकैर्वा श्रावकयानिकैर्वा, ते क्षिप्रं तथागतानर्हतः सम्यक्संबुद्धानारागयिष्यन्ति। भगवानाह - एवं तैरनुमोदनासहगतैश्चित्तोत्पादकुशलमूलैर्यत्र यत्रोपपत्स्यन्ते, तत्र तत्र सत्कृताश्च भविष्यन्ति, गुरुकृताश्च मानिताश्च पूजिताश्च अर्चिताश्च अपचायिताश्च भविष्यन्ति। न च ते अमनआपानि रूपाणि द्रक्ष्यन्ति। न च ते अमनआपान् शब्दान् श्रोष्यन्ति। एवं न गन्धान्न रसान्न स्प्रष्टव्यान् स्प्रक्ष्यन्ति। न च तेषामपायेषूपपत्तिः प्रतिकाङ्क्षितव्या। स्वर्गोपपत्तिस्तेषां प्रतिकाङ्क्षितव्या। तत्कस्य हेतोः? तथा हि तैः सत्वैः सर्वसत्त्वसुखावहानि असंख्येयानां सत्वानां कुशलमूलान्यनुमोदितानि, यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धय अप्रमेयासंख्येयान् सत्त्वान् परिनिर्वापयिष्यन्तीति॥



पुनरत्रैवाह- ये सुभूते गङ्गानदीवालिकोपमेषु त्रिसाहस्त्रमहासाहस्त्रेषु लोकधातुषु सर्वसत्त्वास्ते सर्वेऽनुत्तरां सम्यक्संबोधिं प्रतितिष्ठेयुः, अनुत्तरां सम्यक्संबोधिं प्रतिष्ठाय गङ्गानदीवालिकासमान् कल्पानुपलम्भसंज्ञिनश्चत्वारि ध्यानानि समापद्येरन्, यश्च बोधिसत्त्वो महासत्त्वोऽनया प्रज्ञापारमितया उपायकौशल्येन च परिगृहीतोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धम्, श्रावकाणां प्रत्येकबुद्धानामपि शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्कन्धं सर्वमेकतोऽभिसंक्षिप्य पिण्डयित्वा तुलयित्वा निरवशेषमनुमोदेत अग्रया‍अनुमोदनया ज्येष्ठया श्रेष्ठया वरया प्रवरया प्रणीतया उत्तरया निरुत्तरया उत्तरोत्तरया असमया असमसमया अप्रतिसमया अनुमोदनयानुमोद्य अनुमोदनासहगतं पुण्यक्रियावस्तु अनुत्तरायै सम्यक्संबोधये परिणामयति। अस्य सुभूते अनुमोदनासहगतस्य पुण्यक्रियावस्तुनोऽसौ पूर्वक औपलम्भिकानां बोधिसत्वानां चतुर्ध्यानमयः पुण्याभिसंस्कारः शततमीमपि कलां नोपैति, यावदुपनिषदमपि न क्षमते इति॥



अयमेव नयः परिणामनायामुक्तः। अथवा अग्रपरिणामनया परिणामितत्वात्सर्वपुण्यानामस्य बुद्धत्वाय सत्कृतप्रणिधिबुद्धत्वमेव स्यात्। अतः का परा पुण्यवृद्धिः? तद्धि अशेषसत्त्वमोक्षकृतपुण्यज्ञानोपेतं निर्विकल्पं च॥



अध्येषणायास्त्वनुशंसा आर्योग्रपरिपृच्छायामुक्ताः- धर्मग्राह्यतामुपादाय अप्रमेयासंख्येयेषु बुद्धक्षेत्रेष्वायुः परिरक्षणायेति॥

आर्यशिक्षासमुच्चये वन्दनाद्यनुशंसा सप्तदशः परिच्छेदः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project