Digital Sanskrit Buddhist Canon

भद्रचर्याविधिः षोडशः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Bhadracaryāvidhiḥ ṣoḍaśaḥ paricchedaḥ
भद्रचर्याविधिः षोडशः परिच्छेदः।



इदानीं त्रयाणामपि वृद्धिर्वाच्या। किमर्थम्?



ग्रहीतारः सुवहवः स्वल्पं चेदमनेन किम्।

न चातितृप्तिजनकं वर्धनीयमिदं ततः॥ २२॥



अ[ ति] तृप्ति बुद्धत्वम्। तन्न श्रावकसाधारणेन शुद्धिमात्रेण सत्त्वानां जन्यत इत्यर्थः।



आत्मभावस्य का वृद्धिर्बलानालस्यवर्धनम्।

तत्र आर्यरत्नमेघे बलमुक्तम्- न स सत्त्वः सत्त्वनिकाये संविद्यते यो बोधिसत्त्वस्य बलेन बलं मर्दयेत्। इत्यादि॥



तस्य कथं वर्धनम्? यदुक्तमार्यतथागतगुह्यसूत्रे आर्यवज्रपाणेर्बलदर्शनविस्मिताजातशत्रुपृष्टेन भगवता- दशभिर्महाराज धर्मैः समन्वागतो बोधिसत्त्व एवंरूपां बलवत्तां प्रतिलभते। कतमैर्दशभिः? इह महाराज बोधिसत्त्वः कायं जीवितं च परित्यजति, न च पुनः सद्धर्म परित्यजति। सर्वसत्त्वानां चावनमति, न च पुनर्मानं बृंहयति।दुर्बलानां च सत्त्वानां क्षमते, न प्रतिघं करोति। जिघत्सितानां च सत्त्वानामग्रं वरभोजनं ददाति, भीतानां च सत्त्वानामभयं ददाति। ग्लानानां च सत्त्वानां भूतचिकित्सायै उत्सुको भवति। दरिद्रांश्च सत्त्वान् भोगैः संतर्पयति। तथागतचैत्ये च सुधापिण्डलेपनं करोति। आनन्दवचनं सत्त्वानां श्रावयति। दरिद्रदुःखितानां च सत्त्वानां भोगसंविभागं करोति। श्रान्तक्लान्तानां च सत्त्वानां भारं वहति। एभिर्महाराज दशभिरिति॥



अनालस्यवर्धनं कतमत्? यद्वीर्यवर्धनम्। यथोक्तं सागरमतिसूत्रे- आरब्धवीर्येण सागरमते बोधिसत्त्वेन भवितव्यं सदा दृढपराक्रमेण। तीव्रच्छन्देन बोधिसत्त्वेन भवितव्यमनिक्षिप्तधुरेण। आरब्धवीर्याणां हि सागरमते बोधिसत्त्वानां न दुर्लभा भवत्यनुत्तरा सम्यक्संबोधिः। तत्कस्य हेतोः? यत्र सागरमते वीर्यं तत्र बोधिः। कुसीदानां पुनः सुदूरविदूरे बोधिः। नास्ति कुसीदस्य दानं यावन्नास्ति प्रज्ञा, नास्ति कुसीदस्य परार्थ इति॥



चन्द्रप्रदीपसूत्रेप्याह-

उत्पलं वारिमध्ये वा सोऽनुपूर्वेण वर्धते। इत्यादि।

इयं संक्षेपादात्मभाववृद्धिः॥



शून्यताकरुणागर्भाद्दानाद्भोगस्य वर्धनम्॥ २३॥



यथोक्तं वज्रच्छेदिकायाम्- यो बोधिसत्त्वोऽप्रतिष्ठितो दानं ददाति, तस्य पुण्यस्कन्धस्य न सुकरं प्रमाणमुदहीतुमिति॥

महत्यामपि प्रज्ञापारमितायामुक्तम्- पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन अल्पमपि दानं ददता सर्वसत्त्वेषु सर्वाकारज्ञतायामुपायकौशल्यपरिणामगनतायामप्रमेयमसंख्येयं कर्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। तथा सर्वसत्त्वानां मनोरथान् परिपूरयितुकामेन यावज्जातरूपरजत‍उद्यानराज्यादिभिरुपकरणैः प्रज्ञापारमितायां शिक्षितव्यमिति॥



विना च करुणया न बोधिसत्त्वानां किंचिच्चेष्टितमिति वक्ष्यामः। इति संक्षेपाद्भोगवृद्धिः॥

पुण्यवृद्धिः सर्ववृद्धीनां मूलमिति तदर्थ परिकरबन्ध उच्यते-



कृत्वादावेव यत्नेन व्यवसायाशयौ दृढौ।

करुणां च पुरस्कृत्य यतेत शुभवृद्धये॥ २४॥



चित्तशुद्धिकालभावितानां व्यवसायादीनां प्रयोगारम्भे पुनरामुखीकरणेन दृढतापादनार्थः श्लोकः कृत्वेत्यादिपूर्वक एव। आसन्नयुद्धकालानामस्त्रकौशलादरवत्प्रयोगसमकालं दृढीकरिष्यामीति शैथिल्यनिवारणार्थमादिग्रहणम्। तत्र कथं व्यवसायं दृढीकरोति? यथार्यसुधन [आर्यमैत्रेयमुपसंप्रक्रान्तः ] सम्यक्चर्यानिःसमर्थः। पूर्वान्तकोटीगतकायप्रणामः। कायसमन्वाहारेण कायबलं दृढीकुर्वाणः। पूर्वान्तकोटीगतकायचित्तपरिशुद्धिनिष्कारणसांसारिकचित्तप्रचारसमन्वाहारेण चित्तमनसिकारं निगृह्वन्। पूर्वान्तकोटयसत्कर्मलौकिककार्यप्रयुक्तनिष्प्रयोजनपरिस्यन्दसमन्वाहारेण प्रत्युत्पन्नप्रयोजनमहासामर्थ्यं विचिन्तयन्। पूर्वान्ताभूतपरिकल्पसमुत्थितवितथसंकल्पसंदर्शितमनसिकारसमन्वाहारेण सर्वबोधिसत्त्वचर्यासम्यक्संकल्पाभिसंस्कारबलं समुत्थापयन्। अतीतात्मभावार्थप्रयोगारम्भविषमतासमन्वाहारेण सर्वसत्त्वारम्भवैशेषिकतया अध्याशयबलं दृढीकुर्वाणः। अतीतकायसमुदाचारनिरास्वादतासमन्वाहारेण। सर्वबुद्धधर्मप्रतिलाभप्रयोगमहाश्वासप्रतिलाभेन्द्रियवेगान् विवर्धयमानः। अतीताध्वविपर्यासप्रयुक्तमिथ्याशयप्रयोगसमन्वाहारेण प्रत्युत्पन्नाध्वसम्यग्दर्शनाविपर्याससंप्रयुक्तेन बोधिसत्त्वप्रणिधानसमादानेन संततिं परिशोधयन्। पूर्वान्तगतायोगवीर्यारम्भकार्यापरिनिष्पन्नार्यसमादानसमन्वाहारेण प्रत्युत्पन्नबुद्धधर्मसमुदागमप्रत्युपस्थानेन महावीर्यारम्भविक्रमेण कायचित्तसंप्रग्रहं संजनयमानः। पूर्वान्तकोटीपञ्चगत्यपायनिक्षिप्तात्मपरनिरुपकरणाख्यनिरुपजीव्यसमुच्छयपरिग्रहसमन्वाहारेण सर्वबुद्धधर्मोत्थापकसर्वजगदुपजीव्यसर्वकल्याणमित्रारागणसमर्थात्मभावपरिग्रहणतया विपुलप्रीतिप्रामोद्यवेगान् विवर्धयमानः। प्रत्युत्पन्न जन्माभिनिर्वृत्तं जराव्याधिमरणशोकाकरभूतं संयोगवियोगनिधानभूतं समुच्छ्रयम् अपरान्तकल्पकोटीगतबोधिसत्त्वचर्याचरणप्रयुक्तस्य सत्त्वपरिपाचनबुद्धधर्मपरिग्रहप्रयुक्तस्य तथागतसंदर्शनसर्वबुद्धक्षेत्रानुचरणसर्वधर्मभाणकोपस्थानसर्वतथागतशासनसमन्वाहरणप्रयुक्तस्य सर्वधर्मपर्येष्टिसहायभूतस्य सर्वकल्याणमित्रदर्शनसर्वबुद्धधर्मसमुदानयनप्रयुक्तस्य बोधिसत्त्वप्रणिधिज्ञानशरीरस्य हेतुप्रत्ययभूतमवलोकय अचिन्त्यकुशलमूलेन्द्रियवेगान् विवर्धयमानः॥ इति॥



आर्याक्षयमतिनिर्देशे महायानसूत्रेऽप्युक्तम्- एको बोधिसत्त्वोऽद्वितीयोऽसहायोऽनुत्तरायां सम्यक्संबोधौ संनाहुं संनह्यति। स वीर्यबलपरिगृहीतेनाध्याशयेनापरावकाशास्वयंकारी स्वबलबलोद्गतः। स एवं दृढसंनाहसंनद्धः यत्किंचित्सर्वसत्त्वानां परिप्रापयितव्यं भविष्यति, तदहं परिप्रापयिय्यामि। यत्सर्वार्याः सर्वनवयानसंप्रस्थिता बोधिसत्त्वा न परिप्रापयिष्यन्ति, तदहं परिप्रापयिष्यामि। न मम दानं सहायकम्, अहं पुनर्दानस्य सहायः। न मम शीलक्षान्तिवीर्यध्यानप्रज्ञाः सहायिकाः, अहं पुनः शीलक्षान्तिवीर्यध्यानप्रज्ञानां सहायः। नाहं पारमिताभिरुपस्थातव्यः, मया पुनः पारमिता उपस्थातव्याः। एवं संग्रहवस्तुषु सर्वकुशलमूलेषु चरेयम्। यावदेकाकिना मया अद्वितीयेन असहायेन वज्रमये महीमण्डले स्थितेन सबलं सवाहनं मारं धर्षयित्वा एक [ चित्त] क्षणसमायुक्तया प्रज्ञया अनुत्तरा सम्यक्संबोधिरभिसंबोद्धव्येति॥



आर्यवज्रध्वजसूत्रेप्याह- तद्यथापि नाम सूर्यो देवपुत्र उदयमानो न तिष्ठति जात्यन्धदोषेण, न तिष्ठति गन्धर्वनगरदोषेण, न तिष्ठति चतुर्द्वीपलोकधातुभूमिरजोदोषेण, न तिष्ठति राह्वसुरेन्द्रदोषेण, न तिष्ठति धूममण्डलदोषेण, न तिष्ठति जम्बूद्वीपक्लेशदोषेण, न तिष्ठति नानाछायादोषेण, न तिष्ठति विषमपर्वतदोषेण, एवमेव बोधिसत्त्वो महासत्त्वः स्मृतिसंप्रजन्यविपुलगम्भीरचेता अदीनसत्त्वो गुणचर्याज्ञानचर्यावसानं यावन्न विवर्तते सत्त्वद्रौहिल्यदोषैः, न विप्रवसति कुशलमूलपरिणामैः। सत्त्वदृष्टिकालुष्यदोपैर्न विवर्तते। सत्त्वक्षोभचेतोभिर्न दूरीभवति। सत्त्वविनष्टसंतत्या बोधिसंनाहं न विष्कम्भयति। सर्वजगत्परित्राणप्रणिधानस्य सत्त्वकालिकलुषैर्न स्त्रंसनां करोति। यावद्बालजनसमवधानेन न निर्विद्यते परसत्त्वदोषैश्च। तत्कस्य हेतोः? अनावरणमण्डलमेतदुदयति यदुत सर्वजगद्विशुद्धिविनयाय। पे। यश्च तेषां सर्वसत्त्वानां दुःखस्कन्धो विविधं चावरणीयं कर्म समुत्थितम्, येन ते आवरणीयेन कर्मणा बुद्धान्न पश्यन्ति, धर्मं न शृण्वन्ति, संघं न जानन्ति, तदहं तेषां त्रिविधमावरणीयं कर्मोपचितं दुःखस्कन्धेन स्वकेन शरीरेणोपाददामि तासु तासु नरकोपपत्तिषु अपायभूमिषु संवासेषु च। ते च सर्वसत्त्वास्ततश्चयवन्ताम्। अहं च दुःखोपादानमुपाददामि, व्यवस्यामि उत्सहे। न निवर्ते न पलायामि नोत्त्रस्यामि न संत्रस्यामि न बिभेमि न प्रत्युदावर्ते न बिषीदामि। तत्कस्य हेतोः? अवश्यं निर्वाहयितव्यो मया सर्वसत्त्वानां भारः। नैष मम कामकारः। सर्वसत्त्वोत्तारणप्रणिधानं मम। मया सर्वसत्त्वाः परिमोचयितव्याः। मया सर्वजगत्समुत्तारयितव्यम् जातिकान्ताराज्जराकान्ताराद् व्याधिकान्ताराच्च्युत्युपपत्तिकान्तारात् सर्वापत्तिकान्तारात्सर्वापायकान्तारात्सर्वसंसारकान्तारात्सर्वदृष्टिगहनकान्तारात्कुशलधर्मप्रणाशकान्तारादज्ञानसमुत्थितकान्तारात् तदेते मया सर्वसत्त्वाः सर्वकान्तारेभ्यः परिमोचयितव्याः। तृष्णाजालसक्ता अविद्यानीवरणावृता भवतृष्णासंप्रयुक्ताः प्रणाशपर्यवसाना दुःखपञ्जरप्रक्षिप्ताश्चारकसंनिश्रिताः अबुधाः प्रतिज्ञाविरुद्धाः संशयभूताः सदा विमतयोऽक्षेमदर्शिनः अनिः शरणकुशला भवार्णवे आवर्तमण्डलैकचरणाः। पे। सर्वसत्त्वानामनुत्तरज्ञानराज्यप्रतिष्ठापनार्थमहं चरामि, नाहं केवलमात्मपरिमोचनाभियुक्तः। सर्वसत्त्वा ह्येते मया सर्वज्ञताचित्तप्लवेन संसारदुर्गादुद्धर्तव्याः, महाप्रपातादभ्युत्क्षेप्तव्याः, सर्वोपद्रवेभ्यः परिमोचयितव्याः, संसारस्त्रोतसः प्रतारयितव्याः। आत्मना मया सर्वसत्त्वदुःखस्कन्धोऽध्यवसितः। यावदुत्सहेऽहं सर्वापायेषु सर्वलोकधातुपर्यापन्नेषु सर्वदुःखवासमनुभवितुम्। न च मया सर्वसत्त्वाः कुशलमूलैर्वञ्चितव्याः। व्यवस्याम्यहमेकैकस्मिन्नपायेऽपरान्तकोटीगतान् कल्पान् संवसितुम्। यथा चैकापाये तथा सर्वापायनिरवशेषसर्वलोकधातुपर्यापन्नेषु सर्वसत्त्वपरिमोचननिदानम्। तत्कस्य हेतोः? वरं खलु पुनरहमेको दुःखितः स्याम्, न चेमे सर्वसत्त्वः अपायभूमिप्रपतिताः। मया तत्रात्मा बन्धको दातव्यः। सर्वजगच्च निष्क्रेतव्यं नरकतिर्यग्योनियमलोककान्तारात्। अहं च सर्वसत्त्वानामर्थाय सर्वदुःखवेदनास्कन्धमनेन स्वकेन शरीरेणानुभवेयम्। सर्वसत्त्वनिदानमहं च सर्वसत्त्वानां प्रातिभाव्यमुत्सहे सत्यवादी प्रत्ययितोऽविसंवादकः। न च मया सर्वसत्त्वाः परित्यक्ताः। तत्कस्य हेतोः? सर्वसत्त्वारम्बणो मम सर्वज्ञताचित्तोत्पाद उत्पन्नो यदुत सर्वजगत्परिमोचनाय। न चाहं रतिकामतया अनुत्तरायां सम्यक्संबोधौ संप्रस्थितः, नापि पञ्चकामगुणरत्यनुभवनाय, नापि कामविषयनिषेवणाय। न चाहमन्योन्यकामधातुपर्यापन्नरतिव्यूहसमुदानयनाय चरामि बोधिसत्त्वचर्याम्। तत्कस्य हेतोः? अरतयो ह्येताः, सर्वलोकरतयः। मारविषय एष यदुत कामविषयनिषेवणम्। दुर्बुद्धिसेवितो ह्येष मार्गः। सर्वबुद्धविवर्णितो ह्ययमुपदेशः यदुत कामनिषेवणम्। अतश्चैष सर्वदुःखस्कन्धस्योत्पाद एव निषेवणम्। अत एव च नरकतिर्यग्योनियमलोकानामुत्पादः। कलहभण्डनविवादक्षोभाश्च सत्त्वानामत एव प्रादुर्भवति। एते च सत्त्वाः कामान्निषेवमाणाः बुद्धानां भगवतां सकाशाद्दूरीभवन्ति। स्वर्गोपपत्तेरप्येते कामा अन्तरायाय संवर्तन्ते, किं पुनरनुत्तरस्य ज्ञानराजस्य सर्वसत्त्वयोगक्षेमस्य। सोऽहमेवमप्रमाणदोषान् कामानां पश्यन् परीत्तानादीप्तान्, तस्मादहमेतन्निदानमचरणतायां प्रतिपत्स्ये। पे। तथा तथैव मया कुशलमूलं परिणामयितव्यं यथा यथैव सर्वसत्त्वा अत्यन्तसुखमवेदितसुखं यावत्सर्वज्ञतासुखं प्रतिलभेरन्। मया सारथिना मया परिणायकेन मयोल्काधारिणा मया क्षेमगतिदर्शकेन मया क्षणगतिप्रतिलब्धेन मयोपायज्ञेन मय अर्थविदुषा मया संसारसागरे सर्वज्ञज्ञानयानपात्रमहादेशस्थितेन मया परिणामनकुशलेन मया पारदर्शकेन। पे। न खलु पुनरस्मिश्चातुर्महाद्वीपके लोकधातौ यावन्तः सत्त्वास्तावन्त एव सूर्या उदागच्छन्ति चातुर्द्वीपकलोकधात्ववभासनाय। अथ च पुनरेक एवैषां सूर्य उदागच्छति चतुर्द्वीपावभासनाय। न च तेषां सत्त्वानां चतुर्द्वीपोपपन्नानां स्वकस्वकैः शरीररैवभासः प्रादुर्भवति, येन ते दिवससंख्यां जानीयुः, स्वकार्यं वा परिप्रापयेगुः, सस्यानि वा परिपाचयेयुः, अहरहर्वा उद्याननगरेषु रतिक्रीडापरिभोगमनुभवेयुः। दिशो वा पश्येयुः। गमनागमनं वा ग्रामनगरनिगमराष्ट्राराजधानीषु कुर्युः। व्यवहारकार्येषु प्रयुज्येरन्। पे। अथ च पुनः सूर्यस्य देवपुत्रस्य उदयत एकस्य सूर्यमण्डलस्याद्वितीयस्य चातुर्द्वीपके लोकधातौ सर्वसत्त्वानामवभासः प्रादुर्भवति। एवमेव बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलान्युपार्जयमानस्य कुशलमूलं परिणामयमानस्य एवं चित्तमुत्पद्यते- नैतेषां सत्त्वानां तत्कुशलमूलं विद्यते येन ते आत्मानं परित्रायेरन्, कः पुनर्वादः परम्। अहं पुनः सर्वसत्त्वानां कृतशः कुशलमूलानि समुदानयामि, कुशलमूलं परिणामयामि यदुत सर्वसत्त्वमोचनाय, सर्वसत्त्वानामवभासनाय, सर्वसत्त्वानां ज्ञापनाय, सर्वसत्त्वानामवतारणाय, सर्वसत्त्वानां परिग्रहणाय, सर्वसत्त्वानां परिनिष्पादनाय, सर्वसत्त्वानां प्रसादनाय, सर्वसत्त्वानां प्रह्लादनाय, सर्वसत्त्वानां संशयच्छेदनाय। आदित्यमण्डलकल्पैरस्माभिर्भवितव्यम्। न परः प्रतिकाङ्क्षितव्यः। न परस्यावकाशमुत्पाद्य सत्त्वेषु संनाह उत्स्त्रष्टव्यः। न च सर्वसत्त्वानामन्तिकात्सर्वसत्त्वत्राणव्यवसायो निवर्तयितव्यः। न परिणामनायाः सर्वदुःखहत्या विनिवर्तितव्यम्। न परीत्तानि कुशलमूलानि परिग्रहीतव्यानि। न परीत्तया परिणामनया तुष्टिर्मन्तव्या। इत्यादि॥



आर्याक्षयमतिसूत्रेऽप्याह- स न कल्पगणनया बोधिं पर्येषते - इयतः कल्पान् संनत्स्यामि, इयतः कल्पान् संनत्स्यामीति। अपि तु खल्वचिन्त्यमेव संनाहं संनह्यति। यावती पूर्वा कोटिः संसारस्य, यद्येतावदेकं रात्रिंदिवं भवेत्, एवंरूपै रात्रिंदिवैः पञ्चदशदैवसिकेन पक्षेण त्रिंशद्दैवसिकेन मासेन द्वादशमासिकेन संवत्सरेण अनया वर्षगणनया यावद्वर्षशतसहस्त्रेण एकं बोधिचित्तमुत्पादयेयम्, एकं च तथागतमर्हन्तं सम्यक्संबुद्धं पश्येयम्। अनेन प्रवेशेन अनया गणनया गङ्गानदीवालुकासमैश्चित्तोत्पादैस्तथागतदर्शनैश्च एकैकस्यापि सत्त्वस्य चित्तचरितं जानीयाम्। अनेनैव प्रवेशेन अनया गणनया सर्वसत्त्वानां तावद्भिश्चित्तोत्पादैस्तथागतदर्शनैः स्वचित्तचरितानि प्रजानीयाम्। इत्यनवलीनः संनाहोऽयं बोधिसत्त्वस्य अक्षयः संनाहः। एवं दानादिषु बोधिपाक्षिकमहापुरुषलक्षणेषु च नयः॥



आर्यरत्नमेघेऽप्युक्तम्- न बोधिसत्त्वः सत्त्वखटुङ्कतां सत्त्वदुर्दान्ततां ज्ञात्वा- अलमेभिः सत्त्वैरेवं खटुङ्कैरेवं दुर्दान्तैरिति ततोनिदानं परिखिन्नः परापृष्ठीभूतः परिशुद्धायां लोकधातौ प्रणिधानं करोति। यत्रेदृशानां सत्त्वानां नामापि न शृणुयात्। न च सत्त्वार्थवैमुख्यस्य बोधिसत्त्वपरिशुद्धायां लोकधातावुपपत्तिर्भवति। तत्र प्राज्ञो बोधिसत्त्व एवं चित्तमुत्पादयति- तस्मात्सत्वधातोर्ये सत्त्वाः स्युः प्रत्यवरा अन्धजड‍एडमूकजातीयाः अपरिनिर्वाणधर्मकाः कृत्स्नाः सत्त्वधातौ न चिकित्सिताः , सर्वबुद्धैः सर्वबोधिसत्त्वैश्च प्रत्याख्याताः, तेषां मदीये बुद्धक्षेत्रे संनिपातः स्यात्। तानहं सर्वान् बोधिमण्डे निषीद्य अनुत्तरां सम्यक्संबोधिमभिसंबोधयेयम्। एवं हि बोधिसत्त्वस्य चिन्तयतश्चित्तोत्पादे चित्तोत्पादे सर्वमारभवनानि प्रकम्पन्ते। सर्वबुद्धाश्चास्य वर्णवादिनो भवन्तीति॥



एवं तावत्पुण्यवृद्धिकामेन आशयो दृढीकर्तव्यः। आशयदृढीकरणार्थमधुनोच्यते-

किं पुनरनेन दृढीकृतेनेति विमर्षनिरासाय धर्मसंगीतिसूत्रे गदितम्- आशये सम्यग् भगवन् बुद्धधर्माणां मूलम्। यस्य पुनराशयो नास्ति, सर्वे बुद्धधर्मास्तस्य दूरे। आशयसंपन्नस्य पुनर्भगवन् यदि बुद्धा न भवन्ति, गगनतलाद्धर्मशब्दो निश्चरति कुडयवृक्षेभ्यश्च। आशयशुद्धस्य बोधिसत्त्वस्य स्वमनोजल्पादेव सर्वाववादानुशासन्यो निश्चरन्ति। तस्मातर्हि भगवन् बोधिसत्त्वेनाशयसंपन्नेन भवितव्यम्। तद्यथा भगवन् यस्य पादौ तस्य गमनम्, एवं भगवन् यस्याशयस्तस्य बुद्धधर्माः। तद्यथा भगवन् यस्योत्तमङ्गं तस्य जीवितम्, एवमेव भगवन् यस्याशयस्तस्य बुद्धबोधिः। तद्यथा भगवन् यस्य जीवितं तस्य लाभः। एवमेव भगवन् यस्याशयस्तस्य बुद्धत्वलाभः। तद्यथा भगवन् सतीत्वेनाग्निर्ज्वलति असतीत्वेन न ज्वलति, एवमेव भगवन् आशये सति बोधिसत्त्वस्य सर्वबुद्धधर्मा ज्वलन्ति, असत्याशये न ज्वलन्ति। तद्यथा भगवन् सत्स्वभ्रमेघेषु वर्षं वर्षति, असत्सु न वर्षति, एवमेव भगवन्नाशये सति बुद्धधर्माः प्रवर्तन्ते। तद्यथा भगवन् यस्य वृक्षस्य मूलं विपन्नं तस्य पुष्पफलानि न भूयः प्ररोहन्ति, एवमेव भगवन् यस्याशयो विपन्नस्तस्य सर्वे कुशला धर्मा न भूयः संभवन्ति। तस्मात्तर्हि भगवन् बोधिसत्त्वेन बुद्धबोध्यर्थिकेन स्वाशयः सूदृहीतः स्वारक्षितः सुशोधितः स्वधिष्ठितः कर्तव्यः। इति॥



कोऽयमाशयो नाम? आर्याक्षयमतिसूत्रेऽभिहितः- स खलु पुनराशयोऽकृत्रिमः अकृतकत्वात्। अकृतको निःसाध्यत्वात्। निःसाध्यः सुविदितत्वात्। सुविदितो निर्मायत्वात्। निर्मायः शुद्धत्वात्। शुद्धः ऋजुकत्वात्। ऋजुकः अकुटिलत्वात्। अकुटिलः स्पष्टत्वात्। स्पष्टः अविपमत्वात्। अविषमः सारत्वात्। सारः अमेद्यत्वात्। अमेद्यो दृढत्वात्। दृढोऽचलितत्वात्। अचलितः अनिश्चितत्वादित्यादि। अयमेव च अधिकाधिकगुणाधिगमप्रवृत्तोऽध्याशय इत्युच्यते॥



यथा अत्रैवोक्तम्- उत्तरणाध्याशयो विशेषगमनतया इत्यादि॥



अपि च अध्याशय उच्यते- सौम्यता भूतेषु। मैत्रता सत्वेषु। हितचित्तता आर्येषु। कारुण्यमनार्येषु। गौरवं गुरुषु। त्राणतागौरवं गुरुषु। त्राणता अत्राणेषु। शरणता अशरणेषु। द्वीपता अद्वीपेषु। परायणता अपरायणेषु। सहायता असहायेषु। ऋजुता कुटिलेषु। स्पष्टता खटुङ्केषु । अशठता शठेषु। अमाया आगहनचरितेषु। कृतज्ञता अकृतज्ञेषु। कृतवेदिता द्रोहिषु। उपकारिता अनुपकारिषु। सत्यता अभूतगतेषु। निर्मानता अस्त्रब्धेषु। अनिन्दिता सु‍अनिन्दनाकृतेषु। अनारोचनता परस्खलितेषु। आरक्षणता विप्रतिपन्नेषु। अदोषदर्शनता सर्वोपायकौशल्यचर्यासु। शुश्रूषणता सर्वदक्षिणीयेषु। प्रदक्षिणग्राहिता अनुशासनीषु। इत्यादि॥



तदेवं व्यवसायाशयौ दृढीकृत्य कारुण्यं पुरस्कृत्य-



यतेत शुभवृद्धये।

यथोक्तमार्यधर्मसंगीतिसूत्रे- अथ खल्ववलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- न भगवन् बोधिसत्त्वेन अतिबहुषु धर्मेषु शिक्षितव्यम्। एको धर्मो भगवन् बोधिसत्त्वेन स्वाराधितः सुप्रतिविद्धः कर्तव्यः। तस्य सर्वबुद्धधर्माः करतलगता भवन्ति। कतम एकधर्मः? यदुत महाकरुणा। महाकरुणया भगवन् बोधिसत्त्वानां सर्वबुद्धधर्माः करतलगता भवन्ति। तद्यथा भगवन् येन राज्ञश्चक्रवर्तिनश्चक्ररत्नं गच्छति तेन सर्वो बलकायो गच्छति, एवमेव भगवन् येन बोधिसत्त्वस्य महाकरुणा गच्छति , तेन सर्वे बुद्धधर्मा गच्छन्ति। तद्यथा भगवन् आदित्ये उदिते सत्त्वाः कर्मक्रियासु प्रचुरा भवन्ति, एवमेव भगवन् महाकरुणा यत्रोदिता भवति, तत्रान्यबोधिकरा धर्माः क्रियासु प्रचुरा भवन्ति। तद्यथा भगवन् सर्वेषामिन्द्रियाणां मनसाधिष्ठितानां स्वस्वविषये ग्रहणप्राचुर्यं भवति, एवमेव भगवन् महाकरुणाधिष्ठितानामन्येषां बोधिकराणां धर्माणां स्वस्मिन् स्वस्मिन् करणीये प्राचुर्यं भवति। तद्यथा भगवन् जीवितेन्द्रिये सति अन्येषामिन्द्रियाणां प्रवृत्तिर्भवति, एवमेव भगवन् महाकरुणायां सत्यामन्येषां बोधिकराणां धर्माणां प्रवृत्तिर्भवतीति॥



आर्याक्षयमतिसूत्रेऽप्याह- तद्यथापि नाम भदन्त शारद्वतीपुत्र पुरुषस्य जीवितेन्द्रियस्य आश्वासाः प्रश्वासाः पूर्वगमाः, एवमेव भदन्त शारद्वतीपुत्र बोधिसत्त्वस्य महायानसमुदागतस्य महाकरुणा पूर्वंगमा॥ पे॥ स्याद्यथापि नाम श्रेष्ठिनो वा गृहपतेर्वा एवपुत्रके गुणवति मज्जागतं प्रेम, एवमेव महाकरुणाप्रतिलब्धस्य बोधिसत्त्वस्य सर्वसत्त्वेषु मज्जागतं प्रेमेति॥



कथमेषा भावयितव्या? स्वकमनेकविधं पूर्वानुभूतमनुभूयमानं वा दुःखं भयं च स्वात्मनि अत्यन्तमनिष्टं भावयित्वा, प्रियादिषु मैत्री मैत्रीवता भावयितव्या, प्रत्युत्पन्नदुःखव्याधिषु महादुःखसागरानवधिदीर्घसंसारव्यसनानुनीतेषु वा॥



यथोक्तमार्यदशभूमकसूत्रे- तस्यैवं भवति- आश्चर्य यावदज्ञानसंमूढा बतेमे बालपृथग्जनाः, येषामसंख्येया आत्मभावा निरुद्धा निरुध्यन्ते निरोत्स्यन्ते च। एवं च क्षीयमाणाः कायेन निर्वेदमुत्पादयन्ति। भूयस्या मात्रया दुःखयन्त्रं विवर्धयन्ति। संसारस्त्रोतसश्च महाभयान्न निवर्तन्ते। स्कन्धालयं च नोत्सृजन्ति। धातूरगेम्यश्च न निर्विद्यन्ते। नन्दीरागान्धाश्च नावबुध्यन्ते। षडायतनशून्यग्रामं च न व्यवलोकयन्ति। अहंकारममकाराभिनिवेशानुशयं च न प्रजहन्ति। मानदृष्टिशल्यं च नोद्धरन्ति। रागद्वेषमोहजालं च न प्रशमयन्ति। अविद्यामोहान्धकारं च न विधमयन्ति। तृष्णार्णवं च नोच्छोषयन्ति। दशबलसार्थवाहं च न पर्येषन्ते। माराशयगहनानुगताश्च संसारसागरे विविधाकुशलवितर्कग्राहाकुले परिप्लवन्ते। अप्रतिशरणाः तथा संवेगमापद्यन्ते बहूनि दुःखानि प्रत्युनुभवन्तः, यदिदं जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासान्। हन्त अहमेषां सत्त्वानां दुःखार्तानामनाथानामत्राणानामशरणानामलयनानामपरायणानामन्धानामविद्याण्डकोषपटलपर्यवनद्धानां तमोभिभूतानामर्थाय एकोऽद्वितीयो भूत्वा तथारूपपुण्यज्ञानसंभारोपचयं बिभर्मि, यथारूपेण पुण्यज्ञानसंभारोपचयेन संभृतेन इमे सर्वसत्त्वा अत्यन्तविशुद्धिमनुप्राप्नुयुरिति॥



तथा अत्रैवाह- संसाराटवीकान्तारमार्गप्रपन्ना बतेमे सत्त्वा निरयतिर्यग्योनियमलोकप्रपाताभिमुखाः कुदृष्टिविषमजालानुप्राप्ताः मोहगहनसंछन्ना मिथ्यामार्गवितथप्रयाता अन्धीभूताः परिणायकविकलाः॥ पे॥ संसारस्त्रोतानुवाहिनः तृष्णानदीप्रपन्नाः महावेगग्रस्ता अवलोकनासमर्थाः कामव्यापादविचिकित्साविहिंसावितर्कप्रपातानुचरिताः स्वकायदृष्टयुदकराक्षसगृहीताः कामगहनावर्तानुप्रविष्टाः नन्दीरागमध्यसंसक्ताः अस्मिमानस्थलोच्छन्नाः अपरायणाः आयतनग्रामानुच्छलिताः कुशलसंभारकविरहिताः, तेऽस्माभिर्महाकुशलमूलबलेनोदृत्य निरुपद्रवे अरजसि शिवसर्वज्ञतारत्नद्वीपे प्रतिष्ठापयिव्याः। रुद्धा बतेमे सत्त्वा बहुदुःखदौर्मनस्योपायासबहुल अनुनयप्रतिघप्रियाप्रियविनिबन्धने सशोकपरिदेवानुचारिते तृष्णानिगडबन्धने मायाशाठयाविद्यागहनसंछन्ने त्रैधातुकचारके। ते अस्माभिः सर्वत्रैधातुकविवेके अभयपुरे सर्वदुःखोपशमे अनावरणनिर्वाणे प्रतिष्ठापयितव्या इत्यादि॥

एवमेभिः परस्परदृढीकृतैर्व्यवसायाशयकारुण्यैः पुण्यवृद्धिमारभेत। तत्र तावद्-



भद्रचर्याविधिः कार्या वन्दनादिः सदादरात्।



आर्योग्रदत्तपरिपृच्छायां हि त्री रात्रेः त्रिर्दिवसस्य च शुचेः शुचिवस्त्रप्रावृतस्य च त्रिस्कन्धकप्रवर्तनमुक्तम्। तत्र त्रयः स्कन्धाः पापदेशनापुण्यानुमोदनाबुद्धाध्येषणाख्याः पुण्यराशित्वात्। तत्र वन्दना पापदेशनायामन्तर्भवति। बुद्धान्नमस्कृत्य उपालिपरिपृच्छायां देशनेति कृत्वा। याचनमध्येषणायां एकार्थत्वात्। पूजा तु विभवाभावादनित्येति नोक्ता। मानसी वाचिकी च सूत्रान्तरप्रसिद्धत्वान्नोक्ताः। त्रयाणां तु वचनात्प्राधान्यं गम्यते। तत्र वन्दना सर्वबुद्धान्नमस्यामीति॥



आर्याक्षयमतिसूत्रे तु आत्मपरपापदेशनापुण्यसंभारे पठयेते गाथाचतुष्टयेन च यथागीतैश्च स्तोत्रैः। आर्यभद्रचर्यादिगाथाभिर्वा पूजना च॥



आर्यरत्नमेघे यथोक्तम्- इह बोधिसत्त्वो यानीमानि भवन्ति पुष्पजातानि वा फलजातानि वा अममान्यपरिग्रहाणि, तानि त्रिष्कृत्वा रात्रौ त्रिष्कृत्वा दिवसे बुद्धबोधिसत्त्वेभ्यो निर्यातयति॥ पे॥

स यथेमे धूपवृक्षा वा गन्धवृक्षा वा रत्नवृक्षा वा कल्पवृक्षा वा अममा अपरिग्रहास्तानपि त्रिष्कृत्वा रात्रौ त्रिष्कृत्वा दिवसे बुद्धबोधिसत्त्वेभ्यो निर्यातयतीति॥



आर्यत्रिसमयराजेऽपि- स्थलजा रत्नपर्वताः, जलजा रत्नपर्वताः, स्थलजलजानि रत्नानि दशदिगवस्थितानि, अममान्यपरिग्रहाणि देयानीत्युक्तम्। अनया च दिशा सर्वभैषज्यानि सर्वरसायनानि सर्वसलिलानि अनवद्यानि अप्मण्डलानि सर्वकाञ्चनमण्डलानि। निवृत्तेषु वा लोकधातुषु ये परमरसस्पर्शसंपन्ना भूपर्पटकाः, अमृतलता, अकृष्टोप्ता वा शालयः, सर्वोत्तरकुरुद्वीपेषु परिशुद्धेषु च लोकधातुषु ये रमणीयतराः परिभोगाः॥



यथा च आर्यरत्नमेघ एवाह- स यानीमानि सूत्रान्तेषु उदारोदाराणि तथागतपूजोपस्थानानि शृणोति, तान्याशयतस्तीव्रेणाध्याशयेन बुद्धबोधिसत्त्वेभ्यः परिणामयतीति॥



तथा- स विविधानि पूजोस्थानानि अनुविचिन्तयतीति॥

देशना पूर्वोक्तैव। आर्याक्षयमतिसूत्रे तु आत्मपरपापदेशना पुण्यसंभारे पठयते। अनुमोदना भद्रचर्यागाथया, चन्द्रप्रदीपानुमोदनापरिवर्तेन वा। अध्येषणा भद्रचर्ययैव। परिणामना तु सकलसमाप्तार्यभद्रचर्ययैव। वज्रध्वजपरिणामनां वा पश्येत्॥



अथवा दशभूमकोक्तानि महाप्रणिधानानि। यथाह- यदुत अशेषनिःशेषानवशेषसर्वबुद्धपूजोपस्थापनाय सर्वाकारवरोपेतमुदाराधिमुक्तिविशुद्धं धर्मधातुविपुलमाकाशधातुपर्यवसानमपरान्तकोटीनिष्ठं सर्वकल्पसंख्याबुद्धोत्पादसंख्या (प्रति) प्रस्त्रब्धं महापूजोपस्थानाय प्रथमं महाप्रणिधानमभिनिर्हरति- यदुत सर्वतथागतभाषितधर्मनेत्रीसंधारणाय। सर्वबुद्धबोधिसत्त्वपरिग्रहाय। सर्वसम्यक्संबुद्धशासनपरिरक्षणाय। धर्मधातुविपुलमाकाशधातुपर्यवसानमपरान्तकोटीनिष्ठं सर्वसंकल्पसंख्याबुद्धोत्पादसंख्याप्रतिप्रस्त्रब्धं सद्धर्मपरिग्रहाय द्वितीयं महाप्रणिधानमभिनिर्हरति यदुत सर्वबुद्धोत्पादनिरवशेषसर्वलोकधातुप्रसरेषु। तुषितभवनवासमादिं कृत्वा च्यवनचंक्रमणगर्भस्थितिजन्मकुमारक्रीडान्तः पुरवासाभिनिष्क्रमणदुष्करचर्याबोधिमण्डोपसंक्रमणमारधर्षणाभिसंबोध्य ध्येषणमहाधर्मचक्रप्रवर्तनमहापरिनिर्वाणोपसंक्रमणाय पूजाधर्मसंग्रहप्रयोगपूर्वगमं कृत्वा सर्वत्रैककालविवर्तनाय धर्मधातुविपुलमाकाशधातुपर्यवसानमपरान्तकोटीनिष्ठं सर्वकल्पसंख्याबुद्धोत्पादसंख्याप्रतिप्रस्त्रब्धं यावन्महापरिनिर्वाणोपसंक्रमणाय तृतीयं महाप्रणिधानमभिनिर्हरति। यदुत सर्वबोधिसत्त्वचर्याविपुलमहद्गताप्रमाणासंभिन्नसर्वपारमितासुसंग्रहीतः। सर्वभूमिपरिशोधनं साङ्गोपाङ्गनिर्हारं यावत्सलक्षणविलक्षणसंवर्तविवर्तसर्वबोधिसत्त्वचर्याभूतयथावद्भूमिपथोपदेशपारमितापरिकर्माववादानुशासन्यनुप्रदानोपस्तम्भचित्तोत्पादाभिनिर्हाराय धर्मधातुविपुलमाकाशधातुपर्यवसानमपरान्तकोटीनिष्ठं सर्वकल्पसंख्याचर्यासंख्याप्रतिप्रस्त्रब्धं चित्तोत्पादाभिनिर्हाराय चतुर्थमहाप्रणिधानमभिनिर्हरति। यदुत निरवशेषसर्वसत्त्वधातुरूप्यरूपिसंज्ञासंज्ञिनैवसंज्ञिना संज्ञ्यण्डजजरायुजसंस्वेदजौपपादुकत्रैधातुकपर्यापन्नषङ्गतिसमवसृतसर्वोपपत्तिपर्यापन्ननामरूपसंगृहीताशेषसर्वसत्त्वधातुपरिपाचनाय सर्वबुद्धधर्मावतारणाय सर्वगतिसंख्याव्यवच्छेदनाय सर्वज्ञज्ञानप्रतिष्ठापनाय। धर्मधातुविपुलमाकाशधातुपर्यवसानमपरान्तकोटीनिष्ठं सर्वकल्पसंख्यासत्त्वधातुसंख्याप्रतिप्रस्त्रब्धं सर्वसत्त्वधातुपरिपाचनाय पञ्चमं महाप्रणिधानमभिनिर्हरति। यदुत निरवशेषसर्वलोकधातुविपुलसंक्षिप्तमहद्गताप्रमाणसूक्ष्मौदारिकव्यत्यस्तावमूर्धसमतलप्रवेशसमवसरणानुगतेन्द्रजाल-विभागदशदिगशेषवैमात्र्यप्रवेशविभागज्ञानानुगमप्रत्यक्षतायै। धर्मधातुविपुलमाकाशपर्यवसानमपरान्तकोटीनिष्ठं सर्वकल्पसंख्यालोकधातुसंख्याप्रतिप्रस्त्रब्धं लोकधातुवैमात्र्यावतारणाय षष्ठं महाप्रणिधानमभिनिर्हरति। यदुत सर्वक्षेत्रैकक्षेत्र- एकक्षेत्र- सर्वक्षेत्रैकसमवसरणपरिशोधनम् अप्रमाणबुद्धक्षेत्रप्रभाव्यूहालंकारप्रतिमण्डितं सर्वक्लेशापनयनपरिशुद्धिपथोपेतं अप्रमाणज्ञानाकरसत्त्वपरिपूर्णमुदारबुद्धविषयसमवरणं यथाशयसर्वसत्त्वसंदर्शनसंतोषणाय। धर्मधातुविपुलमाकाशधातुपर्यवसानमपरान्तकोटीनिष्ठं सर्वकल्पसंख्याबुद्धक्षेत्रसंख्याप्रतिप्रस्त्रब्धं सर्वबुद्धक्षेत्रपरिशोधनाय सप्तमं महाप्रणिधानमभिनिर्हरति। यदुत सर्वबोधिसत्त्वैकाशयप्रयोगतायै निःसपत्नकुशलमूलोपचयाय एकारम्बणसर्वबोधिसत्त्वसमतायै अविरहितसततसमितबुद्धबोधिसत्त्वसमवधानाय यथेष्टबुद्धोत्पादसंदर्शनाय स्वचित्तोत्पादतथागतप्रभावज्ञानानुगमाय अच्युतानुगामिन्यभिज्ञालम्भाय सर्वलोकधात्वनुविचरणाय सर्वपर्षन्मण्डलप्रतिभासप्राप्तये सर्वोपपत्तिस्वशरीरानुगमाय अचिन्त्यमहायानोपेततायै बोधिसत्त्वचर्याचरणाव्यवच्छेदाय धर्मधातुविपुलमाकाशधातुपर्यवसानमपरान्तकोटीनिष्ठं सर्वकल्पसंख्याचर्यासंख्याप्रतिप्रस्त्रब्धं महायानावतारणाय अष्टमं महाप्रणिधानमभिनिर्हरति। यदुताविवर्त्यचक्रसमारूढबोधिसत्त्वचर्याचरणाय अमोघकायवाङ्यनस्कर्मणे सहदर्शननियतसर्वबुद्धधर्मप्रतिलम्भाय सहघोषोदाहारज्ञानानुगमाय सहप्रसादक्लेशविवर्तनाय महाभैषज्यराजोपमाश्रयप्रतिलम्भाय चिन्तामणिवत्कायप्रतिलम्भाय सर्वबोधिसत्त्वचर्याचरणाय धर्मधातुविपुलमाकाशधातुपर्यवसानमपरान्तकोटीनिष्ठं सर्वकल्पसंख्याचर्यासंख्याप्रतिप्रस्त्रब्धम् अमोघघोषतायै नवमं महाप्रणिधानमभिनिर्हरति। यदुत सर्वलोकधातुष्वनुत्तरसम्यक्संबोध्यभिसंबोधनय‍एकबालपथाव्यतिवृत्तसर्वबालपृथग्जनजन्मोपपत्त्यभिनिष्क्रमणविकुर्वणबोधि मण्डधर्मचक्रप्रवर्तनमहापरिनिर्वाणोपदर्शनाय महाबुद्धविषयप्रभावज्ञानानुगमाय सर्वसत्त्वधातुयथाशयबुद्धोत्पादक्षणक्षणावबोधप्रशमप्रापणसंदर्शनाय एकाभिसंबोधिसर्वधर्मधातुनिर्माणस्फरणाय एकघोषोदाहारसर्वसत्त्वचित्ताशयसंतोषणाय महापरिनिर्वाणोपदर्शनचर्याबलाव्युपच्छेदाय महाज्ञानभूमिसर्वधर्मव्युत्थापनसंदर्शनाय धर्मज्ञानर्द्धिमायाभिज्ञासर्वलोकधातुस्फरणाय धर्मधातुविपुलमाकाशधातुपर्यवसानमपरान्तकोटीनिष्ठं सर्वकल्पसंख्याभिसंबोधिसंख्याप्रतिप्रस्त्रब्धं महायानाभिनिर्हाराय दशमं महाप्रणिधानमभिनिर्हरतीति॥



एतच्च भावयन् सर्वत्र परिणामयामीति योज्यम्। आर्यावलोकितेश्वरविमोक्षे च यदुक्तं तदप्येवं योज्यम्। एतत्कुशलमूलं सर्वसत्त्वप्रपातभयविगमाय परिणामयामि। सर्वसत्त्वानसांतानिकभयप्रशमनाय सर्वसत्त्वसंमोहभयविनिवर्तनाय परिणामयामि। सर्वसत्त्वबन्धनभयसमुच्छेदाय सर्वसत्त्वजीवितोपरोधोपक्रमभयव्यावर्तनाय सर्वसत्त्वोपकरणवैकल्यभयापनयनाय सर्वसत्त्वाजीविकाभयव्युपशमनाय सर्वसत्त्वाश्लोकभयसमतिक्रमणाय परिणामयामि। सर्वसत्त्वसांसारिकभयोपशमनाय सर्वसत्त्वपर्षच्छारद्यभयविगमाय सर्वसत्त्वमरणभयव्यतिक्रमाय सर्वसत्त्वदुर्गतिभयविनिवर्तनाय सर्वसत्त्वतमोन्धकारविषमगत्यप्रत्युदावर्तनावभासकरणाय परिणामयामि। सर्वसत्त्वानां विसभागसमवधानभयात्यन्तविगमाय सर्वसत्त्वप्रियविप्रयोगभयनिरोधाय सर्वसत्त्वाप्रियसंवासभयापनयनाय सर्वसत्त्वकायपरिपीडाभयविसंयोगाय सर्वसत्त्वचित्तपरिपीडनभयनिर्मोक्षणाय सर्वसत्त्वदुःखदौर्मनस्योपायाससमतिक्रमणाय परिणामयामीति॥

संक्षेपतः पुनरियमनुत्तरा परिणामना येयमार्यभद्रचर्यागाथायाम्-

मञ्जुशिरी यथ जानति शूरः सो च समन्ततभद्र तथैव।

तेषु अहं अनुशिक्षयमाणो नामयमी कुशलं इमु सर्वम्॥

सर्वत्रियध्वगतेभि जिनेभिर्या परिणामन वर्णित अग्रा।

ताय अहं कुशलं इमु सर्व नामयमी वरभद्रचरीये॥ इति॥



॥ इति शिक्षासमुच्चये भद्रचर्याविधिः षोडशमः परिच्छेदः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project