Digital Sanskrit Buddhist Canon

भोगपुण्यशुद्धिः पञ्चदशः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
भोगपुण्यशुद्धिः पञ्चदशः परिच्छेदः।



शिक्षासमुच्चयस्यात्मशुद्धयनन्तरं भोगशुद्धिः संचयाभावात् पृथगिह लेखिता।



भोगशुद्धिं च जानीयात्सम्यगाजीवशोधनात्।

यथोक्तमार्योग्रपरिपृच्छायाम्- इह गृहपते गृही बोधिसत्त्वो धर्मेण भोगान् पर्येषते नाधर्मेण। समेन न विषमेण। सम्यगाजीवो भवति न विषमाजीव इति॥



आर्यरत्नमेघेऽप्युक्तम्- न बोधिसत्त्वो दायकं दानपतिं दृष्ट्वा ईर्यापथमारचयति। कथं नेर्यापथमारचयति? न शनैर्मन्दं मन्दं क्रमानुत्क्षिपति, न निक्षिपति, युगमात्रप्रेक्षिकया सविश्वस्तप्रेक्षिकया अनाभोगप्रेक्षिकया। एवं कायकुहनां न करोति। कथं वाक्कुहनां न करोति? न बोधिसत्त्वो लाभहेतोर्लाभनिदानं मन्दभाणी मृदुभाणी न प्रियभाणी भवति। नानुवर्तनवचनानि निश्चारयति॥ पे॥ कथं न चित्तकुहनां करोति? बोधिसत्त्वो दायकेन दानपतिना वा लाभेन प्रवार्यमाणो वा चाल्पेच्छतां दर्शयति। चित्ते न स्पृहामुत्पादयति। अन्तर्दाह एष कुलपुत्र यद्वाचा अल्पेच्छता चित्तेन लाभकामता। एवं हि कुलपुत्र बोधिसत्त्वः कुहनलपनलाभापगतो भवति॥ पे॥ न बोधिसत्त्वो दानपतिं वा दृष्ट्वा निमित्तं करोति- विघातो मे चीवरेण विघातो मे पात्रेण। विघातो मे ग्लानभैषज्येन। न च तं दायकं दानपतिं वा किंचित्प्रार्थयते। न वाचं निश्चारयति। एवं हि बोधिसत्त्वो निमित्तलाभापगतो भवति। यावन्न बोधिसत्त्वो दायकं दानपतिं दृष्ट्वा एवं वाचं निश्चारयति- अमुकेनामुकेन वा मे दानपतिना अमुकं वस्तु प्रतिपादितम्, तस्य च मया अमुक उपकारः कृतः। तेन मे शीलवानयमिति कृत्वा इदं चेदं च दत्तम्, बहुश्रुत इति अल्पेच्छ इति कृत्वा। मया च तस्य कारुण्यचित्तमुपस्थाप्य परिगृहीतम्। पे। तत्र कायक्षतिर्यदुत लाभहेतोर्लाभनिदानमाधावनपरिधावनं दौःशील्यसमुदाचरणं च। चित्तक्षतिर्यदुत प्रार्थना। लाभिनां च ब्रह्मचारिणामन्तिके व्यापादबहुता। एवं हि बोधिसत्त्वो विषमपर्येष्टिलाभापगतो भवति॥ पे॥ इह बोधिसत्त्वो न तुलाकूटेन न मानकूटेन न विस्त्रम्भघातिकया न धूर्ततया लाभमुपार्जयति। एवं हि बोधिसत्त्वोऽधर्मलाभागतो भवति। पे। ये ते लाभाः स्तौपिकसंसृष्टा वा धार्मिकसंसृष्टा वा सांधिकसंसृष्टा वा अदत्ता वा अननुज्ञाता वा, तान् न प्रतीच्छति, न स्वीकरोति। एवं हि बोधिसत्त्वोऽपरिशुद्धलाभापगतो भवति। यावल्लब्ध्वा लाभं न ममायते, न धनायते, न संनिधिं करोति, कालानुकालं च श्रमणब्राह्मणेभ्यो ददाति मातापितृमित्रामात्यज्ञातिसालोहितेभ्यः, कालानुकालमात्मना परिभुङ्क्ते, परिभुञ्जानश्चारक्तः परिभुङ्क्ते स्वनध्यवसितः। न चालभ्यमाने लाभे खेदचित्तमुत्पादयति। न परितप्यति। न च दायकदानपतीनामन्तिकेऽप्रसाद चित्तमुत्पादयतीत्यादि॥



तत्र एषाप्यस्य बोधिसत्त्वस्य भोगशुद्धिरात्मभावशुद्धिवत्परहिताय भवेत्। यथोक्तमार्यविमलकीर्तिनिर्देशे- पुनरपरं भदन्त शारिपुत्र ये प्रविशन्ति इदं गृहं तेषां समनन्तरप्रविष्टानां सर्वक्लेशा न बाधन्ते। अयं द्वितीय आश्चर्याद्भुतो धर्मः॥



पुनरत्रैवोक्तम्- अथ ततो भोजनात्सर्वावती सा पर्षत् तृप्ता भूता। न च तद् भोजनं क्षीयते। यैश्च बोधिसत्त्वैः श्रावकैश्च शक्रब्रह्मलोकपालैस्तदन्यैश्च सत्त्वैस्तद्भोजनं भुक्तम्, तेषां तादृशं सुखं कायेऽवक्रान्तं याद्दशं सर्वसुखमण्डितायां लोकधातौ बोधिसत्त्वानां सुखम्। सर्वरोमकूपेभ्यश्च तेषां ताद्दशो गन्धः प्रवाति, तद्यथापि नाम तस्यामेव सर्वगन्धसुगन्धायां लोकधातौ वृक्षाणां गन्धः॥



पुनश्चोक्तम्- यैश्च भदन्त आनन्द भिक्षुमिरनवक्रान्तनियामैरेतद्भोजनं भुक्तम्, तेषामेवावक्रान्तनियामानां परिणंस्यति।पे। यैरनुत्पादितबोधिचित्तैः सत्त्वैः परिभुक्तम्, तेषामुत्पादितबोधिचित्तानां परिणंस्यति। यैरुत्पादितबोधिचित्तैर्भुक्तम्, तेषां नाप्रतिलब्धक्षान्तिकानां परिणंस्यतीति विस्तरः॥



शून्यताकरुणागर्भचेष्टितात्पुण्यशोधनम्॥ २१॥

उक्तं ह्यार्यगगनगञ्जसूत्रे- यदुत अहंकारविशुद्धं तद्दानं ददाति। ममकारविशुद्धं तद्दानं ददाति। हेतुविशुद्धं तद्दानं ददाति। दृष्टिविशुद्धं तद्दानं ददाति। निमित्तविशुद्धं तद्दानं ददाति। नानात्वविशुद्धं तद्दानं ददाति। विपाकप्रतिकाङ्क्षणाविशुद्धं तद्दानं ददाति। यथा गगनं समविशुद्धं तद्दान ददाति॥ पे। यथा गगनमपर्यन्तम्, एवमपर्यन्तीकृतेन चित्तेन तद्दानं ददाति। यथा गगनं विस्तीर्णमनावरणम्, एवं बोधिपरिणामितं तद्दानं ददाति। यथा गगनमरूपि, एवं सर्वरूपानिश्रितं तद्दानं ददाति। यथा गगनमवेदयितृ, एवं सर्ववेदितप्रतिप्रस्त्रब्धं दानं ददाति। एवमसंज्ञि असंस्कृतमविज्ञप्तिलक्षणमेवमप्रतिज्ञानं तद्दानं ददाति। यथा गगनं सर्वबुद्धक्षेत्रस्फरणम्, एवं सर्वसत्त्वमैत्रीस्फरणं तद्दानं ददाति। पे। यथा गगनं सदाप्रकाशम्, एवं चित्तप्रकृतिविशुद्धं तद्दानं ददाति। यथा गगनं सर्वसत्त्वावकाशम्, एवं सर्वसत्त्वोपजीव्यं तद्दानं ददाति। यावद्यथा निर्मितो निर्मिताय ददाति, निर्विकल्पोऽनाभोगः चित्तमनोविज्ञानविगतः सर्वधर्मनिःप्रतिकाङ्क्षी, एवं द्वयविगमतया मायालक्षणस्वभावविशुद्धं बोधिसत्त्वस्तद्दानं ददाति। यस्येदृशो दानपरित्यागः, प्रज्ञाज्ञानेन च सर्वसत्त्वाक्लेशपरित्यागः, उपायज्ञानेन च सत्त्वापरित्यागः, एवं त्यागचित्तः कुलपुत्र बोधिसत्त्वो गगनसमदानो भवति॥



आर्याक्षयमतिसूत्रेऽप्युक्तम्- नास्ति सत्त्वोत्पीडनादानम्। यावन्नास्ति यथोक्ते ऊनदानम्। यावन्नास्ति सर्वसत्त्वेषु दक्षिणीयावमन्यनादानम्॥ पे॥ नास्ति निक्रन्ददानम्, यावन्नास्ति याचनकेषूपतप्तदानम्, नास्त्युच्चग्घनोल्लापनदानम्, नास्ति पराङ्युखदानम्, नास्त्यपविद्धदानम्, नास्त्यस्वहस्तदानम्॥ पे॥ नास्त्यकल्पिकदानम्, नास्त्यकालदानम्, नास्ति विषशस्त्रदानम्, नास्ति सत्त्वविहेठनादानमिति॥



यत्तर्हि उग्रपरिपृच्छायामुक्तम्- दानपारमिताकालोऽयं यस्य येनार्थस्तस्य तत्प्रदानकालः। अपि तु तथाहं करिष्यामि, मद्यपेभ्य एव मद्यपानं दास्यामि। तांस्तान् स्मृतिसंप्रजन्ये समादापयिष्यामीति॥



मद्यपानादपि नैराश्यकृते बोधिसत्त्वे प्रतिघो गरीयान्, सत्त्वसंग्रहहानिश्च। अतोऽन्यप्रसादनोपायासंभवे मद्यं देयमित्यभिप्रायः। शस्त्रादिप्वपि यद्यनुबन्धगुरुलाघवविचाराद्दानमापद्येत, नैवापत्तिरित्यत एव गम्यते। सूत्रेषु तु सामान्येन प्रतिषेधः। इत्युक्ता दानविशुद्धिदिक्॥ शीलविशुद्धिरार्यगगनगञ्जसूत्रे एवमभिहिता- अविरहितबोधिचित्तता चित्तविशुद्धयै, अपगतश्रावकप्रत्येकबुद्धचित्तता प्रामाणिकविशुद्धयै। इत्यादि॥



पुनरपरा शीलविशुद्धिः- शुद्धं गगनं शुद्धं तच्छीलम्। विमलं गगनं विमलं तच्छीलम्। शान्तं गगनं शान्तं तच्छीलम्। अनुन्नतं गगनमनुन्नतं तच्छीलम्। अनुनीतं गगनमनुनीतं तच्छीलम्। यावदच्छेद्याभेद्यं गगनमच्छेद्याभेद्यं तच्छीलमित्यादि॥ अप्रतिहतं गगनं सर्वसत्त्वाप्रतिघचित्तस्य क्षान्तिपरिशुद्धिः। समप्रयोगं गगनं सर्वसत्त्वसमचित्तस्य क्षान्तिपरिशुद्धिरित्यादि॥ तद्यथापि स्यान्महाशालवनम्। तस्मिन् कश्चिदेवागत्य शालं छिन्द्यात्। तत्र तेषामवशिष्टानां नैवं भवति- एष छिन्नो वयमच्छिन्ना इति। न तेषामनुनयो न प्रतिघः। न कल्पो न विकल्पो न परिकल्पः॥ यैवं क्षान्तिः, इयं बोधिसत्त्वस्य परमा गगनसमा क्षान्तिः। [इति]॥



आर्यरत्नचूडसुत्रे विस्तरमुक्त्वा आह- इदमुच्यते वीर्यम्। तस्य कायपरिशुद्धिः यत्कायस्य प्रतिभासप्रतिविम्वज्ञानं वाचोऽनभिलाप्यज्ञानम्। चित्तस्यात्यन्तोपशमज्ञानम्। तथा मैत्रीसंनाहसंनद्धो महाकरुणाधिष्ठानप्रतिष्ठितः सर्वाकारवरोपेतं शून्यताकाराभिनिर्हृतं ध्यानं ध्यायति। तत्र कतमा सर्वाकारवरोपेता शून्यता? या न दानविकला। यावन्नोपायविकला। न महामैत्रीमुदितोपेक्षाविकला। न सत्यज्ञानावतारविकला। न बोधिचित्तसत्त्वापेक्षाविकला। नाशयाध्याशयप्रयोगविकला। न दानप्रियवद्यतार्थक्रियासमानार्थताविकला। न स्मृतिसंप्रजन्यविकला । न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धियादेन्द्रियबलोध्यङ्गाष्टाङ्गमार्गविकला। न शमथविपश्यनाविकला॥ पे॥ उपशान्ता च स्वभावेन। अनुपशान्ता च कर्मक्लेशेषु। उपेक्षिका च सर्वधर्माणाम्। अवेक्षिका च बुद्धधर्माणाम्। जहा च स्वलक्षणेन। विक्रान्ता चाधिष्ठानकार्यतया। अव्यापृता च स्वरसेन। सदा व्यापृता च बुद्धकार्येषु। शीतीभूता चोपशमेन। सदोज्जवलिता च सत्त्वपरिपाके। इयमुच्यते सर्वाकारवरोपेता शून्यता॥ यावदियं कुलपुत्र ध्यानपारमिता चर्यापरिशुद्धिरिति॥



एतेन प्रज्ञापरिशुद्धिर्वेदितव्या। एवं सर्वपुण्येष्विति॥

तथा आर्यविमलकीर्तिनिर्देशेऽप्युक्तम्- सद्धर्मचक्रप्रवर्तनमहापरिनिर्वाणसंदर्शनगोचरश्च बोधिसत्त्वचर्या अत्यजनगोचरश्च, अयमपि बोधिसत्त्वस्य गोचरः।इति॥



भोगपुण्यशुद्धिः पञ्चदशः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project