Digital Sanskrit Buddhist Canon

आत्मभावपरिशुद्धिपरिच्छेदश्चतुर्दशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Ātmabhāvapariśuddhiparicchedaścaturdaśaḥ
आत्मभावपरिशुद्धिपरिच्छेदश्चतुर्दशः।



उक्तानि स्मृत्युपस्थानानि। एवं योग्यचित्तो दशसु दिक्षु शेषस्य जगतो दुःखसागरोद्धरणाभिसंबोध्युपायो व्योमपर्यन्तत्रैकाल्यसर्वधर्मवशवर्तित्वायैव तु पुनः सर्वधर्मशून्यतामवतरेत्। एवं हि पुद्गलशून्यता सिद्धा भवति। ततश्च छिन्नमूलत्वात् क्लेशा न समुदाचरन्ति॥



यथोक्तमार्यतथागतगुह्यसूत्रे- तद्यथापि नाम शान्तमते वृक्षस्य मूलच्छिन्नस्य सर्वशाखापत्रपलाशाः शुष्यन्ति, एवमेव शान्तमते सत्कायदृष्टयुपशमात्सर्वक्लेशा उपशाम्यन्तीति॥



शून्यताभावनानुशंसास्त्वपर्यन्ताः॥ यथा तावच्चन्द्रप्रदीपसूत्रे-

सोऽसौ शिक्ष न जातु त्रसती[ ओषिरी?] सुगतानां

सोऽसौ शूरु न जातु इस्त्रिणां वशमेती।

सोऽसौ शासनि प्रीति विन्दते सुगतानां

योऽसौ धर्मस्वभाव जानती सुप्रशान्तम्॥

सोऽसौ नेह चिरेण भेष्य(ते) द्विपदेन्द्रः

सोऽसौ वैद्य भिषक् भेष्यते सुखदाता।

सोऽसौ उद्वरि शल्य सर्वशो दुखितानां

योऽसौ धर्मस्वभाव जानती सुप्रशान्तम्॥

सोऽसौ क्षान्तिबलेन उद्गतो नरचन्द्रः

सोऽसौ लोष्टकदण्डताडितो न कुप्यी।

सोऽसौ छिद्यति अङ्गमङ्गशो न च क्षुम्यो।

योऽसौ धर्मस्वभाव जानति सुप्रशान्तम्॥

नासौ दुर्गतिषू पतिष्यती अनुव्यञ्जन

नित्यं लक्षणधारि भेष्यती अभिरूपः।

पञ्चो तस्य अभिज्ञ भाविता इमि नित्यं

पुरतः सो सुगतान स्थास्यती स च शूरः॥ इत्यादि॥



भगवत्यामप्युक्तम्- पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन बुद्धकायं निष्पादयितुकामेन द्वात्रिंशन्महापुरुषलक्षणान्यशीतिं चानुव्यञ्जनानि प्रतिलब्धुकामेन सर्वत्र जातौ जातिस्मरतां बोधिचित्ताविप्रणाशतां बोधिसत्त्वचर्यासंप्रमोषतां प्रतिलब्धुकामेन सर्वपापमित्रपापसहायान् विवर्जयितुकामेन सर्वबुद्धबोधिसत्त्वकल्याणमित्राण्यारागयितुकामेन सर्वमारमारकायिकदेवता निर्जेतुकामेन सर्वावरणीयानि शोधयितुकामेन सर्वधर्मानावरणतां प्रतिलब्धुकामेन प्रज्ञापारमितायां शिक्षितव्यम्। पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन ये दशसु दिक्षु बुद्धा भगवन्तस्तिष्ठन्ति, ते मे वर्णं भावेरन् इति प्रज्ञापारमितायां शिक्षितव्यम्। पुनरपरं शारिपुत्र बोधिसत्त्वेन महासत्त्वेन एकचित्तोत्पादेन पूर्वस्यां दिशि गङ्गानदीवालुकोपमान् लोकधातून् समतिक्रामितुकामेन। पेयालं। एवं सर्वदिक्षु प्रज्ञापारमितायां शिक्षितव्यम्। इत्याद्यतिविस्तरः॥



तत्र यथा निरात्मानश्च सर्वधर्माः, कर्मफलसंबन्धाविरोधश्च निःस्वभावता च, यथादृष्टसर्वधर्माविरोधश्च, तथा पितृपुत्रसमागमे दर्शितम्- षड्धातुरयं महाराज पुरुषः षट्स्पर्शायतनः अष्टादशमन‍उपविचारः। षड्धातुरयं महाराज पुरुष इति न खलु पुनरेतद्युक्तम्-किं वैतत्प्रतीत्योक्तं षडिमे महाराज धातवः। कतमे षट्? तद्यथा पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुश्च, इमे महाराज षड्धातवः। यावत् षडिमानि महाराज स्पर्शायतनानि। कतमानि षट्? चक्षुः स्पर्शायतनं रूपाणां दर्शनाय। श्रोत्रं स्पर्शायतनं शब्दानां श्रवणाय। घ्राणं स्पर्शायतनं गन्धानामाघ्राणाय। जिह्वा स्पर्शायतनं रसानामास्वादनाय। कायः स्पर्शायतनं स्प्रष्टव्यानां स्पर्शनाय। मनः स्पर्शायतनं धर्माणां विज्ञानाय। इमानि च महाराज षट्स्पर्शायतनानि॥ पे॥ अष्टादशेमे महाराज मन‍उपविचाराः। कतमेऽष्टादश? इह पुरुषश्चक्षुषा रूपाणि दृष्ट्वा सौमनस्यदौर्मनस्योपेक्षास्थानीयान्युपविचरति। एवं श्रोत्रादिषु वाच्यम्। तेन प्रत्येकमिन्द्रियषट्केन सौमनस्यादित्रयाणां भेदा[द]ष्टादश मन‍उपविचारा भवन्ति। पेयालं। कतमश्च महाराज आध्यात्मिकः पृथिवीधातुः? यत्किंचिदस्मिन् कायेऽध्यात्मं कक्खटत्वं खरगतमुपात्तम्। तत्पुनः कतमत्? तद्यथा। केशा रोमाणि नखा दन्ता इत्यादि। अयमुच्यते आध्यात्मिकः पृथिवीधातुः॥ कतमश्च महाराज बाह्यः पृथिवीधातुः? यत्किंचिद् बाह्यं कक्खटत्वं खरगतमनुपात्तम्, अयमुच्यते बाह्यः पृथिवीधातुः। तत्र महाराज आध्यात्मिकः पृथिवीधतुरुत्पद्यमानो न कुतश्चिदागच्छति, निरुध्यमानो न क्कचित्संनिचयं गच्छति। भवति महाराज स समयो यत्स्त्री अध्यात्ममहं स्त्रीति कल्पयति। सा अध्यात्ममहं स्त्रीति कल्पयित्वा बहिर्धा पुरुषं पुरुष इति कल्पयति। सा बहिर्धा पुरुषं पुरुष इति कल्पयित्वा संरक्ता सती बहिर्धा पुरुषेण सार्धं संयोगमाकाङ्क्षते। पुरुषोऽप्यध्यात्मं पुरुषोऽस्मीति कल्पयतीति पूर्ववत्। तयोः संयोगाकाङ्क्षया संयोगो भवति। संयोगप्रत्ययात्कललं जायते। तत्र महाराज यश्च संकल्पो यश्च संकल्पयिता, उभयमेतन्न संविद्यते। स्त्रियां स्त्री न संविद्यते। पुरुषे पुरुषो न संविद्यते। इति ह्यसन्नसद्भूतः संकल्पो जातः। सोऽपि संकल्पः स्वभावेन न संविद्यते। यथा संकल्पस्तथा संयोगोऽपि। कललमपि स्वभावेन न संविद्यते। यश्च स्वभावतो न संविद्यते, तत्कथं कक्खटत्वं जनयिष्यति? इति हि महाराज संकल्पं ज्ञात्वा कक्खटत्वं वेदितव्यम्। [यथा] कक्खटत्वमुत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्कचित्संनिचयं गच्छतीति।

भवति महाराज समयो यदयं कायः श्मशानपर्यवसानो भवति। तस्य तत्कक्खटत्वं संक्लिद्यमानं निरुध्यमानं न पूर्वां दिशं गच्छति, न दक्षिणां न पश्चिमां नोत्तरां नोर्ध्वं नाधो न तु विदिशं गच्छति। एवं महाराज आध्यात्मिकः पृथिवीधातुर्द्रष्टव्यः। भवति महाराज स समयो यदाकाशीभूते लोकसंनिवेशे ब्राह्मं विमानं संतिष्ठते महारत्नमयम्। तन्महाराज कक्खटत्वमुत्पद्यमानं न कुतश्चिदागच्छति। चक्रवालमहाचक्रवालाः संतिष्ठन्ते दृढाः सारा एकघना वज्रमयाः। तेषामपि कक्खटत्वमुत्पद्यमानं न कुतश्चिदागच्छति। सुमेरवः पर्वतराजानो युगंधरा निर्मिधरा ईशाधारा यावत्कालपर्वताः संतिष्ठन्ते। सर्वश्च त्रिसाहस्त्रमहासाहस्त्रो लोकधातुः संतिष्ठते। चतुरशीतिर्योजनसहस्त्राण्युद्वेधेन, मध्ये चाष्टषष्टिं योजनशतसहस्त्रं महापृथिवी संतिष्ठते। तदपि महाराज कक्खटत्वं समुदागच्छत् न कुतश्चिदागच्छति। भवति महाराज स समयो यदा अयं लोकः संवर्तते। तदेयं महापृथिवी अग्निना वा दह्यते, अद्भिर्वा मिद्यते, वायुना वा विकीर्यते। तस्या अग्निना दह्यमानाया मषिरपि न प्रज्ञायते। तद्यथापि नाम सर्पिषो वा तैलस्य वा अग्निना दह्यमानस्य न मषिर्न छारिका प्रज्ञायते, एवमेव अस्यास्त्रिसाहस्त्रमहासाहस्त्राया लोकधातोरग्निना दह्यमानाया नैव मषिर्न छारिका अवशिष्टा प्रज्ञायते। एवमद्भिर्लवणविलयवद्वायुना वैरम्भवाताभिहतशकुन्तवत्पृथिव्यां न किंचिदवशिष्टं प्रज्ञायत इति पठयते। तत्र महाराज पृथिवीधतोरुत्पादोऽपि शून्यः, व्ययोऽपि शून्यः। उत्पन्नोऽपि पृथिवीधातुः स्वभावशून्यः। इति हि महाराज पृथिवीधातुः पृथिवीधातुत्वेन नोपलभ्यतेऽन्यत्र व्यवहारात्। सोऽपि व्यवहारो न स्त्री न पुरुषः। एवमेवैतन्महाराज यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्। तत्र कतमोऽब्धातुः? यदिदमस्मिन् कायेऽध्यात्मं प्रत्यात्ममापः अब्गतम्। अप्त्वं स्नेहः। स्नेहगतं स्नेहत्वं द्रव्यत्वमुपगतमुपात्तम्। तत्पुनः कतमत्? तद्यथा अश्रु स्वेदः खेटः सिङ्घाणकं वसा लसीका मज्जा मेदः पित्तं श्लेष्मा पूयः शोणितं क्षीरं प्रस्त्राव इत्यादि। अयमुच्यते आध्यात्मिकोऽब्धातुः। पेयालं। भवति महाराज स समयो यत्प्रियं दृष्ट्वा अश्रु प्रवर्तते। दुःखेन चाभ्याहतस्य धर्मसंवेगेन वा अश्रु प्रवर्तते। वातेन वा अक्षि प्रस्यन्दते। यावत्स महाराज अब्धातुर्न कुतश्चिदागच्छति । भवति महाराज स समयो यदाध्यात्मिकोऽब्धातुः परिशुष्यति। स परिशुष्यन्निरुध्यमानो न क्कचिद्गच्छति। पे। विवर्तमाने खलु पुनर्लोके समन्ताद् द्वात्रिंशत्पटला अभ्रघनाः संतिष्ठन्ते। संस्थाय सर्वावन्तः त्रिसाहस्त्रमहासाहस्त्रं लोकधातुं छादयन्ति। यतः पञ्चान्तरकल्पानीषाधारो देवो वर्षति। एवं पञ्चगजप्रमेहो देवो वर्षति। पञ्च अच्छिन्नधारः। पञ्च स्थूलबिन्दुकः। तत इयं महापृथिवी यावद् ब्रह्मलोकादुदकेन स्फुटा भवति। स महाराज तावान् महानब्धातुरुत्पद्यमानो न कुतश्चिदागच्छति। भवति महाराज स समयो यदयं लोकः संवर्तते। संवर्तमाने खलु पुनर्लोके द्वितीयस्य सूर्यस्य प्रादुर्भावो भवति। द्वितीयस्य सूर्यस्य लोके प्रादुर्भावादुत्साः सरांसि कुनद्यश्च शुष्यन्ति। एवं तृतीयस्य। महोत्सा महानद्यः। चतुर्थस्यानवतप्तं महासरः सर्वेण सर्वमुच्छुष्यति। चतुर्थस्य सूर्यस्य प्रादुर्भावान्महासमुद्रस्य योजनिकमप्युदकं परिक्षयं पर्यादानं गच्छति। द्वियोजनिकमपि त्रिचतुःपञ्चदशविंशतित्रिंशच्चत्वारिंशत्पञ्चाशद्योजनिकमपि यावच्चत्वारिंशद्योजनसहस्त्रमुदकमवशिष्टं भवति। यावद् द्वितालमात्रम् यावत्कण्ठमात्रम् यावद्गोष्पदमात्रमुदकमवशिष्टं भवतिं। भवति महाराज स समयो यन्महासमुद्रे पृथितपृथितान्यवशिष्ठानि भवन्ति। पेयालं। भवति महाराज स समयो यन्महासमुद्रेऽङ्गुलिस्नेहमात्रमप्युदकं नावशिष्टं भवति। स महाराज तावानब्धातुर्निरुध्यमानो न क्कचिद्गच्छति। पे। तस्य खलु पुनर्महाराज अब्धातोरुत्पादोऽपि शून्यः, व्ययोऽपि शून्यः। तिष्ठन्नपि सोऽब्धातुः स्वभावशून्यः। इति हि महाराज अब्धातुरब्धातुत्वेनोपलभ्यतेऽन्यत्र व्यवहारमात्रात्। सोऽपि व्यवहारो न स्त्री न पुरुषः। पूर्ववत्॥ पे॥ आध्यात्मिकस्तेजोधातुः कतमः? यत्किंचिदस्मिन् काये तेजस्तेजोगतमूष्मगतमुपगतमुपात्तम्। तत्पुनः कतमत्? येनायं काय आतप्यते संतप्यते। येन वा अस्याशितपीतखादितानि सम्यक्सुखेन परिपाकं गच्छति। यस्य चोत्सदत्वाज्जवरितो ज्वरित इति संख्यां गच्छति। पेयालं बाह्यस्तेजोधातुः कतमः? यद्बाह्यं तेजस्तेजोगतमूष्मगतमुपगतमुपात्तम्। तत्पुनः कतमत्? यन्मनुष्या अरणीसहगतेभ्यो गर्भलसहगतेभ्यो वा गोमयचूर्णेन वा कांर्पासपिचुना व समन्वेषन्ते। यदुत्पन्नं ग्राममपि दहति, ग्रामप्रदेशमपि दहति, यावद् द्वीपं वा कक्षं तृणानां वा दावं वा काष्ठं वा यावद्दहन् परैतीत्यादि। तत्र महाराज आध्यात्मिकस्तेजोधातुरुत्पद्यते, न कुतश्चिदागच्छति, निरुध्यमानो न क्कचित्संनिचयं गच्छति। इति ह्यभूत्वा भवति, भूत्वा च प्रतिविगच्छति स्वभावरहितत्वात्॥ पे॥ एवं यत्किंचिदस्मिन् काये वायुर्वायुगतं लघुत्वं समुदीरणत्वम्। तत्पुनः कतमत्? तद्यथा ऊर्ध्वगमा वायवोऽधोगमाः पार्श्वाश्रयाः पृष्ठाश्रयाः कुक्षिगमाः शस्त्रकाः क्षुरकाः सूचकाः पिप्पलका वाताष्ठीला वातगुल्मा आश्वासप्रश्वासा अङ्गानुसारिणो वायव इत्यादि। सन्ति बहिर्धा पूर्वे वायवो दक्षिणाः पश्चिमा उत्तरा वायवः, सरजसः अरजसः, परीत्ता महद्गता वायव इति। भवति महाराज स समयो यन्महान् वायुस्कन्धः समुदागतः वृक्षाग्रानपि पातयति। कुडयानपि पर्वताग्रानपि पातयति। पातयित्वा निरुपादानो विगच्छति। यं सत्त्वाश्चीवरकर्णिकेन वा विधमनकेन वातानुवृत्तने वा पर्येषन्ते। यावदयमुच्यते बाह्यो वायुधातुः। तस्याप्युत्पत्तिः पूर्ववत्॥ पे॥ आध्यात्मिक आकाशधातुः कतमः? यत्किंचिदस्मिन् कायेऽध्यात्मं प्रत्यात्ममुपगतमुपात्तमाकाशगतमिहाभ्यन्तरसंख्याभूतम्, अस्फुटमस्फरणीयं त्वड्यासशोणितेन। तत्पुनः कतमत्? यदस्मिन् काये चक्षुः सुषिरमिति वा यावन्मुखं वा मुखद्वारं वा कण्ठं वा कण्ठनाडयो वा। येन चाभ्यवहरति यत्र चावतिष्ठते, येन चास्य अशितपीतखादितास्वादितमधस्तात्प्रघरति, अयमुच्यत आध्यात्मिक आकाशधातुः। एवं बाह्येऽपि यदस्फुटमस्फरणीयं रूपगतेनापलिगुद्धं सुषिरभावश्छिद्रम्। अयमुच्यते बाह्यः आकाशधातुः॥ भवति महाराज स समयो यत्कर्मप्रत्ययादायतनानि प्रादुर्भवन्ति, तान्याकाशधातुं परिचारयन्ति। तत्र संख्या भवत्याध्यात्मिक आकाशधातुरिति। स न कुतश्चिदागच्छति। भवति समयो यद्रूपं बिभर्ति, सर्वमाकाशीभवति। तत्कस्य हेतोः? अक्षयो ह्याकाशधातुः स्थिरोऽचलः। तद्यथा महाराज असंस्कृतो निर्वाणधातुः, एवमेवाकाशधातुः सर्वत्रानुगतो द्रष्टव्यः। तद्यथापि नाम महाराज पुरुष उत्थले देशे उदपानं वा कुटकं वा कूपं वा पुष्करिणीं वा खानयेत्। तत्किं मन्यसे महाराज यत्तत्राकाशः, कुतस्तदागतमिति? आह- न कुतश्चिद्भगवन्। भगवानाह- तद्यथापि नाम महाराज स पुरुषः पुनरेव तदुदपानं वा यावत्पुष्करिणीं वा पूरयेत्, तत्किं मन्यसे महाराज यत्तदाकाशं क्कचिद्गतमिति ? आह- न क्कचिद्गतं भगवन्। तत्कस्य हेतोः? न ह्यकाशधातुर्गमने वा आगमने वा प्रत्युपस्थितः। न स्त्रीभावेन न पुरुषभावेन प्रत्युपस्थितः। भगवानाह- इति हि महाराज बाह्याकाशधातुरचलः अविकारः। तत्कस्य हेतोः? शून्यो ह्याकाशधातुराकाशधातुत्वेन। विरहित आकाशधातुराकाशधातुत्वेन। न पुरुषभावेन न स्त्रीभावेन प्रत्युपस्थितः। एवमेव यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्॥ तत्र कतमो विज्ञानधातुः ? या चक्षुरिन्द्रियाधिपतेया रूपारम्बणप्रतिविज्ञप्तिः। यावदिति हि महाराज या काचिद्वर्णसंस्थानप्रतिविज्ञप्तिः, अयमुच्यते चक्षुर्विज्ञानधातुः। पे। इति हि या षडिन्द्रियाधिपतेया षड्विषयारम्बणा विषयविज्ञप्तिः, अयमुच्यते विज्ञानधातु। स खलु पुनरयं महाराज विज्ञानधातुर्नेन्द्रियनिश्रितो न विषयेभ्य आगतो न मध्येऽन्तरस्थायी। स नाध्यात्मं बहिर्धा नोभयमन्तरेण। स खलु पुनरयं महाराज विज्ञानधातुर्वस्तु प्रतिविज्ञप्य निरुद्धः। स उत्पद्यमानो न कुतश्चिदागच्छति, निरुध्यमानो न क्कचिद्गच्छति। तस्य खलु पुनर्विज्ञानधातोरुत्पादोऽपि शून्यः, व्ययोऽपि शून्यः, उत्पन्नोऽपि विज्ञानधातुः स्वभावशून्यः। इति महाराज विज्ञानधातुर्विज्ञानधातुत्वेन शून्यो नोपलभ्यतेऽन्यत्र व्यवहारात्। सोऽपि व्यवहारो न स्त्री न पुरुषः । एवमेतद्यथाभूतं स्म्यक्प्रज्ञया द्रष्टव्यम्॥ तत्र महाराज कतमच्चक्षुरायतनम्? यच्चतुर्णा महाभूतानां प्रसादः। तद्यथा- पृथिवीधातोरब्धातोस्तेजोधातोर्वायुधातोर्यावत्। तत्र न पृथिवीधातुप्रसादश्चक्षुरायतनम्। नाब्धातुप्रसादः , न तेजोधातुप्रसादः, न वायुधातुप्रसादश्चक्षुरायतनम्। तत्कस्य हेतोः? न हि पृथिवीधातुप्रसादः कस्यचिद्धर्मायतनं वा आयतनप्रतिलम्भेन वा प्रत्युपस्थितः। एवं यावन्न वायुधातुप्रसादः कस्यचिद्धर्मस्यायतनं वा आयतनप्रतिलम्भेन वा प्रत्युपस्थितः। तत्कस्य हेतोः? निश्चेष्टा ह्येते धर्मा निष्ठापारा निर्वाणसमाः। इति हि महाराज एकैकतो धर्मान् मृग्यमाणान् चक्षुरायतनं नोपलभ्यतेऽन्यत्र व्यवहारात्। तत्कस्य हेतोः? शून्यो हि पृथिवीधातुप्रसादः पृथिवीधातुप्रसादेन। यावच्छून्यो वायुधातुप्रसादो वायुधातुप्रासादेन। ये च धर्माः स्वभावेन शून्याः, कस्तेषां प्रसादो वा क्षोमो वा? येषां न प्रसादो न क्षोभ उपलभ्यते, कथं ते रूपं द्रक्ष्यन्ति? इति ह्यत्यन्ततया चक्षुरायतनं शून्यं चक्षुरायतनस्वभावेन। तत्पूर्वान्ततो नोपलभ्यते, अपरान्ततोऽपि नोपलभ्यते अनागमनतां गमनतां चोपादाय। स्थानमप्यस्य नोपलभ्यते स्वभावविरहितत्वात्। यच्च स्वभावेन न संविद्यते, न तत् स्त्री न पुरुषः। तेन का मन्यना? मन्यना च नाम महाराज मारगोचरः। अमन्यना बुद्धगोचरः।तत्कस्य हेतोः? मन्यनापगता हि सर्वधर्माः। पेयालं। तत्र महाराज कतमच्छ्रोत्रायतनम्? यच्चतुर्णां महाभूतानां प्रसादः। यावदिति हि महाराज सर्वधर्मा विमोक्षाभिमुखा धर्मधातुनियता आकाशधातुपर्यवसाना अप्राप्तिका अव्यवहारा अनभिलाप्या अनभिलापनीयाः। यत्र महाराज इन्द्रियाणि प्रतिहन्यन्ते, ते विषया इत्युच्यन्ते। चक्षुर्हि रूपे प्रतिहन्यते, तस्माद्रूपाणि चक्षुर्विषया इत्युच्यन्ते। एवं श्रोत्रं शब्देष्वित्यादि। तत्र चक्षू रूपे प्रतिहन्यत इति निपातः प्रतिहन्यना तेषां निर्दिष्टा। तथा हि चक्षू रूपेषु त्रिविधं निपततीति अनुकूलेषु शुभसंज्ञया, प्रतिकुलेषु प्रतिघसंज्ञया, नैवानुकूलेषु न प्रतिकूलेषूपेक्षया। एवं मनोधर्मेष्वित्यादि। त इमे विषय मनोगोचरा इत्युच्यत्ने। अत्र हि मनश्चरति, उपविचरति, तस्मान्मनोगोचरा इत्युच्यन्ते। यदेतन्महाराज मनोप्रतिकूलेषु रूपेष्वनुनीतं चरति, तेनास्य राग उत्पद्यते। प्रतिकूलेषु रूपेषु प्रतिहतं चरति, तेनास्य द्वेष उत्पद्यते। नैवानुकूलेषु न प्रतिकूलेषु संमूढं चरति, तेनास्य मोह उत्पद्यते। एवं शब्दादिष्वपि त्रिविधमारम्बणमनुभवति पूर्ववत्॥ तत्र महाराज मायोपमानीन्द्रियाणि, स्वप्नोपमा विषयः। तद्यथापि नाम महाराज पुरुषः सुप्तः स्वप्रान्तरे जन पदकल्याण्या स्त्रिया सार्ध परिचरेत्। स शयितविवुद्धो जनपदकल्याणीं स्त्रियमनुस्मरेत्। तत्किं मन्यसे महाराज संविद्यते स्वप्रान्तरे जनपदकल्याणी स्त्री ? आह - नो हीदं भगवन्। भगवानाह- तत्किं मन्यसे महाराज अपि नु स पुरुषः पण्डितजातीयो भवेत्, यः स्वप्रान्तरे जनपदकल्याणीं स्त्रियमनुस्मरेत्, तया वा सार्ध क्रीडितमभिनिवेशेत्? आह- नो हीदं भगवन्। तत्कस्य हेतोः? अत्यन्ततया हि भगवन् स्वप्नान्तरे जनपदकल्याणी न संविद्यते नोपलभ्यते, कुतः पुनरनया सार्धं परिचरणा? अन्यत्र यावदेव स पुरुषो विघातस्य क्लमथस्य भागी स्यात् यस्तामभिनिविशेत्। भगवानाह- एवमेव महाराज बालोऽश्रुतवान् पृथग्जनश्चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशेत्। सोऽभिनिविष्टः सन्ननुनीयते। अनुनीतः संरज्यते संरक्तो रागजं कर्माभिसंस्करोति - त्रिविधं कायेन, चतुर्विधं वाचा, त्रिविधं मनसा। तच्च कर्म अभिसंस्कृतमादित एव क्षीणं निरुद्धं विगतं विपरिणतं न पूर्वा दिशं निश्रित्य तिष्ठति, न दक्षिणां न पश्चिमां नोत्तरां नोर्ध्वं नाधो नानुविदिशं नेह न तिर्यक्, नोभयमन्तरा। तत्पुनः कालान्तरेण मरणकालसमये प्रत्युपस्थिते जीवितेन्द्रियनिरोधे आयुषः परिक्षयात्तत्सभागस्य कर्मणः क्षीणत्वाच्चरमविज्ञानस्य निरुध्यमानस्य मनस आरम्बणीभवति। तद्यथापि नाम शयितविबुद्धस्य जनपदकल्याणीति [ मनस आरम्बणं भवति। इति ] हि महाराज चरमविज्ञानेनाधिपतिना तेन च कर्मणा आरम्बणेन औपपत्त्यंशिकद्धयप्रत्ययं प्रथमविज्ञानमुत्पद्यते। यदि वा नरकेषु, यदि वा तिर्यग्योनौ, यदि वा यमलोके, यदि वा आसुरे काये, यदि वा मनुष्येषु , यदि वा देवेषु। तस्य च प्रथमविज्ञानस्य औपपत्त्यंशिकस्य समनन्तरनिरुद्धस्य अनन्तरसभागा चित्तसंततिः प्रवर्तते, यत्र विपाकस्य प्रतिसंवेदना प्रज्ञायते। तत्र यश्चरमविज्ञानस्य निरोधस्तत्र च्युतिरिति संख्यां गच्छति। यः प्रथम विज्ञानस्य प्रादुर्भावस्तत्रोपपत्तिः। इति हि महाराज न काश्चिद्धर्मोऽस्माल्लोकात्परं लोकं गच्छति, च्युत्युपपत्ती च प्रजायेते। तत्र महाराज चरमविज्ञानमुत्पद्यमानं न कुतश्चिदागच्चति, निरुध्यमानं न क्कचिद्गच्चति। कर्माप्युत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्कच्चिद्गच्छति। प्रथमविज्ञानमप्युत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं च न क्कचिद्गच्छति। तत्कस्य हेतोः? स्वभावविरहितत्वात्। चरमविज्ञानं चरमविज्ञानेन शून्यम्। कर्म कर्मणा शून्यम्। प्रथमविज्ञानं प्रथमविज्ञानेन शून्यम्। च्युतिश्च्युत्या शून्या। उपपत्तिरुपपत्त्या शून्या। कर्मणां चावन्ध्यता प्रज्ञायते, विपाकस्य च प्रतिसंवेदना। न चात्र कश्चित्कर्ता न भोक्ताऽन्यत्र नामसंकेतात्। तद्यथापि नाम महाराज पुरुषः सुप्तः स्वप्नान्तरे शत्रुणा सार्धं संग्रामयेत्। स शयितविबुद्धः तमेवानुस्मरेत्। तत्किं मन्यसे महाराज संविद्यते स्वप्नान्तरे शत्रुः, शत्रुणा वा सार्धं संग्राम इति। आह- नो हीदं भगवन्। भगवानाह- तत्किं मन्यसे महाराज अपि नु स पुरुषः पण्डितजातीयो भवेत् योऽसौ स्वप्नान्तरे शत्रुमभिनिविशेत्, शत्रुणा वा सार्धं संग्रामम्? आह - नो हीदं भगवन्। तत्कस्य हेतोः? अत्यन्ततया हि भगवन् स्वप्ने शत्रुर्न संविद्यते, कुतः पुनस्तेन सार्धं संग्रामः? अन्यत्र यावदेव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात् यस्तमभिनिविशेत्। भगवानाह-एवमेव महाराज बालोऽश्रुतवान् पृथग्जनश्चक्षुषा रूपाणि दृष्ट्वा दौर्मनस्यस्थानीयान्यभिनिविशते। अभिनिविष्टः सन् प्रतिहन्यते। प्रतिहतः संदुष्यति। दुष्टो दोषजं कर्माभिसंस्करोतीति पूर्ववत्। तद्यथापि नाम महाराज पुरुषः सुप्तः स्वप्नान्तरे पिशाचेन परिपात्यमानो भीतः संमोहमापद्यते। स शयितविबुद्धस्तं पिशाचं तं च संमोहमनुस्मरेत्। तत्किं मन्यसे महाराज संविद्यन्ते स्वप्ने पिशाचः संमोहो वा? यावदेवमेव महाराज बालोऽश्रुतवान् पृथग्जनश्चक्षुषा रूपाणि दृष्ट्वा उपेक्षास्थानीयान्यभिनिविशते, अभिनिविष्टः सन् मुह्यति, मूढो मोहजं कर्मभिसंस्करोतीति पूर्ववत्। तद्यथापि नाम महाराज पुरुषः सुप्तः स्वप्नान्तरे जनपदकल्याण्या गायन्त्या मधुरं गीतस्वरं मधुरं च तन्त्रीस्वरं च शृणुयात्। स तेन गीतवादितेन परिचारयेत्। स शयितविबुद्धस्तदेव गीतवादितमनुस्मरेत्। तत्किं मन्यसे महाराज अपि नु स पुरुषः पण्डितजातीयः स्वप्नान्तरे जनपदकल्याण्या गीतवादितभिनिविशेत्? आह- नो हीदं भगवन्। भगवानाह- तत्कस्य हेतोः? अत्यन्ततया हि भगवन् स्वप्नान्तरे जनपदकल्याणी स्त्री न संविद्यते, नोपलभ्यते, कुतः पुनरस्या गीतवादितम्? अन्यत्र यावदेव स पुरुषो विघातस्य क्लमथस्य च भागी स्यात्, यस्तदभिनिविशेत्। भगवानाह एवमेव महाराज बालोऽश्रुतवान् पृथग्जनः श्रोत्रेण शब्दान् श्रुत्वा सौमनस्यस्थानीयान्यभिनिविशते। इति पूर्ववत्। एवं गन्धादिषु त्रिधा त्रिधा वेदितव्यम्। पेयालं। अत्र महाराज मानसं निर्वेशयितव्यम् किमित्यहं सदेवकस्य लोकस्य चक्षुर्भवेयम्, उल्का प्रदीप आलोकभूतः। कूलं नौस्तीर्थम् नायकः परिणायकः दैशिकः सार्थवाहः। पुरो जवेयम्। मुक्तो मोचयेयम्, आश्वस्त आश्वासयेयम्, परिनिर्वृतः परिनिर्वापयेयमिति। पूर्वा हि कोटिर्महाराज न प्रज्ञायते ऐश्वर्याधिपत्यानामनुभूयमानानाम्। इति हि महाराज मायोपमानीन्द्रियाण्यतृप्तान्यतर्षणीयानि। स्वप्नोपमा विषया अतर्षका अतृप्तिकराः॥ अत्र अनन्तयशश्चक्रवर्तिनः कथा - स्वर्गाच्च पतिते तस्मिन् सराजकैः पौरैः परिवृत एवं पठयते। तद्यथापि नाम महाराज सर्पिर्मण्डो वा नवनीतमण्डो वा तप्तायां बालुकायामुपनिक्षिप्तोऽवसीदति, न संतिष्ठते, एवमेव महाराज अनन्तयशा अवसीदति न संतिष्ठते। अथ राजा प्रियंकरो राजानमनन्तयशसं तथावसीदन्तमुपसंक्रम्यैतदवोचत्- किं वयं महाराज लोकस्य व्याकुर्यामः? किं राज्ञोऽनन्तयशसः सुभाषितमिति? स आह- वक्तव्यं महाराज अनन्तयशाश्चतुर्द्वीपेषु राज्यैश्वर्यं कारयित्वा वन्ध्यमनोरथतामनुभूय सर्वद्रुमाकालफलतां सर्वोपद्रवप्रस्त्रब्धिसर्वसत्त्वावन्ध्यमनोरथतां गन्धोदकवर्षं हिरण्यवर्षं सुवर्णवर्षं सर्वोपकरणवर्षं चानुभूय चतुरो महाद्वीपानध्यावसित्वा शक्रस्यार्धासनमाक्रम्य अतीच्छया न मुक्तः, अतृप्त एव कामैः कालगत इति। एवं त्वं महाराज व्याकुर्याः। इत्येवमुक्त्वा च राजा अनन्तयशाः कालमकार्षीत्। पे। तस्मात्तर्हि ते महाराज मरीचिकायामुदकस्वभावो नाभुन्न भविष्यति न चैतर्हि विद्यते। एवमेव महाराज रूपवेदनासंज्ञासंस्कारविज्ञानानां स्वभावो नाभून्न भविष्यति, न चैतर्हि विद्यत इत्यादि॥



पुनरप्युक्तम्- एतावच्चैतत् ज्ञेयम् यदुत संवृतिः परमार्थश्च। तच्च भगवता शून्यतः सुदृष्टं सुविदितं सुसाक्षात्कृतम्। तेन स सर्वजञ इत्युच्यते। तत्र संवृतिर्लोकप्रचारतस्तथागतेन दृष्टा। यः पुनः परमार्थः, सोऽनभिलाप्यः अनाज्ञेयोऽविज्ञेयोऽदेशितोऽप्रकाशितो यावदक्रियो यावन्न लाभो नालाभो न सुखं न दुःखं न यशो नायशः, न रूपं नारूपनित्यादि॥

तत्र जिनेन जगस्य कृतेन

संवृति देशित लोकहिताय।

येन जगत्सुगतस्य सकाशे

संजनयीह प्रसादसुखार्थे॥

संवृति प्रज्ञपयी नरसिंहः

षड्गतयो भणि सत्त्वगणानाम्।

नरकतिरश्च तथैव[ च ] प्रेतान्

अ [।] सुरकाय नरांश्च मरूंश्च॥

नीचकुलांस्तथ उच्चकुलांश्च

आढयकुलांश्च दरिद्रकुलांश्च॥ इत्यादि॥



पुनश्चोक्तम्-कतम एष धर्मो यो भगवता व्याकृतोऽनुत्तरायां सम्यक्संबोधौ? किं रूपमुत वेदना आहोस्वित्संज्ञा उताहो संस्काराः अथ विज्ञानं भगवता व्याकृतमनुत्तरायां सम्यक्संबोधाविति। तेषामेतदभूत्- न रूपं यावन्न विज्ञानं भगवता व्याकृतमनुत्तरायां सम्यक्संबोधौ। तत्कस्य हेतोः? अनुत्पदो हि रूपम्, अनुत्पादो बोधिः। तत्कथमनुत्पादोऽनुत्पादमभिसंबुध्यते? एवं यावद्विज्ञानम्॥ पे॥ तदेवमनुपलभ्यमानेषु सर्वधर्मेषु कतमोऽत्र बुद्धः? कतमा बोधिः? कतमो बोधिसत्वः? कतमद् व्याकरणम्? शून्यं हि रूपं रूपेण यावद्विज्ञानम्॥ पे॥ यावदेव व्यवहारमात्रमेतत्, नामधेयमात्रं संकेतमात्रं संवृतिमात्रं प्रज्ञप्तिमात्रम्। नालमत्र पण्डितैरभिनिवेश उत्पादयितव्यः। इति॥



तथा अत्रैवाहुर्निर्माणरतयोः- देवा यथा वयं भगवन् भगवतो भाषितस्यार्थमाजानीमः, सर्वधर्मा भूतकोटिरन्तकोटिरनावरणकोटीरप्रतिष्ठितकोटिरित्यादि॥ सर्वधर्मा भगवन् बोधिस्वभावविरहिता बोद्धव्याः। अन्तश आनन्तर्याण्यपि बोधिः॥ तत्कस्य हेतोः? अप्रकृतिका हि भगवन् बोधिः, अप्रकृतिकानि च पञ्चानन्तर्याणि। तेनोच्यते आनन्तर्याणि बोधिरिति। तथा विहास्यन्ते भगवन् ये केचित् परिनिर्वातुकामाः। तत्कस्य हेतोः? यदि कश्चित्संसारप्रतिपन्नो भवेत्, स निर्वाणं पर्येषत इति॥



पुनरुक्तम्- भूतकोटिरिति भगवन् यदुक्त निर्माणरतिभिर्देवैस्तत्र वयं भूतमपि नोपलभामहे, किं पुनरस्य कोटिम्। तत्कस्य हेतोः? यो हि कश्चिद्भगवन् भूतमुपलभते, कोटिमपि स तस्योपलभते, द्वये चासौ चरतीति॥

तथा अत्रैव सहांपतिब्रह्मणा शास्ता स्तुतः-



सुपिति यथ नरः क्षुधाभिभूतः शतरसभोजनभुञ्जिनो च तृप्तः।

न पि च क्षुध न भोजनं न सत्त्वः सुपिन यथैव निदृष्ट सर्वधर्माः॥

भणि नरु पठने मनोज्ञवाचं प्रियु भवती न च संक्रमोऽस्ति वाचम्।

न च वचन न चास्य रक्त वाचामुपलभसे न च तत्र संशयोऽस्ति॥

श्रुणति यथ मनोज्ञ वीणशब्दं मधुर न चास्ति स्वभावतः स शब्दः।

तथ इमि विदु स्कन्ध प्रेक्षमाणो न लभति भावु स्वभावतः सुमेधाः॥ पे॥

यथ नरु इह शङ्खशब्द श्रुत्वा विमृशति विद्व कुतो य प्रादुर्भूतः।

न च लभति स्वभाव शून्यभावं तथ त्वय दृष्ट नरेन्द्र सर्वधर्माः॥

यथ नरु इह भोजनं प्रणीतं विमृशति अङ्गशु सिद्धमस्वभावम्।

यथ रसु तथ तेऽङ्ग तत्स्वभावास्तथ त्वय दृष्ट महर्षि सर्वधर्माः॥

यथ नरु इह इन्द्रयष्टि दृष्ट्वा विमृशति अङ्गशु निःस्वभाव शून्यम्।

विमृशतु यथ यष्टि तेऽङ्ग शून्यास्तथ त्वय दृष्ट महर्षि सर्वधर्माः॥

पुरवर यथ अङ्गशो विभज्य नगरु स्वभावतु नामतो न लब्धम्।

यथ नगर तथाङ्ग सर्वशून्यास्तथ त्वय दृष्ट नरेन्द्र सर्वधर्माः॥

मुदित यथ न रागमुक्त भेरी हर्ष जनेति स्वभावशून्यशब्दा।

स्वरु य[थ] तथ तेऽङ्ग तत्स्वभावं तथ त्वय दृष्ट महर्षि सर्वधर्माः॥

हनतु यथ नरस्य तां हि भेरीं प्रतिघु न विद्यति नापि स्नेहधातुः॥



विमृशतु भेरीव तेऽङ्ग तत्स्वभावाः तथ त्वय दृष्ट नरेन्द्र सर्वधर्माः।

हनतु यथ नरस्य तां हि भेरीं स्वरु न स मन्यति रामयामि लोकम्।

स्वरु यथ तथ तेऽङ्ग तत्स्वभावाः तथ त्वय दृष्ट नरेन्द्र सर्वधर्माः॥

हनतु यथ नरस्य तस्य भेर्यां न पि स्वरु अङ्गशु नापि स स्वतन्त्रः।

स्वरु यथ तथ तेऽङ्ग तत्स्वभावास्तथ त्वय दृष्ट महर्षि सर्वधर्माः॥



पुनश्चोक्तम्-



सत्त्वारम्बण नायकेन कथिता मैत्री शुभा भावना

सत्त्वश्चास्य विभावितः सुविदितं निःसत्त्व सर्वं जगत्।

तत्रैवं द्विपदोत्तमो अकलुषो निःसंशयामानसः

तेन त्वा सुगतं विभावितमर्ति पूजेम पूजारिहम्॥

दुःखं चासुगता दशद्दिशिगतं नैवं परीदृश्यते

सत्त्वेषू करुणा च नाम भणिता देवातिदेव त्वया।

एवं भो जिनपुंगवा जिनमतं आज्ञात याथावतः

तेन त्वांद्विपदोत्तमा नरवरा पूजेम पुजारिहम्॥।

सत्त्वा नैव न दुःख शाक्यमुनिना यस्यापनीतं दुखं

जातास्ते मुदिताश्च हृष्टमनसोऽरतीश्च तैर्नोदिताः।

एवं बुद्धनयं अचिन्तियनयं याथावतो जानतो

[तस्मात्] पूजिय त्वां नराण प्रवरं प्रायेम प्राप्तं फलम्॥

कायः कायविवर्जितेन मुनिना नासादितो मार्गतां

नैवं ते स्मृतिनायका न भणिता नव प्रमुष्टा स्मृतिः।

उक्तं चो सुगतेन भावपथिमाः कायं गता भावनाः

एवं बुद्धनयं विदित्व सुगता पूजा कृता तायिनः॥

भावेथा शमथं विपश्यनमयं मार्गं दुखाशान्तये

शान्तास्ते भगवन् सवासनमला येही जगत् क्लिश्यते।

शमथश्चाथ विपश्यना न च मला सर्वे ति शून्या मुने

अस्मिन् देवगणा न काङ्क्ष क्कचना पूजेन्तु त्वां नायकम्॥ इत्यादि॥



पुनरुक्तम्- शून्यं हि चक्षुश्चक्षुःस्वभावेन। यस्य च धर्मस्य स्वभावो न विद्यते, सोऽवस्तुकः। योऽवस्तुकः, सोऽपरिनिष्पन्नः। योऽपरिनिष्पन्नः, स नोत्पद्यते न निरुध्यते॥ पे॥ यत् त्रिष्वप्यध्वसु नोपलभ्यते, न तच्चक्षुर्नेन्द्रियम्। कथं तस्य व्यवहारो ज्ञेयः? तद्यथापि नाम रिक्तमुष्टिरलीकः, यावदेव नाममात्रम्, नो तु खलु परमार्थतो रिक्तमुपलभ्यते न मुष्टिः। एवं चक्षुश्चेन्द्रियं च रिक्तमुष्टिसदृशमलीकमसद्भूतं तुच्छं मुषा मोषधर्म बालोपलापनं मूर्खसंमोहनम्, यावदेव नाममात्रम्॥



पुनरत्रैवाह-



स्वप्नान्तरे महावृष्टिरास्त्रवाणां प्रवर्तना।

दर्शिता ते महावीर आस्त्रवोत्पत्ति पण्डिता॥

स्वप्ने यथा शिरच्छेदो दृष्टस्ते आस्त्रवक्षयः।

दर्शितः सर्वविज्ञानां सर्वदर्शिन्नमोऽस्तु ते।



अत्रैव च द्रुमेण किन्नरराजेन भगवान् पृष्टः प्रत्याह- यद्वदसि शून्यतां च व्याकरणं चाप्यहं न जानामि। स्याद्यदि किंचिदशून्यम्, न भवेज्जिनेनास्य व्याकरणम्। किं कारणम्? तथा हि- स्थितं भवेत्तत्स्वके भावे, कूटस्थनिर्विकारम्। न तस्य वृद्धिर्न परिहाणिः। न क्रिया न च कारणम्। यत्स्वभावशून्यमादर्शमण्डले सुपरिशुद्धे संदृश्यते प्रतिबिम्बम्, तथैव द्रुम जानीहि इमान् धर्मान्। अविकारं धर्मधातुम्। इमां च पूजां द्रुम अ[ ङ्गशो] विचारयसि। अङ्गशो निरीक्ष्य पूजाम्। कतमेऽविकारिणोऽङ्गाः?



यदपि च निरीहकत्वं क्रियां च न जानसे मया प्रोक्तम्।

शकटाङ्गसंनिपातं निरीक्ष्व शकटस्य चैव क्रियाम्॥

कर्म च मे आख्यातं कर्ता न विद्यते दशसु दिक्षु।

वातेरितादिव तरोर्यथा हि न निवर्तते वह्निः॥

न च मारुतो न च तरुश्चेतयति हुताशनं च यजने।

न निवर्तते वह्निस्तथैव कर्मस्य कर्तारः॥

यदपि वदसे- न च संचयः पुण्यस्य हि विद्यते, सुचरितस्य समुदागमश्च। बोधिस्तस्यापि शृणु क्रमन्त त्वम्। यथा भणसि मनुष्याणामायुः परिमाणं वर्षशतं जीविन्। न चास्ति वर्षपुञ्जी। अयमपि समुदागमस्तद्वदिति॥



भगवत्यामप्युक्तम्- किं पुनरायुष्मन् सुभूते उत्पन्नो धर्म उत्पद्यते उतानुत्पन्नः? सुभूतिराह- नाहमायुष्मन् शारिपुत्र उत्पन्नस्य धर्मस्योत्पत्तिमिच्छामि, न चानुत्पन्नस्येति॥



धर्मसंगीत्यामप्युक्तम्- तथता तथतेति कुलपुत्र शून्यताया एतदधिवचनम्। सा च शून्यता नोत्पद्यते न निरुध्यते। आह- यद्येवं धर्माः शून्या उक्ता भगवता, तस्मात्सर्वधर्मा नोत्पत्स्यन्ते न निरोत्स्यन्ते। निरारम्भो बोधिसत्त्वः। आह- एवमेव कुलपुत्र तथा यथा अमिसंबुध्यसे- सर्वधर्मा नोत्पद्यन्ते न निरुध्यन्ते। आह- यदेतदुक्तं भगवता- संस्कृता धर्मा उत्पद्यन्ते निरुध्यन्ते च , इत्यस्य तथागतभाषितस्य कोऽभिप्रायः ? आह- उत्पादनिरोधभिनिविष्टः कुलपुत्र लोकसंनिवेशः। तत्र तथागतो महाकारुणिको लोकस्योत्त्रासपदपरिहारार्थं व्यवहारवशादुक्तवान्-उत्पद्यन्ते निरुध्यन्ते चेति। न चात्र कस्यचिद्धर्मस्योत्पादो न निरोध इति॥



पुनरत्रैवोक्तम्- तत्र भगवंश्चक्षू रूपेषु न रणति श्रोत्रं शब्देषु। यावन्मनो धर्मेषु न रणति, स धर्मः। तत्र कथं चक्षू रूपेषु न रणति? संसर्गाभावात्। न हि चक्षू रूपेण संसृज्यते। यावन्न मनो धर्मेण संसृज्यते। यन्न संसृज्यते तन्न रणति। अद्वितीयस्य भगवन् धर्मस्य रणं नास्ति। अद्वितीयश्च भगवन् सर्वधर्माः। परस्परं न जानन्ति न विजानन्ति न कल्पयन्ति न विकल्पयन्ति। न संभवन्ति न विसंभवन्ति। न हीयन्ते न वर्धन्ते। न रज्यन्य्ति न विरज्यन्ति। न संसरन्ति न परिनिर्वान्ति। नैते कस्यचित्, नैषां कश्चित्। नैते भगवन् धर्मा उद्विजन्ते, न संक्लिश्यन्ते न व्यवदायन्ते। एवमहं भगवन् जानामि, एवमवबुध्ये। यदप्यहं भगवन्नेवं वदामि- एवमहं जानामि एवमहं बुध्यामीति, आयतनानामेष विकारः। न च भगवन्नायतनानामेवं भवति- अस्माकमेष विकार इति। यो ह्येवं जानाति, स न केनचित्सार्ध विवदति। यन्न विवदति तच्छ्रमणधर्ममनुसरतीति। तथा धर्मदर्शनं बुद्धदर्शनं सर्वसत्त्वदर्शनं सर्वसत्त्वहेतुप्रत्ययदर्शनं शून्यतादर्शनमदर्शनम्। अदर्शनं भगवन् सर्वधर्माणां दर्शनं सम्यग्दर्शनमिति॥



कथमनधिष्ठाना संवृतिर्युक्ता? कथं पुनरयुक्ता? यथा असति स्थाणौ पुरुषभ्रान्तिः। कस्य पुनः शून्यतावादिनः परमार्थतः स्थाणुः सिद्धो यदाश्रयात्पुरुषभ्रान्तिः स्यात्? अमूला एव च सर्वधर्मास्तत्त्वतो मूलानुपपत्तेः॥



तथा चोक्तमार्यविमलकीर्तिनिर्देशे- अभूतपरिकल्पस्य किं मूलम्? आह- विपर्यस्ता संज्ञा मूलम्। आह- विपर्यस्तायाः संज्ञायाः किं मूलम्। अप्रतिष्ठानं मूलम्? आह- अप्रतिष्ठायाः किं मूलम्? आह- यन्मञ्जुश्रीरप्रतिष्ठानं न तस्य किंचिन्मूलम्। इति ह्यप्रतिष्ठानमूलप्रतिष्ठिताः सर्वधर्माः। इति॥



इयं समासतः प्रज्ञापारमिता चित्तशुद्धयर्थिना भावयितव्या। भावयित्वा च क्लेशरिपुरणकुशलेन भवितव्यम्, न स्वगृहशूरेण॥



यथोक्तमार्यसंगीतिसूत्रे- न शून्यतावादी लोकधर्मैः संह्वियतेऽनिश्चितत्वात्। न स लाभेन संहृष्यति। अलाभेन न विमना भवति। यशसा न विस्मयते। अयशसा न संकुचति। निन्दया नावलीयते। प्रशंसया नानुलीयते। सुखेन न रज्यते। दुःखेन न विरज्यते। यो ह्येवं लोकधर्मैर्न संह्रियते, स शून्यतां जानीते। इति॥ तथा शून्यतावादिनो न क्कचिदनुरागो न विरागः। यस्मिन् रज्येत, तच्छून्यमेव जानीते, शून्यमेव पश्यति। नासौ शून्यतां जानीते, यः क्कचिद्धर्मे रज्यते वा विरज्यते वा। तथा नासौ शून्यतां जानीते, यः केनचित्सार्धं विग्रहं विवादं वा कुर्यात्। शून्यमेव जानीते, तच्छुन्यमेव पश्यतीत्यादि॥

एतत्संक्षेपाच्चित्तशोधनम्॥

अयैवमपि परमविशुद्धिर्धर्मदर्शने सति इह पञ्चकषायसंक्लिष्टस्य कल्याणमित्रावसादितस्य वा संक्षेपेण तावत्कुत्र यत्नं कृत्वा शीघ्रं चित्तशुद्धिर्भवति? आत्मबहुमान-परावज्ञात्यागेऽनयोर्मूलमात्मसत्त्वदृष्टिः। सा चैतदभ्यासात्सुकरं प्रहीयत इति परगौरवमात्मावज्ञा चैवं भावनीया-



यदि सत्त्वो यदि स्कन्धाः क्षमता सर्वथा स्थिता।

एकस्य हि परात्मत्वं विरुद्धं संभवेत्कथम्॥

विनालम्बनमप्येतदाचरन्त्येव देहिनः।

अनादिकल्पनाभ्यासात्किमभ्यासस्य दुष्करम्॥

एवमभ्यासवश्यत्वे तुल्ये कस्मात्सुखोदयम्।

परगौरवमुत्सृज्य स्वसुखायान्यदिष्यते॥

चिन्तामणिर्यथोक्ताश्च सन्ति गौरवहेतवः।

न तु मे गौरवात्सौख्यमिहापि जनदुर्भगात्।

तस्मात्सत्त्वान्तरे यद्वद्रूक्षमत्सरमानिनः।

आत्मस्नेहवतो वृत्तिर्भावयेत्तद्विपर्ययम्॥

आत्मनो बहुमानोऽयं स्तुतिनिन्दादिसेकतः।

वर्धते नारकवशात्सेकान्नरकवह्निवत्॥

शब्दस्तावदचित्तत्वान्मां स्तौतीति न संभवः।

परः किल मयि प्रीत इत्ययं मे मतिभ्रमः॥

तत्तुष्टयैव मम प्रीतिः सामान्ये न सदास्तु सा।

तत्सुखेन न चेत्कार्यं तेन तुष्टेन किं मम॥

अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया॥

न मे परेण तुष्टेन काये सौख्यमिहाण्वपि॥

एवं ज्ञात्वा प्रहातव्या कल्पना निर्विबन्धना।

अकीर्तिनिन्दासत्कारा एवं ज्ञेयाश्च निष्फलाः॥

न धर्मो नायुरारोग्यं न बलं वन्दनादिभिः।

यद्वदुत्प्रास्यमानस्य विकारैरन्यकायिकैः॥

हृष्टस्याथ विषण्णस्य लाभालाभौ समोदयौ।

विवर्ज्य निष्फलं तस्माद्भवेयं शैलमानसः॥

संस्तवत्यागाच्च शीघ्रं चित्तविशुद्धिर्भवति इति तत्रापि चिन्त्यते-

निमित्तोद्ग्रहसंभूता प्रत्यभिज्ञा पुनः पुनः।

उत्पादयत्यनुनयं जायते प्रतिघोऽप्यतः॥

प्रतिघानुनयौ यस्य तस्य पापमवारितम्।

अभ्याख्यानानि चित्राणि मात्सर्यं चेर्ष्यया सह॥

लाभादिकामता मान इत्याद्यावर्तते बहु।

तस्मात्सर्वप्रयत्नेन संस्तवं प्रहरेन्मुनिः॥

सादृश्यादन्यदप्येतद्वारिस्त्रोतोवदीक्ष्यते।

तदेवेदमिति भ्रान्त्या तत्त्वे तिष्ठाम्यतो बलात्॥

अवस्तु चैतत्सादृश्यं दुःखं च जनयिष्यति।

अहं चैतच्च सर्वं च नचिरान्न भविष्यति॥ इति॥



आत्मभावपरिशुद्धिश्चतुर्द्धशः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project