Digital Sanskrit Buddhist Canon

स्मृत्युपस्थानपरिच्छेदः त्रयोदशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
स्मृत्युपस्थानपरिच्छेदः त्रयोदशः।



एवं कर्मण्यचित्तः स्मृत्युपस्थानान्यवतरेत्। तत्र अशुभप्रस्तावेन कायस्मृत्युपस्थानमुक्तम्। तदेव च भेदलेशेन धर्मसंगीतिसूत्रेऽभिहितम्-



पुनरपरं कुलपुत्र बोधिसत्त्व एवं काये स्मृतिमुपस्थापयति- अयं कायः पादपादाङ्गुलिजङ्घोरुत्रिकोदरनाभिपृष्ठवंशहृदयपार्श्वपार्श्वकाहस्तकलाचीबाह्वंसग्रीवाहनुललाटशिरःकपालमात्रसमूहः कर्मभवकारकोपचितो नानाक्लेशसंकल्पविकल्पशतसहस्त्राणामावासभूतः। बहूनि चात्र द्रव्याणि समवहितानि। यदुत केशरोमनखदन्तास्थिचर्मपिशितवपास्नायुमेदोवसालसीकायकृन्मूत्रपुरीषामाशयरुधिरखेटपित्तपूयसिङ्घाणकमस्तकलुङ्गानि। एवं बहुद्रव्यसमूहः। तत्कोऽत्र कायः? तस्य प्रत्यवेक्षमाणस्यैवं भवति- आकाशसमोऽयं कायः। स आकाशवत् काये स्मृतिमुपस्थापयति, सर्वमेतदाकाशमिति पश्यति। तस्य कायपरिज्ञानहेतोर्न भूयः क्कचित्स्मृतिः प्रसरति, न विसरति, न प्रतिसरतीति॥



पुनरुक्तम्- अयं कायो न पूर्वान्तादागतो न परान्ते संक्रान्तो न पूर्वान्तापरान्तावस्थितोऽन्यत्रासद्विपर्याससंभूतः कारकवेदकरहितो नाद्यन्तमध्ये प्रतिष्ठितमूलः, अस्वामिकः, अममः अपरिग्रहः। आगन्तुकैर्व्यवह्रियते काय इति, देह इति, भोग इति, आश्रय इति, शरीरमिति, कुणप इति, आयतनमिति। असारकोऽयं कायो मातापितृशोणितशुक्रसंभूतोऽशुचिपूतिदुर्गन्धस्वभावो रागद्वेषमोहभयविषादतस्कराकुलो नित्यं शतनपतनभेदनविकिरणविध्वंसनधर्मा नानाव्याधिशतसहस्त्रनीत इति॥



आर्यरत्नचूडेऽप्याह- अनित्यो बतायं कायोऽचिरस्थितिको मरणपर्यवसान इति ज्ञात्वा न कायहेतोर्विषमया जीवति। सारं चैवादत्ते। स त्रीणि साराण्यादत्ते। कतमानि त्रीणि? कायसारं भोगसारं जीवितसारं च। सोऽनित्यः काय इति सर्वसत्त्वानां दासत्वशिष्यत्वमभ्युपगम्य किंकरणीयतायै उत्सुको भवति। अनित्यः काय इति सर्वकायदोषवङ्कशाठयकुहनां न करोति। अनित्यः काय इति जीवितेनाश्वासप्राप्तो जीवितहेतोरपि पापं कर्म न करोति। अनित्यः काय इति भोगेषु तृष्णाध्यवसानं न करोति। सर्वस्वपरित्यागीव भवतीति। पुनरपरं कुलपुत्र बोधिसत्त्वः काये कायानुदर्शनस्मृत्युपस्थानं भावयन् सर्वसत्त्वकायांस्तत्र स्वकाय उपनिबध्नाति। एवं चास्य भवति- सर्वसत्त्वकाया मया बुद्धकायप्रतिष्ठानप्रतिष्ठिताः कर्तव्याः। यथा च तथागतकाये नास्त्रवः, स तथा स्वकायधर्मतां प्रत्यवेक्षते। सोऽनास्त्रवधर्मताकुशलः सर्वसत्त्वकायानपि तल्लक्षणानेव प्रजानातीत्यादि॥



वीरदत्तपरिपृच्छायामप्युक्तम्- यदुत अयं कायो अनुपूर्वसमुदागतोऽनुपूर्वविनाशो परमाणुसंचयः शुषिर उन्नामावनामी नवव्रणमुखरोमकूपस्त्रावी वल्मीकवदाशीविषनिवासः। अजातशत्रुः। मर्कटवन्मित्रद्रोही। कुमित्रवद्विसंवादनात्मकः। फेनपिण्डवत्प्रकृतिदुर्बलः। उदकबुद्बुदवदुत्पन्नभग्नविलीनः। मरीचिवद्विप्रलम्भात्मकः। कदलीवन्निभुज्यमानासारकः। मायावद्वञ्चनात्मकः। राजवदाज्ञाबहुलः। शत्रुवदवतारप्रेक्षी। चोरवदविश्वसनीयः। वध्यघातकवदननुवीतः। अमित्रवदहितैषी। वधकवत् प्रज्ञाजीवितान्तरायकरः। शून्यग्रामवदात्मविरहितः। कुलालभाण्डवद्भेदनपर्यन्तः। मूतोडीवन्नानाशुचिपरिपूर्णः। मेदकस्थालीवदशुचिस्त्रावी॥ पेयालं॥ व्रणवद्धट्टनासहिष्णुः। शल्यवत्तुदनात्मकः। जीर्णगृहवत्प्रतिसंस्कारधार्यः। जीर्णयानपात्रवत्प्रतिसंस्कारवाह्यः। आमकुम्भवद्यत्नानुपाल्यः पेयालं। नदीतटवृक्षच्चलाचलः। महानदीस्त्रोतोवन्मरणसमुद्रपर्यवसानः। आगन्तुकागारवत्सर्वदुःखनिवासः। अनाथशालावदपरिगृहीतः। चारकपालवदुत्कोचसाध्यः॥ पेयालं बालदारकवत्सततपरिपाल्यः॥



पुनराह-



एवंविधं कायमचौक्षराशिं रूपाभिमानी बहु मन्यते यः।

प्रज्ञायमानः स हि बालबुद्धिः विष्ठाघटं याति वहन् विचेताः॥

पूयप्रकारं वहतेऽस्य नासा वक्त्रं कुगन्धं वहते सदा च।

चिक्कास्तथाक्ष्णोः क्रिमिवच्च जन्तोः कस्तत्र रागो बहुमानता वा॥

अङ्गारमादाय यथा हि बालो घृष्येदयं यास्यति शुक्लभावम्।

याति क्षयं नैव तु शुक्लभावं बालस्य बुद्धिर्वितथाभिमाना॥

एवं हि यश्चौक्षमतिर्मनुष्यः चौक्षं करिष्येऽहमिदं शरीरम्।

सूद्वर्तितं तीर्थशताभिषिक्तं याति क्षयं मृत्युवशादचौक्षम्॥



तथा- प्रभङ्गुरः प्रस्त्रवन् बोधिसत्त्वेन कायः प्रत्यवेक्षितव्यो नवव्रणमुखैर्यावत्। आवासो बोधिसत्त्वेन कायः प्रत्यवेक्षितव्यः अशीतिक्रिमिकुलसहस्त्राणाम्॥ पेयालं॥ परभोजनो बोधिसत्त्वेन कायः प्रत्यवेक्षितव्यः, वृकशृगालश्वपिशिताशिनाम्। यन्त्रोपमो बोधिसत्त्वेन कायः प्रत्यवेक्षितव्यः, अस्थिस्नायुयन्त्रसंघातविनिबद्धः। अस्वाधीनो बोधिसत्त्वेन कायः प्रत्यवेक्षितव्यः अन्नपानसंभूतः॥ इति विस्तरः॥



तत्रैव ज्ञेयम्- वेदनास्मृत्युपस्थानं तु यथा तावदार्यरत्नचूडसूत्रे- इह कुलपुत्र बोहिसत्त्वो वेदनासु वेदनानुपश्यनास्मृत्युपस्थानं भावयन् वेदितसुखाश्रितेषु सत्त्वेषु महाकरुणां प्रतिलभते। एवं च प्रतिसंशिक्षते- तत्सुखं यत्र वेदितं नास्ति। स सर्वसत्त्ववेदितप्रहाणाय वेदनासु वेदनास्मृत्युपस्थानं भावयति। वेदितनिरोधाय च सत्त्वानां संनाहं संनह्यति। आत्मना च वेदितनिरोधं नार्पयति। स यां कांचिद्वेदनां वेदयते, तां सर्वां महाकरुणापरिगृहीतां वेदयते। स यदा सुखां वेदनां वेदयते, तदा रागचरितेषु सत्त्वेषु महाकरुणां प्रतिलभते, आत्मनश्च रागानुशयं प्रतिजहाति। यदा दुःखां वेदनां वेदयते, तदा द्वेषचरितेषु सत्त्वेसु महाकरुणां प्रतिलभते, आत्मनश्च दोषानुशयं प्रजहाति। यदा अदुःखासुखां वेदनां मोहचरितेषु सत्येषु महाकरुणां प्रतिलभते, आत्मनश्च मोहानुशयं प्रजहाति। स सुखायां वेदनायां नानुनीयते, अनुनयसमुद्भातं चार्जयति। दुःखायां वेदनायां न प्रतिहन्यते, प्रतिघसमुद्धातं चार्जयति। अदुःखासुखायां वेदनायां नाविद्यागतो भवति, अविद्यासमुद्धातं चार्जयति। स यां कांचिद्वेदनां वेत्ति, सर्वां तामनित्यवेदितां वेत्ति, सर्वां तां दुःखवेदितां वेत्ति, अनात्मवेदितां वेत्ति। स सुखायां वेदनायामनित्यवेदितो भवति। दुःखायां वेदनायां शल्यवेदितो भवति। अदुःखासुखायां वेदनायां शान्तिवेदितो भवति। इति हि यत्सुखं तदनित्यम्, यद्दुःखं सुखमेव तत्। यददुःखासुखं तदनात्मकमित्यादि॥



आर्याक्षयमतिसूत्रेऽप्युक्तम्- दुःखया वेदनया स्पृष्टः सर्वपापाक्षणोपपन्नेषु सत्त्वेषु महाकरुणामुत्पादयति॥पेयालं॥ अपि तु खलु पुनरभिनिवेशो वेदना, परिग्रहो वेदना, उपादानं वेदना, उपलम्भो वेदना, विपर्यासो वेदना, विकल्पो वेदनेत्यादि॥



धर्मसंगीतिसूत्रेऽप्युक्तम्-



वेदनानुभवः प्रोक्तः केनासावनुभूयते।

वेदको वेदनादन्यः पृथग्भूतो न विद्यते॥

एवं स्मृतिरूपस्थेया वेदनायां विचक्षणैः।

यथा बोधिस्तथा ह्येषा शान्ता शुद्धा प्रभास्वरा॥

एतत्समासतो वेदनास्मृत्युपस्थानम्॥



चितस्मृत्युपस्थानं तु यथा आर्यरत्नकूटे- स एवं चित्तं परिगवेषते- कतरत्तु चित्तम्? रज्यति वा दुष्यति वा मुह्यति वा? किमतीतमनागतं प्रत्युत्पनं वेति? तत्र यदतीतं तत्क्षीणं यदनागतं तदसंप्राप्तम्। प्रत्युत्पन्नस्य स्थितिर्नास्ति। चित्तं हि काश्यप नाध्यात्मं न बहिर्धा नोभयमन्तेरणोपलभ्यते। चित्तं हि काश्यप अरूपमनिदर्शनमप्रतिघमविज्ञप्तिकमप्रतिष्ठमनिकेतम्। चित्तं हि काश्यप सर्वबुद्धैर्न दृष्टम् , न पश्यन्ति न द्रक्ष्यन्ति। यत्सर्वबुद्धैर्न दृष्टम्, न पश्यन्ति न द्रक्ष्यन्ति , कीदृशस्तस्य प्रचारो द्रष्टव्यः? अन्यत्र वितथपतितया संज्ञया धर्माः प्रवर्तन्ते। चित्तं हि काश्यप मायासदृशमभुतपरिकल्पनया विविधामुपपत्तिं परिगृह्णाति। पेयालं। चित्तं हि काश्यप नदीस्त्रोतः सदृशमनवस्थितमुत्पन्नभग्नविलीनम्। चित्तं हि काश्यप दीपार्चिःसदृशं हेतुप्रत्ययतया प्रवर्तते। चित्तं हि काश्यप विद्युत्सदृशं क्षणभङ्गानवस्थितम्। चित्तं हि काश्यप आकाशसदृशमागन्तुकैः क्लेशैरुपक्लिश्यते। पे। चित्तं हि काश्यप पापमित्रसदृशं सर्वदुःखसंजननतया॥ पे। चित्तं हि काश्यप मत्स्यबडिशसदृशं दुःखे सुखसंज्ञया। तथा नीलमक्षिकासदृशमशुचौ शुचिसंज्ञया। चित्तं हि काश्यप प्रत्यर्थिकसदृशं विविधकारणाकरणतया॥ चित्तं हि ओजोहारयक्षसदृशं सदा विवरगवेषणतया॥ एवं चोरसदृशं सर्वकुशलमूलमुषणतया। चित्तं हि काश्यप रूपारामं पतङ्गनेत्रसदृशम्। चित्तं हि काश्यप शब्दारामं संग्रामभेरीसदृशम्। चित्तं हि काश्यप गन्धारामं वराह इवाशुचिमध्ये। चित्तं हि काश्यप रसारामं रसावशेषभोक्तचेटीसदृशम्। चित्तं हि काश्यप स्पर्शारामं मक्षिकेव तैलपात्रे। चित्तं हि काश्यप परिगवेष्यमाणं न लभ्यते। यन्न लभ्यते। तन्नोपलभ्यते। यन्नोपलभ्यते तन्नैवातीतं न अनागतं न प्रत्युत्पन्नम्। यन्नैवातीतं न अनागतं न प्रत्युत्पन्नम्, तत् त्र्यध्वसमतिक्रान्तम्। यत् त्र्यध्वसमतिक्रान्तम्, तत्रैवास्ति न नास्तीत्यादि॥



आर्यरत्नचूडसूत्रेऽप्याह- स चित्तं परिगवेषमाणो नाध्यात्मं चित्तं समनुपश्यति, न बहिर्धा चित्तं समनुपश्यति, न स्कन्धेषु चित्तं समनुपश्यति, न धातुषु चित्तं समनुपश्यति, नायतनेषु चित्तं समनुपश्यति। स चित्तमसमनुपश्यंश्चित्तधारां पर्येषते- कुतः चित्तस्योत्पत्तिरिति। तस्यैवं भवति- आलम्बने सति चित्तमुत्पद्यते। तत्किमन्यदालम्बनम्? अथ यदेवालम्बनं तदेव चित्तम्। यदि तावदन्यदालम्बनमन्यच्चितम्, तद्विचित्तता भविष्यति। अथ यदेवालम्बनं तदेव चित्तम्, तत्कथं चित्तं चित्तं समनुपश्यति? न हि चित्तं चित्तं समनुपश्यति। तद्यथा- न तयैवासिधारया सैवासिधारा शक्यते छेत्तुम्, न तेनैवाङ्गुल्यग्रेण तदेवाङ्गुल्यग्रं स्पष्टुं शक्यते, नैव चित्तेन तदेव चित्तं शक्यते द्रष्टुम्॥ पेयालं॥ पुनरपरं कुलपुत्र यदुपद्रुतप्रदुतानवस्थितप्रचारस्य वानरमारुतसदृशस्य। पेयालं। दूरंगमचारिणोऽशरीरस्य लघुपरिवर्तिनो विषयलोलस्य षडायतनगोचरस्य अपरापरसंप्रयुक्तस्य चित्तस्यावस्थानामेकाग्रता अशरणमविशरणं शमथैकाग्रता अविक्षेपः, इयमुच्यते चित्तस्य स्मृतिरिति॥



आर्याक्षयमतिसूत्रेऽप्युक्तम्- विठपनायां मया योगः करणीयः। इयं च चित्तधर्मता न विहातव्या। तत्र कतमा चित्तधर्मता? कतमा विठपना? मायोपमं चित्तम्, इयमुच्यते चित्तधर्मता। यत्पुनः सर्वस्वं परित्यज्य सर्वबुद्धक्षेत्रपरिशुद्धये परिणामयति, इयमुच्यते विठपनेत्यादि॥



धर्मस्मृत्युपस्थानं तु यथा तावदत्राह-



धर्मे धर्मानुदर्शीं विहरन् बोधिसत्त्वो न कंचिद्धर्मं समनुपश्यति॥ यतो न बुद्धधर्मा यतो न बोधिः। यतो न मार्गो यतो न निःसरणं स सर्वधर्मानिःसरणमिति विदित्वा अनावरणं नाम महाकरुणासमाधिं समापद्यते। स सर्वधर्मेषु सर्वक्लेशेषु च कृत्रिमसंज्ञां प्रतिलभते। निःक्लेशा एते धर्माः, नैते संक्लेशाः। तत्कस्य हेतोः? तथा ह्येते नीतार्थे समवसरन्ति। नास्ति क्लेशानां संचयो न राशीभावः। न रागभावो न द्वेषभावो न मोहभावः। एषामेव क्लेशानामवबोधाद्बोधिः। यत्स्वभावाश्च क्लेशास्तत्स्वभावा बोधिरित्येवं स्मृतिमुपस्थापयतीति॥



आर्यरत्नचूडेऽप्युक्तम्- इह कुलपुत्र बोधिसत्त्वस्य धर्मे धर्मानुपश्यनास्मृत्युपस्थानेन विहरत एवं भवति- धर्मा एवोत्पद्यमाना उत्पद्यन्ते। धर्मा एव निरुध्यमाना निरुध्यन्ते। न पुनरत्र कश्चिदात्मभावे सत्त्वो वा जीवो वा जन्तुर्वा पोषो वा पुरुषो वा पुद्गलो वा मनुजो वा, यो जायते वा जीर्यते वा च्यवते वोत्पद्यते वा। एषा धर्माणां धर्मता। यदि समुदानीयन्ते, समुदागच्छन्ति। अथ न समुदानीयन्ते, न समुदागच्छन्ति। यादृशाः समुदानीयन्ते, तादृशाः समुदागच्छन्ति कुशला वा अकुशला वा आनिञ्ज्या वा। नास्ति धर्माणां समुदानेता । न चहेतुकानां धर्माणां काचिदुत्पत्तिरित्यादि॥



तत्रैवाह- स कियद्गम्भीरानपि धर्मान् प्रत्यवेक्षमाणस्तां सर्वज्ञताबोधिचित्तानुस्मृतिं न विजहाति॥

आर्यललितविस्तरसूत्रेऽप्युक्तम्-



संस्कार अनित्य अध्रुवा आमकुम्भोपम भेदनात्मकाः।

परकेरिक याचितोपमाः पांशुनगरोपमता च कालिका॥

संस्कार प्रलोपधर्मिमे वर्षकालि चलितं व लेपनम्।

नदिकूल इवा सवालुकं प्रत्ययाधीन स्वभावदुर्बलाः॥

संस्कार प्रदीप‍अर्चिवत् क्षिप्र‍उत्पत्तिनिरोधधर्मकाः।

अनवस्थित मरुतोपमाः फेनपिण्डवदसारदुर्बलाः॥

संस्कार निरीह शून्यकाः कदलीस्कन्धसमा निरीक्षतः।

मायोपम चित्तमोहना बालोल्लापन रिक्तमुष्टिवत्॥

हेतुभि च प्रत्ययेभि चा सर्वसंस्कारगतं प्रवर्तते।

अन्योन्य प्रतीत्य हेतुतः तदिदं बालजनो न बुध्यते।

यथ मुञ्ज प्रतीत्य वल्बजं रज्जु व्यायामबलेन वर्तिता।

घटियन्त्र सचक्र वर्तते तेष्वेकैकशु नास्ति वर्तना॥

तथ सर्वभवाङ्गवर्तनी अन्योन्योपचयेन निःश्रिता।

एकैकशु तेष वर्तनी पूर्वापरान्ततो नोपलभ्यते॥

बीजस्य सतो यथाङ्कुरो न च यो बीज स चैव अङ्कुरो।

न च अन्य ततो न चैव तत् एवमनुच्छेद अशास्वत धर्मता॥

संस्कार अविद्यप्रत्ययाः ते च संस्कार न सन्ति तत्त्वतः।

संस्कार अविद्य चैव हि शून्य एते प्रकृतीनिरीहकाः॥

मुद्रात्प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते।

न च तत्र न चैव सान्यतो एवं संस्कारनुच्छेदशाश्वताः॥

चक्षुश्च प्रतीत्य रूपतः चक्षुविज्ञानमिहोपजायते।

न च चक्षुषि रूप निश्रितं रूपसंक्रान्ति न चैव चक्षुषि॥

नैरात्म्यशुभाश्च धर्मिमे ते पुनरात्मेति शुभाश्च कल्पिताः॥

विपरीतमसद्विकल्पितं चक्षुविज्ञान ततोपजायते॥

विज्ञाननिरोधसंभवं विज्ञ उत्पादव्ययं विपश्यति।

अकहिंचि गतमनागतं शून्य मायोपम योगि पश्यति॥

अरणिं यथ चोत्तरारणिं हस्तव्यायामत्रयेभि संगति।

इति प्रत्ययतोऽग्नि जायते जातु कृतकार्य लघुनिरुध्यते॥

अथ पिण्डतु कश्चि मार्गते कुतयमागतु कुत्र याति वा।

विदिशो दिशि सर्व मार्गतो न गतिर्नाप्यगतिश्च लभ्यते॥

स्कन्धायतनानि धातवः तृष्ण अविद्या इति कर्मप्रत्ययाः।

सामग्रि तु सत्त्वसूचना सा च परमार्थतु नोपलभ्यते॥

कण्ठोष्ठ प्रतीत्य तालुकं जिह्वपरिवर्तिरवर्ति अक्षरा।

न च कण्ठगता न तालुके अक्षरैकैक तु नोपलभ्यते॥

सामग्रि प्रतीत्यतश्च सा वाच मनबुद्धिवशेन निश्चरी।

मनवाच अदृश्यरूपिणी बाह्यतोऽभ्यन्तरि नोपलभ्यते॥

उत्पादव्ययं विपश्यतो वाचरुतघोषस्वरस्य पण्डिताः।

क्षणिकां वशिकां तदीदृशीं सर्ववाचः प्रतिश्रुतकोपमाः॥

यथ तन्त्रि प्रतीत्य दारु च हस्तव्यायामत्रयेभि संगति।

तुणवीणसुघोषकादिभिः शब्दो निश्चरते तदुद्भवः॥

अथ पण्डितु कश्चि मार्गते कुतोऽयमागतु कुत्र याति वा।

विदिशो दिश सर्व मार्गतः शब्दगमनागमनं न लभ्यते॥

तथ हेतुभि प्रत्ययेभि च सर्वसंस्कारगतं प्रवर्तते।

योगी पुन भूतदर्शनात् शून्य संस्कार निरीह पश्यति॥

स्कन्धायतनानि धातवः शून्य अध्यात्मिक शून्य बाह्यकाः।

सत्त्वात्मविविक्तनालयाः धर्माकाशस्वभावलक्षणाः॥



लोकनाथव्याकरणेऽप्युक्तम्-



शून्या अनामका धर्माः नाम किं परिपृच्छसि।

शून्यता न क्कचिद्देवा न नागा नापि राक्षसाः॥

मनुष्या वामनुष्या वा सर्वे तु एष विद्यते।

नाम्ना हि नामता शून्या नाम्नि नाम न विद्यते॥

अनामकाः सर्वे धर्माः नाम्ना तु परिदीपिताः॥

यो हि स्वभावो नाम्नो वै न स दृष्टो न च श्रुतः।

न चोत्पन्नो निरुद्धो वा कस्य नामेह पृच्छसि॥

व्यवहारकृतं नाम प्रज्ञप्तिर्नमदर्शिता।

रत्नचित्रो ह्ययं नाम्ना [नाम्ना] रत्नोत्तमः परः॥ इति॥



इति शिक्षासमुच्चये स्मृत्युपस्थानपरिच्छेदस्त्रयोदशः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project